Digital Sanskrit Buddhist Canon

४ मेघश्रीः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 4 meghaśrīḥ
४ मेघश्रीः।



अथ खलु सुधनः श्रेष्ठिदारकोऽनुपूर्वेण येन रामावरान्तो जनपदस्तेनोपजगाम। उपेत्य रामावरान्ते जनपदे विचरन् पूवकुशलमूलसंभवो दारकर्माधिष्ठानमनोभिरुचितान् भोगान् परिभुञ्जानो येन सुग्रीवः पर्वतस्तेनोपसंक्रम्य सुग्रीवं पर्वतमधिरुह्य मेघश्रियं भिक्षुमनुगवेषमाणः पूर्वां दिशं निर्ययौ। एवं दक्षिणां पश्चिमामुत्तरामुत्तरपूर्वां पूर्वदक्षिणां दक्षिणपश्चिमां पश्चिमोत्तरामपि दिशं निर्ययौ। मेघश्रियं भिक्षुमनुगवेषमाणः ऊर्ध्वतोऽप्यवलोकयति स्म, अधस्तादपि। स सप्ताहस्यात्ययान्मेघश्रियं भिक्षुमपश्यदन्यतमस्मिन् पर्वतशिखरोत्सङ्गे चंक्रम्यमाणम्। स येन मेघश्रीर्भिक्षुस्तेनोपसंक्रम्य मेघश्रियो भिक्षोः पादौ शिरसाभिवन्द्य मेघश्रियं भिक्षुं प्रदक्षिणीकृत्य पुरतः प्राञ्जलिः स्थित्वा एतदवोचत्-यत्खलु आर्यो जानीयात्-मया अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितम्। न च जाने कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्, कथं बोधिसत्त्वचर्या प्रारब्धव्या, कथं बोधिसत्त्वचर्यायां चरितव्यम्, कथं बोधिसत्त्वचर्या परिपुरयितव्या, कथं परिशोधयितव्या, कथमवतर्तव्या, कथमभिनिर्हर्तव्या, कथमनुसर्तव्या, कथमध्यालम्बितव्या, कथं विस्तारयितव्या, कथं बोधिसत्त्वस्य परिपूर्णं भवति समन्तभद्रचर्यामण्डलम्। श्रुतं च मे आर्यो बोधिसत्त्वानामववादानुशासनीं ददातीति। तद्वदतु मे आर्यः कथं बोधिसत्त्वा निर्यान्ति अनुत्तरायां सम्यक्संबोधौ। एवमुक्ते मेघश्रीर्भिक्षुः सुधनं श्रिष्ठिदारकमेतदवोचत्-साधु साधु कुलपुत्र, यस्त्वमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य बोधिसत्त्वचर्यां परिपृच्छसि। दुष्करं हि एतत् कुलपुत्र परमदुष्करं यदुत बोधिसत्त्वचर्यापरिमार्गणं बोधिसत्त्वोगोचरपरिमार्गणं बोधिसत्त्वनिर्याणविशुद्धिपरिमार्गणं बोधिसत्त्वमार्गविशुद्धिपरिमार्गणं बोधिसत्त्वचर्यावैपुल्यविशुद्धिपरिमार्गणं बोधिसत्त्वाभिज्ञानिर्हारविशुद्धिपरिमार्गणं बोधिसत्त्वविमोक्षसंदर्शनं बोधिसत्त्वलोककृपाप्रचारसंदर्शनं बोधिसत्त्वयथाशयजगदनुवर्तनं बोधिसत्त्वसंसारनिर्वाणमुखसंदर्शनं बोधिसत्त्वानां संस्कृतासंस्कृतदोषभयानुपलेपविचारपरिमार्गणम्। अहं कुलपुत्र अधिमुक्तिबलाधिपतेयतया चक्षुर्मतिश्रद्धानयनविशुद्धया अपराङ्मुखज्ञानालोकावभासेन समन्ताभिमुखावलोकनया समन्तविषयाप्रतिहतेन दर्शनेन सर्वावरणविगतेन विपश्यिना कौशल्येन समन्तचक्षुर्विषयपरिशुद्धया शरीरविशुद्ध्या सर्वदिक्स्रोतःप्रसराभिमुखप्रणतेन कयप्रणामकौशल्येन सर्वबुद्धधर्ममेघसंधारनेन च धारणीबलेन सर्वदिक्क्षेत्राभिमुखांस्तथागतान् पश्यामि। यदुत पूर्वस्यां दिशि एकं तथागतं