Digital Sanskrit Buddhist Canon

१६ प्रभूता

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

16 prabhūtā

१६ प्रभूता।



अथ खलु सुधनः श्रेष्ठिदारकः कल्याणमित्रानुशासनीमेघं संप्रतीच्छन्, अतृप्तो जलनिधिरिव महामेघवर्षैः, कल्याणमित्रभास्करज्ञानांशुपरिपाचनशुभधरणीतलेन्द्रियाङ्कुरप्ररोहसंजातः कल्याणमित्रपूर्णचन्द्रानुशासन्यंशुजालप्रह्लादितकायचित्तः, कल्याणमित्रानुशासनीसलिलपिपासुः ग्रीष्मदिनकरकिरणप्रतप्त इव मृगगणः हिमवत्प्रस्रवसलिलकल्याणमित्रानुशासनीप्रबोधितचित्तपौण्डरीको भ्रमरगणोद्विघाटनोन्मिषितकमल इव कमलाकरः, कल्याणमित्रानुशासनीरत्नचरितावभासितसंतानः, रत्नद्वीप इव विविधरत्नाकीर्णः, कल्याणमित्रानुशासनीपुण्यज्ञानोपचयसंपन्नः महाजम्बुवृक्ष इव पुष्पफलविनद्धः, कल्याणमित्रानुशासनीश्रुतसंभारप्रवृद्धः, महाभुजगेन्द्रप्रवरक्रीडासंभव इव गगनमहाघनः, कल्याणमित्रानुशासनीसमुद्गतामलविचित्रधर्मकूटः त्रिदशलोकोपशोभित इव चित्रकूटः कल्याणमित्रानुशासन्युद्भूतविमलगुणगणपरिवृतः, अभिभूः, अनभिभूतः, त्रिदशगणपरिवृतः शक्र इव असुरेन्द्रगणप्रमर्दनः अनुपूर्वेण येन समुद्रप्रतिष्ठानं नगरं तेनोपसंक्रान्तः प्रभूतामुपासिकां परिमार्गमाणः। तस्य महाजनकाय उपदर्शयति-एषा कुलपुत्र प्रभूतोपासिका मध्ये नगरस्य स्वगृहे तिष्ठतीति॥



अथ खलु सुधनः श्रेष्ठिदारको येन प्रभूताया उपासिकाया निवेशनं तेनोपसंक्रम्य प्राञ्जलीभूतो द्वारशालायां प्रत्यस्थात्। स पश्यति प्रभूताया उपसिकायाः तद्गृहं विपुलविस्तीर्णं रत्नप्राकारपरिक्षिप्तं चतुर्दिक्षु विभक्तद्वारमसंख्येयापरिमाणरत्नव्यूहमचिन्त्यपुण्यविपाकाभिनिर्वृत्तम्। स तद्गृहं प्रविश्य समन्तादनुविलोकयन्नद्राक्षीत्प्रभूतामुपासिकां रत्नासनोपविष्टं नवां दहरां तरुणीं प्रथमयौवनसमुद्गतामभिरूपां प्रासादिकां दर्शनियां परमशुभवर्णपुष्कलतया समन्वागतां मुक्तकेशीं निराभरणगात्रामवदातवस्त्रनिवसनाम्। स्थापयित्वा बुद्धबोधिसत्त्वान्न स कश्चित्सत्त्वस्तद्गृहमुपसंक्रामति, यमसौ नाभिभूय तिष्ठति कायेन व, चित्ताधिपत्येन वा, तेजसा वा, वर्णेन वा, श्रिया वा। ये च सत्त्वाः प्रभूतामुपासिकां पश्यन्ति देवा वा मनुष्या वा, तेषां सर्वेषां प्रभूतायामुपासिकायां शास्तृसंज्ञाभवति। तस्मिंश्च गृहे दशासनकोटीसहस्राणि प्रज्ञप्तानि दिव्यमानुष्यसमतिक्रान्तानि बोधिसत्त्वकर्मविपाकपरिनिष्पन्नानि। न च तस्मिन् गृहे पश्यत्यन्नपाननिचयं वा वस्त्राभरणपरिभोगनिचयं वा अन्यत्रैकपिठरिकायाः पुरस्तान्निक्षिप्तायाः। दश चास्याः स्त्रीसहस्राणि पुरतः स्थितान्यपश्यदप्सरोवर्णानि अप्सरोरूपाणि अप्सरःकल्पानि अप्सरश्चेष्टानि अप्सरःपरिभोगानि अप्सर‍उपचाराणि दिव्यकल्पदूष्यधारीणि दिव्यभूषणचरिताङ्गानि अप्सरोरुतमनोज्ञघोषाणि अप्सरःसमारोहपरिणाहनि। ताः तस्याः स्त्रियः किंकरा वचनप्रतिकारिण्यः पुरत उपतिष्ठन्ति उपविचरन्ति संप्रेक्षन्ते उपनिध्यायन्ति अभिवन्दन्ते आलोकयन्ति अवनमन्ति प्रणमन्ति नमस्यन्ति। तासां च गात्रेभ्यो यो गन्धः प्रवाति, स तं सर्वं नगरमभिधूपयन्ति। ये च सत्त्वास्तं गन्धं जिघ्रन्ति, ते सर्वेऽव्यापन्नचित्ता भवन्ति अवैरचित्ता अविहिंसाचित्ता ईर्ष्यामात्सर्यविगतचित्ता अमायाशाठ्यचित्ता अनुनीता अप्रतिहतचित्ता अनवलीनानुन्नतचित्ताः समचित्ता मैत्रचित्ता हितचित्ताः संवरस्थचित्ताः परपरिग्रहानभिलाषचित्ता भवन्ति। ये च तासां स्वरं शृण्वन्ति, ते सर्वे प्रहर्षितप्रमुदितप्रणतचित्ता भवन्ति। ये च ताः पश्यन्ति, ते विगतरागमात्मानं संजानन्ति॥



