Digital Sanskrit Buddhist Canon

३ मञ्जुश्रीः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

3 mañjuśrīḥ

कल्याणमित्राणि।

३ मञ्जुश्रीः।



अथ खलु मञ्जुश्रीरपि कुमरभूतः प्रतिष्ठानकूटागारगतः सार्धं सभागचरितैर्बोधिसत्त्वैः, नित्यानुबद्धैश्च वज्रपाणिभिः, सर्वलोकबलकरणप्रयुक्ताभिश्च सर्वबुद्धोपस्थानप्रणिधानचित्ताभिः शरीरकायिकाभिर्देवताभिः, पूर्वप्रणिधानानुबद्धाभिश्च पदकायिकाभिर्देवताभिः, धर्मश्रवणाभिमुखाभिश्च पृथिवीदेवताभिः, महाकरुणाप्रयुक्ताभिश्च उत्ससरोह्रदतडागोदधाननदीदेवताभिः, प्रज्ञालोकबलप्रभावभासाभिश्च ज्वलनदेवताभिः, आबद्धमकुटाभिश्च वायुदेवताभिः, सर्वदिगवभासज्ञानाभिश्च दिग्देवताभिः अविद्यान्धकारविधमनप्रयुक्ताभिश्च रात्रिदेवताभिः, तथागतदिवसाभिनिर्हारप्रयुक्ताभिश्च दिवसदेवताभिः, सर्वधर्मधातुगगनप्रतिमण्डलप्रयुक्ताभिश्च गगनदेवताभिः, सर्वजगद्भवसमुद्रसंतारणप्रयुक्ताभिश्च सागरदेवताभिः, सर्वज्ञतासंभारसमार्जनप्रयुक्ताभिश्च कुशलमूलकूटागारभ्युद्गतचित्ताभिः पर्वतदेवताभिः, सर्वजगच्छरीरालंकारप्रयुक्ताभिश्च सर्वबुद्धवर्णाधिष्ठानप्रणिधानप्रयुक्ताभिर्नदीदेवताभिः, सर्वजगच्चित्तनगरपरिपालनप्रयुक्ताभिश्च नगरदेवताभिः, सर्वधर्मनगरप्रणिधानाधिमुक्तैश्च नागेन्द्रैः सार्धं सर्वसत्त्वारक्षाप्रतिपन्नैश्च यक्षेन्द्रैः, सर्वसत्त्वप्रीतिवेगविवर्धनप्रयुक्तैश्च गन्धर्वेन्द्रैः, सर्वप्रेतगतिविनिवर्तनप्रयुक्तैश्च कुम्भाण्डेन्द्रैः, सर्वसत्त्वभवसागराभ्युद्धरणप्रणिधिप्रतिपन्नैश्च गरुडेन्द्रैः, सर्वलोकाभ्युद्गततथागतकायबलपरिनिष्पत्तिप्रणिधानसंजातैश्च असुरेन्द्रैः, तथागतदर्शनप्रीतिलब्धैश्च प्रणतकायैर्महोरगेन्द्रैः, संसारोद्विग्नमानसैश्च उल्लोकितवदनैर्देवन्द्रैः, महागौरवप्रतिलब्धैश्च प्रणतशरीरर्ब्रह्मेन्द्रैः, महागौरवाभिष्टुतमहितम् एवंरूपया बोधिसत्त्वविक्रमव्यूहसंपदा मञ्जुश्रीर्बोधिसत्त्वः स्वकाद्विहारान्निष्क्रम्य भगवन्तमनेकशतकृत्वः प्रदक्षिणीकृत्य अनेकाकारया पूजयित्वा भगवतोऽन्तिकादपक्रम्य येन दक्षिणापथस्तेन जनपदचर्यां प्रक्रान्तः॥



अथ खलु आयुष्मान् शरिपुत्रो बुद्धानुभावेन अद्राक्षीन्मञ्जुश्रियं कुमारभूतमनया ईदृश्या बोधिसत्त्वविकुर्वितव्यूहसंपदा जेतवनान्निष्कम्य येन दक्षिणा दिक् तेनोपसंक्रममाणम्। दृष्ट्वा च अस्यैतदभवत्-यन्न्वहं मञ्जुश्रिया कुमारभूतेन सार्धं जनपदचर्यां प्रक्रमेयम्। स षष्टिमात्रैर्भिक्षुभिः परिवृतः पुरस्कृतः स्वकाद्विहारान्निष्क्रम्य येन भगवांस्तेनोपसंक्रामत्। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तमवलोक्य भगवताभ्यनुज्ञातो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतोऽन्तिकात्प्रक्रम्य येन मञ्जुश्रीः कुमारभूतस्तेनोपजगाम सार्धं तैः षष्टिभिर्भिक्षुभिः परिवृतः पुरस्कृतः, सार्धविहारिभिर्नवकैरचिरप्रव्रजितैः, यदुत सागरबुद्धिना च भिक्षुणा, महासुदतेन च भिक्षुणा, पुण्यप्रभेण च महावत्सेन च विभुदत्तेन च विशुद्धचारिणा च देवश्रिया च इन्द्रमतिना च ब्रह्मोत्तमेन च प्रशान्तमतिना च भिक्षुणा। एवंप्रमुखैः षष्टिभिर्भिक्षुभिः परिवृतः पुरस्कृतः। सर्वे च ते भिक्षवः पूर्वजिनकृताधिकारा अवरोपितकुशलमूला दूरानुगताधिमुक्तयः श्रद्धानयपरिशुद्धा महाचेतनासमुदाचारा बुद्धदिग्विलोकनसमर्था धर्मस्वभावप्रकृतिनिष्पत्तिचेतसः परहितपरिणतबुद्धयस्तथागतगुणाभिलाषिणो मञ्जुश्रीधर्मदेशनावैनयिकाः॥



