Digital Sanskrit Buddhist Canon

१२ जयोष्मायतनः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

12 jayoṣmāyatanaḥ

१२ जयोष्मायतनः।



अथ खलु सुधनः श्रेष्ठिदारकोऽपराजितध्वजबोधिसत्त्वविमोक्षज्ञानावभासितः अचिन्त्यबुद्धविषयविकुर्वितप्रत्यक्षविहारी अचिन्त्यबोधिसत्त्वविमोक्षप्रत्यक्षज्ञानाभिज्ञः अचिन्त्यबोधिसत्त्वसमाधिज्ञानावभासितचित्तः सर्वकालसमवसरणसमाधिज्ञानावभासप्रतिलब्धः सर्वसंज्ञासंगतसमवसरणसमाधिविषयावभासितः सर्वजगद्विशेषवतिज्ञानालोकप्रतिलब्धः सर्वत्र्यध्वानुगतगोचरविहाराभिमुखः अद्वयविकल्पसमतानिर्देशज्ञानपरमः सर्वारम्बणप्रसरितज्ञानालोकः सत्त्वश्रद्धाभिमुखक्षान्तिविशुद्धयधिमुक्तिकोशकुशलः स्वभावधर्मक्षान्तिनिश्चयज्ञानालोकप्रतिलब्धः सर्वत्रानुगताभिज्ञबोधिसत्त्वचर्यास्वभावभावनाविरहितचित्तः सर्वज्ञतावेगाविवर्त्यचित्तो दशबलज्ञानविद्युदवभासप्रतिलब्धः धर्मधातुनिर्घोषाभिलाषावितृप्तचित्तः सर्वज्ञताविहारगोचरावतरणप्रतिपत्तिचित्तः अनन्तबोधिसत्त्वचर्याव्यूहाभिनिर्हारचित्तोऽनन्तबोधिसत्त्वमहाप्रणिधानमण्डलपरिशोधनचित्तः अनन्तमध्यलोकधातुजालाक्षयानुगमज्ञानाभिमुखचित्तः अनन्तसत्त्वसागरपरिपाकविनयासंकुचितचित्तः अनन्तबोधिसत्त्वचर्याविषयं संपश्यन् अनन्तलोकधातुगतिविमात्रतां संपश्यन् अनन्तलोकधातुविभक्तिविचित्रतां संपश्यन् अनन्त लोकधातुसूक्ष्मोदारारम्बणान्तर्गतां संपश्यन् अनन्तलोकधातुप्रतिष्ठानसंज्ञाजालविचित्रितां संपश्यन् अनन्तलोकधातुव्यवहारप्रज्ञप्तिसंवृतिविमात्रतां संपश्यन् अनन्तसत्त्वाधिमुक्तिविमात्रतां संपश्यन् अनन्तसत्त्वविभक्तिविमात्रतां संपश्यन् अनन्तसत्त्वपरिपाकविनयानुगमं संपश्यन् अनन्तसत्त्वदिक्कालसंज्ञागतविचित्रतां संपश्यन् कल्याणमित्राण्यभिमुखीकुर्वाणोऽनुपूर्वेण येन ईषाणे जनपदे जयोष्मायतनो ब्राह्मणः, तेनोपसंक्रान्तः। तेन च समयेन जयोष्मायतनो ब्राह्मण उग्रं तपः तप्यति सर्वज्ञतामारम्बणीकृत्य। तस्य चतुर्दिशं महानग्निस्कन्धः पर्वतमात्रोज्ज्वलितः। अभ्युद्गतमहापर्वतप्रपातः क्षुरधारामार्गः संदृश्यते॥



अथ खलु सुधनः श्रेष्ठिदारको जयोष्मायतनस्य ब्राह्मणस्य पादौ शिरसाभिवन्द्य पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जानामि कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्, श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति। तद्वदतु मे आर्यः-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। स आह-गच्छ कुलपुत्र, एतं क्षुरधारमार्गं पर्वतमभिरुह्य अत्र अग्निखदायां प्रपत। एवं ते बोधिसत्त्वचर्या परिशुद्धिं गमिष्यति॥