पश्यामि। द्वावपि, दशापि, बुद्धशतमपि, बुद्धसहस्रमपि, बुद्धशतसहस्रमपि, बुद्धकोटीमपि, बुद्धकोटीशतमपि, बुद्धकोटीसहस्रमपि, बुद्धकोटिशतसहस्रमपि, बुद्धकोटीनियुतशतसहस्रमपि, यावदपरिमाणानप्रमेयानसंख्येयानचिन्त्यानतुल्यानसमन्तानसीमाप्राप्तानमाप्याननभिलाप्यानपि तथगतान् पश्यामि। जम्बुद्वीपपरमाणुरजःसमानपि तथागतान् पश्यामि। चातुर्द्वीपकलोकधातुपरमाणुरजःसमानपि, साहस्रद्विसाहस्रत्रिसाहस्रमहासाहस्रबुद्धक्षेत्रपरमाणुरजःसमानपि तथागतान् पश्यामि। दशबुद्धक्षेत्रपरमाणुरजःसमानपि तथागतान् पश्यामि। शतबुद्धक्षेत्रपरमाणुरजःसमानपि, बुद्धक्षेत्रसहस्रपरमाणुरजःसमानपि, बुद्धक्षेत्रशतसहस्रपरमाणुरजःसमानपि, बुद्धक्षेत्रकोटीपरमाणुरजःसमानपि, बुद्धक्षेत्रकोटीशतपरमाणुरजःसमानपि, बुद्धाक्षेत्रकोटीसहस्रपरमाणुरजःसमानपि, बुद्धक्षेत्रकोटीशतसहस्रपरमाणुरजःसमानपि, बुद्धक्षेत्रकोटीनियुतशतसहस्रपरमाणुरजःसमानपि, यावदनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानपि तथागतान् पश्यामि। यथ पूर्वस्यां दिशि, एवं दक्षिणायां पश्चिमायामुत्तरायामुत्तरपूर्वायां पूर्वदक्षिणायां दक्षिणपश्चिमायां पश्चिमोत्तरायामध ऊर्ध्वं दिशि एकमपि तथागतं पश्यामि। यावदनभिलाप्यानभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानपि तथागतान् पश्यामि। एकैकस्यां दिशि अनुविलोकयन् नानावर्णांस्तथागतान् पश्यामि नानासंस्थानान् नानाविकुर्वितान् नानावृषभिताविक्रीडितान् विचित्रपर्षन्मण्डलव्यूहान् अनेकवर्णाननेकवर्णरश्मिजालावभासमुक्तान् विविधबुद्धक्षेत्रविशुद्धिभवनव्यूहान् नानविधायुःप्रमाणविशुद्धान् यथाशयजगद्विज्ञापनान् विविधाभिसंबोधिविशुद्धिमुखविकुर्वितान् बुद्धर्षभसिंहनादविनर्दितांस्तथागतान् पश्यामि। अस्या अहं कुलपुत्र समन्तमुखसर्वारम्बणविज्ञप्तिसमवसरणालोकाया बुद्धानुस्मृतेर्लाभी। किं मया शक्यं बोधिसत्त्वानामनन्तज्ञानमण्डलविशुद्धानां चर्या ज्ञातुम्, गुणान् वा वक्तुम्, ये ते समन्तावभासमण्डलबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वतथागतमण्डलसर्वबुद्धक्षेत्रभवनविशुद्धिव्यूहाभिमुखपश्यनतया। ये ते सर्वजगत्समारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा यथाशयजगद्विज्ञप्तितथागतदर्शनविशुद्ध्या। ये ते दशबलसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा दशतथागतबलाप्रमाणानुसरणतया। ये ते धर्मसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा धर्मश्रवणाकारसर्वतथागतकायमेघावलोकनतया। ये ते दिग्विरोचनगर्भबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वदिक्समुद्रेष्वसंभिन्नबुद्धसमुद्रावतरणतया। ये ते दसदिक्प्रवेशबुद्धानुस्मृतिमुखप्रतिलब्धाः सूक्ष्मावलम्बनसर्वतथागतविकुर्वितवृषभितावतरणतया। ये ते कल्पसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा अवरहितसर्वकल्पतथागतदर्शनविज्ञप्त्या। ये ते कालसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वकालतथागतकालदर्शनसंवासाविजहनतया। ये