अथ खलु आयुष्मान् शारिपुत्रो गच्छन्नेव मार्गं सर्वास्तान् भिक्षूनवलोक्य सागरबुद्धिं भिक्षुमामन्त्रयामास-पश्य सागरबुद्धे मञ्जुश्रियो बोधिसत्त्वस्य कायपरिशुद्धिमचिन्त्यां सदेवकेन लोकेन, लक्षणानुव्यञ्जनविचित्रितां प्रभामण्डलपरिशुद्धिं च, अप्रमेयसत्त्वसंजननीरश्मिजालव्यूहं च, अपरिमाणसर्वदुःखप्रशमनं परिवारसंपदं च, पूर्वकुशलमूलसुपरिगृहीतान् मार्गव्यूहांश्च गच्छतोऽष्टापदो मार्गः संतिष्ठते। मार्गविक्रमव्यूहांश्च सर्वदिग्मण्डलाभिमुखान् वर्तमानान् पुण्यसम्यग्व्यूहांश्च वामदक्षिणेन महानिधानान्युद्वेलानि भवन्ति। पूर्वबुद्धोपस्थानकुशलमूलनिष्यन्दैश्च सर्ववृक्षकोशेभ्यो व्यूहा निर्गच्छन्ति। सर्वलोकेन्द्राः पूजामेघानभिप्रवर्षन्तः प्रणमन्ति। दशभ्यो दिग्भ्यः सर्वतथागतोर्णाकोशेभ्यो रश्मिजालमण्डलानि निश्चरित्वा सर्वबुद्धधर्मान्निगर्जमानान् मूर्ध्नि निपतन्ति। एवंप्रमुखानायुष्मान् शारिपुत्रो मञ्जुश्रियः कुमारभूतस्य अपरिमाणान् मार्गक्रमणगुणव्यूहांस्तेषां भिक्षूणां संदर्शयति, भाषते उदीरयति प्रभावयति संवर्णयति विवरति विभजति उत्तानीकरोति। यथा यथा स्वविरः शारिपुत्रो मञ्जुश्रियः कुमारभूतस्य गुणानुदीरयति, तथा तथा तेषां भिक्षूणां चित्तानि विशुद्ध्यन्ति प्रसीदन्ति, प्रीतिवेगा विवर्धन्ते, हर्ष उत्पद्यते, संतानानि चैषां कर्मण्यानि भवन्ति, इन्द्रियाणि प्रसीदन्ति, सौमनस्यं विवर्धते, दौर्मनस्यं प्रहीयते, चित्तमलोऽपगच्छति, सर्वावरणानि विनिवर्तन्ते, बुद्धदर्शनमभिमुखीभवति, बुद्धधर्मेषु चित्तानि परिणमन्ति, बोधिसत्त्वेन्द्रियाणि परिशुद्ध्यन्ते, बोधिसत्त्वप्रसादवेगा उत्पद्यन्ते, महाकरुणा संभवति, पारमितामण्डलमवक्रामति, महाप्रणिधानानि संजायन्ते, दशसु दिक्षु बुद्धसमुद्रा आभासीभवन्ति। ते एवमुदारं सर्वज्ञताप्रसादवेगं प्रतिलब्धा एतदवोचन्-उपनयतु उपाध्यायोऽस्मानेतस्य सत्पुरुषस्य सकाशम्। अथ खलु आयुष्मान् शारिपुत्र त्रैर्भिक्षुभिः सार्धं येन मञ्जुश्रीः कुमारभूतस्तेनोपसंक्रम्य एतदवोचत्-इमे मञ्जुश्रीः भिक्षवः त्वद्दर्शनकामाः। अथ खलु मञ्जुश्रीः कुमारभूतो महता बोधिसत्त्वविकुर्वितेन सार्ध पर्षन्मण्डलप्रमाणेन भूमिमण्डलेन नागावलोकितेन प्रत्युदावृत्य तान् भिक्षूनवलोकयामास। अथ खलु ते भिक्षवो मञ्जुश्रियः कुमारभूतस्य पादौ शिरोभिरभिवन्द्य अञ्जलीन् प्रगृह्य एतदवोचन्-अनेन वयं सत्पुरुष त्वद्दर्शनकुशलमूलेन यदप्यस्माकमन्यत्कुशलमूलं त्वं जानीषे, उपाध्यायश्च, यच्च भगवतः शाक्यमुनेस्तथागतस्य प्रत्यक्षम्, तेन वयं कुशलमूलेन ईदृशा एव भवेम्, यादृशस्त्वम्। एवंरूपं च कायं प्रतिलभेम, एवंरूपं घोषम्, एवंरूपाणि लक्षणानि, ईदृशानि विकुर्वितानि यादृशानि तव॥



