Digital Sanskrit Buddhist Canon

७ मेघः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

7 meghaḥ

७ मेघः।



अथ खलु सुधनः श्रेष्ठिदारकस्तं धर्मालोकमनुस्मरन् धर्मप्रसादवेगाविष्टो बुद्धानुगतसंज्ञामनसिकारः

त्रिरत्नवंशानुपच्छेदप्रयुक्तः कल्याणमित्राण्यनुस्मरन् त्र्यध्वलोकावभासितचित्तो महाप्रणिधानानुगतमनस्कारः

सर्वसत्त्वधातुपरित्राणयोगप्रसृतः सर्वसंस्कृतरत्यनिश्रितचित्तो विरागवंशमुदीरयन् सर्वधर्मस्वभावनिध्यप्तिपरमः

सर्वलोकधातुपरिशुद्धिप्रणिध्यनुच्चलितः सर्वबुद्धपर्षन्मण्डलानिश्रितविहारी अनुपूर्वेण वज्रपुरं नाम

द्रमिडपट्टनमुपसंक्रम्य मेघं द्रमिडं पर्येषन् अद्राक्षीत् मध्येनगरं शृङ्गाटके धर्मसांकथ्याय सिंहासने निषण्णं दशानां

प्राणिसहस्राणां चक्राक्षरपरिवर्तव्यूहं नाम धर्मपर्यायं संप्रकाशयमानम्॥

अथ खलु सुधनः श्रेष्ठिदारको मेघस्य द्रमिडस्य पादौ शिरसाभिवन्द्य मेघं द्रमिडमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य

पुरतः प्राञ्जलिः स्थित्वा एवमाह-मया आर्य अनुत्तरायां संयक्संबोधौ चित्तमुत्पादितम्। न च जानामि-कथं

बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्? कथं प्रतिपत्तव्यम्? कथं बोधिसत्त्वस्य बोधिसत्त्वबोधिचित्तोत्पादो न

प्रणश्यति? सर्वभवगतिषु कथमाशयो दृढीभवत्यपरिखेदतया? कथमध्याशयः परिशुद्ध्यत्यनवमर्द्यतया? कथं

महाकरुणाबलं संजायते अपरिखेदतया? कथं धारणीबलमाक्रामति समन्तमुखविशुद्धतया? कथं प्रज्ञालोकः संजायते

सर्वधर्मवितिमिरालोकः सर्वाज्ञानतिमिरपटविकिरणतया? कथं प्रतिसंविद्बलमाक्रामति

अर्थधर्मनिरुक्तिप्रतिभानकौशलस्वरमण्डलपरिपूरये? कथं स्मृतिबलमाक्रामति सर्वबुद्धधर्मचक्रासंभिन्नसंधारणतया?

कथं गतिबलं विशुध्यति सर्वधर्मदिग्गत्यालोकानुगमनुगमनतया? कथं बोधिसत्त्वस्य समाधिबलं निष्पद्यते

सर्वधर्मार्थनिश्चयप्रभेदपरमतया?

अथ खलु मेघो द्रमिडो बोधिसत्त्वगौरवेण ततः सिंहासनादुत्थाय अवतीर्य सुधनस्य श्रेष्ठिदारकस्य सर्वशरीरेण

प्रणिपत्य सुधनं श्रेष्ठिदारकं सुवर्णपुष्पराशिना अभ्यवकिरत्। अनर्घैश्च मणिरत्नैरुदारचन्दनचूर्णैश्चाभिप्राकिरत्।

नानाचित्ररङ्गरक्तैश्च अनेकैर्वस्त्रशतसहस्रैरभिच्छादयामास। अनेकैश्च नानावर्णै रुचिरैर्मनोरमैर्गन्धपुष्पैरभ्यवकीर्य

अभिप्रकीर्य अन्यैश्च विविधैः पूजाप्रकारैः पूजयित्वा सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा सुधनं

श्रेष्ठिदारकमेतदवोचत्-साधु साधु कुलपुत्र, येन ते अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। येन कुलपुत्र अनुत्तरायां

सम्यक्संबोधौ चित्तमुत्पादितम्, स सर्वबुद्धवंशस्यानुपच्छेदाय प्रतिपन्नो भवति विरागवंशस्य

