Digital Sanskrit Buddhist Canon

२० अनलः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

20 analaḥ

२० अनलः।



अथ खलु सुधनः श्रेष्ठिदारकस्तां कल्याणमित्रपरंपरामनुस्मरन्, तानि कल्याणमित्रानुशासनीमुखानि मनसिकुर्वन्, परिगृहीतोऽस्मि कल्याणमित्रैरिति स्वचित्तं संतोषयन्, कल्याणमित्रारक्षितोऽस्मि न भूयो विनिवर्तिष्यामि अनुत्तरायाः सम्यक्संबोधेरित्यनुविचिन्तयन् प्रत्यलभत चित्तप्रीतिम्। चित्तप्रसादं चित्तप्रामोद्यं चित्ततुष्टिं चित्तप्रहर्षः चित्तनन्दीं चित्तव्युपशमं चित्तविपुलतां चित्तालंकारतां चित्तासङ्गतां चित्तानावरणतां चित्तविविक्ततां चित्तसमवसरणतां चित्तवशितां चित्तैश्वर्यं चित्तधर्मानुगमं चित्तक्षेत्रस्फरणतां बुद्धदर्शनालंकारचित्ततां दशबलमनसिकाराविप्रवासचित्ततां प्रत्यलभत। सोऽनुपूर्वेण जनपदेन जनपदं ग्रामेण ग्रामं देशेन देशं परिमार्गन् येन तालध्वजं नगरं तेनोपसंक्रम्य परिपृच्छति स्म-कुत्रानलो राजेति। तमन्यो जनकाय एतदवोचत्-एष कुलपुत्र अनलो राजा अर्थकरणे सिंहासनोपविष्टो राजकार्यं करोति। जनपदान् प्रशास्ति। निग्रहीतव्यान्निगृह्णाति, प्रग्रहीतव्यान् प्रगृह्णाति, अपराधितान् दण्डं प्रणयति। विवदतां विवादं छिनत्ति। दीनानाश्वासयति। दृप्तान् दमयति। प्राणिवधाद्विनिवर्तयति। अदत्तादानाद्विच्छन्दयति। परिपरिगृहीताभिलाषाद् व्युपशमयति। मृषावादाद्विनिवारयति। पिशुनयवचनाद्विवेचयति। परुषवचनाद्विरमयति। संभिन्नप्रलापाद् व्यावर्तयति। अभिध्याया विश्लेषयति। व्यापादाद्दूरीकरोति मिथादृष्टेर्वियोजयति॥



