Digital Sanskrit Buddhist Canon

९ सारध्वजः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 9 sāradhvajaḥ
९ सारध्वजः।



अथ खलु सुधनः श्रेष्ठिदारकस्तामेव मुक्तकस्य श्रेष्ठिनोऽनुशासनीमनुविचिन्तयन्, मुक्तकस्य श्रेष्ठिनोऽववादे प्रतिपद्यमानोऽचिन्त्यं बोधिसत्त्वविमोक्षमनुस्मरन्, अचिन्त्यं बोधिसत्त्वज्ञानालोकमनुस्मरन्, अचिन्त्यं धर्मधातुप्रवेशावतारमनुगच्छन्, अचिन्त्यं बोधिसत्त्वसमवसरणनयमवतरन्, अचिन्त्यं तथागतविकुर्वितमनुपश्यन्, अचिन्त्यं बुद्धक्षेत्रसमवसरणमधिमुच्यमानः, अचिन्त्यं बुद्धाधिष्ठानव्यूहमनुमार्जन्, अचिन्त्यं बोधिसत्त्वसमाधिविमोक्षव्यवस्थानवृषभितामवकल्पयन्, अचिन्त्यां लोकधातुसंभेदानावरणतामवगाहमानः, तस्यामचिन्त्यबोधिसत्त्वकर्मदृढाध्याशयतायां प्रतिपद्यमानः, तदचिन्त्यबोधिसत्त्वकर्मप्रणिधानस्रोतोऽनुकुर्वन्, अनुपूर्वेण येन मिलस्फरणं जम्बूद्वीपशीर्षं तेनोपसंक्रम्य सारध्वजं भिक्षुं परिमार्गयन् अपश्यदन्यतरस्मिन्नाश्रमे चंक्रमकोट्यां निषण्णं समाधिसमापन्नमनुश्वसन्तमनुप्रश्वसन्तमनिञ्जमानममन्यमानमृजुकायं प्रतिमुखस्मृतिमचिन्त्येन समाधिविकुर्वितेन विकुर्वमाणं वामदक्षिणाभ्यामूर्ध्वं वा अचिन्त्याप्रमाणानन्तकायमवलोकितमूर्धानमनेकवर्णकायाप्रमेयवर्णविमात्रतां चित्तक्षणे चित्तक्षणे संदर्शयमानम्। तस्य तथा समापन्नस्य गम्भीरस्य शान्तस्य निरुन्मिञ्जितस्य निरालम्बस्य रोमाञ्चोर्ध्वकायस्य सर्वरोममुखेभ्योऽचिन्त्यं बोधिसत्त्वविमोक्षविकुर्वितं प्रवर्तयमानमपश्यत्। येन विमोक्षमुखविकुर्वितेन स चित्तक्षणे चित्तक्षणे सर्वधर्मधातुं स्फरति अनन्तनानाविकुर्वितविकल्पैः सर्वसत्त्वपरिपाकाय सर्वतथागतपूजाप्रयोगाय सर्वबुद्धक्षेत्रपरिशोधनाय सर्वसत्त्वदुःखस्कन्धनिवर्तनाय सर्वदुर्गतिमार्गसमुच्छेदाय सर्वसत्त्वसुगतिद्वारविवरणाय सर्वसत्त्वक्लेशसंतापप्रशमनाय सर्वसत्त्वाज्ञानावरणविकिरणाय सर्वसत्त्वसर्वज्ञताप्रतिष्ठापनाय॥



तस्याधःक्रमतलाभ्यामसंख्येयबुद्धक्षेत्रपरमाणुरजःसमान् श्रेष्ठिगणान् नानोपस्थानप्रत्युपस्थानान् सर्वलोकधातुपर्यापन्नश्रेष्ठिसदृशरूपातिरेकविषयप्रावारान् नानाभूषणविभूषितशरीरान् विचित्रमौलिचूडामणिमकुटधरान् दारकबिम्बपरिवारान् निश्चरमाणानपश्यत्। ब्राह्मणगृहपतींश्च सर्वान्नपानविधिभिः सर्वसाङ्गोपचारैः सर्वाभरणैः सर्ववस्त्रैः सर्वपुष्पैः सर्वमाल्यैः सर्वगन्धैः सर्वविलेपनैः सर्वकामोपचारैः सर्वरत्नैः सर्वायतनैः सर्वभाजनविधिभिः सर्वोपकरणविधिभिः दरिद्रान् सत्त्वान् संगृह्यमाणान् दुःखितं जगदाश्वासयमानान् सत्वमनांसि परितोषयमानान् सत्त्वाशयान् विशोधयमानान् सत्त्वान् बोधौ परिपाचयमानान् दश दिशः स्फरित्वा गच्छतोऽपश्यत्॥



जानुमण्डलाभ्यां निश्चरित्वा क्षत्रियपण्डितरूपान् ब्राह्मणपण्डितरूपान् लोकपण्डितरूपान् विविधशिल्पपण्डितरूपान् मनुष्यगतिपण्डितरूपान् लौकिकलोकोत्तरक्रियाविधिज्ञानपटुपण्डितरूपान् लोकाचार्यसंमतपण्डितरूपान् अनेकाकारकल्पान् अनेकाकारसंस्थानव्यूहान् मनोज्ञानि वचांस्युदीरयतो दुर्मनसः सत्त्वान् प्रहर्षमाणान् धर्मधनपरिहीणान् सत्त्वाननुगृह्यमाणान् दुःखितान् सत्त्वान् सुखयमानान् विनिपतितान् सत्त्वानभ्युद्धरमाणान् विपन्नयानपात्रान् सत्त्वानाश्वासयमानान् भीतान् सत्त्वान् परित्रायमाणान् कुशलमूलशब्दमनुश्रावयमाणान् पापविनिवृत्तिशब्दमुदीरयमाणान् कुशलधर्मसमादापने सत्त्वान् विनियोजयमानान् अर्थचर्यायां सत्त्वान् प्रतिष्ठापयमानान् प्रीतिवेगं संजनयमानान् प्रियवादितासंग्रहवस्तून्युदीरयमाणान् समानार्थतां च लोकस्योपदर्शयमानान् दश दिशः स्फरित्वा गच्छतोऽपश्यत्॥



नाभिमण्डलात् सर्वसत्त्वान् सत्त्वजगच्छरीरसंस्थानान् अजिनचीवरवल्कलधरान् दण्डकाष्ठकुण्डिकागृहीतान् नानारूपान् कल्पसंस्थानान् प्रशान्तेर्यापथान् ऋषिगणान्निश्चरित्वा उपर्यन्तरीक्षे बुद्धवर्णानुदीरयमानान् धर्मशब्दं संश्रावयमाणान् बुद्धघोषं निश्चारयमाणान् बोधिसत्त्वसंघं संदर्शयमानान् ब्रह्मचर्यं संप्रवर्णयमानान् गुप्तेन्द्रियतायां सत्त्वान्नियोजयमानान् निःस्वभावार्थं प्ररूपयमाणान् ज्ञानार्थे लोकं प्रतिष्ठापयमानान् लौकिकशास्त्रविधिं प्रणयमानान् सर्वज्ञज्ञाननिर्याणमार्गविधिं प्रदर्शयमानान् अनुपूर्वक्रियायां सत्त्वान् प्रतिष्ठापयमानान् दश दिशः स्फरित्वा गच्छतोऽपश्यत्॥