यथावद्विज्ञाप्तयेऽभियुक्तः, सर्वक्षेत्रवंशस्य परिशुद्धये प्रतिपन्नः, सर्वसत्त्ववंशस्य परिपाकविनयाय प्रत्युपस्थितः,

सर्वधर्मवंशस्य यथावन्निस्तीरणाय प्रयुक्तः, सर्वकर्मवंशस्याविरोधाय स्थितः सर्वबोधिसत्त्वचर्यावंशस्य परिपूरये

प्रयुक्तः, सर्वप्रणिधानवंशस्याव्यवच्छेदाय संप्रस्थितः, सर्वत्र्यध्ववंशस्य ज्ञानानुगमाय प्रतिपन्नः, अधिमुक्तिवंशस्य

दृढीकरणायोद्युक्तः, साधिष्ठितो भवति सर्वतथागतमण्डलेन समन्वाहृतः, सर्वबुद्धैः समतानुगतः,

सर्वबोधिसत्त्वैरनुमोदितः, सर्वार्यैरभिनन्दितः, सर्वब्रह्मेन्द्रैः पूजितः, सर्वदेवेन्द्रैरारक्षितः, सर्वयक्षेन्द्रैरपचितः,

सर्वराक्षसेन्द्रैः, प्रत्युद्गतः, सर्वनागेन्द्रैरभिष्टुतः, सर्वकिन्नरेन्द्रैः संवर्णितः, सर्वलोकेन्द्रैरन्वेषितः,

सर्वलोकधातुत्रिविधापायगतिसमुच्छेदाय सर्वाक्षणदुर्गतिपथविनिवर्तनतायै सर्वदारिद्र्यपथसमतिक्रमाय

देवमनुष्यसंपत्प्रतिलाभाय कल्याणमित्रसंदर्शनाविप्रवासाय उदारबुद्धधर्मश्रवाविकाराय बोधिचित्ताशयपरिशोधनाय

बोधिचित्तहेतुसंभवसमुदयाय बोधिसत्त्वमार्गावभासप्रतिलाभाय बोधिसत्त्वज्ञानानुगमाय बोधिसत्त्वभूम्यवस्थानाय।

तस्य मम कुलपुत्र एवं भवति-दुष्करकारका बोधिसत्त्वा दुर्लभदर्शनप्रादुर्भावा आश्वासका लोकस्य। मातापितृभूता

बोधिसत्त्वाः सर्वसत्त्वानाम्। अलंकारभूता बोधिसत्त्वाः सदेवकस्य लोकस्य। प्रतिशरणभूता बोधिसत्त्वा

दुःखार्दितानाम्। लयनभूता बोधिसत्त्वाः सर्वजगदारक्षायै। प्राणभूता बोधिसत्त्वा विविधभयोपद्रवाणाम्।

वातमण्डलीभूता बोधिसत्त्वाः सर्वजगत्त्र्यपायप्रपातसंधारणतया। धरणीभूता बोधिसत्त्वाः

सर्वसत्त्वकुशलमूलविवर्धनतया। सागरभूता बोधिसत्त्वाः अक्षयपुण्यरत्नकोशगर्भतया। आदित्यभूता बोधिसत्त्वाः

ज्ञानालोकावभासकरणतया। सुमेरुभूता बोधिसत्त्वाः कुशलमूलाभ्युद्गततया। चन्द्रभूता बोधिसत्त्वाः

बोधिमण्डज्ञानचन्द्रोदागमनतया। शूरभूता बोधिसत्त्वाः सर्वमारसैन्यप्रमर्दनतया। वीरभूता बोधिसत्त्वाः

स्वयंभूधर्मनगरानुप्राप्तये। तेजोभूता बोधिसत्त्वाः सर्वसत्त्वात्मस्नेहपर्यादानतया। मेघभूता बोधिसत्त्वाः

विपुलधर्ममेघाभिसंप्रवर्षणतया। वृष्टिभूता बोधिसत्त्वाः श्रद्धादिसत्त्वेन्द्रियाङ्कुरविवर्धनतया। दाशभूता बोधिसत्त्वाः

