Digital Sanskrit Buddhist Canon

१ निदानपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

1 nidānaparivartaḥ

॥ गण्डव्यूहसूत्रम्॥

१ निदानपरिवर्तः।



॥ॐ नमः सर्वबुद्धबोधिसत्त्वेभ्यः॥



एवं मया श्रुतम्। एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्यारामे महाव्यूहे कूटागारे सार्धं पञ्चमात्रैर्बोधिसत्त्वसहस्रैः समन्तभद्रमञ्जुश्रीबोधिसत्त्वपूर्वंगमैः। यदुत ज्ञानोत्तरज्ञानिना च बोधिसत्त्वेन महासत्त्वेन। सत्त्वोत्तरज्ञानिना च। असङ्गोत्तरज्ञानिना च। कुसुमोत्तरज्ञानिना च। सूर्योत्तरज्ञानिना च। चन्द्रोत्तरज्ञानिना च। विमलोत्तरज्ञानिना च। वज्रोत्तरज्ञानिना च। विरजोत्तरज्ञानिना च। वैरोचनोत्तर ज्ञानिना च। बोधिसत्त्वेन महासत्त्वेन॥ ज्योतिर्ध्वजेन च। मेरुध्वजेन च। रत्नध्वजेन च। असङ्गध्वजेन च। कुसुमध्वजेन च। विमलध्वजेन च। सूर्यध्वजेन च। रुचिरध्वजेन च। विरजध्वजेन च। वैरोचनध्वज्रेन च बोधिसत्त्वेन महासत्त्वेन॥ रत्नतेजसा च। महातेजसा च। ज्ञानवज्रतेजसा च। विमलतेजसा च। धर्मसूर्यतेजसा च। पुण्यपर्वततेजसा च। ज्ञानावभासतेजसा च। समन्तश्रीतेजसा च। समन्तप्रभतेजसा च। समन्तप्रभश्रीतेजसा च बोधिसत्त्वेन महासत्त्वेन॥ धारणीगर्भेण च। गगनगर्भेण च। पद्मगर्भेण च। रत्नगर्भेण च। सूर्यगर्भेण च। गुणविशुद्धिगर्भेण च। धर्मसमुद्रगर्भेण च। वैरोचनगर्भेण च। नाभिगर्भेण च। पद्मश्रीगर्भेण च बोधिसत्त्वेन महासत्त्वेन॥ सुनेत्रेण च। विशुद्धनेत्रेण च। विमलनेत्रेण च। असङ्गनेत्रेण च। समन्तदर्शननेत्रेण च। सुविलोकितनेत्रेण च। अवलोकितनेत्रेण च। उत्पलनेत्रेण च। वज्रनेत्रेण च। रत्ननेत्रेण च। गगननेत्रेण च। समन्तनेत्रेण च बोधिसत्त्वेन महासत्त्वेन॥ देवमुकुटेन च। धर्मधातुप्रतिभासमणिमुकुटेन च। बोधिमण्डमुकुटेन च। दिग्वैरोचनमुकुटेन च। सर्वबुद्धसंभूतगर्भमणिमुकुटेन च। सर्वलोकधातूद्गतमुकुटेन च। समन्तवैरोचनमुकुटेन च। अनभिभूतमुकुटेन च। सर्वतथागतसिंहासनसंप्रतिष्ठितमणिमुकुटेन च। समन्तधर्मधातुगगनप्रतिभासमुकुटेन च बोधिसत्त्वेन महासत्त्वेन॥ ब्रह्मेन्द्रचुडेन च। नागेन्द्रचूडेन च। सर्वबुद्धनिर्माणप्रतिभासचूडेन च। बोधिमण्डचूडेन च। सर्वप्रणिधानसागरनिर्घोषमणिराजचूडेन च। सर्वतथागतप्रभामण्डलप्रमुञ्चनमणिरत्ननिगर्जितचूडेन च। सर्वाकाशतलासंभेदविज्ञप्तिमणिरत्नविभूषितचूडेन च। सर्वतथागतविकुर्वितप्रतिभासध्वजमणिराजजालसंछादितचूडेन च। सर्वतथागतधर्मचक्रनिर्घोषचूडेन च। सर्वत्र्यध्वनामचक्रनिर्घोषचूडेन च बोधिसत्त्वेन महासत्त्वेन॥ महाप्रभेण च। विमलप्रभेण च। विमलतेजःप्रभेण च। रत्नप्रभेण च। विरजप्रभेण च। जोतिष्प्रभेण च। धर्मप्रभेण च। शान्तिप्रभेण च। सूर्यप्रभेण च। विकुर्वितप्रभेण च। देवप्रभेण च बोधिसत्त्वेन महासत्त्वेन॥ पुण्यकेतुना च। ज्ञानकेतुना च। धर्मकेतुना च। अभिज्ञाकेतुना च। प्रभाकेतुना। कुसुमकेतुना च। बोधिकेतुना च। ब्रह्मकेतुना च। समन्तावभासकेतुना च। मणिकेतुना च बोधिसत्त्वेन महासत्त्वेन॥ ब्रह्मघोषेण च। सागरघोषेण च। धरणीनिर्नादघोषेण च। लोकेन्द्रघोषेण च। शैलेन्द्रराजसंघट्टनघोषेण च। सर्वधर्मधातुस्फरणघोषेण च। सर्वधर्मधातुसागरनिगर्जितघोषेण च। सर्वमारमण्डलप्रमर्दनघोषेण च। महाकरुणानयमेघनिगर्जितघोषेण च। सर्वजगद्दुःखप्रशान्त्याश्वासनघोषेण च बोधिसत्त्वेन महासत्त्वेन। धर्मोद्गतेन च। विशेषोद्गतेन च। ज्ञानोद्गतेन च। पुण्यसुमेरूद्गतेन च। गुणप्रभावोद्गतेन च। यशोद्गतेन च। समन्तावभासोद्गतेन च। महामैत्र्युद्गतेन च। ज्ञानसंभारोद्गतेन च। तथागतकुलगोत्रोद्गतेन च बोधिसत्त्वेन महासत्त्वेन॥ प्रभाश्रिया च। प्रवरश्रिया च। समुद्गतश्रिया च। वैरोचनश्रिया च। धर्मश्रिया च। चन्द्रश्रिया च। गगनश्रिया च। रत्नश्रिया च। केतुश्रिया च। ज्ञानश्रिया च बोधिसत्त्वेन महासत्त्वेन॥ शैलेन्द्रराजेन च। धर्मेन्द्रराजेन च। जगदिन्द्रराजेन च। ब्रह्मेन्द्रराजेन च। गणेन्द्रराजेन च। देवेन्द्रराजेन च। शान्तेन्द्रराजेन च। अचलेन्द्रराजेन च। ऋषभेन्द्रराजेन च। प्रवरेन्द्रराजेन च बोधिसत्त्वेन महासत्त्वेन॥ प्रशान्तस्वरेण च। असङ्गस्वरेण च। धरणीनिर्घोषस्वरेण च। सागरनिगर्जितस्वरेण च। मेघनिर्घोषस्वरेण च। धर्मावभासस्वरेण च। गगननिर्घोषस्वरेण च। सर्वसत्त्वकुशलमूलनिगर्जितस्वरेण च। पूर्वप्रणिधानसंचोदनस्वरेण च। मारमण्डलनिर्घोषस्वरेण च बोधिसत्त्वेन महासत्त्वेन॥ रत्नबुद्धिना च। ज्ञानबुद्धिना च। गगनबुद्धिना च। असङ्गबुद्धिना च। विमलबुद्धिना च। विशुद्धबुद्धिना च। त्र्यध्वावभासबुद्धिना च। विशालबुद्धिना च। समन्तावलोकबुद्धिना च। धर्मधातुनयावभासबुद्धिना च बोधिसत्त्वेन महासत्त्वेन॥ एवंप्रमुखैः पञ्चमात्रैर्बोधिसत्त्वसहस्रैः सर्वैः समन्तभद्रबोधिसत्त्वचर्याप्रणिधानाभिनिर्यातैरसङ्गगोचरैः सर्वबुद्धक्षेत्रस्फरणतया। अनन्तकायाधिष्ठानैः सर्वतथागतोपसंक्रमणतया। अनावरणचक्षुर्मण्डलविशुद्धैः सर्वबुद्धविकुर्वितदर्शनतया। विज्ञप्तिष्वप्रमाणगतैः सर्वतथागताभिसंबोधिमुखोपसंक्रमणाप्रतिप्रस्रब्धतया। अनन्तालोकैः सर्वबुद्धधर्मसमुद्रनयज्ञानावभासप्रतिलब्धतया। अनन्तकल्पाक्षीणगुणनिर्देशैः प्रतिसंविद्विशुद्ध्या। आकाशधातुपरमज्ञानगोचरविशुद्ध्यनिगृहीतैर्यथाशयजगद्रूपकायसंदर्शनतया। वितिमिरैर्निःसत्त्वनिर्जीवसत्त्वधातुपरिज्ञया। गगनसमप्रज्ञैः सर्वधर्मधातुरश्मिजालस्फरणतया। पञ्चभिश्च श्रावकमहर्द्धिकशतैः सर्वैः सत्यनयस्वभावाभिसंबुद्धैर्भूतकोटिप्रत्यक्षगतैर्धर्मप्रकृत्यवतीर्णैर्भवसमुद्रोच्चलितैस्तथागतगगनगोचरैः संयोजनानुशयवासनाविनिवर्तितैरसङ्गालयनिलयैर्गगनशान्तविहारिभिर्बुद्धकाङ्क्षाविमतिविचिकित्सासमुच्छिन्नैः बुद्धज्ञानसमुद्राधिमुक्तिपथावतीर्णैः॥ लोकेन्द्रैश्च पूर्वजिनकृताधिकारैः सर्वजगद्धितसुखप्रतिपन्नैरनधीष्टकल्याणमित्रैः परसत्त्वरक्षाप्रतिपन्नैः लोकविशेषवर्तिज्ञानसुखवतीर्णैः सर्वसत्त्वापरित्यागचित्तैर्बुद्धशासनगोचरनिर्यातैस्तथागतशासनरक्षाप्रतिपन्नैर्बुद्धवंशसंधारणप्रणिधिनिर्जातैस्तथागतकुलगोत्रसंभवाभिमुखैः सर्वज्ञताज्ञानाभिलाषिभिः॥