एवमुक्ते एभिर्भिक्षुभिः मञ्जुश्रीः कुमारभूतस्तान् भिक्षूनिदमवोचत्-दशभिरपरिखेदचित्तोत्पादैः समन्वागतो भिक्षवो महायानसंप्रस्थितः कुलपुत्रो वा कुलदुहिता वा तथागतभूमिमवक्रामति, प्रागेव बोधिसत्त्वभूमिम्। कतमैर्दशभिः ? यदुत सर्वतथागतदर्शनपर्युपासनपूजोपस्थानेष्वपरिखेदचित्तोत्पादेन, सर्वकुशलमूलोपचयेष्वनिवर्त्यापरिखेदचित्तोत्पादेन, सर्वधर्मपर्येष्टिष्वपरिखेदचित्तोत्पादेन, सर्वबोधिसत्त्वपारमिताप्रयोगेष्वपरिखेदचित्तोत्पादेन, सर्वबोधिसत्त्वसमाधिपरिनिष्पादनेष्वपरिखेदचित्तोत्पादेन, सर्वाध्वपरंपरावतारेष्वपरिखेदचित्तोत्पादेन, दशदिक्सर्वबुद्धक्षेत्रसमुद्रस्फरणपरिशुद्धिषु अपरिखेदचित्तोत्पादेन, सर्वसत्त्वधातुपरिपाकविनयेष्वपरिखेदचित्तोत्पादेन, सर्वक्षेत्रकल्पबोधिसत्त्वचर्यानिर्हारेषु अपरिखेदचित्तोत्पादेन, सर्वबुद्धक्षेत्रपरमाणुरजःसमपारमिताप्रयोगैकसत्त्वपरिपाचनक्रमेण सर्वसत्त्वधातुपरिपाचनेन, एकतथागतबलपरिनिष्पादनेषु अपरिखेदचित्तोत्पादेन। एभिर्भिक्षवो दशभिरपरिखेदचित्तोत्पादैः समन्वागतः श्राद्धः कुलपुत्रः कुलदुहिता वा संवर्तते सर्वकुशलमूलेषु, विवर्तते सर्वसंसारगतिभ्यः, उच्चलति सर्वलोकवंशेभ्यः, अतिक्रामति सर्वश्रावकप्रत्येकबुद्धभूमिभ्यश्च। संभवति सर्वतथागतकुलवंशेषु, संपद्यते बोधिसत्त्वप्रणिधानेषु, विशुध्यते सर्वतथागतगुणप्रतिपत्तिषु, परिशुध्यते सर्वबोधिसत्त्वचर्यासु, समुदागच्छति सर्वतथागतबलेषु, प्रमर्दति सर्वमारपरप्रवादिनः, आक्रामति सर्वबोधिसत्त्वभूमीः, आसन्नीभवति तथागतभूमेः॥



अथ खलु ते भिक्षव इमं धर्मनयं श्रुत्वा सर्वबुद्धविदर्शनासङ्गचक्षुर्विषयं नाम समाधिं प्रत्यलभन्त, यस्यानुभावाद्दशदिगनन्तापर्यन्तलोकधातुस्थितांस्तथागतान् पर्षन्मण्डलानद्राक्षुः। ये च तेषु लोकधातुषु सर्वजगत्युपपन्नाः सत्त्वास्तानशेषानद्राक्षुः। तांश्च लोकधातून् नानाविभक्तितानपश्यन्। यानि च तेषु लोकधातुषु परमाणुरजांसि, तान्यपि गणनायोगेन प्रजानन्ति स्म। ये च तेषां सत्त्वानां नानारत्नमया भवनविमानपरिभोगास्तानपि पश्यन्ति स्म। तेषां च तथागतानां स्वराङ्गसमुद्रानश्रौषुः। तां च धर्मदेशनां नानापदव्यञ्जननिरुक्तिमन्त्रनामसंज्ञाभिराजानन्ति स्म। तेषां च सत्त्वानां चित्तेन्द्रियाशयान् व्यवलोकयन्ति स्म। दश च पूर्वान्तापरान्तजातिपरिवर्ताननुस्मरन्ति स्म। तेषां च तथागतानां दशधर्मचक्रनिरुक्तिनिर्हारानवतरन्ति स्म। दशर्द्धिविकुर्वितविहारान् दशादेशनानयनिर्हारान् दशानुशास्तिपदनिर्हारानवतरन्ति स्म। तेषां च तथागतानां दशप्रतिसंविन्नयाभिनिर्हारानवतरन्ति स्म। सहप्रतिलम्भादस्य समाधेर्दशबोधिचित्ताङ्गसहस्राणि परिनिष्पादयन्ति स्म। दशसमाधिसहस्राण्यवक्रामन्ति स्म। दशपारमिताङ्गसहस्राणि विशोधयन्ति स्म। ते महावभासप्रतिलब्धा महाप्रज्ञामण्डलावभासिता दश बोधिसत्त्वाभिज्ञाः प्रतिलभन्ते स्म। तान् मृदुसूक्ष्माभिज्ञाङ्कुरप्रतिलब्धान् बोधिचित्तोत्पाददृढप्रतिष्ठितान् मञ्जुश्रीः कुमारभूतः समन्तभद्रायां बोधिसत्त्वचर्यायां समादाप्य प्रतिष्ठापयामास। ते समन्तभद्रबोधिसत्त्वचर्याप्रतिष्ठिता महाप्रणिधानसमुद्रानवतीर्य अभिनिर्हरन्ति स्म। ते महाप्रणिधानसागराभिनिर्हृतया चित्तविशुद्ध्या कायविशुद्धिं प्रतिलभन्ते स्म। कायविशुद्ध्या कायलघुतां प्रतिलभन्ते स्म, यया कायविशुद्ध्या कायलघुतया तान्यभिज्ञामुखानि विपुलीकुर्वन्ते, अच्युतागामिनीरभिज्ञाः प्रतिलभन्ते स्म, येनाभिज्ञाप्रतिलाभेन मञ्जुश्रियश्च कुमारभूतस्य पादमूलान्न चलन्ति। दशसु च दिक्षु सर्वतथागतकायमेघानभिनिर्हरन्ति स्म सर्वबुद्धधर्मपरिनिष्पत्तये॥