धर्मसागरतीर्थप्रदर्शनतया। सेतुभूता बोधिसत्त्वाः सर्वसत्त्वसंसारसमुद्रसंतारणतया। तीर्थभूता बोधिसत्त्वाः

सर्वसत्त्वाभिगमनतया॥

इति हि मेघो द्रमिडः सुधनस्य श्रेष्ठिदारकस्य पुरत एभिर्वचनपदैर्बोधिसत्त्वान् संवर्ण्य सुधनस्य श्रेष्ठिदारकस्य

साधुकारमदात्। तस्येमां बोधिसत्त्वसंहर्षणीं वाचमुदीरयतो मुखद्वारात्तथारूपोऽर्चिःस्कन्धो निश्चचार, येनार्चिःस्कन्धेन

साहस्रो लोकधातुः स्फुटोऽभूत्। ये च सत्त्वास्तमवभासं संजानन्ति स्म, देवमहर्द्धिका वा देवा वा, नागमहर्द्धिका वा

नागा वा, यक्षमहर्द्धिका वा यक्षा वा, गन्धर्वमहर्द्धिका वा गन्धर्वा वा, असुरमहर्द्धिका वा असुरा वा, गरुडमहर्द्धिका

वा गरुडा वा, किन्नरमहर्द्धिका वा किन्नरा वा, महोरगमहर्द्धिका वा महोरगा वा, मनुष्यमहर्द्धिका वा मनुष्या वा,

अमनुष्यमहर्द्धिका वा अमनुष्या वा, ब्रह्ममहर्द्धिका वा ब्रह्माणो वा, ते तेनावभासेनावभासिताः सन्तो मेघस्य

द्रमिडस्यान्तिकमुपसंक्रामन्तः एतेषां मेघेन द्रमिडेनाधिष्ठिताशयानां कृताञ्जलिपुटानां ह्लादितकायचित्तानाम्

उदारप्रामोद्यजातानां महागौरवस्थितानां निहतमारध्वजानां मायाशाठ्यापगतानां विप्रसन्नेन्द्रियाणां मेघो

द्रमिडस्तमेव चक्राक्षरपरिवर्तव्यूहं धर्मपर्यायं विस्तरेण संप्रकाशयति प्रवेदयति, प्रवेशयति, नयति, अनुगमयति, यं

श्रुत्वा सर्वे तेऽविनिवर्तनीया अभूवन् अनुत्तरायां सम्यक्संबोधौ। स पुनरपि धर्मासने निषद्य सुधनं

श्रेष्ठिदारकमेतदवोचत्-अहं कुलपुत्र सरस्वत्या धारण्यालोकस्य लाभी। सोऽहमेकद्वित्रिसाहस्रमहासाहस्रे लोकधातौ

देवानां देवमन्त्रान् प्रजानामि। एवं नागानां यक्षाणां गन्धर्वाणामसुराणां गरुडानां किन्नराणां महोरगाणां

मनुष्याणाममनुष्याणां ब्रह्मणां ब्रह्मन्त्रान् प्रजानामि। देवानां देवमन्त्रनानात्वम् प्रजानामि। एवं नागानां यक्षाणां

गन्धर्वाणामसुराणां गरुडानां किन्नराणां महोरगाणां मनुष्याणाममनुष्याणां ब्रह्मणां ब्रह्ममन्त्रनानात्वं प्रजानामि।

देवानां देवमन्त्रैकत्वम् प्रजानामि। एवं नागानां यक्षाणां गन्धर्वाणामसुराणां गरुडानां किन्नराणां महोरगाणां

मनुष्याणाममनुष्याणां ब्रह्मणां ब्रह्ममन्त्रैकत्वं प्रजानामि। देवानां देवमन्त्रसंभेदं प्रजानामि। एवं नागानां यक्षाणां

गन्धर्वाणामसुराणां गरुडानां किन्नराणां महोरगाणां मनुष्याणाममनुष्याणां ब्रह्मणां ब्रह्ममन्त्रसंभेदं प्रजानामि।

तिर्यग्योनिगतानाम् सत्त्वानां सर्वव्यवहारमन्त्रसंज्ञाः प्रजानामि। नारकाणां सत्त्वानां मन्त्रसंज्ञाः प्रजानामि।