अथ खलु तेषां बोधिसत्त्वानां सपरिवाराणां तेषां च श्रावकमहर्द्धिकानां तेषां च लोकेन्द्राणां सपरिवाराणामेतदभवत्-न शक्यं सदेवकेनापि लोकेन तथागतविषयं तथागतज्ञानगोचरं तथागताधिष्ठानं तथागतबलं तथागतवैशारद्यं तथागतसमाधिं तथागतविहारं तथागताधिपत्यं तथागतकायं तथागतज्ञानमवगन्तुं वा अवगाहितुं वा अधिमोक्तुं वा प्रज्ञातुं वा विज्ञातुं वा विचारयितुं वा विभावयितुं वा विभाजितुं वा प्रभावयितुं वा परसत्त्वसंतानेषु वा प्रतिष्ठापयितुम्, अन्यत्र तथागताधिष्ठानेन तथागतविकुर्वितेन तथागतानुभावेन तथागतपूर्वप्राणिधानेन पूर्वबुद्धसुकृतकुशलमूलतया कल्याणमित्रपरिग्रहेण श्रद्धानयनज्ञानपरिशुद्ध्या उदाराधिमुक्त्यवभासप्रतिलम्भेन बोधिसत्त्वाध्याशयपरिशुद्ध्या अध्याशयसर्वज्ञताप्रणिधानप्रस्थानेन। अप्येव नाम भगवानस्माकं यथाशयानां बोधिसत्त्वानां सर्वेषां च सत्त्वानामाशय विमात्रतया अधिमुक्तिनानात्वतया प्रतिबोधनानात्वतया वचनसंकेतनानात्वप्राप्तानां नानाधिपतेयभूमिप्रतिष्ठितानां नानेन्द्रियविशुद्धानां नानाशयप्रयोगानां नानाचेतनाविषयाणां नानातथागतगुणनिश्रितानां नानाधर्मनिर्देशदिगभिमुखानां पूर्वसर्वज्ञताप्रस्थानं च संदर्शयेत्। पूर्वबोधिसत्त्वप्रणिधानाभिनिर्हारं च संदर्शयेत्। पूर्वबोधिसत्त्वपारमितामण्डलविशुद्धिं च संदर्शयेत्। पूर्वबोधिसत्त्वभूम्याक्रमणविकुर्वितं च संदर्शयेत्। पूर्वबोधिसत्त्वचर्यामण्डलाभिनिर्हारपरिपूरिं च संदर्शयेत्। पूर्वबोधिसत्त्वयानाभिनिर्हारव्यूहावभासं च संदर्शयेत्। पूर्वबोधिसत्त्वमार्गव्यूहपरिशुद्धिं च संदर्शयेत्। पूर्वबोधिसत्त्वनिर्याणनयसागराभिनिर्हारव्यूहानपि संदर्शयेत्। पूर्वबोधिसत्त्वसमुदागमविकुर्वितसागरव्यूहानपि संदर्शयेत्। बोधिसत्त्वपूर्वयोगसमुद्रानपि संदर्शयेत्। अभिसंबोधिमुखविकुर्वितसागरानपि संदर्शयेत्। तथागतधर्मचक्रप्रवर्तनविकुर्वितवृषभितामपि संदर्शयेत्। तथागतबुद्धक्षेत्रपरिशुद्धिविकुर्वितसागरानपि संदर्शयेत्। तथागतसत्त्वधातुविनयोपायमुखान्यपि संदर्शयेत्। तथागतसर्वज्ञताधर्मनगराधिपतेयतामपि संदर्शयेत्। तथागतसर्वसत्त्वमार्गावभासानपि संदर्शयेत्। तथागतसत्त्वभवनप्रवेशविकुर्वितान्यपि संदर्शयेत्। तथागतसत्त्वदक्षिणाप्रतिग्रहांश्च संदर्शयेत्। तथागतसर्वसत्त्वपुण्यदक्षिणादेशनाप्रातिहार्याण्यपि संदर्शयेत्। तथागतसर्वसत्त्वचित्तगतिषु बुद्धप्रतिभासविज्ञप्तीरपि संदर्शयेत्। तथागतसत्त्वविकुर्वितप्रातिहार्याण्यपि संदर्शयेत्। तथागतसर्वसत्त्वदेशनानुशासनीप्रातिहार्याण्यपि संदर्शयेत्। तथागतसर्वसत्त्वाचिन्त्यबुद्धसमाधिगोचरविकुर्वितान्यपि संदर्शयेदिति॥



अथ खलु भगवांस्तेषां बोधिसत्त्वानां चेतसैव चेतःपरिवितर्कमाज्ञाय महाकरुणाशरीरं महाकरुणामुखं महाकरुणापूर्वंगमं महाकरुणाधर्मगगनयानुगमं सिंहविजृम्भितं नाम समाधिं समापद्यते स्म जगद्विरोचनव्यूहम्। समनन्तरसमापन्नस्य च भगवतो महाव्यूहः कूटागारोऽनन्तमध्यविपुलः संस्थितोऽभूत्। अपराजितवज्रधरणीतलव्यूहः सर्वमणिरत्न‍राजजालसंस्थितभूमितलमनेकरत्नपुष्पाभिकीर्णो महामणिरत्नसुविकीर्णो वैडूर्यस्तम्भोपशोभितो जगद्विरोचनमणिराजसुविभक्तालंकारः सर्वरत्नयमकसंघातो जाम्बूनदमणिरत्नकूटोपशोभितः सर्वरत्ननिर्यूहतोरणहर्म्यगवाक्षासंख्येयवेदिकाविशुद्धव्यूहः सर्वलोकेन्द्रसदृशमणिरत्नव्यूहो जगत्सागरमणिरत्नव्यूहः सर्वमणिरत्नसंछादितः समुच्छ्रितच्छत्रध्वजपताकः सर्वद्वारतोरणव्यूहमुखैर्धर्मधातुरश्मिजालप्रमुक्तस्फरणव्यूहो बहिरनभिलाप्यपर्षन्मण्डलभूमितलवेदिकाव्यूहः समन्तदिक्सोपानमणिरत्नकूटः परमसुविभक्तोपशोभितः। सर्वं च जेतवनं विपुलायामविस्तारं संस्थितमभूत्। तान्यपि च बुद्धानुभावेन अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानिबुद्धक्षेत्राणि विपुलायामविस्ताराणि संस्थितान्यभूवन्। सर्वरत्नविचित्रव्यूहानि अनभिलाप्यरत्नचित्रसंस्थितभूमितलानि असंख्येयमणिरत्नप्राकारपरिक्षिप्तानि विविधरत्नतालपङ्क्तिव्यूहानि संस्थितान्यभूवन्। तेषु च अपरिमाणगन्धोदकनद्योऽनन्तावर्तगन्धोदकपरिपूर्णाः सर्वरत्नपुष्पौघकलुषाः प्रदक्षिणवाहिन्यः सर्वबुद्धनिर्घोषनिगर्जितव्यूहाः समवतिष्ठन्ते स्म। अचिन्त्याश्च रत्नपुण्डरीकपङ्क्तयः सर्वरत्नोद्गतप्रफुल्लपद्मव्यूहोपशोभिततलाश्च रत्नवृक्षाः, अचिन्त्याश्च विचित्ररत्नकूटागारपङ्क्तयः सर्वमणिरत्नजालसंछन्ना असंख्येयमणिरत्न‍रश्मिजालावभासव्यूहा असंख्येयमणिरत्नविमानसर्वमणिरत्नव्यूहाः सर्वगन्धकोशप्रमुक्ताः सर्वधूपपटलव्यूहाः संस्थिता अभूवन्। अपरिमाणाश्च रत्नध्वजाः, एवम् वस्त्रध्वजाः पताकाध्वजा रत्नपट्टध्वजाः पुष्पध्वजा आभरणध्वजा माल्यध्वजाः सर्वरत्नकिङ्किणीजालध्वजा मणिराजच्छत्रध्वजाः समन्तावभासस्फरणमणिरत्नध्वजाः सर्वतथागतनामचक्रनिर्घोषमणिरत्न‍राजध्वजाः सिंहकान्तमणिरत्न‍राजध्वजाः सर्वतथागतपूर्वयोगनिगर्जनमणिरत्न‍राजध्वजाः सर्वधर्मधातुप्रतिभासध्वजा मणिरत्न‍राजध्वजव्यूहाः सर्वध्वजालंकारसमन्तदिक्सुविभक्तव्यूहाः संतिष्ठन्ते स्म। सर्वावच्च जेतवनमचिन्त्यदिव्यविमानमेघगगनतलालंकारं संस्थितमभूत्। असंख्येयसर्वगन्धवृक्षमेघसंछन्नालंकारम्, अनभिलाप्यसर्वव्यूहसुमेरुसंछन्नालंकारम्, अनभिलाप्यवाद्यतूर्यमेघसर्वतथागतस्तुतिसंगीतिमधुरनिर्घोषालंकारम्, अनभिलाप्यरत्नपद्ममेघसंछन्नालंकारम्, अनभिलाप्यरत्नसिंहासनदिव्यमणिरत्नवस्त्रप्रज्ञप्तबोधिसत्त्वनिषण्णतथागतस्तुतिमेघमधुरनिर्घोषालंकारम्, अनभिलाप्यदेवेन्द्रबिम्बसदृशाभिमुखमणिविग्रहमेघालंकारम्, अनभिलाप्यश्वेतमुक्तिजालमेघालंकारम्, अनभिलाप्यलोहितमुक्ताकूटागारमेघसंछन्नालंकारम्, अनभिलाप्यवज्रसारमुक्तामेघप्रवर्षणालंकारं संस्थितमभूत्। तत्कस्य हेतोः? तथा हि तदचिन्त्यं तथागतकुशलमूलम्, अचिन्त्यस्तथागतशुक्लधर्मोपचयः, अचिन्त्यं तथागतबुद्धवृषभिताधिष्ठानम्, अचिन्त्यं तथागतसर्वलोकधात्वेककायस्फरणविकुर्वितम्, अचिन्त्यं सर्वतथागतैककायप्रवेशसर्वबुद्धक्षेत्रव्यूहसमवसरणाधिष्ठानसंदर्शनम् अचिन्त्यं तथागतानामेकपरमाणुरजसि सर्वधर्मधातुप्रतिभासविज्ञप्तिसंदर्शनम्, अचिन्त्यं तथागतानामेकरोमकूपे पूर्वान्तकोटीगतसर्वतथागतपरंपरासंदर्शन्, अचिन्त्यं तथागतामेकरश्मिमुखसर्वलोकधातुपरमाणुरजःप्रसरावभासनम्, अचिन्त्यं तथागतानामेकरोममुखसर्वलोकधातुपरमाणुरजःसमं निर्मितमेघसर्वबुद्धक्षेत्रस्फरणम्, अचिन्त्यं तथागतानामेकरोममुखसर्वलोकधातुसंवर्तविवर्तकल्पसंदर्शनं च। यथा च जेतवनमेवंरूपया बुद्धक्षेत्रपरिशुद्ध्या परिशुद्धं संस्थितम्, एवं दशसु दिक्षु धर्मधातुपरमाकाशधातुपर्यवसानाः सर्वलोकधातवः परिशुद्धाः संस्थिता अलंकृताः प्रतिमण्डिताः तथागतकायपरिस्फुटा जेतवनसमवसरणा बोधिसत्त्वपरिपूर्णाः तथागतपर्षन्मण्डलसमुद्रसुव्यवस्थिताः सर्वव्यूहमेघभिप्रवर्षणाः, सर्वरत्नप्रभावभासिताः सर्वमणिरत्नमेघप्रवर्षितालंकाराः, सर्वक्षेत्रव्यूहमेघसंछन्नालंकाराः, सर्वदिव्यात्मभावमेघप्रवर्षितालंकाराः सर्वपुष्पमेघप्रवर्षितालंकाराः, सुपुष्पितकोशस्फरणालंकाराः, सर्ववस्त्रमेघनानारङ्गरुचिरचीवरवर्षप्रमुक्तकोशाः, सर्वमाल्यदामहारव्यूहमेघाच्छन्नधाराभिप्रवर्षणालंकाराः सर्वदिक्समुत्थितनानागन्धधूपमेघपटलसर्वजगच्छरीरसदृशसंस्थानप्रवर्षाणालंकाराः सर्वरत्नकुसुमजालमेघाच्छन्नरत्नजालसूक्ष्मचूर्णप्रवर्षणालंकाराः सर्वरत्नध्वजपताकामेघदिव्यकन्यापाणिपरिगृहीतगगनतलावर्तनपरिवर्तनालंकाराः सर्वरत्नपद्मविचित्ररत्नपत्रमण्डलोर्ध्वदण्डाधःकेसरनिबद्धतूर्यसंघट्टितमधुरनिर्घोषालंकाराः सर्वरत्नबिम्बजालसिंहपञ्जरनानारत्नचित्रहारमाल्यालंकाराः संस्थिताः संदृश्यन्ते स्म॥