अथ खलु सुधनस्य श्रेष्ठिदारकस्य एतदभवत्-दुर्लभा अष्टाक्षणविनिवृत्तिः। दुर्लभो मानुष्यप्रतिलाभः। दुर्लभा क्षणसंपद्विशुद्धिः। दुर्लभो बुद्धोत्पादः। दुर्लभा अविकलेन्द्रियता। दुर्लभो बुद्धधर्मश्रवः। दुर्लभं सत्पुरुषसमवधानम्। दुर्लभानि भूतकल्याणमित्राणि। दुर्लभो भूतनयानुशासनोपसंहारः। दुर्लभं सम्यग्जीवितं मनुष्यलोके। दुर्लभा धर्मानुधर्मप्रतिपत्तिः। मा हैवायं मारो भविष्यति माराधिष्ठितो वा मारकायिको वा कल्याणमित्रप्रतिरूपको वा बोधिसत्त्वखण्डको वा, यो मम कुशलमूलान्तरायाय प्रतिपन्नः, यो मम जीवितनिरोधाय अभ्युत्थितः। मा हैव ममान्तरायं कर्तुकामः सर्वज्ञतायाम्। मा खलु मां विषमेण पथा प्रणेतुकामः। मा खलु मे धर्ममुखान्तरायं कर्तुकामो बुद्धधर्माधिगमाय। तस्यैवं चिन्तामनसिकारप्रयुक्तस्य दश ब्रह्मसहस्राण्युपर्यन्तरिक्षे स्थित्वा एवमाहुः-मा कुलपुत्र एवं चेतनां दृढीकार्षीः। एष कुलपुत्र आर्यो वज्रार्चिःसमाध्यवभासलब्धः अविवर्त्यवीर्यो महारम्भोत्तारणप्रतिपन्नः, सर्वजगत्स्नेहपर्यादानायाभ्युत्थितः, सर्वदृष्टिगतजालदालनाय प्रयुक्तः, सर्वक्लेशकर्मकक्षनिर्दहनाय प्रत्युपस्थितः, सर्वाक्षणज्ञानकान्तारावभासनायोद्युक्तः, सर्वसत्त्वजरामरणप्रपातभयविनिवर्तनाय व्यवस्थितः, त्र्यध्वान्धकारविधमनतायै अभियुक्तः, सर्वधर्मरश्मिप्रमुञ्चनतायै प्रतिपन्नः। एतस्य हि कुलपुत्र, पञ्चतपस्तप्यमानस्य यावन्तः केचिद्ब्राह्मणाः कर्तृत्वमीश्वरत्वं सर्वलोकज्येष्ठत्वमात्मनि मन्यन्ते विविधदृष्टिगताभिनिविष्टाः तस्य असमोग्रतपोव्रतसमादानप्रभावेण सर्वे स्वभवनेषु न रमन्ते। ते ध्यानरतिमनास्वादयन्तोऽस्य सकाशमुपसंक्रामन्ति। तानेष आगतानृद्धयनुभावेनाभिभूय उग्रव्रततपसा च तेभ्यः सर्वदृष्टिगतविनिवर्तनाय सर्वमानमदप्रहाणाय च धर्मं देशयति। सर्वजगन्महामैत्रीमहाकरूणास्फरणतायै बोध्याशयदृढीकरणतायै बोधिचित्तोत्पादविपुलकरणतायै सर्वबुद्धसंदर्शनाभिमुखतायै बुद्धस्वरमण्डलप्रतिलम्भपरिपूरणाय सर्वत्रानुरवणबुद्धघोषाप्रतिघातानावरणतायै च धर्मं देशयति॥



दश च मारसहस्राण्युपर्यन्तरीक्षे स्थित्वा दिव्यैर्मणिरत्नैरभ्यवकीर्य एवमाहुः-अस्य कुलपुत्र, पञ्चतपस्तप्यतोऽस्मादर्चिःस्कन्धादाभा निश्चरित्वा अस्मद्भवनान्यात्मभावनाभवनाभरणपरिभोगांश्च जिह्मीकुर्वन्ति। ते वयं संवेगजाताः सपरिवाराः एतस्य सकाशमुपसंक्रमाम। उपसंक्रान्तानां चैषाऽस्माकं तथा धर्मं देशयति, यथा स्वचित्तप्रतिलब्धा बोधाय चित्तमुत्पाद्य अविनिवर्तनीया भवामोऽनुत्तरयां सम्यक्संबोधौ॥