अथ खलु मञ्जुश्रीः कुमारभूतस्तान् भिक्षूननुत्तरायां सम्यक्संबोधौ प्रतिष्ठाप्य अनुपूर्वेण जनपदचर्यां चरन् येन दक्षिणापथे धन्याकरं नाम महानगरं तेनोपजगाम। उपेत्य धन्याकरस्य महानगरस्य पूर्वेण विचित्रसारध्वजव्यूहं नाम महावनषण्डं पूर्वबुद्धाध्युषितचैत्यं तथागताधिष्ठितं सत्त्वपरिपाकाय अनन्तक्षेत्रानुरवितनामनिर्घोषम्, यत्र भगवता पूर्वं बोधिसत्त्वचर्यां चरता अनेके दुष्करपरित्यागाः परित्यक्ताः, यस्मिन् पृथिवीप्रदेशे सततसमितं देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्याः पूजां प्रत्युत्सुकाः, तत्र वासमुपगतः सार्धं सपरिवारेण। तत्र मञ्जुश्रीः कुमारभूतो धर्मधातुनयप्रभासं नाम सूत्रान्तं प्रकाशयामास दशसूत्रान्तकोटीनियुतशतसहस्रप्रस्रवम्। तस्य संप्रकाशयतो महासमुद्रादनेकानि नागकोटीनियुतशतसहस्राण्युपसंक्रान्तानि। ते तं धर्मनयं श्रुत्वा नागगतिं विजुगुप्सन्तस्तथागतगुणान् स्पृहयन्तो नागगतिं विवर्त्य देवमनुष्योपपत्तिं परिगृह्णन्ति स्म। तत्र दश नागसहस्राण्यवैवर्तिकान्यभूवन्ननुत्तरायाः सम्यक्संबोधेः। तस्य तं धर्मं देशयतः कालान्तरेण अनन्तमध्यसत्त्वधातुर्विनयं गतस्त्रिभिर्यानैः॥



अश्रौषुर्धन्याकरमनुष्याः-मञ्जुश्रीः कुमारभूतः इदं धन्याकरं नगरमनुप्राप्तः, इहैव विचित्रसारध्वजव्यूहे चैत्ये विहरतीति। श्रुत्वा च पुनरुपासकोपासिका दारकदारिका महाप्रज्ञोपासकश्रेष्ठिपूर्वंगमाः प्रत्येकं पञ्चशतपरिवारा धन्याकरान्नगरान्निष्क्रम्य येन मञ्जुश्रीः कुमारभूतस्तेनोपसंक्रान्ताः। तत्र महाप्रज्ञोपासकः सुदत्तेन चोपासकेन सार्धं वसुदत्तेन च पुण्यप्रभेण च यशोदेवेन च सोमश्रित्या च सोमनन्दिना च सुमतिना च महामतिना च राहुलभद्रेण च भद्रश्रिया चोपासकेन सार्धमेतत्प्रमुखैः पञ्चभिरुपासकशतैः परिवृतः पुरस्कृतः येन मञ्जुश्रीः कुमारभूतस्तेनोपसंक्रम्य मञ्जुश्रियः कुमारभूतस्य पादौ शिरसाभिवन्द्य मञ्जुश्रियं कुमारभूतं त्रिः प्रदक्षिणीकृत्य एकान्ते न्यषीदत्॥



तत्र महाप्रज्ञा नामोपासिका सुप्रभया चोपासिकया सार्धं सुगात्रया च सुभद्रया च भद्रश्रिया च चन्द्रप्रभासया च केतुप्रभया च श्रीभद्रया च सुलोचनया चोपासिकया सार्धमेतत्प्रमुखैः पञ्चभिरुपासिकाशतैः परिवृता पुरस्कृता येन मञ्जुश्रीः कुमारभूतस्तेनोपसंक्रम्य मञ्जुश्रियः कुमारभूतस्य पादौ शिरसाभिवन्द्य मञ्जुश्रियं कुमारभूतं त्रिः प्रदक्षिणीकृत्य एकान्ते न्यषीदत्॥



तत्र सुधनः श्रेष्ठिदारकः सुव्रतेन च श्रेष्ठिदारकेण सार्धं सुशीलेन च स्वाचारेण च सुविक्रामीणा च सुचिन्तिना च सुमतिना च सुबुद्धिना च सुनेत्रेण च सुबाहुना च सुप्रभेण च श्रेष्ठिदारकेण सार्धमेतत्प्रमुखैः पञ्चभिः श्रेष्ठिदारकशतैः परिवृतः पुरस्कृतो येन मञ्जुश्रीः कुमारभूतस्तेनोपसंक्रम्य मञ्जुश्रियः कुमारभूतस्य पादौ शिरसाभिवन्द्य मञ्जुश्रियं कुमारभूतं त्रिः प्रदक्षिणीकृत्य एकान्ते न्यषीदत्॥



तत्र सुभद्रा दारिका महाप्रज्ञस्य गृहपतेर्दुहिता भद्रया च दारिकया सार्धमभिरामवर्तया च दृढमत्या च श्रीभद्रया च ब्रह्मदत्तया च श्रीप्रभया च सुप्रभया दारिकया सार्धमेतत्प्रमुखैः पञ्चभिर्दारिकाशतैः परिवृता पुरस्कृता येन मञ्जुश्रीः कुमारभूतस्तेनोपसंक्रम्य मञ्जुश्रियः कुमारभूतस्य पादौ शिरसाभिवन्द्य मञ्जुश्रियं कुमारभूतं त्रिः प्रदक्षिणीकृत्य एकान्ते न्यषीदत्॥