द्वाभ्यां पार्श्वाभ्यां सर्वलोकप्रवृत्तिसंख्या अचिन्त्यानेकशरीरसंस्थाननागकन्या निश्चरित्वा अचिन्त्यं नागविकुर्वितं संदर्शयमानाः अचिन्त्यसुगन्धमेघालंकारगगनतलमधिष्ठमाना अचिन्त्यपुष्पमेघालंकारैः सर्वगगनतलमलंकुर्वतीः अचिन्त्यमाल्यमेघालंकारैः सर्वमाकाशधातुं व्यूहयमाना अचिन्त्यरत्नछत्रमेघालंकारैः सर्वधर्मधातुं संछादयमाना अचिन्त्यरत्नध्वजमेघालंकारम् अचिन्त्यरत्नपताकामेघालंकारम् अचिन्त्यरत्नपताकावित्तरत्नाभरणमेघवर्षांलंकारम् अचिन्त्यानन्तमहामणिरत्नमेघप्रवर्षणालंकारम् अचिन्त्यरत्नहारविचित्रकुसुममेघप्रवर्षणालंकारम् अचिन्त्यरत्नासनपर्यङ्कनिषण्णबोधिसत्त्वबुद्धधर्ममेघप्रवर्षणालंकारम् अचिन्त्यदिव्यरत्नाभरणमेघाप्सरोगणधर्मसंगीतिरुतघोषमेघप्रवर्षणालंकारम्, अचिन्त्यमुक्तजालालंकृतरत्नपद्मोर्ध्वकेसरसर्वरत्न‍राजचूर्णमेघवर्षविकिरणालंकारम्, अचिन्त्यरत्नमकुटमेघसर्वमणिरत्नविभूषितानन्तरश्मिमेघप्रवर्षणालंकारम्, अचिन्त्यदेवकायमेघपुष्पमाल्यच्छत्रध्वजपताकालंकारम्, अचिन्त्याप्सरोमेघोन्नतकायकृताञ्जलिपुटसुवर्णपुष्पविकिरणप्रमुक्तपुटकोशसर्वतथागतगुणवर्णस्तुतिमेघनिगर्जितप्रवर्षणालंकारं गगनतलमधितिष्ठमानाः सर्वरत्नवर्णैर्गन्धकूटमेघैरुदारधूपपटलमेघश्च सर्वतथागतपर्षन्मण्डलानि संछादयमानाः, सर्वलोकधातुप्रसरानलंकुर्वतीः सर्वसत्त्वानि प्रहर्षयमाणाः सर्वबुद्धान् पूजयमानाः क्षणे क्षणे सर्वधर्मधातुं स्फरमाणाः सुधनः श्रेष्ठिदारकोऽपश्यत्॥



उरस्तः श्रीवत्सादसंख्येयबुद्धक्षेत्रपरमाणुरजः समानसुरेन्द्रान्निश्चरित्वा अचिन्त्यासुरमायाविकुर्वितानि प्रदर्शयमानान् महाजलधरान् संक्षोभयमाणान् लोकधातुशतसहस्राणि संप्रकम्पयमानान् सर्वशैलेन्द्रराजान्ज् संघट्टयमानान् सर्वदेवभवनानि संप्रकम्पयमानान् सर्वमारमण्डलानि जिह्मीकुर्वाणान् सर्वमारसैन्यं प्रमर्दयमानान् सर्वलोकमदमानदर्पान् प्रभञ्जयमानान् प्रदुष्टचित्तान्निवार्य प्रसादयमानान् विहिंसाचित्तान् प्रतिनिवारयमाणान् सत्त्वानामकुशलान् धर्मानुपशमयमानान् क्लेशपर्वतान् विकिरयमाणान् रणसंग्रामानुपशमयमानान् विविधासुरमायाविकुर्वितविक्रीडितैः सत्त्वान् संवेजयमानान् पापादुद्वेजयमानान् संसारादुन्त्रासयमानान् सर्वभवगतिभ्य उच्चाल्य अनिकेते निवेशयमानान् बोधिचित्ते सत्त्वान् प्रतिष्ठापयमानान् बोधिसत्त्वानां बोधिसत्त्वचर्यां विशोधयमानान् बोधिसत्त्वान् पारमितासु प्रतिष्ठापयमानान् बोधिसत्त्वभूमिषु अवतारयमाणान् बोधिसत्त्वानां बुद्धधर्मनयावभासं जनयमानान् नानाधर्मनयव्यवस्थानैश्चित्तक्षणे चित्तक्षणे धर्मधातुं स्फरमाणानपश्यत् सुधनः श्रेष्ठिदारकः॥



पृष्ठवंशादसंख्येयबुद्धक्षेत्रपरमाणुरजःसमान् श्रावकप्रत्येकबुद्धकायान्निश्चरित्वा श्रावकप्रत्येकबुद्धवैनयिकानां सत्त्वानामात्माभिनिविष्टानां निरात्मतां निःसत्त्वतामुदीरयमाणान् शाश्वताभिनिविष्टानां सर्वसंस्कारानित्यतां परिदीपयमानान् रागचरितानामशुभां भावनां द्वेषचरितानां मैत्रीं मोहचरितानामिदंप्रत्ययताप्रतीत्यसमुत्पादमुदीरयमाणान् समभागचरितानां ज्ञानविषयसंप्रयुक्तं धर्मनयभिद्योतयमानान् विषयाभिरतानामनालयतां कथयमानान् शान्तौ निकेताशयतानां प्रणिधिविशेषमभिरोचयमानान् सर्वदिक्परिवर्तमुखेषु सर्वधर्मनयसागरपरिवर्तमुखेषु सर्वसत्त्वार्थक्रियामभिद्योतयतो धर्मधातुं स्फरयमाणानपश्यत् सुधनः श्रेष्ठिदारकः॥