दश च वशवर्तिदेवराजसहस्राणि दिव्यैः पुष्पैरभ्यवकीर्य एवमाहुः-वयं कुलपुत्र, अस्य पञ्चतपस्तप्यतः स्वभवनेषु रतिं न विन्दामः। ते वयं स्वस्वजनपरिवारा एतस्य सकाशमुपसंक्रमामः। स एषोऽस्माकमुपसंक्रान्तानां स्वचित्तवशवर्तिताप्रतिलाभाय धर्मं देशयति। सर्वक्लेशवशिताप्रतिलाभाय यथाभिप्रायोपपत्तिवशिताप्रतिलाभाय सर्वकर्मावरणविशुद्धिवशिताप्रतिलाभाय सर्वसमापत्तिवशवर्तिताप्रतिलाभाय परिष्कारवशिताव्यूहपरिशुद्धये यथाभिप्रायवशवर्तितायै च धर्मं देशयति॥



दश च सुनिर्मितदेवराजसहस्राण्युपर्यन्तरिक्षे स्थित्वा दिव्यसंगीतप्रयोगनिर्नादमधुरनिर्घोषेण पूजां कृत्वा एवमाहुः- एतस्य कुलपुत्र पञ्चतपस्तप्यत एभ्योऽग्निकूटेभ्यस्तद्रूपा प्रभा निश्चरति, यया अस्माकमिमानि विमानान्युत्तप्यन्ते, विशुध्यन्ति, प्रभास्वरतराणि भवन्ति। इमानि चाभरणानि, इमाश्चाप्सरसः, वयमपीदानीं सदेवपुत्राप्सरोगणपरिवारा न कामेषु रतिं विन्दामः। न कामसुखमभिनन्दामः। ते वयं प्रह्लादितकायचित्ताः एतस्य सकाशमुपसंक्रमामः। स एषोऽस्माकमुपसंक्रान्तानां चित्तविशुद्धये धर्मं देशयति। चित्तप्रभास्वरतायै चित्तकल्याणतायै चित्तकर्मण्यतायै चित्तप्रीतिसंजननतायै दशबलज्ञानप्रतिलाभविशुद्धये महाधर्मवेगविवर्धनतयै कायविशुद्धये अप्रमाणबुद्धकायाभिनिर्हरणतायै वाग्विशुद्धये तथागतघोषप्रतिलाभाय चित्तविशुद्धये सर्वज्ञताप्रतिलाभाय धर्मं देशयति॥



दश च संतुषितदेवराजसहस्राणि सदेवपुत्राप्सरगणोपरिवाराणि उपर्यन्तरिक्षे स्थित्वा सर्वगन्धचूर्णमेघवर्षमभिप्रवृष्य पूजयित्वा नमस्कृत्य एवमाहुः-अस्य कुलपुत्र, पञ्चतपस्तप्यमानस्य अस्माकं स्वभवनेषु रतिर्न भवति। ते वयमनभिरताः सन्तः एतस्य सकाशमुपसंक्रमामः। तत एषोऽस्माकमुपसंक्रान्तानां सर्वविषयानवेक्षतायै धर्मं देशयति। संतुष्टिचित्ततायै चित्तपरितुष्टितायै कुशलमूलसंजननतायै बोधिचित्तोत्पादप्रतिलाभाय यावत्सर्वबुद्धधर्मपरिपूरणाय धर्मं देशयति॥



दश च सुयामदेवराजसहस्राणि सदेवपुत्राप्सरोगणपरिवाराणि दिव्यानि मान्दारवकुसुमवर्षाण्यभिप्रवृष्य एवमाहुः- अस्य कुलपुत्र पञ्चतपस्तप्यमानस्य अस्माकं दिव्यसंगीतिषु रतिर्न भवति। ते वयमनभिरता एतस्य सकाशमुपसंक्रमामः। तत एषोऽस्माकमुपसंक्रान्तानां सर्वकामरतिविनिवर्तनतायै यावत्सर्वबुद्धधर्मप्रतिलाभाय धर्मं देशयति॥