अथ खलु मञ्जुश्रीः कुमारभूतो धन्याकरान्नगरात् ताः स्त्रीपुरुषदारकदारिकाः संनिपतिताः संनिषण्णा विदित्वा यथाशयं संदर्शनाधिपत्येनाभिभूय महामैत्र्याधिपत्येन प्रह्लाद्य महाकरुणाधिपत्येन धर्मदेशनामभिनिर्हृत्य ज्ञानाधिपत्येन चित्ताशयान् प्रविचिन्त्य महाप्रतिसंविदा धर्ममुपदेष्टुकामः सुधनं श्रेष्ठिदारकम्वलोकयामास। (सुधनः खलु पुनः श्रेष्ठिदारकः केन कारणेनोच्यते सुधन इति? सुधनस्य खलु श्रेष्ठिदारकस्य समनन्तरावक्रान्तस्य मातुः कुक्षौ तस्मिन् गृहे सप्त रत्नाङ्कुराः प्रादुर्भूताः समन्ताद्गृहस्य सुविभक्ताः। तेषां च रत्नाङ्कुराणामधः सप्त महानिधानानि, यतस्ते रत्नाङ्कुराः समुत्पत्य धरणितलमभिनिर्भिद्य अभ्युद्गताः सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य लोहितमुक्तेरश्मगर्भस्य मुसारगल्वस्य सप्तमस्य रत्नस्य। स यदा सर्वाङ्गप्रत्यङ्गैः परिपूर्णो दशानां मासानामत्ययाज्जातः, तदा तानि सप्त महानिधानानि सप्तहस्तायामविस्तारोद्वेधप्रमाणानि धरणितलादभ्युद्गम्य विवृत्तानि विरोचन्ति भ्राजन्ते स्म। पञ्च च भाजनशतानि तस्मिन् गृहे प्रादुर्भूतानि नानारत्नमयानि, यदुत सर्पिभाजनानि तैलभाजनानि मधुभाजनानि नवनीतभाजनानि, प्रत्येकं च सर्वोपकरणपरिपूर्णानि। यदुत वज्रभाजनानि सर्वगन्धपरिपूर्णानि सुगन्धभाजनानि, नानावस्त्रपरिपूर्णानि शिलाभाजनानि, नानाभक्ष्यभोज्यरसरसाग्रपरिपूर्णानि मणिभाजनानि, नानारत्नपरिपूर्णानि सुवर्णभाजनानि रूप्यचूर्णपरिपूर्णानि, रूप्यभाजनानि सुवर्णवर्णचूर्णपरिपूर्णानि, सुवर्णरूप्यभाजनानि वैडूर्यमणिरत्नपरिपूर्णानि, स्फटिकभाजनानि मुसारगल्वपरिपूर्णानि, मुसारगल्वभाजनानि स्फटिकरत्नपरिपूर्णानि, अश्मगर्भभाजनानि लोहितमुक्तापरिपूर्णानि, लोहितमुक्ताभाजनानि अश्मगर्भपरिपूर्णानि, ज्योतिर्ध्वजमणीरत्नभाजनानि उदकप्रसादकमणीरत्नपरिपूर्णानि, उदकप्रसादकमणीरत्नभाजनानि ज्योतिर्ध्वजमणिरत्नपरिपूर्णानि। एतत्प्रमुखानि पञ्च रत्नभाजनशतानि सहजातस्य खलु सुधनस्य श्रेष्ठिदारकस्य गृहे सर्वकोशकोष्ठागारेषु धनधान्यहिरण्यसुवर्णविविधरत्नवर्षाण्यभिप्रवर्षितानि। तस्य नैमित्तिकैर्ब्राह्मणैर्मातापितृभ्यां ज्ञातिवर्गेण च विपुलसमृद्धिरस्य जातमात्रस्य गृहे प्रादुर्भूतेति सुधनः सुधन इति नामधेयं कृतम्।) सुधनः खलु श्रेष्ठिदारकः पूर्वजिनकृताधिकारोऽवरोपितकुशलमूलः उदाराधिमुक्तिकः कल्याणमित्रानुगताशयोऽनवद्यकायवाङ्मनस्कर्मसमुदाचारो बोधिसत्त्वमार्गपरिशोधनप्रयुक्तः सर्वज्ञताभिमुखो भाजनीभूतो बुद्धधर्माणामाशयगमनपरिशुद्धोऽसङ्गबोधिचित्तपरिनिष्पन्नः॥



अथ खलु मञ्जुश्रीः कुमारभूतः सुधनं श्रेष्ठिदारकमवलोक्य प्रतिसंमोदते स्म, धर्मं चास्य देशयामास-यदुत सर्वबुद्धधर्मानारभ्य सर्वबुद्धधर्मसमुदयावाप्तिमारभ्य सर्वबुद्धानन्ततामारभ्य सर्वबुद्धपरंपरावतारमारभ्य सर्वबुद्धपर्षन्मण्डलविशुद्धिमारभ्य सर्वबुद्धधर्मचक्रनिर्वाणव्यूहमारभ्य सर्वबुद्धरूपकायलक्षणानुव्यञ्जनविशुद्धिमारभ्य सर्वबुद्धधर्मकायपरिनिष्पत्तिमारभ्य सर्वबुद्धसरस्वतिव्यूहमारभ्य सर्वबुद्धप्रभामण्डलव्यूहविशुद्धिमारभ्य सर्वबुद्धसमतामारभ्य धर्मं देशयामास॥