अंसकूटाभ्यामसंख्येयबुद्धक्षेत्रपरमाणुरजःसमान् यक्षराक्षसेन्द्रान्निश्चरित्वा नानासंस्थानविकृतशरीरान् नानावर्णारोहपरिणाहान् नानेर्यापथविकल्पान् नानायानाभिरूढान् नानापरिवारपरिवृतान् सत्त्वधातुपरिपालनप्रयुक्तान् नानाप्रभावभासप्रयुक्तान् नानाघोषनिर्घोषनिगर्जितान् नानोपायाभिनिर्हारैरसंभिन्नैः समन्तदिग्विदिग्गगनं स्फरमाणान् सर्वसत्त्वकुशलचर्यारक्षायै सर्वार्यमण्डलरक्षायै सर्वबोधिसत्त्वपरिग्रहाय सर्वसम्यग्नतसम्यक्प्रतिपन्नपरिपालनाय वज्रपाणिकर्मणा सर्वबुद्धोपस्थानपूजाविधानतायै, विनिपतितानां सत्त्वानां सर्वापायगतिविनिवर्तनतायै, सर्वलोकसर्वव्याध्याद्युपद्रवभयोपशमनाय प्रयुक्तान् सत्त्वार्थक्रियालोकपरिपालनोत्सुकान् पुण्यज्ञानसंभारचक्रं परिपूरयमाणान् धर्मचक्रमनुप्रवर्तयमानान् परवादिचक्रं निगृह्यमाणान् सर्वधर्मधातुं स्फरमाणान् सुधनः श्रेष्ठिदारकोऽपश्यत्॥



उदरादसंख्येयबुद्धक्षेत्रपरमाणुरजःसमान् किन्नरेन्द्रान् असंख्येयकिन्नरेन्द्रकन्याशतसहस्रपरिवारान् असंख्येयबुद्धक्षेत्रपरमाणुरजःसमांश्च गन्धर्वेन्द्रान् असंख्येयगन्धर्वेन्द्रकन्याशतसहस्रपरिवारान् निश्चरित्वा असंख्येयदिव्यतूर्यशतसहस्रसंगीतिसंप्रभणितधर्मस्वभावोपसंहितानि बुद्धस्तोत्राण्युदीरयमाणान् बोधिचित्तं परिदीपयमानान् बोधिसत्त्वचर्यां संवर्णयमानान् सर्वाभिसंबोधिमुखान्यभिष्टवमानान् सर्वधर्मचक्रमुखान्यवगाहयमानान् सर्वविकुर्वितमुखान्यभिरोचयमानान् सर्वपरिनिर्वाणमुखानि परिदीपयमानान् सर्वबुद्धशासनमुखानि संपरिगृह्यमाणान् सर्वसत्त्वमुखानि संप्रहर्षयमाणान् सर्वबुद्धक्षेत्राणि परिशोधयमानान् सर्वधर्ममुखानि अभिद्योतयमानान् सर्वावरणमुखानि विनिवर्तयमानान् सर्वकुशलमूलमुखानि संजयमानान् धर्मधातुं स्फरयमाणान् सुधनः श्रेष्ठिदारकोऽपश्यत्॥



मुखद्वारादसंख्येयबुद्धक्षेत्रपरमाणुरजःसमान् सप्तरत्नचतुरङ्गबलकायपरिवारान् चक्रवर्तिनो निश्चरित्वा महात्यागरश्मिव्यूहान् प्रमुञ्चमानान् सर्वरत्नाकरानुत्सृज्यमानान् सर्वमणिरत्नाकरान् विश्राणयमानान् दरिद्रान् सधनीकुर्वाणान् प्राणिवधाल्लोकं विनिवर्तयमानान् मैत्रीचित्ते सत्त्वान् संनियोजयमानान् अदत्तादानाद्विवेचयमानान् स्वलंकृतासंख्येयकन्याकोटीनियुतशतसहस्राणि प्रतिपादयमानान् काममिथ्याचाराद्विच्छन्दयमानान् ब्रह्मचर्ये प्रतिष्ठापयमानान् मृषावादाद्विनिवर्तयमानान् असंविवादपरमतायां नियोजयमानान्, पिशुनवचनाद्विनिवर्तयमानान् परमसंग्रहप्रयुक्तं घोषमुदीरयमानान् परुषवचनाल्लोकं विनिवर्तयमानान्, मनोज्ञश्लक्ष्णां वाचमुदीरयमाणान्, अनर्थाधर्मोपसंहितादबद्धप्रलापात् सत्त्वान् विनिवर्तयमानान्, गम्भीरार्थपदप्रभेदविनिश्चये संनियोजयमानान्, सर्ववचनदोषेभ्यो लोकं विनिवर्तयमानान्, करुणाबद्धवाचमुदीरयमाणान्, हृदयमलं लोकेऽपहरणमाणान्, अल्पेच्छतासंतुष्टिपरमतायां सत्त्वान्नियोजयमानान्, व्यापादाल्लोकं विनिवर्तयमानान्, परसंततिप्रसादने संनियोजयमानान्, सर्वदृष्टिजालं लोके उद्धरमाणान्, सर्वविमतिप्रकारान् विकिरयमाणान्, सर्वसंदेहकूटान् प्रपातयमानान्, सर्वसंशयविचिकित्सातिमिरमपनयमानान्, धर्मप्रविचयं लोके प्रविभजमानान्, इदंप्रत्ययताप्रतीत्यसमुत्पादमुदीरयमाणान्, स्वभावसत्यनये सत्त्वान्नियोजयमानान्, सर्वावरणानि विनिवर्तयमानान्, अनावरणनयेऽवतारयमाणान्, बुद्धार्थनयमुद्योतयमानान्, दश दिशो धर्मधातुं स्फरमाणान् सुधनः श्रेष्ठिदारकोऽपश्यत्॥



नयनाभ्यामसंख्येयबुद्धक्षेत्रपरमाणुरजःसमानि सूर्यमण्डलशतसहस्राणि निश्चरित्वा सर्वमहानिरयानवभासमानानि, महान्धकारं लोके विधमन्ति, मोहतिमिरं सत्त्वानामपनयमानानि, शीतनरकापायगतानां सत्त्वानां शीतदुःखं प्रशमयमानानि, मृण्मयेषु क्षेत्रेषु अवदातवर्णां प्रभां प्रमुञ्चमानानि, सुवर्णमयेषु क्षेत्रेषु वैडूर्यवर्णां प्रभां प्रमुञ्चमानानि, वैदूर्यमयेषु क्षेत्रेषु सुवर्णवर्णां प्रभां प्रमुञ्चमानानि, रूप्यमयेषु क्षेत्रेषु सुवर्णवर्णां प्रभां प्रमुञ्चमानानि, सुवर्णमयेषु क्षेत्रेषु स्फटिकवर्णां प्रभां प्रमुञ्चमानानि, स्फटिकमयेषु क्षेत्रेषु सुवर्णवर्णां प्रभां प्रमुञ्चमानानि, सुवर्णमयेषु क्षेत्रेषु मुसारगल्ववर्णां प्रभां प्रमुञ्चमानानि, मुसारगल्वमयेषु क्षेत्रेषु सुवर्णवर्णां प्रभां प्रमुञ्चमानानि, लोहितमुक्तामयेषु क्षेत्रेषु सुवर्णवर्णां प्रभां प्रमुञ्चमानानि, सुवर्णंमयेषु क्षेत्रेषु लोहितमुक्तावर्णां प्रभां प्रमुञ्चमानानि, अश्मगर्भमयेषु क्षेत्रेषु सुवर्णवर्णां प्रभां प्रमुञ्चमानानि, सुवर्णमयेषु क्षेत्रेषु अश्मगर्भवर्णां प्रभां प्रमुञ्चमानानि, इन्द्रनीलमयेषु क्षेत्रेषु सूर्यगर्भमणिराजवर्णां प्रभां प्रमुञ्चमानानि, सूर्यगर्भमणिराजशरीरेषु क्षेत्रेषु इन्द्रनीलमणिराजवर्णां प्रभां प्रमुञ्चमानानि, लोहितमुक्तामयेषु क्षेत्रेषु चन्द्रांशुजालमण्डलगर्भमणिराजवर्णां प्रभां प्रमुञ्चमानानि, चन्द्रांशुजालमण्डलगर्भमणिराजशरीरेषु क्षेत्रेषु लोहितमुक्तावर्णां प्रभां प्रमुञ्चमानानि, एकरत्नमयेषु क्षेत्रेषु नानारत्नवर्णां प्रभां प्रमुञ्चमानानि, नानारत्नमयेषु क्षेत्रेषु एकरत्नवर्णां प्रभां प्रमुञ्चमानानि, एवं सर्वबोधिसत्त्वपर्षन्मण्डलेषु अपरिमाणसत्त्वकार्यप्रयुक्तानि सर्वसत्त्वधर्मधातुं स्फरमाणान्यपश्यत् सुधनः श्रेष्ठिदारकः॥