अथ खलु सुधनः श्रेष्ठिदारकः प्रभूताया उपासिकायाः पादौ शिरसाभिवन्द्य प्रभूतामुपासिकामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुरतः प्राञ्जलीस्थित्वा एवमाह-मया आर्ये, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। श्रुतं च मे आर्या बोधिसत्त्वानामववादानुशासनीं ददातीति। तद्वदतु मे आर्या-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। आह-अहं कुलपुत्र अक्षयव्यूहपुण्यकोषस्य बोधिसत्त्वविमोक्षस्य लाभिनी। इतोऽहं कुलपुत्र, एकपिठरिकाया नानाधिमुक्तान् सत्त्वान् यथाभिप्रेतभोजनैः संतर्पयामि नानासूपैर्नानारसैर्नानावर्णैर्नानागन्धैः। अतोऽहं कुलपुत्र एकपिठरिकायाः सत्त्वशतमपि संतर्पयामि यथाभिप्रायैर्भोजनैः, सत्त्वसहस्रमपि, सत्त्वशतसहस्रमपि, सत्त्वकोटीमपि, सत्त्वकोटीशतमपि, सत्त्वकोटीशतसहस्रमपि, सत्त्वकोटीनियुतशतसहस्रमपि, यावदनभिलाप्यानभिलाप्यानपि सत्त्वान्नानानाधिमुक्तान् यथाभिप्रेतैर्भोजनैः संतर्पयामि, संप्रवारयामि, संतोषयामि, संप्रहर्षयामि, संप्रमोदयामि, परिप्रीणयामि, आत्तमनस्कान् करोमि। न चैषा पिठरिका हीयते, न परिहीयते, नोनीभवति, न क्षीयते, न पर्यादानं गच्छति, न सीमामुपैति, न निष्ठां गच्छति। अनेन कुलपुत्र पर्यायेण जम्बुद्वीपपरमाणुरजःसमानपि सत्त्वान्, एवं चातुर्द्वीपकलोकधातुपरमाणुरजः समानपि, साहस्रलोकधातुपरमाणुरजःसमानपि, द्विसाहस्रलोकधातुपरमाणुरजःसमानपि, त्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमानपि, यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानपि सत्त्वानुपसंक्रान्तान् नानाधिमुक्तान् यथाभिप्रेतैर्भोजनैर्नानासूपैर्नानारसैर्नानावर्णैर्नानागन्धैः संतर्पयामि, संप्रवारयामि, संतोषयामि, संप्रहर्षयामि, संप्रमोदयामि, परिप्रीणयामि, आत्तमनस्कान् करोमि। न च एषा पिठरिका हीयते,न परिहीयते, नोनीभवति, न क्षीयते, न पर्यादानं गच्छति, न सीमामुपैति, न निष्ठां न पर्यन्तं न परिनिष्ठां गच्छति। सचेत् कुलपुत्र दशदिक्सर्वलोकधातुपर्यापन्नाः सर्वसत्त्वा मदन्तिकमुपसंक्रमेयुर्नानाधिमुक्ता नानाभिप्रायाः, तानपि सर्वान् यथाभिप्रेतैर्भोजनैः संतर्पेययम्, यावदात्तमनस्कान् कुर्याम्। यथा नानाभोजनैः एवं नानापानविधिभिः नानारसाग्रैः नानाशयनैर्नानावस्रैः नानापुष्पैर्नानामाल्यैर्नानागन्धैर्नानाधूपैर्नानाविलेपनैर्नानाचूर्णैर्नानारत्नैर्नानाभरणैर्नानारत्न‍रथैर्नानाछत्रैर्नानाध्वजैर्नानापताकाभिर्नानाविधोपकरणविशेषैः संतर्पयेयम्, यावदात्तमनस्कान् कुर्याम्। अपि तु खलु पुनः कुलपुत्र ये केचित् पूर्वस्यां दिशि एकस्मिन्, लोकधातौ श्रावकप्रत्येकबुद्धा अन्तिमदेहधारिणः श्रावकप्रत्येकबोधिफलमनुप्राप्नुवन्ति, सर्वे ते ममाहारं परिभुज्य। यथा पूर्वस्यां दिशि एकस्मिन् लोकधातौ, एवं ये लोकधातुशते, लोकधातुसहस्रे, लोकधातुशतसहस्रे, लोकधातुकोट्याम्, लोकधातुकोटीशते, लोकधातुकोटीसहस्रे, लोकधातुकोटीशतसहस्रे, लोकधातुकोटीनियुतशतसहस्रेषु, ये जम्बुद्वीपपरमाणुरजःसमेषु लोकधातुषु चातुर्द्वीपकलोकधातुपरमाणुरजःसमेषु साहस्रलोकधातुपरमाणुरजःसमेषु द्विसाहस्रलोकधातुपरमाणुरजःसमेषु त्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमेषु ये केचित् कुलपुत्र, पूर्वस्यां दिशि यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमेषु लोकधातुषु श्रावकप्रत्येकबुद्धा अन्तिमदेहधारिणः श्रावकप्रत्येकबोधिफलमनुप्राप्नुवन्ति, सर्वे ते ममाहारं परिभुज्य। यथा पूर्वस्यां दिशि, एवं दक्षिणायां पश्चिमायामुत्तरायामुत्तरपूर्वस्यां पूर्वदक्षिणायां दक्षिणपश्चिमायां पश्चिमोत्तरायां अध ऊर्ध्वायां दिशि॥