अथ खलु मञ्जुश्रीः कुमारभूतः सुधनं श्रेष्ठिदारकं तं च महाजनकायं धर्मकथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्षयित्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य पूर्वकुशलमूलं संस्मार्य धन्याकरे महानगरे यथाशयानां सत्त्वानां धर्मदेशनाधिष्ठानं प्रतिप्रस्रभ्य प्रक्रान्तः॥



अथ खलु सुधनः श्रेष्ठिदारको मञ्जुश्रियः कुमारभूतस्य सकाशादिदमेवंरूपं बुद्धगुणमाहात्म्यं श्रुत्वा अनुत्तरसम्यक्संबोध्यभिलाषपरमः पृष्ठतः पृष्ठतोऽनुबद्धो मञ्जुश्रियं कुमारभूतं गाथाभिरभ्यष्टावीत्—



त्वत्प्रभावत अहं महामते

बोधि प्रस्थितु हिताय देहिनाम्।

तत्र निश्चयु अनन्तगोचरो

यो ममा भवति तं शृणोहि मे॥१॥



नन्दितोयपरिखावरोपितं

मानदर्पप्राकार‍उच्छ्रितम्।

सर्वसत्त्वगतिद्वारमापितं

तत्पुरं त्रिभवनात्मकं महत्॥२॥



मोहविद्यतिमिरावगुण्ठितं

रागदोषशिखिना प्रतापितम्।

मार‍ईश्वरवशंगताः सदा

यत्र बाल अबुधा भिनिश्रिताः॥३॥



तृष्णपाशनिगडैः सुदामिता

मायशाठियखिलैः खिलीकृताः।

संशयाविमति‍अन्धलोचना

मिथ्यपृथिवीपथेन प्रस्थिताः॥४॥



ईर्ष्य मात्सर्य सदा सुदामिताः

प्रेततिर्यन्नरकाक्षणे गताः।

जातिव्याधिजरमृत्युपिडिताः

संभ्रमन्ति गतिचक्रमोहिताः॥५॥



तेष त्वं कृपविशुद्धमण्डल

ज्ञानरश्मिकिरणप्रभंकर।

क्लेशसागरक्षयार्थमुद्गत

सूर्यभूत अवभासयाहि मे॥६॥



मैत्रभावनसुपूर्णमण्डला

पुण्यज्योत्स्नकिरणा सुखं दद।

सर्वसत्त्वभवनैरुदागता

पूर्णचन्द्रसदृशा प्रभाससे॥७॥



सर्वशुक्लबलकोशसंभृता

धर्मधातुगगनेन सज्जसे।

धर्मचक्ररतनं पुरोजवा

राजभूत अनुशासयाहि मे॥८॥



बोधियानप्रणिधीपराक्रमा

पुण्यज्ञानविपुला समार्जिता।

सर्वसत्त्वहितयाभिप्रस्थिता

सार्थवाह परिपालयाहि मे॥९॥



क्षान्तिसारदृढवर्मवर्मिता

ज्ञानखङ्गकरुणायताभुजा।

मारमण्डलरणस्मि आमुखे

शूरभूत अभिवाहयाहि मे॥१०॥



धर्ममेरुशिखरे समाश्रिता

अप्सरोवरसमाधिनिर्वृता।

क्लेशराहु‍असुरप्रमर्दना

शक्रभूत अवलोक्याहि मे॥११॥



त्वं पुरे तृभवबालआलये

क्लेशकर्मविनये विनिश्चित।

हेतुभूमिगतिचक्रसंभ्रमे

दीपभूत गति दर्शयाहि मे॥१२॥



दुर्गतीगतपथाद्विवर्तना

सूगतीगतपथाविशोधन।

सर्वलोकगतिवीतिसंक्रमा

मोक्षद्वारमुपनामयाहि मे॥१३॥



नित्यआत्मसुखसंज्ञसंहतं

वितथग्राहपिथनासुपीथितम्।

सत्यज्ञानबलतीक्ष्णचक्षुषा

मोक्षद्वारु विवराहि मे लघु॥१४॥



सत्यवितथपथेषु कोविदा

मार्गज्ञानविधिषू विशारदा।

सर्वमारगविनये विनिश्चिता

बोधिमार्गमुपदर्शयाहि मे॥१५॥



सम्यदृष्टितलभूमिसंस्थिता

सर्वबुद्धगुणतोयवर्धिता।

बुद्धधर्मगुणपुष्पवर्षणा

बोधिमार्गमुपदर्शयाहि मे॥१६॥



यामतीतजिन यामनागता

प्रत्युत्पन्नजिनभास्करांश्च यान्।

सत्त्वसारसुगतान् दिशं गतां-

स्तान् पि दर्शयहि मार्गदेशक॥१७॥



कर्मयन्त्रविधिषू विशारदा

धर्मयानरथयन्त्रकोविदा।

ज्ञानयानविधिषू विनिश्चिता

बोधियानमुपदर्शयाहि मे॥१८॥



प्रार्थनाप्रणिधिचक्रमण्डलं

क्षान्तिवज्रकृप‍अक्षसंस्थितम्।

श्रद्ध‍ईषगुणरत्नचित्रितं

बोधियानमभिरोहयाहि मे॥१९॥



सर्वधारणविशुद्धमण्डलं

मैत्रकूटछदनं स्वलंकृतम्।

घण्टमालप्रतिसंविदं शुभं

अग्रयानमुपसंहराहि मे॥२०॥



ब्रह्मचर्यशयनाभ्यलंकृतं

स्त्रीसमाधिनयुतैः समाकुलम्।

धर्मदुन्दुभिरुताभिनादितं

यानराज्यमुपनामयाहि मे॥२१॥



संग्रहैश्चतुर्भिः कोश अक्षयं