समनन्तरसमापन्नस्य भगवत एवं सिंहविजृम्भितं तथागतसमाधिम्, अथ तावदेव पूर्वस्यां दिशि अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानां लोकधातुसमुद्राणां परेण कनकमेघप्रदीपध्वजाया लोकधातोर्वैरोचनश्रीतेजोराजस्य तथागतस्य बुद्धक्षेत्राद्वैरोचनप्रणिधाननाभिरश्मिप्रभो नाम बोधिसत्त्वो महासत्त्वः सार्धमनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमैर्बोधिसत्त्वैस्तेन भगवता अनुज्ञातः ततः पर्षन्मण्डलसमुद्रादुच्चलित्वा येन सहालोकधातुस्तेनोपसंक्रान्तो नानाव्यूहमेघैर्गगनतलमलंकुर्वन्। यदुत दिव्यपुष्पमेघवर्षमभिप्रवर्षन्, दिव्यगन्धमेघवर्षं प्रमुञ्चन्, दिव्यरत्नपद्ममेघवर्षमभिप्रकिरन्, दिव्यमाल्यमेघवर्षमवर्सृजन्, दिव्यरत्नमेघवर्षमभिप्रवर्षन्, दिव्याभरणमेघवर्षमभिप्रवर्षन्, दिव्यरत्नच्छत्रमेघानभिनिर्हरन्, विचित्रनानारङ्गसूक्ष्मदिव्यवस्त्रमेघवर्षमभिप्रवर्षन्, दिव्यरत्नध्वजपताकामेघान् गगनतलेऽधितिष्ठन्, रुचिरैः सर्वरत्नमेघव्यूहैर्गगनतलं स्फरन्, येन भगवांस्तेनोपसंक्रम्य सार्धं परिवारेण भगवन्तं नमस्कृत्य पूर्वां दिशमुपनिश्रित्य समन्तव्यूहमणिरत्नजालसंछन्नानि कूटागाराणि दिक्प्रभासमणिराजपद्मगर्भाणि च सिंहासनान्यभिनिर्माय न्यषिदत्पर्यङ्कमाभुज्य चिन्ताराजमणिरत्नजालालंकारसंछन्नानि बोधिसत्त्वशरीराण्यधिष्ठाय॥



दक्षिणायां दिशि अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानां लोकधातुसमुद्राणां परेण वज्रसागरगर्भाया लोकधातोः समन्तावभासश्रीगर्भराजस्य तथागतस्य बुद्धक्षेत्राद् दुर्योधनवीर्यवेगराजो नाम बोधिसत्त्वो महासत्त्वः सार्धमनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमैर्बोधिसत्त्वैः तेन च भगवता अनुज्ञातः ततः पर्षन्मण्डलसमुद्रादुच्चलित्वा येन सहालोकधातुस्तेनोपसंक्रान्तः सर्वगन्धदामजालावनद्धान् सर्वलोकसमुद्रानधितिष्ठन्, सर्वरत्नहारदामजालावनद्धान् सर्वबुद्धक्षेत्रप्रसरानधितिष्ठन्, सर्वपुष्पदामहारजालावनद्धान् सर्वबुद्धक्षेत्रवंशानधितिष्ठन्, सर्वमाल्यदामहारजालावनद्धान् सर्वबुद्धक्षेत्रपरिवर्तानधितिष्ठन्, सर्ववज्रहाराधस्तलप्रतिष्ठानसंगृहीतानि सर्वबुद्धक्षेत्रपर्षन्मण्डलान्यधितिष्ठन्, सर्वमणिरत्नजालावनद्धान् सर्वबुद्धक्षेत्रनयानधितिष्ठन्, सर्ववस्त्रदामसमन्तपरिग्रहपरिगृहीतान् सर्वलोकधातूनधितिष्ठन् सर्वरत्नबिम्बहारदामकलापजालावनद्धानि सर्वबुद्धक्षेत्राण्यभिनिर्हरन्, श्रीरश्मिमणिरत्नहारदामजालावनद्धानि सर्वक्षेत्राण्यधितिष्ठन्, सर्वव्यूहरश्म्यवभासवैरोचनमणिराजदामजालावनद्धानि सर्वबुद्धक्षेत्राण्यधितिष्ठन्, सिंहकान्तमणिरत्नहारदामजालप्रतिष्ठानसंगृहीतान् सर्वलोकधातूनधितिष्ठन् येन भगवास्तेनोपसंक्रम्य सार्धं परिवारेण भगवन्तं नमस्कृत्य दक्षिणां दिशमुपनिश्रित्य जगद्विरोचनमणिकूटागाराणि समन्तदिग्विरोचनमणिरत्नपद्मगर्भाणि च सिंहासनान्यभिनिर्माय न्यषीदत् पर्यङ्कमाभुज्य सर्वरत्नकुसुमजालालंकारसंछन्नानि बोधिसत्त्वशरीराण्यधिष्ठाय॥



पश्चिमायां दिशि अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानां लोकधातुसमुद्राणां परेण मणिसुमेरूविरोचनध्वजप्रदीपाया लोकधातोर्धर्मधातुज्ञानप्रदीपस्य तथागतस्य बुद्धक्षेत्रात्समन्तश्रीसमुद्गतराजो नाम बोधिसत्त्वः सार्धमनभिलाप्यलोकधातुसमुद्रपरमाणुरजःसमैर्बोधिसत्त्वैस्तेन भगवता अनुज्ञातः ततः पर्षन्मण्डलादुच्चलित्वा येन सहालोकधातुस्तेनोपसंक्रान्तोऽनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमैर्नानावर्णगन्धध्वजसुमेरुमेघैः सर्वधर्मधातुं स्फरन्, अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमैर्विविधगन्धकुसुममेघैः सर्वधर्मधातुं स्फरन्, अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमैरनेकवर्णगन्धसुमेरुधूपमेघैः सर्वधर्मधातुं स्फरन्, अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमैर्विचित्रवर्णगन्धमेघैः सर्वधर्मधातुं स्फरन्, अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमैः सर्वपरिष्कारसदृशवर्णैः रोमतेजःसंभवमणिराजसुमेरुमेघैः सर्वधर्मधातुं स्फरन्, अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमैर्नानाप्रभामण्डलव्यूहज्योतिर्ध्वजमणिरत्नसुमेरुमेघैः सर्वधर्मधातुं स्फरन्, अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमैर्नानावर्णवज्रगर्भमणिराजनानाव्यूहविषयसुमेरुमेघैः सर्वधर्मधातुं स्फरन्, अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमैः सर्वलोकधातुप्रतिभासविषयैर्जाम्बूनदमणिरत्नसुमेरुमेघै सर्वधर्मधातुं स्फरन्, अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमैः सर्वपर्वतधर्मधातुप्रतिभासमणिराजसुमेरुमेघैः संछन्नं गगनतलमधितिष्ठन्, अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमैः सर्वतथागतलक्षणप्रतिभासमणिराजसुमेरुमेघैः सर्वधर्मधातुविषयं स्फरन्, अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमैः सर्वतथागतपूर्वयोगप्रतिभाससंदर्शनबोधिसत्त्वचर्यानिर्घोषस्वरमणिराजसुमेरुमेघैः सर्वधर्मधातुगगनं स्फरन्, अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमैः सर्वतथागतबोधिमण्डप्रतिभासमणिराजसुमेरुमेघैर्दश दिशः स्फरन् येन भगवांस्तेनोपसंक्रम्य सार्धं परिवारेण भगवन्तं नमस्कृत्य पश्चिमां दिशमुपनिश्रित्य सर्वगन्धराजशरीरमुक्ताजालसंछादितान् कूटागारान् देवेन्द्रप्रतिभासध्वजमणिरत्नपद्मगर्भाणि च सिंहासनान्यभिनिर्माय न्यषीदत् पर्यङ्कमाभुज्य सुवर्णमणिराजसंछादितानि चिन्ताराजमकुटावबद्धानि बोधिसत्त्वशरीराण्यधिष्ठाय॥



उत्तरायां दिशि अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानां लोकधातुसमुद्राणां परेण रत्नवस्त्रावभासध्वजायां लोकधातौ धर्मधातुगगनश्रीवैरोचनस्य तथागतस्य बुद्धक्षेत्रादसङ्गश्रीराजो नाम बोधिसत्त्वो महासत्त्वः सार्धमनभिलाप्यलोकधातुसमुद्रपरमाणुरजःसमैर्बोधिसत्त्वैस्तेन भगवता अनुज्ञातः ततः पर्षन्मण्डलसमुद्रादुच्चलित्वा येन सहालोकधातुस्तेनोपसंक्रान्तः। सर्वरत्नपट्टमेघालंकारम् गगनतलमधितिष्ठन्, पीतवर्णपीतनिर्भासरत्नवस्त्रमेघालंकारं गगनतलमधितिष्ठन्, नानागन्धपरिवासितमणिवस्त्रमेघप्रवर्षितालंकारं गननतलमधितिष्ठन्, आदित्यध्वजमणिराजवस्त्रमेघालंकारं गगनतलमधितिष्ठन्, कनकश्रीज्वलनमणिरत्नवस्त्रमेघालंकारं गगनतलमधितिष्ठन्, रत्नज्वलनमणिराजवस्त्रमेघालंकारं गगनतलमधितिष्ठन्, सर्वज्योतिःप्रतिबिम्बविचित्रमणिवस्त्रमेघालंकारं गगनतलमधितिष्ठन्, पाण्डुकम्बलशिलावभासमणिरत्नवस्त्रमेघदशदिक्परिस्फुटं गगनतलमधितिष्ठन्, वैरोचनश्रीज्वलनावभासमणिराजवस्त्रमेघदशदिक्परिस्फुटं गगनतलमधितिष्ठन्, अवभासोत्तप्तवद्दिक्कुलवैरोचनमणिराजवस्त्रमेघदशदिक्परिस्फुटं गगनतलमधितिष्ठन्, सागरव्यूहमणिराजवस्त्रमेघसंछन्नं गगनतलमधितिष्ठन् येन् भगवांस्तेनोपसंक्रम्य सार्धं परिवारेण भगवन्तं नमस्कृत्य उत्तरां दिशमुपनिश्रित्य सागरसंभवमणिराजकूटागारवैडूर्यपद्मगर्भसिंहासनानि च अभिनिर्माय न्यषीदत् पर्यङ्कमाभुज्य सिंहक्रान्तमणिराजजालसंछादितानि ज्योतिर्ध्वजमणिचूडावबद्धानि बोधिसत्त्वशरीराण्यधिष्ठाय॥



उत्तरपूर्वस्यां दिशि अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानां लोकधातुसमुद्राणां परेण सर्वमहापृथिवीराजमणिरश्मिजालप्रमुक्ताया लोकधातोरनिलम्भचक्षुषस्तथागतस्य बुद्धक्षेत्राद्धर्मधातुसुनिर्मितप्रणिधिचन्द्रो नाम बोधिसत्त्वः सार्धमनभिलाप्यलोकधातुसमुद्रपरमाणुरजःसमैर्बोधिसत्त्वैस्तेन भगवता अनुज्ञातः ततः पर्षन्मण्डलसमुद्रादुच्चलित्वा येन सहालोकधातुस्तेनोपसंक्रान्तः। रत्नकूटागारे मेघसंछन्नान् सर्वलोकधातुप्रसरानधितिष्ठन्, गन्धकूटागारमेघसंछन्नान् सर्वलोकधातुप्रसरानधितिष्ठन्, धूपकूटागारमेघसंछन्नान् सर्वलोकधातुप्रसरानधितिष्ठन्, चन्दनकूटागारमेघसंछन्नान् सर्वलोकधातुप्रसरानधितिष्ठन्, कुसुमकूटागारमेघसंछन्नान् सर्वलोकधातुप्रसरानधितिष्ठन्, मणिकूटागारमेधसंछन्नान् सर्वलोकधातुप्रसरानधितिष्ठन्, वज्रकूटागारमेघसंछन्नान् सर्वलोकधातुप्रसरानधितिष्ठन्, कनककूटागारमेघसंछन्नान् सर्वलोकधातुप्रसरानधितिष्ठन्, वस्त्रकूटागारमेघसंछन्नान् सर्वलोकधातुप्रसरानधितिष्ठन्, पद्मकूटागारमेघसंछन्नान् सर्वलोकधातुप्रसरानधितिष्ठन् येन भगवांस्तेनोपसंक्रम्य सार्धं परिवारेण भगवन्तं नमस्कृत्य उत्तरपूर्वां दिशमुपनिश्रित्य सर्वरत्नधर्मधात्वभिमुखद्वारशिखरमहामणिरत्नकूटागारान् अतुल्यगन्धराजमणिपद्मगर्भसिंहासनानि च अभिनिर्माय न्यसीदत् पर्यङ्कमाभुज्य कुसुमराजजालसंछादितानि विचित्रकोशजालमणिमकुटावबद्धानि बोधिसत्त्वशरीराण्यधिष्ठाय॥