अथ खलु सुधनः श्रेष्ठिदारको येन अनलो राजा तेनोपजगाम। सोऽद्राक्षीदनलं राजानं नारायणवज्रमणिविचित्रे असंख्येयनानाविधप्रभास्वरत्नपादे अनेकरत्नसुरचितालंकाररुचिरबिम्बे, काञ्चनसूत्रजालश्वेतसुपरिनिष्ठिते, अनेकमणिरत्नदीपप्रद्योतिते, वशिराजमणिरत्नमयपद्मगर्भे अनेकदिव्यरत्नवस्त्रसुप्रज्ञप्ते, विविधदिव्यगन्धधूपितोपचारे उच्छ्रितरत्नध्वजछत्रशतसहस्रविराजिते रत्नपताकाशतसहस्रोद्विद्धोपशोभिते विचित्ररत्नपुष्पदामकलापाभिप्रलम्बितोज्ज्वलिते विविधदिव्यरत्नवितानवितते महारत्नसिंहासने निषण्णं नवं दहरं तरुणमभिरूपं प्रासादिकं दर्शनीयमभिनीलप्रदक्षिणावर्तकेशं छत्राकारमूर्धानमुष्णीषशिरसं पृथुललाटमभिनीलविशालगोपक्ष्मनयनं मधुरोन्नतचारुतुङ्गनासावंशं हिङ्गुलुकसुवर्णसुश्लिष्टौष्ठं समवहितसुशुक्लपूर्णचत्वारिंशद्दन्तं सिंहहनुं परिपूर्णोपचितकपोलं सुरुचिरचापायतभ्रुवं शशाङ्कवर्णोर्णया कृततिलकमायतप्रमुक्तप्रलम्बकर्णं पूर्णचन्द्रसौम्यवदनं कम्बुरुचिरवृत्तग्रीवं श्रीवत्सालंकृतहृदयं सिंहपूर्वार्धकायं चितान्तरांसं सुसंवृत्तोरुस्कन्धं प्रलम्बबाहुं जालावनद्धाङ्गुलिचक्राङ्कितहस्तपादं मृदुतरूणोपचितपाणिपादं सप्तोत्सदं वज्रसदृशमध्यं बृहदृजुगात्रं सुवर्तितोरुं कोशगतबस्तिगुह्यम् एणेयजङ्घं दिर्घाङ्गुलिमायतपादपार्ष्णि व्यामप्रभं सुवर्णच्छविमेकैकप्रदक्षिणोर्ध्वाङ्गरोमं न्यग्रोधराजपरिमण्डलं लक्षणानुव्यञ्जनोपचितशरीरं चिन्ताराजमणिरत्नमुकुटावबद्धशिरसं जाम्बूनदकनकार्धचन्द्ररचितललाटालंकारमिन्द्रनीलमणिविमलनीलकुण्डलप्रलम्बितकर्णमनर्ध्यमणिरत्नहारप्रभावभासितविमलविपुलोपचितवक्षसं दिव्योत्तममणिकेयूरबलयविदष्टविक्रीडितबाहुं दशरत्नशलाकाशतसुविभक्तेन जाम्बूनदकनकच्छदनेन ज्योतीरसमहामणिरत्नसुविशुद्धगर्भेण रत्नघण्टामालानिश्चरितमनोज्ञमधुरघोषेण समन्तदिङ्महामणिरत्नावभासप्राप्तेन विमलवैडूर्यमणिरत्नदण्डेन महता रत्नच्छत्रेण धार्यता महाराजाधिपत्यप्राप्तमप्रतिहतपरचक्रशासनं विगतपरचक्रभयैश्वर्यम्। तस्य समन्ताद्दशामात्यसहस्राणि संनिपतितानि संनिषण्णानि राजकार्यप्रयुक्तान्यपश्यत्॥