ये केचित्, कुलपुत्र, पूर्वस्यां दिशि एकस्मिन् लोकधातौ एकजातिप्रतिबद्धा बोधिसत्त्वाः, सर्वे ते ममाहारं परिभुज्य बोधिमण्डे निषद्य ससैन्यं मारं पराजित्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते। यथा पूर्वस्यां दिशि एकस्मिन् लोकधातौ, एवं ये लोकधातुशते, लोकधातुसहस्रे, लोकधातुशतसहस्रे लोकधातुकोट्यां लोकधातुकोटीशते लोकधातुकोटीसहस्रे लोकधातुकोटीशतसहस्रे लोकधातुकोटीनियुतशतसहस्रे, ये जम्बूद्वीपपरमाणुरजःसमेषु लोकधातुषु चातुर्द्वीपकलोकधातुपरमाणुरजःसमेषु साहस्रलोकधातुपरमाणुरजःसमेषु द्विसाहस्रलोकधातुपरमाणुरजःसमेषु त्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमेषुः, ये केचित् कुलपुत्र पूर्वस्यां दिशि यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमेषु लोकधातुष्वेकजातिप्रतिबद्धा बोधिसत्त्वाः, सर्वे ते ममाहारं परिभुज्य बोधिमण्डे निषद्य ससैन्यं मारं पराजित्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते। यथा पूर्वस्यां दिशि, एवं दक्षिणायां पश्चिमायामुत्तरामुत्तरपूर्वायां पूर्वदक्षिणायां दक्षिणपश्चिमायां पश्चिमोत्तरायामधो दिशि, ये केचित् कुलपुत्र, ऊर्ध्वायां दिशि एकस्मिन् लोकधातावेकजातिप्रतिबद्धा बोधिसत्त्वाः, सर्वे ते ममाहारं परिभुज्य बोधिमण्डे निषद्य ससैन्यं मारं पराजित्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते। यथोर्ध्वायां दिशि एकस्मिन् लोकधातौ, एवं ये लोकधातुशते लोकधातुसहस्रे लोकधातुशतसहस्रे लोकधातुकोट्यां लोकधातुकोटीशते लोकधातुकोटीसहस्रे लोकधातुकोटीशतसहस्रे लोकधातुकोटीनियुतशतसहस्रे ये जम्बूद्वीपपरमाणुरजःसमेषु लोकधातुषु चातुर्द्वीपकलोकधातुपरमाणुरजःसमेषु साहस्रलोकधातुपरमाणुरजःसमेषु द्विसाहस्रलोकधातुपरमाणुरजःसमेषु त्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमेषु ये केचित्कुलपुत्र ऊर्ध्वायां दिशि यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमेषु लोकधातुषु एकजातिप्रतिबद्धा बोधिसत्त्वाः, सर्वे ते ममाहारं परिभुज्य बोधिमण्डे निषद्य ससैन्यं मारं पराजित्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते॥