पूर्वदक्षिणायां दिशि अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानां लोकधातुसमुद्राणां परेण गन्धमेघव्यूहध्वजाया लोकधातोर्नागेश्वरराजस्य तथागतस्य बुद्धक्षेत्राद्धर्मार्चिष्मत्तेजोराजो नाम बोधिसत्त्वः सार्धमनभिलाप्यलोकधातुसमुद्रपरमाणुरजःसमैर्बोधिसत्त्वैस्तेन भगवता अनुज्ञातः ततः पर्षन्मण्डलनयसमुद्रादुच्चलित्वा येन सहालोकधातुस्तेनोपसंक्रान्तः। कनकवर्णप्रभामण्डलमेघैः सर्वगगनतलं संछादयन्, अनन्तवर्णरत्नप्रभामण्डलमेघैः सर्वगगनतलं संछादयन्, तथागतोर्णवर्णप्रभामण्डलमेघैः सर्वगगनतलं संछादयन्, विचित्ररत्नवर्णप्रभामण्डलमेघैः सर्वगगनतलं संछादयन्, पद्मगर्भप्रभामण्डलमेघैः सर्वगगनतलं संछादयन्, रत्नद्रुमशाखामण्डलमणिराजवर्णप्रभामण्डलमेघैः सर्वगगनतलं संछादयन्, तथागतोष्णीषवर्णप्रभामण्डलमेघैः सर्वं गगनतलं संछादयन्, जाम्बूनदकनकवर्णप्रभामण्डलमेघैः सर्वगगनतलं संछादयन्, आदित्यवर्णप्रभामण्डलमेघैः सर्वं गगनतलं संछादयन्, चन्द्रज्योतिश्चक्रमण्डलवर्णमेघैः सर्वगगनतलं संछादयन् येन भगवांस्तेनोपसंक्रम्य सार्धं परिवारेण भगवन्तं नमस्कृत्य पुर्वदक्षिणां दिशमुपनिश्रित्य विरजोवैरोचनमणिश्रीकुसुमकूटागारन् सिंहवज्रमणिपद्मगर्भसिंहासनानि च अभिनिर्माय न्यषीदत् पर्यङ्कमाभुज्य रत्नार्चिज्वलनमणिराजसंछादितानि बोधिसत्त्वशरीराण्यधिष्ठाय॥



दक्षिणपश्चिमायां दिशि अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानां लोकधातुसमुद्राणां परेण मणिसूर्यप्रतिभासगर्भाया लोकधातोर्धर्मचन्द्रसमन्तज्ञानावभासराजस्य तथागतस्य बुद्धक्षेत्रात् सर्वमारमण्डलविकिरणज्ञानध्वजो नाम बोधिसत्त्वः सार्धमनभिलाप्यलोकधातुसमुद्रपरमाणुरजःसमैर्बोधिसत्त्वैस्तेन भगवता अनुज्ञातः ततः पर्षन्मण्डलसमुद्रादुच्चलित्वा येन सहालोकधातुस्तेनोपसंक्रान्तः। सर्वरोमविवरेभ्य आकाशधातुविपुलान् कुसुमार्चिमेघान् प्रमुञ्चन्, सर्वरोमविवरेभ्य आकाशधातुविपुलान् सर्ववाद्यार्चिमेघान् प्रमुञ्चन्, सर्वरोमविवरेभ्य अकाशधातुविपुलान् मणिरत्नार्चिमेघान् प्रमुञ्चन्, सर्वरोमकूपेभ्य आकाशधातुविपुलान् नानागन्धधूपधूपितरत्नवस्त्रार्चिमेघान् प्रमुञ्चन्, सर्वरोमविवरेभ्य आकाशधातुविपुलान् नागविकुर्वितविद्युदर्चिमेघान् प्रमुञ्चन्, सर्वरोमविवरेभ्य आकाशधातुविपुलान् वैरोचनमणिरत्नार्चिमेघान् प्रमुञ्चन्, सर्वरोमविवरेभ्य आकाशधातुविपुलान् सुवर्णज्वलनरत्नार्चिमेघान् प्रमुञ्चन्, सर्वरोमविवरेभ्य आकाशधातुविपुलान् श्रीगर्भमणिराजज्वलनार्चिमेघान् प्रमुञ्चन्, सर्वरोमविवरेभ्य आकाशधातुविपुलांस्तथागतस्मृतिसमुद्रसदृशत्र्यध्वतलावभासनयनरत्नार्चिमेघान् प्रमुञ्चन् येन भगवांस्तेनोपसंक्रम्य सार्धं परिवारेण भगवन्तं नमस्कृत्य दक्षिणपश्चिमां दिशमुपनिश्रित्य समन्तदिगभिमुखरश्मिजालबिन्दुसद्धर्मधातुप्रभासमहामणिरत्नकूटागारान् गन्धप्रदीपार्चिमणिपद्मगर्भसिंहासनानि च अभिनिर्माय व्यषीदत् पर्यङ्कमाभुज्य विमलगर्भमणिराजजालसंछादितानि सर्वसत्त्वप्रस्थाननिर्घोषमणिराजमकुटावबद्धनि बोधिसत्त्वशरीराण्यधिष्ठाय॥



पश्चिमोत्तरायां दिशि अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानां लोकधातुसमुद्राणां परेण वैरोचनश्रीप्रणिधिगर्भाया लोकधातोः समन्तवैरोचनश्रीमेरुराजस्य तथागतस्य बुद्धक्षेत्राद्वैरोचनप्रणिधिज्ञानकेतुर्नाम् बोधिसत्त्वः सार्धमनभिलाप्यलोकधातुसमुद्रपरमाणुरजःसमैर्बोधिसत्त्वैस्तेन भगवता अनुज्ञातः ततः पर्षन्मण्डलादुच्चलित्वा येन सहालोकधातुस्तेनोपसंक्रान्तः। सर्वलक्षणानुव्यञ्जनेभ्यः सर्वरोममुखेभ्यः सर्वशरीरात् सर्वत्र्यध्वप्राप्तांस्तथागतकायप्रतिबिम्बमेघान् निश्चारयन्, सर्वलक्षणानुव्यञ्जनेभ्यः सर्वरोममुखेभ्यः सर्वशरीरात् सर्वत्र्यध्वप्राप्तबोधिसत्त्वकायप्रतिबिम्बमेघान् निश्चारयन्, सर्वलक्षणानुव्यञ्जनेभ्यः सर्वरोममुखेभ्यः सर्वशरीरात् सर्वत्र्यध्वप्राप्ततथागतपर्षन्मण्डलकायप्रतिबिम्बमेघान्निश्चारयन्, सर्वलक्षणानुव्यञ्जनेभ्यः सर्वरोममुखेभ्यः सर्वशरीरात् सर्वत्र्यध्वप्राप्तबुद्धनिर्माणचक्रप्रतिबिम्बकायमेघान्निश्चारयन्, सर्वलक्षणानुव्यञ्जनेभ्यः सर्वरोममुखेभ्यः सर्वशरीरात् सर्वत्र्यध्वप्राप्ततथागतपूर्वयोगप्रतिबिम्बकायमेघान्निश्चारयन्, सर्वलक्षणानुव्यञ्जनेभ्यः सर्वरोममुखेभ्यः सर्वशरीरात् सर्वत्र्यध्वप्राप्तश्रावकप्रत्येकबुद्धकायप्रतिबिम्बमेघान्निश्चारयन्, सर्वलक्षणानुव्यञ्जनेभ्यः सर्वरोममुखेभ्यः सर्वशरीरत् सर्वत्र्यध्वप्राप्ततथागतकायबोधिमण्डवृक्षरूपप्रतिबिम्बमेघान्निश्चारयन्, सर्वलक्षणानुव्यञ्जनेभ्यः सर्वरोममुखेभ्यः सर्वशरीरात् सर्वत्र्यध्वप्राप्तबुद्धविकुर्वितप्रतिबिम्बकायमेघान्निश्चारयन्, सर्वलक्षणानुव्यञ्जनेभ्यः सर्वरोममुखेभ्यः सर्वशरीरात् सर्वत्र्यध्वप्राप्तलोकेन्द्रकायप्रतिबिम्बमेघान्निश्चारयन्, सर्वलक्षणानुव्यञ्जनेभ्यः सर्वरोममुखेभ्यः सर्वशरीरात् सर्वत्र्यध्वप्राप्तपरिशुद्धबुद्धक्षेत्रमेघान्निश्चारयन्, क्षणे क्षणे सर्वमाकाशधातुं स्फरन् येन् भगवांस्तेनोपसंक्रम्य सार्धं परिवारेण भगवन्तं नमस्कृत्य पश्चिमोत्तरां दिशमुपनिश्रित्य समन्तदिग्वैरोचनमणिराजगर्भकूटागारान् जगद्विरोचनमणिपद्मगर्भसिंहासनानि च अभिनिर्माय न्यषीदत् पर्यङ्कमाभुज्य अजितप्रभमुक्ताजालसंछान्नानि समन्तावभासप्रभामणिमकुटावबद्धानि बोधिसत्त्वशरीराण्यधिष्ठाय॥



अधोदिशि अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानां लोकधातुसमुद्राणां परेण सर्वतथागतप्रभामण्डलवैरोचनाया लोकधातोरसङ्गज्ञानकेतुध्वजराजस्य तथागतस्य बुद्धक्षेत्रात् सर्वावरणविकिरणज्ञानविक्रामी नाम बोधिसत्त्वः सार्धमनभिलाप्यलोकधातुसमुद्रपरमाणुरजःसमैर्बोधिसत्त्वैस्तेन भगवता अनुज्ञातः ततः पर्षन्मण्डलसमुद्रादभ्युद्गम्य येन सहालोकधातुस्तेनोपसंक्रान्तः। सर्वरोमविवरेभ्यः सर्वजगन्मन्त्रसागरस्वरनिरुक्तिनिर्हारनिर्घोषान्निश्चारयन्, सर्वत्र्यध्वबोधिसत्त्वप्रसूतिनयसागरमेघनिर्घोषान्निगर्जन्, सर्वबोधिसत्त्वप्रणिधानाभिनिर्हारनयसागरनिर्घोषान् प्रमुञ्चन्, सर्वबोधिसत्त्वपारमितापरिशुद्धिपरिपुरिनयसागरमेघनिर्घोषान् प्रमुञ्चन्, सर्वबोधिसत्त्वचर्यामण्डलसर्वक्षेत्रस्फरणनयसागरनिर्घोषान् प्रमुञ्चन्, सर्वबोधिसत्त्वसमुदागमविकुर्वितनयसागरनिर्घोषान् प्रमुञ्चन्, सर्वतथागतबोधिमण्डोपसंक्रमणमारकलिविकिरणबोधिविबुध्यनयविकुर्वणनिर्घोषसागरान् प्रमुञ्चन्, सर्वतथागतधर्मचक्रप्रवर्तनसूत्रान्तनयनामसागरनिर्घोषमेघान्निगर्जन्, सर्वजगद्विनयकालचक्रविनयधर्मनयोपायनिर्घोषान् प्रमुञ्चन्, सर्वज्ञानाधिगमयथाप्रणिधिकुशलमूलविशेषकालोपायधर्मनयसागरनिर्घोषान् प्रमुञ्चन् येन भगवांस्तेनोपसंक्रम्य सार्धं परिवारेण भगवन्तं नमस्कृत्य अधोदिशमुपनिश्रित्य सर्वतथागतविमानप्रतिभासगर्भसर्वरत्नविचित्रकोशकूटागारान् सर्वरत्नविद्धपद्मसंधारितगर्भसिंहासनानि च अभिनिर्माय न्यषीदत् पर्यङ्कमाभुज्य सर्वबोधिमण्डप्रतिभासध्वजमणिमकुटचूडावबद्धानि सर्वक्षेत्रावभासमणिराजजालसंछादितानि बोधिसत्त्वशरीराण्यधिष्ठाय॥