दश चास्य कारणापुरूषसहस्राणि संनिपतितानि पुरत उपस्थापितानि नरकपालसदृशानि यमपुरुषकल्पानि विकृतपदधारीणि रौद्रविकृतभयसंजननानि रक्तनयनानि संदष्टौष्ठत्रिवलीभृकुटीकृतवदनानि असिपरशुशक्तितोमरभुशुण्डिशूलप्रहरणगृहीतानि विषमविकृतदुःसंस्थितवदनशरीराणि मेघवर्णानि भीमरूपचण्डस्वरनिर्घोषाणि दुर्निरीक्ष्यतेजांसि महाभयकराणि प्राणिशतसहस्रहृदयसंत्राससंजननानि निगृहीतव्यसत्त्वनिग्रहप्रयुक्तानि अपश्यत्। तत्र बहूनि प्राणिशतसहस्राणि चोराणां परस्वापहारिणा परसत्त्वभोगविप्रलोपिनां पन्थमोषकाणां ग्रामनगरनिगमघोषदाहकानां कुलघातकानां संधिच्छेदकानां किल्बिषकारिणां गरदायकानां डामरिकानां मनुष्यघातकानां परदारसेविनां मिथ्याप्रतिपन्नानां दुष्टचेतसामभिध्यालूनां विविधपापक्रूरकर्मकारिणां गाढपञ्चबन्धनबद्धानि अनलस्य राज्ञोऽन्तिकमुपनीयमानान्यपश्यत्। तेभ्योऽनलं राजानं यथार्हदण्डं प्रणयन्तमद्राक्षीत्। स तत्र राज्ञोऽनलस्याज्ञया केषांचिद्धस्तपादच्छेदं केषांचित् कर्णनासाच्छेदं केषांचिच्चक्षुरुत्पाटनं केषांचिदङ्गप्रत्यङ्गशीर्षच्छेदनं केषांचित् सर्वशरीरमग्निना प्रदीप्यमानां कांश्चिच्छिन्नविकृततप्तक्षारोदकपरिषिच्यमानशरीरान्, एवमनेकविधास्तीव्राः खराः कटुका अमनापाः प्राणहारिणीः कारणाः कार्यमाणा अपश्यत्। तस्मिंश्च आघातने पर्वतप्रमाणान् करचरणनयनकर्णनासाशिरोङ्गप्रत्यङ्गराशीनपश्यत्। त्रियोजनगम्भीरं च अनेकयोजनायामविस्तीर्णं शोणितसरोऽद्राक्षीत्। तत्र च अङ्गप्रत्यङ्गशिरोविकलानि मृतकलेवरशतसहस्राणि वृकशृगालाश्वकाकगृध्रश्येनकुररभैरवाकीर्णानि भक्ष्यमाणानि अपश्यत्। कानिचिन्नीलानि च नीलवर्णानि विपूयकानि व्याध्मातकानि विपटुमकानि परमविकृतबीभत्सान्यपश्यत्। तेषां च वध्यानां हन्यमानानां विविधाः कारणाः कार्यमाणानां घोरमार्तस्वरं क्रन्दतां महान्तं निर्नादनिर्घोषमश्रौषीत् महासंवेगोद्वेगसंजननं तद्यथा संघाते महानरके॥



तस्य तदतिदारूणभैरवकरं परमवैशसं दृष्ट्वैवमेतदभवत्-अहं च सर्वसत्त्वहितसुखहेतोरनुत्तरां सम्यक्संबोधिमभिसंप्रस्थितो बोधिसत्त्वचर्यापरिमार्गणतत्परः कल्याणमित्राणि परिपृच्छामि-किं बोधिसत्त्वेन कुशलं कर्तव्यम्, किमकुशलं परिवर्जयितव्यमिति। अयं च अनलो राजा कुशलधर्मपरिहीणो महासावद्यकर्मकारी प्रदुष्टमनःसंकल्पः परसत्त्वजीवितोपरोधाय प्रतिपन्नः परसत्त्वोत्पीडनतत्परः परलोकनिरपेक्षो दुर्गतिप्रपाताभिमुखः। तत्कृतोऽस्माद्बोधिसत्त्वचर्याश्रवो भविष्यतीति? तस्यैवं चिन्तामनसिकारप्रयुक्तस्य सर्वसत्त्वधातुपरित्राणाभिमुखस्य विपुलकरूणासंभूतचेतस उपरि गगनतले देवता इत्येवमारोचयामासुः न स्मरसि कुलपुत्र जयोष्मायतनस्यर्षेः कल्याणमित्रानुशासनीमिति? स ऊर्ध्वमुखो गगनतलमवलोक्य एवमाह-स्मरामीति। देवताः प्राहुः-मा त्वं कुलपुत्र, कल्याणमित्रानुशासनीषु विचिकित्सामुत्पादय। सम्यक् समेन कल्याणमित्राणि प्रणयन्ति न विषमेण। अचिन्त्यं हि कुलपुत्र बोधिसत्त्वानामुपायकौशल्यचर्याज्ञानम्। अचिन्त्यं सर्वसत्त्वसंग्रहज्ञानम्। अचिन्त्यं सत्त्वानुग्रहज्ञानम्। अचिन्त्यं सत्त्वनिग्रहज्ञानम्। अचिन्त्यं सत्त्वप्रग्रहज्ञानम्। अचिन्त्यं सत्त्वसंग्रहज्ञानम्। अचिन्त्यं सत्त्वपरिशोधनज्ञानम्। अचिन्त्यं सत्त्वपरिपालनज्ञानम्। अचिन्त्यं सत्त्वावतरणज्ञानम्। अचिन्त्यं सत्त्वपरिपाचनज्ञानम्। अचिन्त्यं सत्त्वविनयज्ञानम्। गच्छ कुलपुत्र, परिपृच्छ एनं बोधिसत्त्वचर्यामिति॥