भ्रूविवरान्तरादूर्णाकोशादसंख्येयबुद्धक्षेत्रपरमाणुरजःसमान् शशाङ्ककायान्निश्चरित्वा सर्वदेवेन्द्रानभिभवमानान्, कामरतिं सर्वलोके विनिवर्तयमानान्, बुद्धदर्शनरतिमनुवर्तयमानान्, अपरिमाणसत्त्वविनयप्रयुक्तान् दश दिशो धर्मधातुं स्फरमाणानपश्यत्॥



ललाटादसंख्येयबुद्धक्षेत्रपरमाणुरजःसमान् महाब्रह्मणो निश्चरित्वा प्रशान्तेर्यापथान् ब्रह्मघोषमुदीरयमाणान् सर्वबुद्धानध्येष्यमाणान् सर्वबुद्धानभिष्टवमानान् सर्वबोधिसत्त्वान् प्रहर्षयमाणान् अपरिमाणसत्त्वकार्यप्रयुक्तान् दश दिशः सर्वधर्मधातुं स्फरमाणान् सुधनः श्रेष्ठिदारकोऽपश्यत्॥



शिरस्तोऽसंख्येयबुद्धक्षेत्रपरमाणुरजःसमान् बोधिसत्त्वान्निश्चरित्वा नानावर्णसंस्थानविभूषितशरीरतां संदर्शयमानान् अनुव्यञ्जनविचित्रगात्रतां प्रभावयमानान् अनन्तमध्यप्रभामण्डलमेघान् प्रमुञ्चमानान् सर्वबुद्धानां पूर्वबोधिसत्त्वचर्यामारभ्य दायकप्रतिग्राहकवस्तुपरित्यागप्रकारमेघान् सर्वरोमविवरेभ्यो निश्चारयमाणान् नानापारमितासंप्रयुक्तान् पूर्वयोगसमुद्रान् संदर्शयमानान् दानचर्यां लोकस्य संवर्णयमानान् मात्सर्यमलं विनिवर्तयमानान् सर्वग्राहोत्सर्गे सत्त्वान्नियोजयमानान्, विचित्रसर्वरत्नालंकारालंकृतं लोकमधितिष्ठमानान्, दानपारमितायां सत्त्वान् प्रतिष्ठाप्य परिष्कारवशितायां प्रतिष्ठापयमानान्, सर्वलक्षणगुणान् संवर्णयमानान्, बुद्धलक्षणसंभवे हेतुमुपदिश्यमानानपश्यत्। असंख्येयबुद्धक्षेत्रपरमाणुरजःसमांश्च बोधिसत्त्वान्निश्चरित्वा शीलपारमितां संवर्णयमानान्, सर्वबुद्धानां शीलपारमितासंप्रयुक्तान् पूर्वयोगसमुद्रान् सर्वरोमविवरेभ्यः संदर्शयमानान्, सर्वसत्त्वान् सर्वलोकगतिविषयेभ्यो विमुखीकृत्य तथागतविषयाभिमुखीकुर्वाणान्, कामलोकं विजुगुप्समानान्, विपर्यासपटलं लोके विकिरमाणान्, वितथपरिकल्पान् प्रशमयित्वा बोधिसत्त्वशीले संनियोजयमानान्, महाकरुणाशीलं संवर्णयित्वा तथागतशीलप्रतिलम्भाय बुद्धमार्गप्रतिपत्तिशीले सत्त्वान् प्रतिष्ठापयमानान्, स्वप्नोपमां भवगतिं सत्त्वानां प्रभावयित्वा स्वप्नविधिसमवसरणतायै विषयपरिग्रहक्लेशवशितायां सत्त्वान् प्रतिष्ठापयमानानपश्यत्। असंख्येयबुद्धक्षेत्रपरमाणुरजःसमांश्च बोधिसत्त्वान्निश्चर्य सुवर्णवर्णच्छवितां लोकेऽभिद्योतयमानान्, अक्रोधानुपायासतायामखिलदुष्टाविनष्टाप्रतिहतचित्तायां सत्त्वान् प्रतिष्ठापयमानान्, सर्वतिर्यग्योनिगतिसमुच्छेदाय सर्वरोममुखेभ्यः क्षान्तिपारमितासंप्रयुक्तान् तथागतपूर्वयोगमेघान्निश्चारयमाणान्, क्षान्तिबले सत्त्वान् प्रतिष्ठापयमानान्, धर्मवशितायां सत्त्वानवभासयमानानपश्यत्। असंख्येयबुद्धक्षेत्रपरमाणुरजःसमांश्च बोधिसत्त्वान्निश्चर्य अनन्तबोधिसत्त्ववीर्यबलं संदर्शयमानान्, सर्वज्ञतारम्भाविवर्त्यबलेन सर्वसत्त्वश्रुतसागरपर्येष्टिपरिखेदतां संवर्णयमानान्, सर्वतथागतपूजोपस्थाने सत्त्वान्नियोजयमानान्, सर्वदुःखस्कन्धविनिवर्तनमहावीर्यारम्भे सत्त्वान् प्रतिष्ठापयमानान्, वीर्यपारमिताप्रतिसंयुक्तान् पूर्वयोगमेघान् सर्वशरीरान्निश्चारयमाणान्, बोधिसत्त्ववीर्यपारमिताचर्यां संदर्शयमानान्, कौसीद्यपर्वतान् सत्त्वानां विकिरमाणान्, वीर्यपारमितायां सत्त्वान् प्रतिष्ठापयमानान्, कर्मवशितायां लोकं विनियोजयमानान् अधिष्ठानप्रयुक्तानपश्यत्। असंख्येयबुद्धक्षेत्रपरमाणुरजःसमांश्च बोधिसत्त्वान्निश्चरित्वा बोधिसत्त्वानुस्मृतिपथे सत्त्वान् प्रतिष्ठापयमानान्, सर्वावरणनिवरणतिमिरं विधममानान्, सर्वमदप्रमादात् सत्त्वान् विनिवर्तयमानान्, अप्रमादधर्मे प्रतिष्ठापयमानान्, स्तम्भसंरम्भमानध्वजान्प्रपातयमानान्, बुद्धध्यानाङ्गसागरमुदीरयमानान्, ध्यानपारमितां लोके संवर्णयमानान्, ध्यानपारमिताप्रतिसंयुक्तान् पूर्वयोगमेघान् सर्वरोमविवरेभ्यो