उर्ध्वायां दिशि अनभिलाप्यबुद्धक्षेत्रपरमाणुरजःसमानां लोकधातुसमुद्राणां परेण अक्षयबुद्धवंशनिर्देशाया लोकधातोः समन्तज्ञानमण्डलप्रतिभासनिर्घोषस्य तथागतस्य बुद्धक्षेत्राद्धर्मधातुप्रणिधितलनिर्भेदो नाम बोधिसत्त्वः सार्धमनभिलाप्यलोकधातुसमुद्रपरमाणुरजःसमैर्बोधिसत्त्वैस्तेन भगवता अनुज्ञातः ततः पर्षन्मण्डलसमुद्रादुच्चलित्वा येन सहालोकधातुस्तेनोपसंक्रान्तः। सर्वलक्षणानुव्यञ्जनेभ्यः सर्वरोममुखेभ्यः सर्वकायात् सर्वाङ्गप्रत्यङ्गेभ्यः सर्ववचनपथेभ्यः सर्वचीवरपरिवारेभ्यः सर्वबोधिसत्त्वपरिवारस्य आत्मनो भगवतश्च वैरोचनस्य पूर्वान्तकोटीगतानां च अतीतानागतानां सर्वतथागतानामपरान्तकोटीगतानां च अनागतानां व्याकृताव्याकृतानां सर्वतथागतानां प्रत्युत्पन्नानां च दशसु दिक्षु सर्वक्षेत्रप्रसरप्रतिष्ठितानां सर्वदानपारमिताप्रतिसंयुक्तान् पूर्वयोगसमुद्रान् सर्वप्रतिग्राहकदेयवस्त्रप्रतिबिम्बानि च लक्षणानुव्यञ्जनरोममुखसर्वशरीराङ्गप्रत्यङ्गवचनपथसर्वशरीरपरिवारेषु प्रतिभासप्राप्तानि विज्ञापयन्, सर्वशीलपारमिताप्रतिसंयुक्तानपि पूर्वयोगसमुद्रान् प्रतिभासप्राप्तान् संदर्शयन्, सर्वक्षान्तिपारमितासंप्रयुक्तानां च अङ्गप्रत्यङ्गच्छेदेन निदर्शनसंप्रयुक्तानपि पूर्वयोगसमुद्रान् प्रतिभासप्राप्तान् संदर्शयन्, सर्वबोधिसत्त्ववीर्यवेगविक्रमसंप्रयुक्तानपि पूर्वयोगसमुद्रान् प्रतिभासप्राप्तान् संदर्शयन्, सर्वतथागतध्यानसागरपर्येष्टिनिष्पत्तिसंप्रयुक्तानपि पूर्वयोगसमुद्रान् प्रतिभासप्राप्तान् संदर्शयन्, सर्वतथागतधर्मचक्रगतिपरिनिष्पत्तिधर्मपर्येष्टिसंप्रयुक्तानपि सर्वास्तिपरित्यागमहाव्यवसायशरीरमुखबिम्बविज्ञापनान् पूर्वयोगसमुद्रान् प्रतिभासप्राप्तान् संदर्शयन्, सर्वतथागतदर्शनप्रीतिसर्वबोधिसत्त्वमार्गसर्वजगदभिरोचनसंप्रयुक्तानपि पूर्वयोगसमुद्रान् प्रतिभासप्राप्तान् संदर्शयन्, सर्वबोधिसत्त्वप्रणिधानसागराभिनिर्हारमुखपरिशुद्धिव्यूहसंप्रयुक्तानपि पूर्वयोगसमुद्रान् प्रतिभासप्राप्तान् संदर्शयन्, सर्वबोधिसत्त्वबलपारमितानिष्पत्तिविक्रमविशुद्धिसंप्रयुक्तानपि पूर्वयोगसमुद्रान् प्रतिभासप्राप्तान् संदर्शयन्, विपुलविपुलं धर्मधातुं सर्वविकुर्वितमेघैः स्फरित्वा सर्वबोधिसत्त्वज्ञानमण्डलसंप्रयुक्तानपि पूर्वयोगसमुद्रान् प्रतिभासप्राप्तान् संदर्शयन् येन भगवांस्तेनोपसंक्रम्य सार्धं परिवारेण भगवन्तं नमस्कृत्य ऊर्ध्वां दिशमुपनिश्रित्य सर्ववज्रेन्द्रविचित्रव्यूहकूटागारन् वज्रेन्द्रधारासमन्तभद्रबोधिसत्त्वनीलपद्मगर्भसिंहासनानि च अभिनिर्माय न्यषीदत् पर्यङ्कमाभुज्य सर्वरत्नज्वलनमणिराजजालसंछन्नानि त्र्यध्वतथागतनामनिर्घोषमणिराजहारप्रलम्बचूडामणिरत्नमकुटावबद्धानि बोधिसत्त्वशरीराण्यधिष्ठाय॥



सर्वे च ते बोधिसत्त्वाः सपरिवाराः समन्तभद्रबोधिसत्त्वचर्याप्रणिधाननिर्याताः सर्वतथागतपादमूलमुखोद्दर्शनाय परिशुद्धज्ञानचक्षुषः सर्वतथागतधर्मचक्रसूत्रान्तनयनिर्घोषसमुद्रसुश्रोत्रसमवसरणाः सर्वबोधिसत्त्ववशिताप्रतिलम्भपरमपारमिप्राप्ताः सर्वतथागतोपसंक्रमणक्षणक्षणसंदर्शनविकुर्वितनिर्याताः सर्वलोकधात्वेककायस्फरणविषयाः सर्वतथागतपर्षन्मण्डलाभ्युद्गतविरोचनकायाः एकपरमाणुरजसि सर्वलोकधात्वेकलोकधातुप्रतिभाससमवसरणसंदर्शनविषयाः सर्वजगत्परिपाचनविनयकालागमनप्रवणाः सर्वतथागतधर्मचक्रमेधसर्वरोममुखनिगर्जनविषयाः मायोपमसर्वसत्त्वधातुपरिज्ञाप्रतिलब्धाः प्रतिभासोपमसर्वतथागतावतीर्णाः स्वप्नोपमसर्वभवगत्युपपत्तिज्ञाननिर्याताः प्रतिबिम्बोपमसर्वकर्मविपाकज्ञानविशुद्धाः मरीच्युपमसर्वाभिनिर्वृत्तिज्ञानाभिज्ञाः निर्मितोपमसर्वलोकधातुप्रसरावतीर्णाः दशतथागतबलज्ञानावभासप्रतिलब्धाः वैशारद्यर्षभसिंहनादपराक्रमाः अक्षयप्रतिसंवित्समुद्रावतीर्णाः सर्वजगन्मन्त्रसागरधर्मनिरुक्तिज्ञानप्रतिलब्धाः असङ्गधर्मधातुगगनज्ञानगोचराः सर्वधर्मानावरणज्ञानप्रतिलब्धाः सर्वबोधिसत्त्वाभिज्ञाज्ञानमण्डलविशुद्धाः सर्वमारमण्डलविक्षोभणवीर्याः सर्वत्र्यध्वज्ञानबलप्रतिष्ठानाः अनावरणसर्वज्ञानप्रतिलब्धाः अनालयगगनगोचराः अनायूहसर्वज्ञताभूमिगगनवीर्याः सर्वभवानिलम्भज्ञानगोचराः सर्वधर्मधातुनयसागरज्ञानप्रसरिताः सर्वलोकधात्वसंभेदज्ञानमुखप्रविष्टाः सर्वलोकधात्वन्योन्यसमवसरणविकुर्वितनिर्याताः सर्वलोकधातु कुलोपपत्युपपन्नकायसंदर्शकाः सर्वलोकधातुसूक्ष्मोदारविपुलसंक्षिप्तनानासंस्थानप्रतिविद्धाः सूक्ष्मारम्बणविपुलक्षेत्रसमवसरणज्ञानाधिगताः विपुलालम्बनसूक्ष्मज्ञानानुगताः सर्वबुद्धैकचित्तक्षणविहारप्रतिलब्धाः सर्वतथागतज्ञानशरीराः सर्वदिक्सागरासंमोहज्ञानप्रतिलब्धासर्वदिक्समुद्रैकचित्तक्षणविकुर्वितस्फरणाः। एवंरूपाप्रमाणसमन्वागतैर्बोधिसत्त्वैः सर्वं जेतवनं परिपूर्णमभूत् यदुत् तथागतानामधिष्ठानेन॥