अथ सुधनः श्रेष्ठिदारको देवतावचनमुपश्रुत्य येन अनलो राजा तेनोपजगाम। उपेत्य अनलस्य राज्ञः पादौ शिरसाभिवन्द्य अनलं राजानमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति। तद्वदतु मे आर्यः कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥



अथ खल्वनलो राजा राजकार्याणि कृत्वा उत्थाय सिंहासनात् सुधनं श्रेष्ठिदारकं दक्षिणेन पाणिना गृहीत्वा तालध्वजं राजधानीं प्राविशत्। सोऽनुपूर्वेण स्वं गृहमनुप्रविश्य सुधनं श्रेष्ठिदारकमन्तःपुरं प्रवेश्य भद्रासने निषद्य एवमाह-व्यवलोकयस्व कुलपुत्र इमं मम गृहपरिभोगमिति। स व्यवलोकयन्नद्राक्षीत्तद्गृहं विपुलं विस्तीर्णं सप्तरत्नप्राकारपरिक्षिप्तं विविधमणिरत्नप्रासादोपशोभितमनेकरत्नकूटागारशतसहस्रालंकृतमचिन्त्यमणिरत्नप्रभाज्वालोज्ज्वलिततेजसं नानामणिरत्नविविधविभक्तिचित्रविराजितलोहितमुक्तामयसमुच्छ्रितस्तम्भं सुप्रज्ञप्तमुसारगल्वमयानेकरत्नशतसहस्रविचित्रोपशोभितसिंहासनं ज्योतीरसमणिरत्नसिंहध्वजसमुच्छ्रितं वैरोचनं मणिरत्नवितानविततं चिन्तामणिविचित्रमहाजालसंछन्नमसंख्येयविचित्रमणिरत्नप्रतिमण्डितनिर्यूहव्यूहं शीतजलाश्मगर्भमयपुष्किरिणीसमुपेतं सर्वरत्नदुमयपङ्क्तिपरिवृतम्। दश चास्य स्त्रीकोटीपरिवारमद्राक्षीत् अभिरूपाणां प्रासादिकानां दर्शनीयानां परमशुभवर्णपुष्कलतया समन्वागतानां सर्वकलाविधिज्ञानां पूर्वोत्थायिनीनां पश्चान्निपातिनीनां मैत्रचित्तानां किंकरोपचावरवचनप्रतिकारिणीनाम्॥