ज्ञानरत्नगुणहारलंकृतम्।

दामह्रीवरवरत्रसंयतं

यानश्रेष्ठमुपदर्शयाहि मे॥२२॥



त्यागरश्मिशुभमण्डलप्रभे

शीलचन्दनकृपानुलेपने।

क्षान्तिशल्यदृढसंधिसंहते

अग्रयानि लघु स्थापयाहि मे॥२३॥



सर्वसत्त्वविनयानिवर्तिये

ध्यानपञ्जरसमाधि‍उच्छ्रिते।

प्रज्ञपायसमयोगवाह ते

धर्मयानि प्रवरे स्थपेहि मे॥२४॥



प्रणिधिचक्रगतिचक्रशोधनं

धर्मधारणिदृढं महातलम्।

ज्ञानयन्त्रसुकृतं सुनिष्ठितं

धर्मयानमभिरोहयाहि मे॥२५॥



तत्समन्तचरिभद्रशोधितं

सत्त्ववेक्षसविलम्बविक्रमम्।

सर्वतः शुभचरीपराक्रमं

ज्ञानयानमुपनामयाहि मे॥२६॥



तदृढं वजिरसारसंस्थितं

ज्ञानमार्यसुकृतं सुनिष्ठितम्।

सर्वआवरणसंप्रछेदनं

भद्रयानमभिरोहयाहि मे॥२७॥



तद्विशालममलं जगत्समं

सर्वसत्त्वशरणं सुखावहम्।

धर्मधातुविपुलं विरोचनं

बोधियानमभिरोहयाहि मे॥२८॥



तत्प्रवृत्तिदुखस्कन्धछेदनं

कर्मक्लेशरजचक्रशोधनम्।

सर्वमारपरवादिमर्दनं

धर्मयानमभिरोहयाहि मे॥२९॥



तत्समन्तदिशज्ञानगोचरं

धर्मधातुगगनं वियूहनम्।

सर्वसत्त्व‍अभिप्रायपूरणं

धर्मयानमभिवाहयाहि मे॥३०॥



तद्विशुद्धगगनामिताक्षयं

दृष्टिविद्यतमदृष्टिनिर्मलम्।

सर्वसत्त्व‍उपकारसंस्थितं

धर्मयानमभिरोहयाहि मे॥३१॥



तन्महानिलवेगवेगितं

प्रणिधिवायुबललोकधारणम्।

सर्वशान्तिपुरभूमिस्थापनं

धर्मयानमभिरोहयाहि मे॥३२॥



तन्महामहितलाचलोपमं

करुणवेगबलभारवाहितम्।

ज्ञानसंपजगतोपजीवितं

अग्रयानमभिरोहयाहि मे॥३३॥



तद्रविं यथ जगोपजीवितं

संग्रहं विपुलरश्मिमण्डलम्।

धारणीवरविशुद्धिसुप्रभं

ज्ञानसूर्यमुपदर्शयाहि मे॥३४॥



तद्ध्यनेकबहुकल्पशिक्षितं

सर्वहेतुनयभूमिकोविद।

ज्ञानवज्र दृढमार्य देहि मे

येन संस्कृतपुरं विदार्यते॥३५॥



यत्र ते विपुलज्ञानसागरे

शिक्षिता अतुलबुद्धिसागराः।

सर्वबुद्धगुणसिक्तसंपदा

साधु तन्मम वदार्य कीदृशम्॥३६॥



यत्र ते समभिरूढचक्षुषा

ज्ञानराजमकुटाभ्यलंकृता।

धर्मपट्टवरबद्धशीर्षया

धर्मराजनगरं विलोकयि॥३७॥



अथ खलु मञ्जुश्रीः कुमारभूतो नागावलोकितेनावलोक्य सुधनं श्रेष्ठिदारकमेतदवोचत्-साधु साधु कुलपुत्र, यस्त्वमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य कल्याणमित्राण्यनुबध्नासि। बोधिसत्त्वचर्यां परिप्रष्टाव्यां मन्यसे बोधिसत्त्वमार्गं परिपूरयितुकामः। एष हि कुलपुत्र आदिः, एष निष्यन्दः सर्वज्ञतापरिनिष्पत्तये, यदुत कल्याणमित्राणां सेवनं भजनं पर्युपासनम्। तस्मात्तर्हि कुलपुत्र अपरिखिन्नेन ते भवितव्यं कल्याणमित्रपर्युपासनतायै। सुधन आह-यदार्य विस्तरेण कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्? कथं प्रतिपत्तव्यम्? कथं बोधिसत्त्वेन बोधिसत्त्वचर्या प्रारभ्या? कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां चरितव्यम्? कथं बोधिसत्त्वेन बोधिसत्त्वचर्यां परिपूरयितव्याः? कथं बोधिसत्त्वेन बोधिसत्त्वचर्या परिशोधयितव्या? कथम् बोधिसत्त्वेन बोधिसत्त्वचर्या अवतर्तव्या? कथं बोधिसत्त्वेन बोधिसत्त्वचर्या अभिनिर्हर्तव्या? कथं बोधिसत्त्वेन बोधिसत्त्वचर्या अनुसर्तव्या? कथं बोधिसत्त्वेन बोधिसत्त्वचर्या अध्यालम्बितव्या? कथं बोधिसत्त्वेन बोधिसत्त्वचर्या विस्तर्तव्या? कथं बोधिसत्त्वस्य परिपूर्णं भवति समन्तभद्रचर्यामण्डलम्? अथ खलु मञ्जुश्रीः कुमारभूतः सुधनं श्रेष्ठिदारकं गाथाभिरभ्यभाषत—