न च ते महाश्रावकाः शारिपुत्रमौद्गल्यायनमहाकाश्यपरेवतसुभूत्यनिरुद्धनन्दिककप्फिणकात्यायनपूर्णमैत्रायणीपुत्रप्रमुखा जेतवने तथागतविकुर्वितमद्राक्षुः। न च तान् बुद्धव्यूहान् बुद्धवृषभितां बुद्धविक्रीडितं बुद्धप्रातिहार्यं बुद्धाधिपतेयतां बुद्धचरितविकुर्वितं बुद्धप्रभावं बुद्धाधिष्ठानं बुद्धक्षेत्रपरिशुद्धिमद्राक्षुः। नापि तमचिन्त्यं बोधिसत्त्वविषयं बोधिसत्त्वसमागमं बोधिसत्त्वसमवसरणं बोधिसत्त्वसंनिपातं बोधिसत्त्वोपसंक्रमणं बोधिसत्त्वविकुर्वितं बोधिसत्त्वप्रातिहार्यं बोधिसत्त्वपर्षन्मण्डलं बोधिसत्त्वदिगवस्थानं बोधिसत्त्वसिंहासनव्यूहं बोधिसत्त्वभवनं बोधिसत्त्वविहारं बोधिसत्त्वसमाधिविक्रीडितं बोधिसत्त्वव्यवलोकित बोधिसत्त्वविजृम्भितं बोधिसत्त्वविक्रमं बोधिसत्त्वतथागतपूजां बोधिसत्त्वव्याकरणं बोधिसत्त्वविपाकं बोधिसत्त्वपराक्रमं बोधिसत्त्वधर्मकायपरिशुद्धिं बोधिसत्त्वज्ञानकायपरिपूरिं बोधिसत्त्वप्रणिधिकायविज्ञप्तिं बोधिसत्त्वरूपकायपरिनिष्पत्तिं बोधिसत्त्वलक्षणसंपत्परिशुद्धिं बोधिसत्त्वानन्तबलप्रभामण्डलव्यूहं बोधिसत्त्वरश्मिजालप्रमुञ्चनं बोधिसत्त्वनिर्मितमेघावसृजनं बोधिसत्त्वदिग्जालस्फरणं बोधिसत्त्वचर्यामण्डलविकुर्वितमद्राक्षुः। तत्कस्य हेतोः? कुशलमूलासभागतया। न हि तैः सर्वबुद्धविकुर्वितदर्शनसंवर्तनीयानि कुशलमूलान्युपचितानि। न च तेषां पूर्वं दशदिग्लोकधातुपर्यापन्नाः सर्वबुद्धक्षेत्रगुणव्यूहपरिशुद्धयः संवर्णिताः। न च तेषां बुद्धैर्भगवद्भिर्नानाबुद्धविकुर्वितानि संवर्णितानि। न च तैः पूर्वं संसारे संसरद्भिरनुत्तरायां संयक्संबोधौ सत्त्वाः पारमितासु समादापिताः। न च तैर्बोधिचित्तोत्पादः परसंतानेषु प्रतिष्ठापितः। न च ते तथागतवंशस्यानुपच्छेदाय प्रतिपन्नाः। न च सर्वसत्त्वसंग्रहाय प्रयुक्ताः। न च तैर्बोधिसत्त्वाः पारमितासु समादापिताः। न च तैः पूर्वं संसारे संसरद्भिः सर्वजगद्विशेषवतीज्ञानभूमिरध्यालम्बिता। न च तैः सर्वज्ञतासंवर्तनीयं कुशलमूलमुपचितम्। न च तैस्तथागतलोकोत्तरकुशलमूलपरिनिष्पन्नाः सर्वबुद्धक्षेत्रपरिशुद्धिविकुर्विताभिज्ञा ज्ञाताः। न च बोधिसत्त्वचक्षुष्पथविज्ञप्तिरसाधारणलोकोत्तरबोध्यालम्बनकुशलमूलमहाबोधिसत्त्वप्रणिधानसंभवाज्ञाताः। न च तथागताधिष्ठाननिर्यातमायागतधर्मता निर्वृत्ताः। स्वप्नोपमबोधिसत्त्वनानासंज्ञाग्रहाधिष्ठाना महाबोधिसत्त्वप्रीतिवेगविवर्धनाः समन्तभद्रबोधिसत्त्वज्ञानचक्षुष्पथविज्ञप्तयोऽसाधारणाः सर्वश्रावकप्रत्येकबुद्धैर्ज्ञाताः। तेन ते महाश्रावकाः अग्रयुगभद्रयुगप्रमुखास्तं तथागतविकुर्वितं न पश्यन्ति, न शृण्वन्ति, न जानन्ति, न बुध्यन्ति, नावतरन्ति, नाधिमुच्यन्ते नाधिगच्छन्ति, न समन्वाहरन्ति, न विलोकयन्ति, न निरीक्षन्ते, न निध्यायन्ति, नोप्निध्यायन्ति। तत्कस्य हेतोः? बुद्धज्ञानगोचरोऽसौ, न श्रावकगोचरः। तेन ते महाश्रावकास्तत्रैव जेतवने स्थितास्तानि बुद्धविकुर्वितानि न पश्यन्ति। न हि तेषां तद्भागाय कुशलमूलमस्ति, न च तेषां तज्ज्ञानचक्षुर्विशुद्धम्, येन तानि बुद्धविकुर्वितानि पश्येयुः। न च समाधिः संविद्यते, येन परीत्तालम्बने विपुलविकुर्विताधिष्ठानान्यवतरेयुः। नाष्टौ विमोक्षाः संविद्यते, न सा ऋद्धिः, न सा वृषभिता, न तद्बलम्, न तदाधिपतेयम्, न तत्स्थानम्, न संज्ञा, न चक्षुर्विक्रमः संविद्यते, येन तत्संजानीयुर्वा पश्येयुर्वा अवतरेयुर्वा अधिगच्छेयुर्वा स्फरेयुर्वा व्यवलोकयेयुर्वा अनुभवेयुर्वा आक्रमेयुर्वा परेषां प्रभावयेयुर्वा देशयेयुर्वा सूचयेयुर्वा संवर्णयेयुर्वा संदर्शयेयुर्वा उपनामयेयुर्वा उपसंहरेयुर्वा, तत्र वा सत्त्वानि समादापयेयुः, निर्योजयेयुः प्रतिष्ठापयेयुः, तस्यां बुद्धविकुर्वितधर्मतायां सत्त्वान्नियोजयेयुः। तत्तेषां ज्ञानं न संविद्यते। तत्कस्य हेतोः? तथा हि ते श्रावकयानेन निर्याताः, श्रावकमार्गेण समुदागताः, श्रावकचर्यामण्डलपरिपूर्णाः श्रवाकफलप्रतिष्ठिताः, सत्यावभासज्ञाननिश्रिताः भूतकोटीप्रतिष्ठिताः। अत्यन्तशान्तनिष्ठां गताः महाकरूणाविरहितचेतसः सर्वलोकनिरपेक्षः आत्मकार्यपरिप्राप्ताः। ते तत्रैव जेतवने संनिपतिताः संनिषण्णाः। भगवतः पुरतो वामदक्षिणपृष्ठतो भगवतोऽभिमुखं संनिषण्णः। न च तानि जेतवने बुद्धविकुर्वितान्यद्राक्षुः। तत्कस्य हेतोः? न हि शक्यमसमार्जितसर्वज्ञताज्ञानैरसमुदानीतसर्वज्ञताज्ञानैः असंप्रस्थितसर्वज्ञताज्ञानैः अप्रणिहितसर्वज्ञताज्ञानैः अनभिनिर्हृतसर्वज्ञताज्ञानैः अपरिभावितसर्वज्ञताज्ञानैः अपरिशोधितसर्वज्ञताज्ञानैः तत्तथागतसमाधिविकुर्वितमवतर्तुं वा प्रतिपत्तुं वा द्रष्टुमधिगन्तुं वा। तत्कस्य हेतोः? अभिजातबोधिसत्त्वचक्षुष्पथविज्ञेयं हि तत्, न श्रावकचक्षुष्पथविज्ञेयम्। तेन ते महाश्रावकास्तत्रैव जेतवने स्थितास्तानि तथागतविकुर्वितानि बुद्धाधिष्ठानानि बुद्धक्षेत्रपरिशुद्धिं बोधिसत्त्वसंनिपातं न पश्यन्ति॥



तद्यथापि नाम गङ्गाया महानद्या उभयतस्तीरे बहूनि प्रेतशतसहस्राणि समागतानि क्षुत्पिपासाप्रपीडितानि नग्नानि निर्वसनानि विदग्धगात्रच्छविवर्णानि वातातपपरिशुष्काणि काकसंघोपद्रुतानि वृकशृगालैर्वित्रास्यमानानि तां गङ्गां महानदीं न पश्यन्ति। केचित्पुनः शुष्कां पश्यन्ति निरुदकां भस्मपरिपूर्णाम्, आवरणीयकर्मावृतत्वात्। एवमेव ते स्थविरा महाश्रावकास्तत्रैव जेतवने स्थिताः तानि तथागतविकुर्वितानि न पश्यन्ति, नावतरन्ति, सर्वज्ञताविपक्षिकाविद्यापटलनेत्रपर्यवनद्धत्वात्, सर्वज्ञताभूमिकुशलमूलापरिगृहीतत्वात्॥



तद्यथापि नाम पुरुषो महत्यह्नि वर्तमाने महतो जनकायस्य मध्ये स्त्यानमिद्धमवक्रामेत्। स सुप्तः स्वप्नान्तरगतस्तत्रैव प्रदेशे देवनगरं पश्येत्। सुदर्शनचक्रनिलयं सर्वं च सुमेरुतलं सवृक्षं सोद्यानमण्डलमप्सरःकोटीनियुतशतसहस्राकीर्णं देवपुत्रकोटीनियुतशतसहस्राध्युषितं विचित्रदिव्यपुष्पाभिकीर्णम्। विविधदिव्यवस्त्रमुक्ताहाररत्नाभरणस्रक्प्रमुक्तकोशांश्च कल्पवृक्षान् पश्येत्। नानाविधदिव्यवाद्यसमीरितमनोज्ञमधुरनिर्घोषांश्च वाद्यवृक्षान् पश्येत्। अनेकविधांश्च रतिक्रीडाव्यूहान् पश्येत्। मधुरांश्च दिव्याप्सरोगणसंगीतिवाद्यशब्दान् शृणुयात्। तत्रस्थं चात्मानं संजानीयात्। सर्वावन्तं च तत्प्रदेशं दिव्यव्यूहविभूषितं पश्येत्। स च सर्वो जनकायो न पश्येत्, न जानीयात्, न विलोकयेत्, तत्रैव प्रदेशे स्थितः सन्। तत्कस्य हेतोः? तस्यैव हि पुरुषस्य स्वप्नान्तरगतस्य तद्दर्शनम्, तत्रैव च प्रदेशे स्थितस्य तस्य महाजनकायस्यादर्शनम्। एवमेव ते बोधिसत्त्वास्ते च लोकेन्द्रा बोध्यभिमुखा विपुलेन बुद्धाधिष्ठानेन स्वकुशलमूलसुसमार्जिततया च सर्वज्ञताप्रणिधानस्वभिनिर्हृततया च सर्वतथागतगुणसुप्रतिपन्नतया च महाव्यूहबोधिसत्त्वमार्गसुप्रतिष्ठिततया च सर्वज्ञताज्ञानसर्वाकारधर्मोद्गतसुपरिनिष्पन्नतया च समन्तभद्रबोधिसत्त्वचर्या विशेषप्रणिधानपरिपूरिविशुद्ध्या च सर्वबोधिसत्त्वभूमिज्ञानमण्डलाक्रमणतया च सर्वबोधिसत्त्वसमाधिविहारविक्रीडनतया च सर्वबोधिसत्त्वज्ञानगोचरासङ्गविचारणतया च तामचिन्त्यां बुद्धवृषभितां बुद्धविक्रीडितं पश्यन्ति, अवतरन्ति, अनुभवन्ति। ते च महाश्रावका अग्रयुगभद्रयुगप्रमुखा न पश्यन्ति न जानन्ति बोधिसत्त्वचक्षुर्विरहितत्वात्॥



तद्यथापि नाम हिमवति पर्वतराजे औषध्याकराकीर्णे मन्त्रविद्यौषधिज्ञानग्रहणसिद्धविद्यः पुरुषः सर्वौषधिविधीन् प्रजानन् औषधिग्रहणकर्म कुर्यात्। तत्रैव च शैलेन्द्राभिरूढाः पशुगवेडकऋक्षमृगलुब्धकास्तदन्ये वा पुनरौषध्यविधिज्ञाः पुरुषास्तमौषधिरसवीर्यविपाकप्रभावोपाययोगं न प्रजानन्ति। एवेमेव ते बोधिसत्त्वास्तथागतज्ञानविषयमवतीर्णा बोधिसत्त्वविकुर्वितविषयननिर्यातास्तं तथागतसमाधिविकुर्वितविषयं प्रजानन्ति, ते च महाश्रावका‍अग्रयुगभद्रयुगप्रमुखास्तत्रैव जेतवने विहरन्तः स्वकार्यसंतुष्टाः परकार्यनिरुत्सुका उपेक्षका दृष्टधर्मसुखविहारेण सुखस्पर्शं विहरन्ति, तं च तथागतसमाधिविषयविकुर्वितविषयं न प्रजानन्ति॥



तद्यथापि नाम इयं महापृथिवी सर्वरत्नाकरसमृद्धा निधिशतसहस्रनिचिता नानाविधानन्तरत्नपरिपूर्णा। तत्र रत्नगोत्रविधिज्ञानकृतविद्यः पुरुषो रन्तपरीक्षस्तत्र पर्यवदातमतिर्विधानतन्त्रज्ञानशिल्पसुशिक्षितो विपुलपुण्यबलोपस्तब्धः ततो यथेष्टं रत्नान्यादाय आत्मानं सम्यक् प्रीणयेत्, मातापितरं सम्यक्परिचरेत्, पुत्रदारं च पोषयेत्। तदन्येषामपि सत्त्वानां वृद्धानामातुराणां दरिद्राणां विनिपतितानामशनवसनविप्रहीणानां संविभागं कुर्यात्। विविधां च अर्थरतिमनुभवेत्। ये तु पुनस्ते रत्नाकरनिधानाविधिज्ञाः सत्त्वाः, अकृतपुण्या अपरिशुद्धरत्नज्ञानचक्षुषस्तेषां रत्नाकरान् रत्ननिधीन्न प्रजानन्ति, तत्रैव च विचरन्ति। न च रत्नानि गृह्णन्ति। न रत्नकार्याणि कुर्वन्ति। एवं ते बोधिसत्त्वा जेतवने तत्र अचिन्त्ये तथागतविषये सुपरिशुद्धज्ञानचक्षुषोऽचिन्त्यतथागतज्ञानविषयावतीर्णास्तानि बुद्धविकुर्वितानि पश्यन्ति। धर्मनयसागरांश्चावतरन्ति। समाधिसमुद्रांश्च निष्पादयन्ति। तथागतपूजोपस्थाने च प्रयुज्यन्ते। सर्वधर्मपरिग्रहाय चोद्युज्यन्ते। सर्वसत्त्वांश्च संगृह्णन्ति चतुर्भिः संग्रहवस्तुभिः। ते च महाश्रावकास्तानि तथागतविकुर्वितानि तं च महान्तं बोधिसत्त्वगणसंनिपातं न पश्यन्ति न जानन्ति॥