अथ खल्वनलो राजा सुधनं श्रेष्ठिदारकमेवमाह-तत्किं मन्यसे कुलपुत्र, अपि तु पापकारिणामेवंरूपः कर्मविपाकोऽभिनिर्वर्तते? एवंरूपा आत्मभावसंपत्, एवंरूपा परिवारसंपत्, एवंरूपा महाभोगसंपत्, एवंरूपा महैश्वर्याधिपत्यसंपत्? आह-नो हीदमार्य। सोऽवोचत्-अहं कुलपुत्र मायागतस्य बोधिसत्त्वविमोक्षस्य लाभी। इमे च कुलपुत्र मद्विषयवासिनः सत्त्वा यद्भूयसा प्राणातिपातिनोऽदत्तादायिनः काममिथ्याचारिणो मृषावादिनः पैशुनिकाः पारूषिकाः संभिन्नप्रलापिनोऽभिध्यालम्बा व्यापन्नाचित्ता मिथ्यादृष्टयः पापकर्माणो रौद्राश्चण्डाः साहसिका विविधाकुशलकर्मक्रियापरिगताः। ते न शक्यन्तेऽन्यथा पापचर्याया निवारयितुं विनिवर्तयितुमनुशासितुम्। सोऽहं कुलपुत्र एषां सत्त्वानां दमनाय परिपाचनाय विनयेन हिते संनियोजनार्थं महाकरुणां पुरस्कृत्य निर्मितैर्वध्यघातकैर्निर्मितान् वध्यपुरुषान् घातयामि। निर्मितैः कारणापुरुषैर्निमितानकुशलकर्मपथकारिणो विविधाः कारणाः कारयामि। हस्तपादकर्णनासाङ्गप्रत्यङ्गशीर्षच्छेदाधिकारिकाश्च दुःखास्तीव्रा वेदनाः प्रत्यनुभवमानान् संदर्शयामि। तच्च दृष्ट्वा एते मद्विजितवासिनः सत्त्वा लभन्ते संवेगम्, जायते भयम्, जायते संत्रासः, भवति चैषां छम्भितत्वम्, यदुत पापकर्मव्यापत्तिविनिवृत्तये। सोऽहं कुलपुत्र इमान् सत्त्वाननेनोपायेनोद्विग्नोत्त्रस्तचित्तात्मविविग्नमनसो विदित्वा दशभ्योऽकुशलेभ्यः कर्मपथेभ्यो विनिवर्त्य दशकुशलकर्मपथसमन्वागतान् कृत्वा अत्यन्तनिष्ठे योगक्षेमे सर्वदुःखोपच्छेदे सर्वज्ञतासुखे प्रतिष्ठापयामि। नाहं कुलपुत्र कस्यचित् सत्त्वस्य विहेठं करोमि कायेन वाचा मनसा व। आपरान्तिकावीचिकदुखे संभ्रामयेयम्। अहं कुलपुत्र तिर्यग्योनिगतस्य संमूढस्य अन्तशः कुन्तपिपीलिकस्य एकचित्तोत्पादेनापि दुःखोपरोधं नेच्छेयम्, प्रागेव क्षेत्रभूतस्य कुशलकर्मपथविरोहणसमर्थस्य मनुष्यभूतस्य। स्वप्नान्तरगतस्यापि मे कुलपुत्र अकुशलधर्मसमुदाचारो नोत्पद्यते, कः पुनर्वादः समन्वागतः। एतस्याहं कुलपुत्र, मायागतस्य बोधिसत्त्वविमोक्षस्य लाभी। किं मया शक्यं अनुत्पत्तिकधर्मक्षान्तिप्रतिलब्धानां बोधिसत्त्वानां मायागतधर्मसर्वभवगत्यनुबद्धानां निर्मितोपमबोधिसत्त्वचर्यानिर्यातानां प्रतिभासोपमसर्वलोकविज्ञप्तानां स्वप्नोपमधर्मताप्रतिविद्धानाम् असङ्गमुखधर्मधातुनयानुसृतानामिन्द्रजालोपमचर्याजालानुगतानामनावरणज्ञानगोचरविषयाणां समन्तसमवसरणसमाधिपथनिर्यातानाम् अनन्तावर्तधारणीवशवर्तिनां बुद्धगोचरविषयानुबद्धानां चर्यां ज्ञातुं गुणान् वा वक्तुम्॥



गच्छ कुलपुत्र, इहैव दक्षिणापथे सुप्रभं नाम नगरम्। तत्र महाप्रभो नाम राजा प्रतिवसति। तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥



अथ खलु सुधनः श्रेष्ठिदारकः अनलस्य राज्ञः पादौ शिरसाभिवन्द्य अनलं राजानमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य अनलस्य राज्ञोऽन्तिकात् प्रक्रान्तः॥१८॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project