निश्चारयमाणान्, चित्तवशितायां सत्त्वान् प्रतिष्ठापयमानान्, क्षणे क्षणे धर्मधातुं स्फरमाणानपश्यत्। असंख्येयबुद्धक्षेत्रपरमाणुरजःसमांश्च बोधिसत्त्वान्निश्चरित्वा बुद्धधर्मपर्येष्टिसंप्रयुक्तान् पूर्वयोगमेघान् सर्वरोमविवरेभ्यो निश्चारयमाणान्, सर्वस्वराङ्गसागररूतैः प्रज्ञापारमितामेघान्निगर्जमानान्, सम्यग्दृष्टिविद्युतं निश्चारयमाणान्, धर्मस्वभावरुतघोषान् रवमाणान्, आत्मदृष्टिपर्वतकूटानिसत्त्वानां प्रदार्यमाणान्, सर्वदृष्टिशल्यान्युद्धरमाणान्, काङ्क्षाविमतिमतिविचिकित्सातिमिरं विधममानान्, अधिमुक्तिवशितां संवर्णयमानान्, चित्तक्षणे चित्तक्षणे धर्मधातुं स्फरमाणानपश्यत्। असंख्येयबुद्धक्षेत्रपरमाणुरजःसमांश्च बोधिसत्त्वान्निश्चरित्वा सर्वबुद्धोपायकौशल्यनयमण्डलं प्रभावयमानान्, उपायकौशल्यप्रतिसंयुक्तान् पूर्वयोगमेघान् सर्वरोमविवरेभ्यो निश्चारयमाणान्, उपयकौशल्यचर्यां लोके प्रभावयमानान्, महायाननिर्याणमभिद्योतयमानान्, सर्वबुद्धमण्डलं संवर्णयमानान्, संसारनिर्वाणासंभिन्नां बोधिसत्त्वचर्यां संवर्णयमानान्, दर्शयमानान्, बोधिसत्त्वोपायकौशल्यपारमितायां सत्त्वान् प्रतिष्ठापयमानान्, सर्वबोधिसत्त्वोपपत्तिवशितामण्डलं लोके निदर्शयमानान्, चित्तोत्पादे धर्मधातु स्फरमाणानपश्यत्। असंख्येयबुद्धक्षेत्रपरमाणुरजःसमांश्च बोधिसत्त्वान्निश्चरित्वा सर्वतथागतनामसमुद्रमेघान् सर्वरोमविवरेभ्यो निगर्जमानान्, सर्वबोधिसत्त्वप्रणिधानपारमितापरिशुद्धिसंप्रयुक्तान् पूर्वयोगमेघान् सर्वरोममुखमण्डलेभ्यः प्रमुञ्चमानान्, प्रणिधानपारमितां संवर्णयमानान्, सर्वबोधिसत्त्ववशितासु सत्त्वान् प्रतिष्ठापयमानान्, अपरान्तकोट्याविद्धं महाप्रणिधानरथचक्रं सर्वधर्मानुसरणं सर्वक्लेशविनिवर्तनमज्ञानपर्वतविकिरणं लोके प्रभावयमानान्, नानाप्रणिधानविकुर्वितैः चित्तक्षणे चित्तक्षणे धर्मधातुं स्फरमाणानपश्यत्। असंख्येयबुद्धक्षेत्रपरमाणुरजःसमांश्च बोधिसत्त्वान्निश्चरित्वा बोधिसत्त्वबलमवभासयमानान्, बोधिसत्त्वबलपरिनिष्पत्तिरुतं प्रमुञ्चमानान्, बलपारमितापरिनिष्पत्तिसंभवपूर्वयोगमेघान् सर्वरोमविवरेभ्यो निश्चारयमाणान्, सर्वमारपरप्रवाद्यनवमृद्यबलं संदर्शयमानान्, सर्वचक्रवालवज्रपर्वतशरीरोपनिपातात्मभेद्यबलं प्रभावयमानान्, सर्वकल्पोद्दाहाग्निसागरसंवासशरीरानुद्दयोतबलं संदर्शयमानान्, गगनतले सर्वलोकधातुप्रसरपाणितलसंधारणबलतां संदर्शयमानान्, चित्तक्षणे चित्तक्षणे ऋद्धिवशितायां सत्त्वान् प्रतिष्ठापयमानान् धर्मधातुस्फरणाप्रतिप्रस्रब्धानपश्यत्। असंख्येयबुद्धक्षेत्रपरमाणुरजःसमांश्च बोधिसत्त्वान् निश्चरित्वा सत्त्वानां ज्ञानमण्डलं द्योतयमानान्, ज्ञानपरिमितापरिशुद्धिसंप्रयुक्तान् पूर्वयोगमेघान् सर्वरोमविवरेभ्यः प्रमुञ्चमानान्, सर्वबुद्धगुणज्ञानाभिज्ञावतीं ज्ञानभूमिं लोके प्रभावयमाणान्, सर्वबुद्धसंज्ञाभिज्ञावतीं ज्ञानभूमिं संदर्शयमानान्, सर्वप्रणिध्यभिनिर्हाराभिज्ञानाभिज्ञावतीं ज्ञानभूमिं परिदीपयमानान्, सर्वसत्त्वसंग्रहप्रणिध्यभिनिर्हारज्ञानाभिज्ञावतीं ज्ञानभूमिं विख्यापयमानान्, सर्वसत्त्वनैरात्म्यास्वभावावताराभिज्ञावतीं ज्ञानभूमिं विख्यापयमानान्, सर्वसत्त्वचित्तसागरव्यवलोकनाभिज्ञावतीं ज्ञानभूमिं प्रकाशयमानान्, सर्वसत्त्वेन्द्रियविचयज्ञानाभिज्ञावतीं ज्ञानभूमिं प्रविभजमानान्, सर्वसत्त्वाशयाधिमुक्तिव्यवलोकनज्ञानाभिज्ञावतीं ज्ञानभूमिं संवर्णयमानान्, सर्वसत्त्वकर्मसागरावताराभिज्ञावतीं ज्ञानभूमिं विवरमाणान्, सर्वसत्त्वप्रणिधानसागरावतारज्ञानाभिज्ञावतीं ज्ञानभूमिं संदर्श्यं ज्ञानपारमितायां सत्त्वान् प्रतिष्ठापयमानान्, चित्तक्षणे चित्तक्षणे धर्मधातुं स्फरमाणान् सुधनः श्रेष्ठिदारकोऽपश्यत्॥