तद्यथापि नाम पुरुषो दूष्यवस्त्राबद्धाभ्यां नेत्राभ्यां रत्नद्वीपमनुप्राप्तः स्यात्। स तत्र रत्नद्वीपे चंक्रमेत्, तिष्ठेत्, निषीदेत्, शय्यां वा कल्पयेत्, न च तं रत्नाकरं पश्येत्। न रत्नवृक्षान्, न वस्त्ररत्नानि, न गन्धरत्नानि, न सर्वरत्नानि पश्येत्। नापि तानि रत्नानि परिजानीयाद्विषयतो वा मूल्यतो वा परिभोगतो व। स तानि रत्नानि न परिगृह्णीयात्, न च रत्नकार्यमनुभवेत्। अनावृतचक्षुषः एतत्सर्वं पश्येयुर्विजानीयुः। एवमेव ते बोधिसत्त्वा धर्मरत्नद्वीपमनुप्राप्ता अनुत्तरं तथागतरत्नं सर्वलोकालंकारं संमुखीभूतं जेतवने स्थितमचिन्त्यानि बुद्धविकुर्वितानि संदर्शयमानं पश्यन्ति। ते च महाश्रावकास्तत्रैव भगवतः पादमूले तिष्ठन्ति यापयन्ति, न च तं तथागतसमाधिविषयविकुर्वितप्रातिहार्यं पश्यन्ति, न च तं महान्तं बोधिसत्त्वसंनिपातं महारत्नाकरम्। तत्कस्य हेतोः? तथा हि तेषां सर्वज्ञताविपक्षाविद्यादूष्यावबद्धज्ञानचक्षुषां तदसङ्गबोधिसत्त्वज्ञानचक्षुर्न परिशुद्धम्, न च तैर्धर्मधातुपरंपराप्रवेशोऽनुबुद्धः, येन तदचिन्त्यतथागतसमाधिवृषभिताविकुर्वितप्रातिहार्यं पश्येयुः॥



तद्यथापि नाम अस्ति विरजःप्रभासवती नाम चक्षुःपरिशुद्धिः, या सर्वतमोन्धकारेण सार्धं न संवसति। तां कश्चित्पुरुषः प्रतिलभेत। स विरजःप्रभासवत्या चक्षुःपरिशुद्ध्या समन्वागतस्तमोन्धकारपर्यवनद्धायां रात्र्यामनेकेषां प्राणकोटीनियुतशतसहस्राणां संनिपतीतानां विविधाकल्पेर्यापथानां निमिरान्धकारपर्याकुलनेत्राणां मनुष्याणां मध्येऽनुविचरेत्, अनुचंक्रमेत्, तिष्ठेत्, निषीदेत्, नानेर्यापथान्, वा कल्पयेत्। न च ते मनुष्यास्तं पुरुषं पश्येयुः, न संजानीयुः विविधानीर्यापथान् कल्पयमानम्। स च पुरुषस्तं महान्तं जनकायं पश्येत् नानेर्यापथाकल्पविहारिणं नानादिगभिमुखं नानासंस्थानं नानावर्णं नानाप्रावरणम्। एवेमेव तथागतः सबोधिसत्त्वगणपरिवारो विशुद्धासङ्गज्ञानचक्षुः सर्वलोकं जानाति पश्यति। महाबुद्धसमाधिविकुर्वितप्रातिहार्यं संदर्शयति। न च ते महाश्रावकास्तं तथागतमहाज्ञानसमाधिविकुर्वितप्रातिहार्यं पश्यन्ति, न च तं महाबोधिसत्त्वसंनिपातपरिवारम्॥



तद्यथापि नाम भिक्षुर्महतो जनकायस्य मध्ये पृथिवीकृत्स्नं समाधिं समापद्येत, अप्कृत्स्नं वा, तेजःकृस्त्नं वा, वायुकृत्स्नं वा, नीलकृत्न्रं वा, पीतकृत्स्नं वा, लोहितकृत्स्नं वा, अवदातकृत्स्नं वा, देवकृत्स्नं वा, विविधसत्त्वकार्यकृत्स्नं वा, सर्वरुतरवितकृत्स्नं वा, सर्वालम्बनकृत्स्नं वा समाधिं समापद्येत। न च स महाजनकायस्तमप्स्कन्धं पश्येत्, न च तं ज्वलनालोकं न च तद्विविधकायकृत्स्नम् यावत् तं सर्वालम्बनकृत्स्नं न पश्येत्, अन्यत्र तत्समाधिसमापत्तिविहारप्राप्तेभ्यः। एवमेव तथागतस्य तदचिन्त्यबुद्धसमाधिविषयविकुर्वितं संदर्शयतः ये महाश्रावका न पश्यन्ति, ते च बोधिसत्त्वस्तथागतमार्गप्रतिपन्नास्तं तथागतविषयमवतरन्ति॥



तद्यथापि नाम अञ्जनसिद्धः पुरुषो नेत्रयोरञ्जितमात्रयोः सर्वजनकायेनादृश्यशरीरो भवति। स गच्छन् वा स्थितो वा निषण्णो वा सर्वजनकायं पश्यति। एवेमेव तथागतो लोकोत्तरसर्वजगद्विषयसमतिक्रान्तः सर्वज्ञज्ञानविषयावक्रान्तो बोधिसत्त्वज्ञानचक्षुर्विज्ञेयः। स सर्वजगत् पश्यति। ते च महाश्रावकास्तानि तथागतविकुर्वितानि न पश्यन्ति॥



तद्यथापि नाम पुरुषस्य सहजाता देवता नित्यानुबद्धा। सा तं पुरुषं पश्यति, स च पुरुषस्तां देवतां न पश्यति। एवमेव तथागतः सर्वज्ञज्ञानविषयावस्थितो महान्ति बुद्धविकुर्वितानि संदर्शयति महतो बोधिसत्त्वगणसंनिपातस्य मध्ये। ते च महाश्रावकास्तं तथागतविकुर्वितप्रातिहार्यं तच्च बोधिसत्त्वपर्षन्मण्डलविकुर्वितं न पश्यन्ति न जानन्ति॥



तद्यथापि नाम भिक्षुः सर्वचेतोवशिपरमपारमिताप्राप्तः संज्ञावेदयितनिरोधं समापन्नो न संजानाति न वेदयति, न च षडिन्द्रियेण किंचित्कार्यमनुभवति, न च परिनिर्वृतः सः। सर्वलोकव्यवहारश्च तस्मिन् प्रदेशे प्रवर्तन्ते। न च तान् संजानाति, न वेदयति यदुत तस्या एव समापत्तेरधिष्ठानाधिपत्येन। एवेमेव ते महाश्रावकास्तत्रैव जेतवने विहरन्ति, षडिन्द्रियं चैषामस्ति, न च तं तथागतसमाधिविकुर्वितवृषभिताप्रातिहार्यं पश्यन्ति, नावतरन्ति, न संजानन्ति, न विजानन्ति, न च तं महाबोधिसत्त्वसंनिपातम् बोधिसत्त्वप्रातिहार्यं बोधिसत्त्वविकुर्वितमवतरन्ति, न पश्यन्ति न जानन्ति। तत्कस्य हेतोः? गम्भीरो हि बुद्धविषयो विपुलोऽप्रमेयो दुर्दृशो दुष्प्रतिबोधो दुरवगाहः सर्वलोकसमतिक्रान्तः। अचिन्त्यो बुद्धविषयोऽसंहार्यः सर्वश्रावकप्रत्येकबुद्धैः। तेन ते महाश्रावकास्तत्रैव जेतवने भगवतः पादमूलगतास्तानि बुद्धविकुर्वितानि न पश्यन्ति। तं च महाबोधिसत्त्वसंनिपातम् तच्च जेतवनमचिन्त्यासंख्येयविशुद्धलोकधातुगुणव्यूहसमवसरणं न पश्यन्ति न जानन्ति यथापि तदभाजनीभूतत्वात्॥



अथ खलु वैरोचनप्रणिधानाभिरश्चिमप्रभो बोधिसत्त्वो बुद्धाधिष्ठानेन दश दिशो व्यवलोक्य तस्यां वेलायामिमा गाथा अभाषत—



पश्यध्वं सत्त्वसारस्य बुद्धबोधिरचिन्तिया।

जेतध्वजे निदर्शेति जिनो बुद्धविकुर्वितम्॥ १॥



स्वयंभुवामधिष्ठानमसंख्येयं प्रवर्तते।

यत्र स मुह्यते लोको बुद्धधर्माणजानकः॥ २॥



गम्भीरं धर्मराजानामप्रमेयमचिन्तियम्।

प्रवर्तते प्रातिहार्यं यत्र लोको न गाहते॥ ३॥



अनन्तवर्णाः संबुद्धा लक्षणैः सुविभूषिताः।

अलक्षणा हि ते धर्मा ये संबुद्धैः प्रभाविताः॥ ४॥



विकुर्वितानि दर्शेति जिनो जेताह्वये वने।

अनन्तमध्यगम्भीरान् वाक्पथैश्च सुदुष्करान्॥ ५॥



महात्मनां संनिपातं बोधिसत्त्वा न पश्यति।

अचिन्त्यक्षेत्रकोटिभ्यो जिनं द्रष्टुमुपागताः॥ ६॥



प्रणिधानेन संपन्ना असङ्गाचारगोचराः।

न शक्यं सर्वलोकेन तेषां विज्ञातुमाशयम्॥ ७॥



सर्वप्रत्येकसंबुद्धाः श्रावका ये च सर्वशः।

न प्रजानन्ति ते चर्यां न चैषां चित्तगोचरम्॥ ८॥



बोधिसत्त्वा महाप्रज्ञा दुर्धर्षा अपराजिताः।

शूरध्वजा असंकीर्णा ज्ञानभूमिपरायणाः॥ ९॥



अप्रमेयाः समापन्नास्ते समाधिं महायशाः।

स्फरित्वा धर्मधातुं हि दर्शयन्ति विकुर्वितम्॥ १०॥



अथ खलु दुर्योधनवीर्यवेगराजो बोधिसत्त्वो बुद्धाधिष्ठानेन दश दिशो व्यवलोक्य तस्यां वेलायामिमा गाथा अभाषत—



पुण्यगर्भान् महाप्रज्ञान् बोधिचर्यागतिंगतान्।

क्षेमंकरान् सर्वलोके पश्यध्वं सुगतात्मजान्॥ ११॥



मेधविनोऽनन्तमतीन् सुसमाहितचेतसः।

अनन्तमध्यगम्भीरविपुलज्ञानगोचरान्॥ १२॥



जेताह्वये महारण्ये महाव्यूहोपशोभिते।

बोधिसत्त्वसमाकीर्णे सम्यक्संबुद्धआश्रमे॥ १३॥



अनिकेताप्रतिष्ठानान् पश्यध्वं सागरान् बहून्।

दशभ्यो दिग्भ्य आगत्य निषण्णान् पद्मआसने॥ १४॥



अप्रतिष्ठाननायूहान्निष्प्रपञ्चाननालयान्।

असङ्गचित्तान् विरजान् धर्मधातुपरायणान्॥ १५॥



ज्ञानध्वजान् महावीरान् वज्रचित्तानकम्पियान्।

अनिर्वृतेषु धर्मेषु निर्वाणं दर्शयन्ति ते॥ १६॥



दशदिक्क्षेत्रकोटीभ्योऽसंख्येभ्यः समुपागतान्।

संबुद्धमुपसंक्रान्तान् द्वयसंज्ञाविवर्जितान्॥ १७॥



स्वयंभोः शाक्यसिंहस्य पश्यन्तीदं विकुर्वितम्।

अधिष्ठानेन यस्येमे बोधिसत्त्वाः समागताः॥ १८॥



बुद्धधर्मेष्वसंभेदा धर्मधातुतलेषु च।

व्यवहारमात्रसंभेदपारप्राप्ता जिनात्मजाः॥ १९॥



धर्मधातोरसंभेदकोट्यन्ते मुनयः स्थिताः।

अक्षयैश्च प्रकुर्वन्ति पदैर्धर्मप्रभेदनम्॥ २०॥



अथ खलु समन्तश्रीसमुद्गततेजोराजो बोधिसत्त्वो बुद्धाधिष्ठानेन दश दिशो व्यवलोक्य तस्यां वेलायामिमा गाथा अभाषत—