दश च शक्रदेवेन्द्रशतसहस्राणि प्रत्येकं द्वात्रिंशद्भिरुपेन्द्रैः सदेवपुत्राप्सरोगणपरिवारैः सार्धं दिव्यवस्त्ररत्नाभरणकुसुममेघवर्षमभिप्रवृत्य एवमाहुः-अस्य कुलपुत्र पञ्चतपस्तप्यमानस्य अस्माकं सर्वशक्रभवनोद्यानक्रीडावनदिव्यतूर्यतालोपचारसंगीतिपरिभोगेषु रतिर्न भवति। ते वयमनभिरता एतस्य सकाशमुपसंक्रमामः। तत एषोऽस्माकमुपसंक्रान्तानां सर्वकामरतिप्रहाणाय धर्मं देशयति। सर्वमिदमनित्यं चलं व्ययधर्ममिति वाचमुदीरयति। सर्वमदप्रमादसमुच्छेदनाय धर्मं देशयति अनुत्तरबोधिच्छन्दविवर्धनतायै। अपि तु खलु पुनः कुलपुत्र अस्य संप्रेक्षितेन इमानि मेरुशिखराणि संप्रकम्पितानि। ते वयं व्यथितसंविग्नचित्ताः सर्वज्ञताचित्तोत्पादनदृढतया सर्वज्ञताज्ञाने प्रणिधिमभिनिर्हरामः॥



दश च नागसहस्राणि ऐरावतनन्दोपनन्दनागराजप्रमुखानि उपर्यन्तरिक्षे गतानि दिव्यकालानुसारिचन्दनमेघैर्नागकन्यासंगीतिनिर्नादमधुरनिर्घोषैर्दिव्यगन्धोदकधाराप्रसृतप्रमुक्तैरभिप्रवृष्य एवमाहुः-अस्य कुलपुत्र पञ्चतपस्तप्यत एभ्यो महाग्निस्कन्धराशिभ्य आभाः प्रमुक्ताः सर्वनागभवनान्यवभास्य वालिकावर्षसुपर्णिभयान्यपनयन्ति। क्रोधप्रवृत्तिं चैषां प्रशमयित्वा आशयं प्रह्लाद्य मनः प्रसादयन्ति। तत एषोऽस्माकं प्रसन्नचित्तानां धर्मं देशयति, यदुत हीननागगतिविजुगुप्सनतायै सर्वावरणीयकर्मप्रहाणाय। अत्ययं देशयित्वा अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पाद्य सर्वज्ञतायां प्रतिष्ठापयति॥



दश च यक्षेन्द्रसहस्राणि गगनतले स्थित्वा नानाविधया पूजया पूजयित्वा जयोष्मायतनं ब्राह्मणं सुधनं च श्रेष्ठिदारकमेवमाहुः-अस्य कुलपुत्र पञ्चतपस्तप्यमानस्य अस्मत्पार्षदानां मनुष्येषु मैत्रं चित्तं संजायते। सर्वयक्षराक्षसकुम्भाण्डाश्च मैत्रचित्ता भवन्ति। ते मैत्रचित्ता अविहेठनप्रतिपन्ना अस्मत्सकाशमुपसंक्रामन्ति-वयमपीदानीं मैत्र्याधिपत्येनाभिभूताः स्वेषु स्वेषु भवनेषु रतिं न विन्दामः। ते वयं सस्वजनपरिवारा एतस्य सकाशमुपसंक्रमामः। तदस्माकमुपसंक्रान्तानामस्य शरीरनिर्याता प्रभा अवभास्य सर्वशरीरं सुखेन स्फरति। स एषोऽस्माकं प्रीणितकायचित्तानां तथा धर्मं देशयति, यदनेकेषां यक्षराक्षसकुम्भाण्डकटपूतनानां बोधाय चित्तान्युत्पद्यन्ते॥



दश च गन्धर्वेन्द्रसहस्राण्युपर्यन्तरिक्षे स्थित्वा एवमाहुः-अस्माकमपि कुलपुत्र स्वभवनेषु वसतामस्य पञ्चतपस्तप्यत एभ्योऽग्निकूटेभ्य आभा निश्चरित्वा अस्मद्भवनान्यवभासयति। ते वयं तया प्रभया स्पृष्टा अचिन्त्यसुखसमर्पिता एतस्यान्तिकमुपसंक्रमामः। उपसंक्रान्तानामेषोऽस्माकं तथा धर्मं देशयति, यदविवर्त्या भवामोऽनुत्तरायाः सम्यक्संबोधेः॥



दश च असुरेन्द्रसहस्राणि महासमुद्रादभ्युद्गम्य आकाशे दक्षिणं जानुमण्डलमवनाम्यकृताञ्जलिपुटानि नमस्यमानानि एवमाहुः-अस्य कुलपुत्र, पञ्चतपस्तप्यतोऽस्माकं सर्वेऽसुरलोकाः ससागराणि सशैलानि च महापृथिवीमण्डलानि प्रकम्पन्ते। ततो वयं सवे निहतमानमददर्पा व्रततपोभिभूता एतस्य सकाशमुपसंक्रमामः। उपसंक्रान्तानामेषोऽस्माकं सर्वमायाशाठ्यप्रहाणाय गम्भीरधर्मक्षान्त्यवताराय अचलधर्मताप्रतिष्ठानाय दशबलज्ञानपरिनिष्पत्तये च धर्मं देशयति॥