ते क्षेत्रसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वबुद्धक्षेत्राभ्युद्गतानभिभूतबुद्धकायदर्शनविज्ञप्त्या। ये ते त्र्यध्वसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धास्त्र्यध्वतथागतमण्डलस्वचित्ताशयसमवसरणतया। ये ते आरम्बणसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वारम्बणतथागतपरंपरासमुदागमदर्शनविज्ञप्त्या। ये ते शान्तसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा एकक्षणसर्वलोकधातुषु सर्वतथागतपरिनिर्वाणविज्ञप्त्या। ये ते विगमसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा एकदिवसे सर्वावासेषु सर्वतथागतप्रक्रमणविज्ञप्त्या। ये ते विपुलसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा एकैकतथागतधर्मधातुपर्यङ्कपरिस्फुटबुद्धशरीरविज्ञप्त्या। ये ते सूक्ष्मसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा एकवालपथेन अनभिलाप्यबुद्धोत्पादारागणावतरणतया। ये ते व्यूहसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा एकक्षणे सर्वलोकधातुषु अभिसंबोधिविकुर्वितसंदर्शनविज्ञप्त्या। ये ते कार्य समारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वबुद्धोत्पादधर्मचक्रविकुर्वितज्ञानावभासप्रतिलाभतया। ये ते समारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः स्वचित्ताशयदर्शनसर्वतथागतप्रतिभासप्राप्त्या। ये ते कर्मसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धाः सर्वजगद्यथोपचितकर्मप्रतिबिम्बसंदर्शनतया। ये ते विकुर्वितसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धा अशेषसर्वधर्मधातुनलिनीपद्मपरिस्फुटविपुलबुद्धविकुर्वितदर्शनसमन्तदिगभिमुखविज्ञप्त्या। ये ते गगनसमारोपितबुद्धानुस्मृतिमुखप्रतिलब्धास्तथागतबिम्बमेघरचितधर्मधातुगगनालोकनतया।



गच्छ कुलपुत्र, अयमिहैव दक्षिणापथे सागरमुखो नाम दिक्प्रत्युद्देशः। तत्र सागरमेघो नाम भिक्षुः प्रतिवसति। तमुपसंक्रम्य परिपृच्छ, कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रतिपत्तव्यम्। स ते कुलपुत्र कल्याणमित्रं परिदीपयिष्यति। कुशलमूलसंभारहेतुं समवतारयिष्यति। विपुलां संभारभूमिं संजनयिष्यति। विपुलं कुशलमूलवेगबलं संवर्णयिष्यति। विपुलं बोधिचित्तसंभारहेतुं जनयिष्यति। विपुलं महायानावभासहेतुमुपस्तम्भयिष्यति। विपुलं पारमितासंभारबलं प्रभावयिष्यति। विपुलं चर्यासागरावतारनयं परिशोधयिष्यति। विपुलं प्रणिधानमण्डलं विशोधयिष्यति। विपुलं समन्तमुखनिर्याणव्यूहं संवर्धयिष्यति। विपुलं महाकरुणाबलं प्रवर्धयिष्यति॥



अथ खलु सुधनः श्रेष्ठिदारको मेघश्रियो भिक्षोः पादौ शिरसाभिवन्द्य मेघश्रियं भिक्षुमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य् अवलोक्य च मेघश्रियो भिक्षोरन्तिकात् प्रक्रान्तः॥२॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project