मूर्धत उष्णीषविवरादसंख्येयबुद्धक्षेत्रपरमाणुरजःसमांस्तथागतविग्रहान् वरलक्षणानुव्यञ्जनविशुद्धयलंकारान् प्रतप्तजाम्बूनदकनकपर्वतनिर्भासान् सर्वदशदिक्प्रतापनाप्रमाणदीप्तप्रभामण्डलधर्मधातुनयस्फरणघोषान् अनन्तमध्यबुद्धविकुर्वितसंदर्शनान् सर्वजगदसंभिन्नधर्ममेघानभिप्रवर्षमाणान्, यदुत बोधिमण्डवरगतानां बोधिसत्त्वानां समन्तधर्मधातुतलभेदाभिमुखज्ञानमेघं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, अभिषेकप्राप्तानां बोधिसत्त्वानां समन्ततलमेघं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, महाधर्मयौवराज्याभिषिक्तानां बोधिसत्त्वानां समन्तमुखप्रवेशं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, कुमारभूतानां बोधिसत्त्वानां समन्तव्यूहं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, अविवर्त्यानां बोधिसत्त्वानां महाकरूणादृढकूटं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, शुद्धाध्याशयानां बोधिसत्त्वानां सर्वधर्मस्वभावभेदज्ञानवज्रं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, पूर्वयोगसंपन्नानां बोधिसत्त्वानां समन्तजगत्संग्रहव्यूहं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, जन्मजानां बोधिसत्त्वानां त्र्यध्वतथागतपर्षन्मण्डलाभिमुखविज्ञप्तिमेघं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, योगाचाराणां बोधिसत्त्वानां सर्वधर्मस्वभावतलनिर्घोषं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, आदिकर्मिकाणां बोधिसत्त्वानां महाकरुणानयोपायगर्भमेघसंभवं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, प्रथमचित्तोत्पादिकानां बोधिसत्त्वानां प्रग्रह कोशोपचयगर्भं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, उदाराधिमुक्तिकानां बोधिसत्त्वानामक्षयविमोक्षतथागतप्रणिधिप्रग्रहकोशं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, रूपावचराणां सत्त्वानां समन्ततलाक्षयकोशं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, ब्रह्मकायिकानां देवानामप्रमाणनयसागरनिगर्जितघोषं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, वशवर्तिनां देवानां बलसंभवधर्मोपकरणाक्षयकोशं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, मारकायिकानां देवानां चित्रध्वजसर्वज्ञतासंभारसंमार्जनघोषं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, निर्माणरतीनां देवानां ज्ञानरत्नविचित्रधुरं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, तुषितानां देवानां बोधिसत्त्वप्रणिधिविचित्रध्वजं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, यामानां देवानां सर्वतथागतानुस्मृतिकोशं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, शक्रदेवेन्द्रभवनेषु तथागतदर्शनप्रीतिवेगसंभवं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, यक्षेन्द्रभवनेषु धर्मधातुगगनतथागतविकुर्वितस्फरणमेघं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, गन्धर्वेन्द्रभवनेषु सर्वतथागतधर्मसंगीतिनिर्घोषं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, असुरेन्द्रभवनेषु ज्ञाननयवज्रमण्डलं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, गरुडेन्द्रभवनेषु सर्वतथागतसंभवोपायमेघं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, किन्नरेन्द्रभवनेषु सर्वधर्ममेघसंगीतिनिर्घोषं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, नागेन्द्रभवनेषु बोधिसत्त्वविकुर्वितनिर्घोषभवगत्युद्वेगसंभवं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, महोरगेन्द्रभवनेषु प्रीतिसागरविवर्धनवेगं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, मनुष्यलोकेषु सर्वजगद्विशेषज्ञानविषयं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, नरकलोकेषु सर्वसंसारदुःखप्रशान्तनिर्घोषार्यमार्गवचनाधारालंकारं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, तिर्यग्योनिषु अनवद्यकर्मपथप्रतिपत्तिनिर्घोषतथागतानुस्मृतिमेघमण्डलशरीरं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, यामलौकिकेषु सर्वतथागतपारमितानिर्नादसर्वसत्त्वत्यागचित्तसंभवं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, विनिपतितेषु सत्त्वेषु सर्वदुःखोपशमप्रतिलाभसमाश्वासनस्वरनिर्घोषं नाम धर्ममेघवर्षमभिप्रवर्षमाणान्, सर्वधर्मधातुं स्फरमाणान् सुधनः श्रेष्ठिदारकोऽपश्यत्॥



सर्वरोममुखेभ्यश्च एकैकस्माद्रोमविवरादसंख्येयबुद्धक्षेत्रपरमाणुरजःसमानि रश्मिजालमण्डलानि निश्चरित्वा असंख्येयबलरूपावर्तव्यूहान् असंख्येयविचित्रकार्यप्रत्युपस्थानानि दश दिशो धर्मधातुं स्फरमाणान्यपश्यत्। यदुत कुतश्चिद्रोममुखरश्मिजालमण्डलाद्विमलदानचर्यासर्वस्वपरित्यागविकुर्वितमपश्यत्। कुतश्चिद्रोममुखरश्मिजालमण्डलात्सर्वत्र्यध्वबोधिसत्त्वशीलव्रतसमादानाकल्पमण्डलविकुर्वितमपश्यत्। कुतश्चिद्रोममुखरश्मिजालमण्डलात्सर्वबोधिसत्त्वक्षान्तिचर्यारूपत्र्यध्वप्राप्तानां बोधिसत्त्वानां हस्तपादोत्तमाङ्गच्छेदाधिवासनविकुर्वितं पाणिदण्डशस्रशरीरोपनिपाताधिवासनविकुर्वितं सर्वशरीरभेदनहृदयनयनोद्धरणाधिवासनविकुर्वितपश्यत्। यैरप्यन्यैस्त्र्यध्वप्राप्तबोधिसत्त्वविकल्पितात्मभावैः सर्वज्ञताधर्मपर्येष्टिनिदानं सर्वकायिकचैतसिकप्रपीडितान्यङ्गप्रत्यङ्गच्छेदनानि महाकरूणाप्रपीडितैरधिवासितानि मर्षितानि अध्युपेक्षितानि, तान्यपि सर्वबोधिसत्त्वक्षान्तिचर्याविकुर्वितप्रतिबिम्बरूपाण्यपश्यत्। कुतश्चिद्रोममुखरश्मिजालमण्डलात्सर्वबोधिसत्त्ववीर्यचर्याधिमात्रताविभक्तरूपाण्यतीतानागतप्रत्युत्पन्नानि बोधिसत्त्वविकुर्वितानि लोकसंकम्पनसागरसंक्षोभनसत्त्वसंवेजनसर्वतीर्थ्यसंत्रासनमारमण्डलविद्रावणधर्मदिग्द्योतनमहाबोधिसत्त्वविक्रमविकुर्वितान्यपश्यत्। कुतश्चिद्रोममुखरश्मिजालमण्डलाद् यानि सर्वबोधिसत्त्वचर्यानिरूपणानि यान्यात्मभावोपादानानि ये कुलोपपत्तिपरिग्रहाय रूपकाय परिनिष्पत्तये ये कल्याणमित्रानुशासनीपरिग्रहाः, यानि कल्याणमित्रोपदेशप्रतिपत्तिस्थानानि, यानि तथागतध्यानाङ्गपरिनिष्पत्त्यनुरूपविहारभवनविमानजनपदगिरिकन्दराणि, यानि ऋषिशरीराणि, यैस्तानि ध्यानाङ्गानि निष्पादितानि, यानि नृपाधिपत्यानि, यानि नैष्क्रम्यमुखानि, ये व्रतसमादानाकल्पेर्यापथाः, तत्सर्वं सुधनः श्रेष्ठिदारकोऽपश्यत्॥