दश च गरुडेन्द्रसहस्राणि महावेगधारिगरुडेन्द्रप्रमुखानि उदारं माणवकरूपमभिनिर्माय एवमाहुः-अस्य कुलपुत्र, पञ्चतपस्तप्यत एभ्योऽग्निराशिभ्यः प्रभा निश्चरित्वा अस्मद्भवनान्यवभास्य संकम्पयति। ते वयं भीतास्त्रस्ताः संविग्नमनस एतस्यान्तिकमुपसंक्रमामः। स एष कुलपुत्र, अस्मान् धर्मदेशनया महामैत्र्यां संनियोजयति। महाकरुणायां समादापयति। संसारसागरावगाहनतायां संनियोजयति। कामपङ्कनिमग्नसत्त्वाभ्युद्धरणाय संनियोजयति। बोध्याशयमुखविशुद्धौ प्रयोजयति। प्रज्ञोपायतीक्ष्णतायां संनियोजयति। यथापरिपक्वसत्त्वविनयायोद्योजयति॥



दश च किन्नरेन्द्रसहस्राणि उपर्यन्तरिक्षे स्थित्वा एवमाहुः-अस्य कुलपुत्र पञ्चतपस्तप्यतो वायुसमीरिताभ्योऽस्मद्भवनगततालपङ्क्तिभ्यः किङ्किणीजालरत्नसूत्रदामवाद्यवृक्षेभ्यो सर्ववाद्यभाण्डरत्नाभरणगृहपरिभोगेभ्यो बुद्धशब्दो निश्चरति। धर्मशब्दोऽविवर्त्यबोधिसत्त्वसंघशब्दो बोधिसत्त्वप्रस्थानप्रणिधानशब्दो निश्चरति। अमुष्यां लोकधातुसंख्यायाममुको नाम बोधिसत्त्वो बोधाय प्रणिदधाति। अमुष्यां लोकधातुसंख्यायाममुको नाम बोधिसत्त्वो दुष्करपरित्यागं करोति। अमुष्यां लोकधातुसंख्यायामेवंनामा बोधिसत्त्वो सर्वज्ञताज्ञानमण्डलं परिशोधयति। अमुष्यां लोकधातुसंख्यायामेवंनामा बोधिसत्त्वो बोधिमण्डमुपसंक्रामति। अमुष्यां लोकधातुसंख्यायामेवंनामा बोधिसत्त्वो सवाहनं मारं पराजित्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते। अमुष्यां लोकधातुसंख्यायामेवंनामा तथागतो धर्मचक्रं प्रवर्तयति। अमुष्यां लोकधातुसंख्यायाममुको नाम तथागतोऽनवशेषबुद्धकार्यं कृत्वा अनुपधिशेषनिर्वाणधातौ परिनिर्वातीति। अपर्यन्तः कुलपुत्र भवेज्जम्बुद्वीपे सर्वतृणकाष्ठशाखापत्रपलाशानां परमाणुभागशः परिच्छिन्नानाम्, न त्वेव तेषां तथागतनाम्नां बोधिसत्त्वप्रणिधीनां बोधिसत्त्वचर्याप्रस्थानविशेषाणाम्, येऽस्मद्भवनगततालपङ्किभ्यो यावत्सर्ववाद्यभाण्डरत्नाभरणगृहपरिभोगेभ्यो वायुसमीरितेभ्यो बुद्धधर्मबोधिशब्दा निश्चरन्ति अनुरवन्ति, श्रोत्रविज्ञप्तिमागच्छन्ति। ते वयं कुलपुत्र, बुद्धसंघबोधिसत्त्वप्रस्थानप्रणिधिचर्यानामनिर्घोषेण महाप्रीतिवेगहर्षसंजाता एतस्य सकाशमुपसंक्रमामः। स एषोऽस्माकमुपसंक्रान्तानां तथा धर्मं देशयति, यदस्मत्परिषदि अनेके सत्त्वा अविवर्त्या भवन्त्यनुत्तरायाः सम्यक्संबोधेः॥