पश्यसि त्वं कुलपुत्र इमानि दशस्त्रीसहस्राणि मम परिवारम्? आह-पश्यामि आर्ये। आह-एतत्प्रमुखानि कुलपुत्र स्त्रीणां दशासंख्येयशतसहस्राणि मम सभागचरितानि एकप्रणिधानानि एककुशलमूलानि एकनिर्याणव्यूहानि एकाधिमुक्तिपथविशुद्धानि मम सभागस्मृतिविशुद्धानि सभागगतिविशुद्धानि सभागबुध्यप्रमाणानि सभागेन्द्रियप्रतिलब्धानि सभागचित्तस्फरणानि सभागगोचरविषयाणि सभागधर्मनयावतीर्णानि सभागार्थविनिश्चतानि सभागधर्मार्थोद्योतनानि सभागरूपविशुद्धानि सभागबलाप्रमाणानि, सभागवैर्यापराजितानि सभागधर्मरुतघोषाणि, सभागस्वरविशुद्धानि, सर्वव्यवहारेषु सभागगुणविशुद्धानि, अप्रमाणगुणवर्णतया सभागकर्मविशुद्धानि, अनवद्यकर्मविपाकविशुद्ध्या सभागमहामैत्रीस्फरणानि, सर्वजगत्परित्राणतया सभागमहाकरुणास्फरणानि, सर्वजगत्परिपाचनाखेदतया सभागकायकर्मविशुद्धानि, यथाशयसर्वसत्त्वसंतोषणकायसंदर्शनतया सभागवाक्कर्मविशुद्धानि धर्मधातुनिरुक्तिव्यवहारेषु, सभागोपसंक्रमणानि सर्वबुद्धपर्षन्मण्डलेषु, सभागनिर्जवनानि सर्वबुद्धक्षेत्रेषु, सर्वबुद्धपूजोपस्थानतायै सभागप्रत्यक्षज्ञानानि सर्वधर्मनयानुगमेषु, सभागचर्याविशुद्धानि सर्वबोधिसत्त्वभूमिप्रतिलाभेषु। एतानि कुलपुत्र दशस्त्रीसहस्राणि एकक्षणेन दश दिशः स्फरन्ति, यदुतैकजातिप्रतिबद्धान् बोधिसत्त्वान् भोजनेन प्रतिपादनतायै अस्या एव पिठरिकाया भोजनमादाय। दश दिशः स्फरन्ति अस्या एव पिठरिकाया भोजनमादाय। दश दिशः स्फरन्ति चरमभविकान् सर्वश्रावकप्रत्येकबुद्धयानिकान् पिण्डपातेन प्रतिपादनतायै। स्फरित्वा सर्वप्रेतगणान् भोजनेन संतर्पयन्ति। सा अहं कुलपुत्र अस्या एव पिठरिकाया देवान् देवभोजनेन संतर्पयामि। नागान्नागभोजनेन, यक्षान् यक्षभोजनेन, गन्धर्वान् गन्धर्वभोजनेन, असुरानसुरभोजनेन, गरुडान् गरुडभोजनेन, किन्नरान् किन्नरभोजनेन, महोरगान् महोरगभोजनेन, मनुष्यान् मनुष्यभोजनेन, अमनुष्यानमनुष्यभोजनेन संतर्पयामि। आगमयस्व कुलपुत्र मुहूर्तं यावत्प्रत्यक्षो भविष्यसि। समन्तरभषिता चेयं वाक् प्रभूतयोपासिकया, अथ तावदेव अपरिमाणाः सत्त्वाः पूर्वेण गृहद्वारेण प्रविशन्ति स्म यदुत प्रभूतयोपासिकया पूर्वप्रणिधाननिमन्त्रिताः। एवं दक्षिणेन पश्चिमेणोत्तरेण गृहद्वारेण अपरिमाणाः सत्त्वाः प्रविशन्ति स्म यदुत प्रभूतयोपासिकया पूर्वप्रणिधाननिमन्त्रिताः। तान् प्रभूतोपासिका तेष्वासनेषु निषद्य यथाभिप्रेतैर्भोजनैर्नानासूपैर्नानारसैर्नानावर्णैर्नानागन्धैः संतर्पयति, संप्रवारयति, संतोषयति, संप्रहर्षयति, संप्रमोदयति परिप्रीणयति, आत्तमनस्कान् करोति। यथा नानाभोजनैः, एवं नानापानविधिभिः, नानारसाग्रैः, नानासनैः, नानाशयनैः नानायानैर्नानावस्त्रैः नानापुष्पैर्नानामाल्यैः नानागन्धैर्नानाधूपैः नानाविलेपनैर्नानाचूर्णैः नानाभरणैः नानारत्न‍रथैः नानाछत्रैर्नानाध्वजैर्नानापताकाभिः नानाविधोपकरणविशेषैः संतर्पयति, यावदात्तमनस्कान् करोति। देवान् देवभोजनेन संतर्पयति। नागान् यक्षान् गन्धर्वानसुरान् गरुडान् किन्नरान् महोरगान् मनुष्यानमनुष्यान् तत्तदेव भोजनेन संतर्पयति यावदात्तमनस्कान् करोति। न च सा पिठरिका हीयते, न परिहीयते, नोनीभवति, न क्षीयते, न पर्यादानं गच्छति, न सीमामुपैति, न निष्ठां न पर्यन्तं न परिनिष्ठां गच्छति॥