कुतश्चिद्रोममुखरश्मिजालमण्डलात् प्रज्ञापारमिताचर्याविहारसर्वधर्मपर्येष्टिसंप्रयुक्तान् कायपरिग्रहानपश्यत्। यैः कायैरेकैकंधर्मपदं सर्वास्तिपरित्यागितया सर्वसत्त्वानामन्तिकात्पर्येषितं सर्वोपस्थानपरिचर्यासर्वकल्याणमित्रसकाशात्पर्येषितं श्रद्धागौरवनिर्जातेन च कायप्रमाणेन तथागतसकाशात्पर्येषितम्, यथा चैकत्वं धर्मपदं तथा सर्वधर्मपदानि प्रज्ञापारमिताप्रतिसंयुक्तानि यानि सर्वजगदुपपत्तिप्रतिभासैः कायैः पर्येषितानि, तत्सर्वं सुधनः श्रेष्ठिदारकः एकैकस्माद्रोममुखरश्मिजालमण्डलादपश्यत्। कुतश्चिद्रोममुखरश्मिजालमण्डलात्सर्वबोधिसत्त्वपरिपाकोपायसत्त्वगतिसमुद्रप्रसरितान् सर्वसत्त्वसंग्रहप्रयोगानपश्यत्। एकैकं च सत्त्वं सर्वसत्त्वकायसदृशैरात्मभावोपचारमुखैः पूर्वात्मभावोपादानैरुपायकौशल्यचर्याप्रयुक्तैः संगृह्यमाणं तत एकैकस्माद्रोममुखरश्मिजालमण्डलादपश्यत्। कुतश्चिद्रोममुखरश्मिजालमण्डलात् या भगवतः पूर्वसर्वकल्पप्रणिध्यभिनिर्हारचर्या सर्वसत्त्वपरिपाकप्रणिध्यभिनिर्हारचर्या सर्वक्षेत्रपरिशुद्धिप्रणिध्यभिनिर्हारचर्या, यानि च सर्वप्रणिध्यभिनिर्हारमण्डलानि तेषु तेषु तथागतपादमूलेषु अभिनिर्हृतानि सर्वसंसारदोषाणां तस्य तस्य संसारदोषस्य प्रतिपक्षेण, तत्सर्वं सुधनः श्रेष्ठिदारकस्तत एकैकस्माद्रोममुखरश्मिजालमण्डलादपश्यत्। कुतश्चिद्रोममुखरश्मिजालमण्डलात्सर्वबलपारमिताचर्यासंप्रयुक्तान् पूर्वयोगसमुद्रानपश्यत्। कुतश्चिद्रोममुखरश्मिजालमण्डलात्सर्वज्ञानचर्याविचारसंप्रयुक्तानज्ञाननिद्राप्रसुप्तसत्त्वप्रबोधनशरीरान् पूर्वयोगसमुद्रानपश्यत्॥