अपरिमाणानि च कामावचरदेवपुत्रसहस्राण्युदारोदारवर्णान्याकाशे स्थित्वा मनोमय्या पूजया पूजयित्वा एवमाहुः-अस्य कुलपुत्र पञ्चतपस्तप्यत एभ्योऽग्निकूटेभ्यस्तथारूपा प्रभा निश्चरन्ति, यया प्रभया अवीचिपर्यन्तान् सर्वनिरयानवभास्य सर्वनैरयिकसत्त्वदुःखानि प्रतिप्रस्रब्धानि। तयैव प्रभया अयमस्माकं चक्षुषु आभासमागच्छति। ते वयमस्योपरि चित्तानि प्रसादयित्वा प्रणीतेषु कामावचरदेवनिकायेषूपपन्नाः। ये वयमस्य कृतज्ञतया दर्शनेनावितृप्ताः सर्वकामरतिमुत्सृज्य अस्य सकाशमुपसंक्रमामः। तत एषोऽस्माकमुपसंक्रान्तानां तथा धर्मं देशयति, यदपरिमाणाः, सत्त्वा बोधाय प्रणिदधति॥



अथ खलु सुधनः श्रेष्ठिदारकस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः इममेवं रूपं धर्मनयं श्रुत्वा जयोष्मायनते ब्राह्मणे भूतकल्याणमित्रासंज्ञामुत्पाद्य जयोष्मायतनस्य ब्राह्मणस्य पादयोः प्रणिपत्य एवमाह-अत्ययमत्ययतो देशयाम्यार्य योऽहं कल्याणमित्राज्ञां प्रतिवाहयामि। अथ खलु जयोष्मायतनो ब्राह्मणः सुधनं श्रेष्ठिदारकं गाथयाध्यभाषत—



प्रदक्षिणं य बोधिसत्त्व आनुशास्ति कुर्वती

न काङ्क्षये गुरुभ्य एकधा स्थपित्व मानसम्।

ततोऽस्य सर्व अर्थ भोन्ति तेऽपि च प्रदक्षिणाः

प्रदक्षिणं च बुद्धज्ञानु बोधिमूलि बुध्यते॥१॥



अथ खलु सुधनः श्रेष्ठिदारकस्तं क्षुरधाराचितं पर्वतप्रपातमार्गमभिरुह्य तत्र महाग्निस्कन्धे प्रापतत्। तेन प्रपतता सुप्रतिष्ठितो नाम बोधिसत्त्वसमाधिः प्रतिलब्धः। तेन चाग्निस्पर्शनेन प्रशमसुखाभिज्ञो नाम बोधिसत्त्वसमाधिः प्रतिलब्धः। स एवमाह-आश्चर्यमार्य यावत्सुखसंस्पर्शोऽयं अग्निस्कन्धः, एष च क्षुरधाराचितः पर्वतप्रपातमार्गः। स आह-अहं कुलपुत्र, अपर्यादत्तमण्डलस्य बोधिसत्त्वविमोक्षस्य लाभी। एतमहं कुलपुत्र अपर्यादत्तमण्डलं बोधिसत्त्वविमोक्षं जानामि। किं मया शक्यं तेजोरश्मिकल्पानां बोधिसत्त्वानां सर्वजगत्क्लेशदृष्टिपर्यादत्तप्रणिधानानामप्रत्युदावर्त्यकेतूनामपर्यादत्तहृदयानामदीनचित्तानामसंकुचितमानसानां वज्रगर्भनारायणकल्पानां महारम्भोत्तरणाविषण्णानामशिथिलप्रयोगानां वातमण्डलीकल्पानां सर्वजगदर्थप्रयुक्तानामविवर्त्यवीर्याणामप्रत्युदावर्त्यसंनाहानां चर्यां ज्ञातुं गुणान् वा वक्तुम्?



गच्छ कुलपुत्र, इदमिहैव दक्षिणापथे सिंहविजृम्भितं नाम नगरम्। तत्र मैत्रायणी नाम कन्या, राज्ञः सिंहकेतोर्दुहिता, पञ्चकन्याशतपरिवारा। तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्॥



अथ खलु सुधनः श्रेष्ठिदारको जयोष्मायतनस्य ब्राह्मणस्य पादौ शिरसाभिवन्द्य जयोष्मायतनं ब्राह्मणमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य जयोष्मायतनस्य ब्राह्मणस्यान्तिकात्प्रकान्तः॥१०॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project