साधु शुभपुण्यसागर यो हि त्वमुपागतो मम सकाशम्।

विपुलकृपकरणमानस पर्येषसे अनुत्तमां बोधिम्॥३८॥



सर्वजगन्मोक्षार्थं विपुलां प्रणिधि सि चारिकामसमाम्।

भेष्यसि जगतस्त्राणं एष नयो बोधिचर्यायाः॥३९॥



ये बोधिसत्त्व सुदृढा अखिन्नमनसः संसारि ते चरिम्।

समन्तभद्रां लभते अपराजितां असङ्गां हि॥४०॥



पुण्यप्रभ पुण्यकेतु पुण्याकर पुण्यसागर विशुद्धिम्।

यस्त्वं समन्तभद्रां प्रणिधि सि सचारिकां जगदर्थम्॥४१॥



अमिताननन्तध्यान् द्रक्ष्यसि बुद्धान् दशद्दिशि लोके।

तेषां च धर्ममेघान् धारयितासि स्मृतिबलेन॥४२॥



स त्वं जिनन् दशद्दिशि पश्यन्नपि येषु बुद्धक्षेत्रेषु।

तेषां प्रणिधानसागर शोधयिष्यसि बोधिचर्यायाम्॥४३॥



ये एत नयसमुद्रानवतीर्ण स्थिहित्व बुद्धभूमिये।

ते भोन्ति सर्वदर्शी शिक्षन्तो लोकनाथानाम्॥४४॥



त्वं सर्वक्षेत्रप्रसरे क्षेत्ररजःसमांश्चरित्व बहुकल्पान्।

चर्यां समन्तभद्रां स्पृशिष्यसि शिवां प्रसर बोधिम्॥४५॥



चरितव्य कल्पसागर अनन्तमध्य अशेषक्षेत्रेसु।

परिपूरितव्य प्रणिधी समन्तवरभद्रचर्यायाम्॥४६॥



प्रेक्षस्व सत्त्वनयुतान् श्रुत्वा तव प्रणिधिप्रीति संजाता।

ये बोधि प्रार्थयन्ते समन्तभद्रेण ज्ञानेन॥४७॥



अथ खलु मञ्जुश्रीः कुमारभूत इमा गाथा भाषित्वा सुधनं श्रेष्ठिदारकमेतदवोचत्-साधु साधु कुलपुत्र, यस्त्वमनुत्तरायै सम्यक्संबोधये चित्तमुत्पाद्य बोधिसत्त्वचर्यां परिगवेषितव्यां मन्यसे। दुर्लभास्ते कुलपुत्र सत्त्वा येऽनुत्तरायै सम्यक्संबोधये चित्तमुत्पादयन्ति। अतस्ते दुर्लभतमाः सत्त्वा येऽनुत्तरायै सम्यक्संबोधये चित्तमुत्पाद्य बोधिसत्त्वचर्यां परिगवेषन्ते। तेन हि कुलपुत्र भूतकल्याणमित्रेषु निश्चयप्राप्तेन बोधिसत्त्वेन भवितव्यं सर्वज्ञज्ञानप्रतिलम्भाय। अपरिखिन्नमानसेन भवितव्यं कल्याणमित्रपर्येष्टिषु। अतृप्तेन भवितव्यं कल्याणमित्रदर्शनेषु। प्रदक्षिणग्राहिणा ते भवितव्यं कल्याणमित्रानुशासनीषु। अप्रतिहतेन भवितव्यं कल्याणमित्रोपायकौशल्यचरितेषु। अस्ति कुलपुत्र इहैव दक्षिणापथे रामावरान्तो नाम जनपदः। तत्र सुग्रीवो नाम पर्वतः। तत्र मेघश्रीर्नाम भिक्षुः प्रतिवसति। तमुपसंक्रम्य परिपृच्छ-कथं बोधिसत्त्वेन बोधिसत्त्वचर्यायां शिक्षितव्यम्, कथं प्रयोक्तव्यम्। कथं बोधिसत्त्वचर्या प्रारभ्या? कथं बोधिसत्त्वचर्यायां चरितव्यम्? कथं बोधिसत्त्वचर्या परिपूरयितव्या? कथं परिशोधयितव्या? कथमवतर्तव्या? कथमभिनिर्हर्तव्या? कथमनुसर्तव्या? कथमध्यालम्बितव्या? कथं विस्तारयितव्या? कथं बोधिसत्त्वस्य परिपूर्णं भवति समन्तभद्रचर्यामण्डलम्? स ते कुलपुत्र कल्याणमित्रः समन्तभद्रचर्यामण्डलमुपदेक्ष्यति॥



अथ खलु सुधनः श्रेष्ठिदारकस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो मञ्जुश्रियः कुमारभूतस्य पादौ शिरसाभिवन्द्य मञ्जुश्रियं कुमारभूतमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य अनेकशतसहस्रकृत्वोऽवलोक्य कल्याणमित्रप्रेमानुगतचित्तः कल्याणमित्रादर्शनमसहमानोऽश्रुमुखो रुदन् मञ्जुश्रियः कुमारभूतस्यान्तिकात्प्रक्रान्तः॥१॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project