अथ खलु सुधनः श्रेष्ठिदारकः सारध्वजं भिक्षुं तथा समाहितमुपनिध्यायन्तमुपपरीक्षमाणः, तत्समाधिविमोक्षमण्डलमनुस्मरन्, तामचिन्त्यां बोधिसत्त्वसमाधिवृषभितामनुविचिन्तयन्, तमचिन्त्यं सत्त्वार्थनयसागरमवतरन्, तदचिन्त्यं समन्तस्रोताभिमुखव्यूहाभिसंस्कारमुखमनुसरन्, अधिमुच्यमानः, तद्धर्मधातुव्यूहविशुद्धिज्ञानमुखमवतरन्, तद्बुद्धाधिष्ठानं संप्रतीच्छन्, ज्ञानं निस्तीरयमाणः, तद्बोधिसत्त्ववशिताबलं संजनयन्, तद्बोधिसत्त्वप्रणिधिबलं दृढीकुर्वाणः, तद्बोधिसत्त्वचर्याबलं विस्तारयन्, सारध्वजस्य भिक्षोः पुरतः एकमपि रात्रिंदिवसमतिनामयति, द्वावपि, सप्तापि रात्रिंदिवानि पुरतोऽतिनामयति, अर्धमासमपि, मासद्वयमपि, यावत् षडपि मासान् षड् वा रात्रिंदिवानि सारध्वजस्य भिक्षोः पुरतोऽतिनामयति। ततः षण्णां मासानां षण्णां च रात्रिंदिवानामत्ययेन सारध्वजो भिक्षुस्तस्मात्समाधेर्व्युत्थितः। सुधन आह-आश्चर्यं बतेदम्, आर्य, यावद्गम्भीर एष समाधिः। यावद्विपुलो यावदप्रमाणविषयो यावदचिन्त्यविकुर्वितव्यूहः यावदतुल्यालोकः यावदसंख्येयव्यूहः यावदसंहार्यगोचरः यावदसंभिन्नविषयः यावत्समदिग्विरोचनः यावदप्रमाणसत्त्वार्थप्रयोग एष समाधिः, यत्र हि नाम एवं सर्वसत्त्वानामपरिमाणदुःखस्कन्धव्युपशमाय प्रत्युपस्थितः, यदुत दारिद्र्यदुः खस्कन्धव्युपशमार्थेन प्रत्युपस्थितः। नरकगतिव्युपच्छेदनार्थेन तिर्यग्योनिगतिपरित्राणार्थेन सर्वाक्षणगतिद्वारपिथनार्थेन स्वर्गगत्युपनयनार्थेन देवमनुष्यरतिसुखसंभवार्थेन ध्यानविषयरत्यनुभवार्थेन संस्कृतावचरसुखसंवर्धनार्थेन त्रैधातुकनिःसरणमुखसंदर्शनार्थेन प्रत्युपस्थितः। बोधिचित्तसंभवहेतुपरिदीपनार्थेन प्रत्युपस्थितः। पुण्यज्ञानसंभारसंभवहेतुसंवर्धनार्थेन विपुलमहाकरुणावेगविवर्धनार्थेन महाप्रणिधानबलसंजननार्थेन बोधिसत्त्वमार्गावभासप्रतिलम्भार्थेन महापारमितायानव्यूहार्थेन महायानविशेषावताराभिनिर्हारार्थेन समन्तभद्रचर्याज्ञानावलोकार्थेन बोधिसत्त्वभूमिज्ञानालोकप्रतिलाभार्थेन सर्वबोधिसत्त्वप्रणिधिचर्यानिर्याणव्यूहविशुद्धिसमुदागमार्थेन सर्वज्ञविषयाक्रमणाधिष्ठानार्थेन प्रत्युपस्थितः। को नाम आर्य एष समाधिः? आह-अस्ति कुलपुत्र, समन्तचक्षुरुपेक्षाप्रतिलब्धा नाम प्रज्ञापारमिता। तदालोक एष समाधिः समन्तमुखविशुद्धिव्यूहो नाम। एतस्य कुलपुत्र समन्तचक्षुरुपेक्षाप्रतिलब्धप्रज्ञापारमितालोकनिर्जातस्य समन्तमुखविशुद्धिव्यूहस्य समाधेः सुभावितत्वात्समन्तमुखविशुद्धिव्यूहपूर्वंगमानि परिपूर्णानि दश समाध्यसंख्येयशतसहस्राण्याजायन्ते। आह-एतावत्परमः आर्य अस्य समाधेर्विषयः? आह-एतं कुलपुत्र समाधिं समापन्नस्य अधिष्ठानं लोकधातुविज्ञप्तिषु। अधिष्ठानं लोकधात्ववतारेषु। अधिष्ठानं लोकधातुविक्रमेषु। अधिष्ठानं लोकधातुप्रतिमण्डलेषु। अधिष्ठानं लोकधातुपरिकर्मसु। अधिष्ठानं लोकधातुपरिशोधनेषु। अधिष्ठानं बुद्धदर्शनविज्ञप्तिषु। अधिष्ठानं बुद्धमाहात्म्यप्रत्यवेक्षायाम्। अधिष्ठानं बुद्धविकुर्वितज्ञानतायाम्। अधिष्ठानं बुद्धबलावतारानुगमेषु। अधिष्ठानं बुद्धगुणसमुद्रावतरणतासु। अधिष्ठानं बुद्धधर्ममेघसंप्रतीच्छनतासु। अधिष्ठानं सर्वबुद्धधर्मचक्रप्रवर्तनासंभेदज्ञानानुगमेषु। अधिष्ठानं बुद्धपर्षण्डलसमुद्रावतरणावगाहनतासु। अधिष्ठानं दशदिक्प्रवेशानुसरणतासु। अधिष्ठानं बुद्धधर्मदेशनानुविलोकनेषु। अधिष्ठानं बुद्धदिगनुलोकनतासु। अधिष्ठानं महाकरुणादिगविजहनतासु। अधिष्ठानं मैत्रीदिक्स्फरणतासु। अधिष्ठानं बुद्धदर्शनदिगवतारातृप्तिषु। अधिष्ठानं सर्वसत्त्वसमुद्रावतारानुगमेषु। अधिष्ठानं सर्वसत्त्वेन्द्रियसमुद्रज्ञानानुगमेषु। अधिष्ठानं सर्वसत्त्वेन्द्रियसंभेदज्ञानेषु। एतमहं कुलपुत्र प्रज्ञापारमिताविहारं जानामि। किं मया शक्यं प्रज्ञापारमिताविहारसागरावतीर्णानां धर्मधातुविषयमतिविशुद्धानां सर्वधर्मगत्यनुसृतिज्ञानिनां विपुलबुद्ध्यप्रमाणविषयस्फरणानां महाधारण्यवभासवशवर्तिनां सर्वसमाधिमण्डलालोकसुपरिशुद्धानामभिज्ञाविकुर्वितवृषभितानिर्यातानामक्षयप्रतिसंवित्सागरावतीर्णानां भूमिगर्भमधुरनिर्घोषाणां सर्वजगत्प्रतिशरणभूतानां बोधिसत्त्वानां चर्या ज्ञातुम्, गुणान् वा वक्तुम्, गोचरो वा निदर्शयितुम्, विषयो वा प्रभावयितुम्, महाप्रणिधानबलं वा संवर्णयितुम्, निर्याणमुखं वा अवभासयितुम्, समुदागमो वा अभिद्योतयितुम्, मार्गं वा परिदीपयितुम्, समाधिस्रोतो व अनुसर्तुम्, चित्तविषयो वा ज्ञातुम्, ज्ञानं वा समता वा अवगन्तुम्॥



गच्छ कुलपुत्र इहैव दक्षिणापथे समुद्रवेताडी नाम प्रत्युद्देशः। तत्र समन्तव्यूहं नामोद्यानं महाप्रभस्य नगरस्य पूर्वेण। तत्र आशा नामोपासिका प्रतिवसति सुप्रभस्य मनुजेन्द्रस्य भार्या। तामुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रयोक्तव्यम्॥



अथ खलु सुधनः श्रेष्ठिदारकस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः सारध्वजस्य भिक्षोरन्तिकादात्तसारः उपजीवितधर्मा अवतीर्णसमाधिविषयो लब्धालोकावभासितज्ञानः समाध्यवभासप्रतिलब्धः अधिमुक्तिविशुद्धयनुगतधर्मनयालोकानुगतचेतनः विशुद्धिमुखानुगतालोको दिगालोकप्रसृतज्ञानः सारध्वजस्य भिक्षोः पादौ शिरसाभिवन्द्य अनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य सारध्वजं भिक्षुमवलोक्य प्रणिपत्य पुनः पुनरवलोकयन् अभिविलोकयन् निपतन् प्रणिपतन् नमस्यन् अवनमन् मनसिकुर्वंश्चिन्तयन् भावयन् पारिभावयन् उदानमुदानयन् हाक्कारं कुर्वन् गुणानभिमुखीकुर्वन् अनुगमयन् अनुस्मरन् अनुस्मारयन् दृढीकुर्वन् अविजहन् मनसा आगमयन् उपनिबध्नन् प्रणिधिं समवसरन् दर्शनमभिलषन् स्वरनिमित्तमुद्गृह्णन् धारयन् धारणानुगतचित्तो वर्णसंस्थानमनुस्मरन् ज्ञानविशेषमनुविचिन्तयन् समाधिविषयं समवतरन् प्रणिधिविषयमनुप्रबन्धन् गोचरविषयं विचारयन् ज्ञानावभासं संप्रतीच्छन् सारध्वजस्य भिक्षोरन्तिकात्प्रक्रान्तः॥७॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project