अथ खलु प्रभूतोपासिका सुधनं श्रेष्ठिदारकमेवमाह-एतमहं कुलपुत्र अक्षयव्यूहपुण्यकोशं बोधिसत्त्वविमोक्षं जानामि। किं मया शक्यमक्षयपुण्यानां बोधिसत्त्वानां महापुण्यसागराक्षयतया, गगनकल्पानां सुसंभूतविपुलपुण्योपचयतया, चिन्ताराजमणिरत्नकल्पानां सर्वजगत्प्रणिधिपूरणतया, महापुण्यचक्रवालानां सर्वजगत्कुशलमूलारक्षणतया, महापुण्यमेघानां सर्वजगद्रत्नपाण्यभिप्रवर्षणतया, महापुण्यकोशाध्यक्षाणां धर्मनगरद्वारविवरणतया, महापुण्यप्रदीपानां सर्वजगद्दारिद्र्यान्धकारविधमनतया चर्यां ज्ञातुं गुणान् वा वक्तुम्॥



गच्छ कुलपुत्र, इहैव दक्षिणापथे महासंभवं नाम नगरम्। तत्र विद्वान्नां गृहपतिः प्रतिवसति। तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥



अथ खलु सुधनः श्रेष्ठिदारकः प्रभूताया उपासिकायाः पादौ शिरसाभिवन्द्य प्रभूतामुपासिकामनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य पुनः पुनरवलोक्य प्रभूताया उपासिकाया दर्शनावितृप्तोऽन्तिकात्प्रक्रान्तः॥ १४॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project