यामलौकिकानां सत्त्वानाम् मन्त्रसंज्ञाः प्रजानामि। आर्यमन्त्रसंज्ञाः प्रजानामि। अनार्यमन्त्रसंज्ञाः प्रजानामि।

बोधिसत्त्वमन्त्रसत्त्वाशयवाग्निरुक्तीः प्रजानामि। त्र्यध्वप्राप्ततथागतस्वराङ्गघोषसागरान् सर्वसत्त्वानां

कथारुतमन्त्रसंप्रयुक्तानवतराम्यधिमुञ्चामि। चित्तक्षणे चित्तक्षणे यथा चेह त्रिसाहस्रमहासाहस्रलोकधातौ सत्त्वानां

सर्वव्यवहारनिरुक्तिमन्त्रसंज्ञासागरमवतरामि, तथा पूर्वस्यां दिशि लोकधातुकोटीनियुतशतसहस्रेषु अप्रमाणेषु

असंख्येयेषु अचिन्त्येषु अतुल्येषु असमन्तेषु असीमाप्राप्तेषु अनभिलाप्यनभिलाप्येषु, तथा दक्षिणायां

पश्चिमायामुत्तरायामुत्तरपूर्वायां पूर्वदक्षिणायां दक्षिणपश्चिमायां पश्चिमोत्तरायामध ऊर्ध्वायां दिशि

लोकधातुकोटीनियुतशतसहस्रेष्वप्रमाणेषु यावदनभिलाप्यानभिलाप्येषु सत्त्वानां

सर्वव्यवहारनिरुक्तिमन्त्रसंज्ञासागरमवतरामि-यदुत देवानां देवमन्त्रान् प्रजानामि। यावद्ब्रह्मणां ब्रह्ममन्त्रान्

प्रजानामि। एतमहं कुलपुत्र, बोधिसत्त्वानां सरस्वतीधारण्यालोकं प्रजानामि। किं मया शक्यं बोधिसत्त्वानां चर्या

ज्ञातुं गुणान् वा वक्तुम्, ये ते विविधसंज्ञागतसागरानुप्रविष्टाः। ये ते विविधसर्वजगत्संज्ञामन्त्रसागरानुप्रविष्टाः। ये ते

विविधजगन्नामनिर्देशसागरानुप्रविष्टाः। ये ते विविधसर्वजगदभिलाप्यप्रज्ञाप्तिव्यवहारसागरानुप्रविष्टाः। ये ते

सर्वपदानुसंधिसागरानुप्रविष्टाः। ये ते पदपरमसागरानुप्रविष्टाः। ये ते

सर्वत्र्यध्वारम्बणैकारम्बणव्यवहारसमुद्रानुप्रविष्टाः। ये ते पदोत्तरनिर्देशसागरानुप्रविष्टाः। ये ते

द्विपदोत्तरनिर्देशसागरानुप्रविष्टाः। ये ते पदप्रभेदनिर्देशसागरानुप्रविष्टाः। ये ते

सर्वधर्मपदप्रभेदविनयनिर्देशसागरानुप्रविष्टाः। ये ते सर्वजगन्मन्त्रसागरानुप्रविष्टाः। ये ते

सर्वस्वरमण्डलविशुद्धिव्यूहावक्रान्ताः। ये ते चक्राक्षरकोटीगतिप्रभेदनिर्याताः॥

गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे वनवासी नाम जनपदः। तत्र मुक्तको नाम श्रेष्ठी प्रतिवसति। तमुपसंक्रम्य

परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायामभियोक्तव्यम्, कथम् निर्यातव्यम्, कथं चित्तं निध्यातव्यम्।

अथ खलु सुधनः श्रेष्ठिदारको मेघस्य द्रमिडस्य पादौ शिरसाभिवन्द्य धर्मगौरवेण कृत्वा मूलं जातश्रद्धालक्षणं

प्ररूपयमाणः कल्याणमित्रानुगतां सर्वज्ञतां संपश्यन् अश्रुमुखो रुदन् मेघं द्रमिडमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य

पुनः पुनरवलोक्य प्रणिपत्य मेघस्य द्रमिडस्यान्तिकात् प्रक्रान्तः॥५॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project