पश्यध्वं सत्त्वसारस्य विपुलं ज्ञानमण्डलम्।

कालाकालमभिज्ञाय धर्मं देशेति प्राणिनाम्॥ २१॥



नानातीर्थ्यसमाकीर्णपरवादिप्रमर्दनः।

यथाशयानां सत्त्वानां संदर्शेति विकुर्वितम्॥ २२॥



न च प्रदेश संबुद्धो न च बुद्धो दिशानुगः।

अप्रमाणप्रमाणानि नातिक्रान्तो महामुनिः॥ २३॥



दिनसंख्यो यथादित्यः प्रभावयति खे व्रजन्।

एवं ज्ञानविदुः शास्ता त्र्यध्वासङ्गप्रभावितः॥ २४॥



पूर्णमास्यां यथा रात्रौ भासते चन्द्रमण्डलम्।

परिपूर्णं तथा शुक्लधर्मैः पश्यति नायकम्॥ २५॥



अन्तरीक्षे यथैवेह व्रजत्यादित्यमण्डलम्।

वितिष्ठते नैवेह तं तथा बुद्धविकुर्वितम्॥ २६॥



यथापि गगनं दिक्षु सर्वक्षेत्रष्वनिश्रितम्।

एवं लोकप्रदीपस्य ज्ञेयं बुद्धविकुर्वितम्॥ २७॥



यथा हि पृथिवी लोके प्रतिष्ठा सर्वदेहिनाम्।

लोके लोकप्रदीपस्य धर्मचक्रं तथा स्थितम्॥ २८॥



यथापि मारुतोऽसज्जन् क्षिप्रं व्योम्नि प्रवायति।

बुद्धस्य धर्मता तद्वल्लोकधातुषु वर्तते॥ २९॥



अप्स्कन्धे हि यथा सर्वक्षेत्रसंख्याः प्रतिष्ठिताः।

एवं त्र्यध्वगता बुद्धा ज्ञानस्कन्धे प्रतिष्ठिताः॥ ३०॥



अथ खलु असङ्गश्रीगर्भराजो बोधिसत्त्वो बुद्धाधिष्ठानेन दश दिशो व्यवलोक्य तस्यां वेलायामिमा गाथा अभाषत—



यथापि पर्वतः शैल उद्विद्धो वज्रसंभवः।

सर्वलोकपरित्राता बुद्धो लोके तथोद्गतः॥३१॥



यथैव सागरे तोयमप्रमेयमनाविलम्।

बुद्धदर्शनमेवं हि लोकतृष्णां छिनत्ति च॥३२॥



पर्वतो हि यथा मेरुः सागराम्भःसमुद्गतः।

तथैव लोकप्रद्योत उद्गतो धर्मसागरात्॥३३॥



यथैव सागरः पूर्णः सर्वरत्नमहाकरः।

स्वयंभुवस्तथा ज्ञानमक्षयं क्षणबोधनम्॥३४॥



गम्भीरं नायके ज्ञानमसंख्येयमथामितम्।

दर्शयत्यमिताचिन्त्यं येन बुद्धो विकुर्वितम्॥३५॥



मायाकारो यथा विद्वान् मायालक्षणदर्शकः।

एवं ज्ञानवशी बुद्धो विकुर्वितानिदर्शकः॥३६॥



चिन्तामणिर्यथा शुद्धोऽभीप्सितार्थप्रपूरणः।

एवमाशयशुद्धानां जिनः प्रणीधिपूरणः॥३७॥



बैरोचनं यथा रत्नं प्रभासयति भास्करम्।

सर्वज्ञता विशुद्धैवं जगदाशयभासनी॥३८॥



तथैव दिग्मुखं रत्नमष्टाङ्गं सुप्रतिष्ठितम्।

तथाप्यसङ्गप्रद्योतो धर्मधात्ववभासनः॥३९॥



दकप्रभासं शुद्धाभं आविलाम्बुप्रसादनम्।

बुद्धस्य दर्शनं तद्वज्जगदिन्द्रियशोधनम्॥४०॥



अथ खलु धर्मधातुप्रणिधिसुनिर्मितचन्द्रराजो बोधिसत्त्वो बुद्धधिष्ठानेन दश दिशो व्यवलोक्य तस्यां वेलायामिमा गाथा अभाषत—



यथापीहेन्द्रनीलेन एकवर्णा दिशः कृताः।

बोधिवर्णः प्रजामेवं कुरुते बुद्धदर्शनम्॥४१॥



एकैकस्मिन्नसौ बुद्धो नानाविधविकुर्वितम्।

विदर्शयत्यप्रमेयं बोधिसत्त्वविशोधनम्॥४२॥



तच्चातिचित्रगम्भीरमपर्यन्तं दुरासदम्।

यस्मिन्न गाहते लोको धीमतां ज्ञानगोचरे॥४३॥



व्यूहानपि च संपन्नान् बुद्धकारविशोधितान्।

निष्पत्तेर्बोधिसत्त्वानां धर्मधातुप्रवेशनात्॥४४॥



बुद्धक्षेत्राण्यचिन्त्यानि यत्र दर्शयते जिनः।

धीमतां परिवृतैर्बुद्धैराकीर्णानि समन्ततः॥४५॥



सर्वधर्मवशी शास्ता उत्पन्नः शाक्यपुंगवः।

प्रातिहार्यं हि यस्येदमप्रमेयं प्रवर्तते॥४६॥



नानात्वचर्यां धीराणामप्रमेयां विपश्यथ।

विकुर्वितान्यनन्तानि दर्शयत्यमितद्युतिः॥४७॥



धर्मधातौ शिक्षयति लोकनाथो जिनौरसान्।

भवन्ति सर्वधर्मेषु तेऽसङ्गज्ञानगोचराः॥४८॥



अधिष्ठानान्नरेन्द्रस्य धर्मचक्रं प्रवर्तते।

प्रातिहार्यशताकीर्णं सर्वलोकविशोधनम्।४९॥



विषये सत्त्वसारस्य ज्ञानमण्डलशोधिताः।

भूरिप्रज्ञा महानागाः सर्वलोकप्रमोचनाः॥५०॥



अथ खलु धर्मार्चिष्मत्तेजोराजो बोधिसत्त्वो बुद्धाधिष्ठानेन दश दिशो व्यवलोक्य तस्यां वेलायामिमा गाथा अभाषत—



येऽध्वत्रये विनीयन्ते श्रावकाः परमर्षिणा।

न क्रमोत्क्षेपनिक्षेपं संबुद्धस्य विदन्ति ते॥५१॥



येऽपि प्रत्येकसंबुद्धाः त्रिष्वप्यध्वेष्वशेषतः।

न क्रमोत्क्षेपनिक्षेपं तेऽपि जानन्ति तायिनः॥५२॥



किं पुनः सर्वसत्त्वा हि विज्ञास्यन्ति विनायकम्।

श्वेव गर्दुलबद्ध ये ह्यविद्यातमसावृताः॥५३॥



प्रमाणैरप्रमेयोऽसौ न शक्यं जानितुं जिनः।

असङ्गज्ञानवान् बुद्धः समतिक्रान्तवाक्पथः॥५४॥



पूर्णचन्द्रप्रभो धीरो लक्षणैः सुविचित्रितः।

क्षपयत्यमितान् कल्पानधितिष्ठन् विकुर्वितैः॥५५॥



नयादेकैकतो बुद्धं चिन्तयन् सुसमाहितः।

अनभिलाप्यः क्षपयेत्कल्पकोटीरचिन्तियाः॥५६॥



गुणैकदेशपर्यन्तं नाधिगच्छेत्स्वयंभुवः।

निरीक्षमाणो बुद्धोऽपि बुद्धधर्मा ह्यचिन्तियाः॥५७॥



येषां च प्रणिधिस्तत्र येषां च मनसो रतिः।

तेऽप्येवंगोचराः सर्वे भविष्यन्ति सुदुर्दृशाः॥५८॥



पुण्यज्ञानमयानन्तं महासंभारविक्रमाः।

नयं ह्यवतरन्त्येतं धीमच्चित्तेऽमले स्थिताः॥५९॥



विपुलः प्रणिधिस्तेषां विपुलश्चित्तसंवरः।

लप्स्यन्ति विपुलां बोधिमाक्रम्य जिनगोचरम्॥६०॥



अथ खलु सर्वमारमण्डलविकिरणज्ञानध्वजराजो बोधिसत्त्वो बुद्धाधिष्ठानेन दश दिशो व्यवलोक्य तस्यां वेलायामिमा गाथा अभाषत—



असङ्गज्ञानकायत्वादशरीराः स्वयंभुवः।

अचिन्त्यज्ञानविषयाः शक्यं चिन्त्ययितुं न ते॥६१॥



अचिन्त्यैः कर्मभिः शुक्लैर्बुद्धकायः समार्जितः।

त्रैलोक्यानुपलिप्तोऽसौ लक्षणव्यञ्जनोज्ज्वलः॥६२॥



समन्तावभासो लोके धर्मधातुविशोधितः।

बुद्धबोधेरपि द्वारं सर्वज्ञानमहाकरः॥६३॥



विरजो निष्प्रपञ्चश्च सर्वसङ्गविवर्जितः।

आदित्यभूतो लोकस्य ज्ञानरश्मिप्रमुञ्चनः॥६४॥



भवसंत्रासविच्छेत्ता त्रैधातुकविशोधनः।

निष्पत्तिर्बोधिसत्त्वानां बुद्धबोध्याकरस्तथा॥६५॥



अनन्तवर्णदर्शावी सर्ववर्णेष्वनिश्रितः।

दर्शयत्यपि तान् वर्णानचिन्त्यान् सर्वदेहिभिः॥६६॥



शक्यं न ज्ञानपर्यन्तो गन्तुं बुद्धस्य केनचित्।

एकक्षणे बुद्धबोधिरचिन्त्या येन शोधिता॥६७॥



अक्षयो ज्ञाननिर्देशो निर्विकारः स्वभावतः।

एकक्षणे प्रभाव्यन्ते यस्मिंस्त्र्यध्वगता जिनाः॥६८॥



अनन्तकर्मा सप्रज्ञो बोध्यर्थी चिन्तयेत्सदा।

चित्तमित्यपि यत्रास्य चित्ते चित्तं न जायते॥६९॥



सर्वाभिलापाविषया गम्भीरा वाक्पथोज्झिताः।

अचिन्त्या बुद्धधर्मास्ते यैः संबुद्धाः प्रभाविताः॥७०॥



अथ खलु वैरोचनप्रणिधानकेतुध्वजो बोधिसत्त्वो बुद्धाधिष्ठानेन दश दिशो व्यवलोक्य तस्यां वेलायामिमा गाथा अभाषत—



अमूढस्मृतयः शुद्धा धर्मोद्गतसुनिश्चिताः।

अचिन्त्यमतिमन्तस्ते अक्षया बोधिसागराः॥७१॥



मनोऽत्र निश्चितं तेषां तच्चर्यागोचरो ह्ययम्।

तेषामत्राचलं ज्ञानं तेऽत्र च्छिन्नकथंकथाः॥७२॥



खेदो नोत्पद्यते तेषां न तेषां सीदते मनः।

तेषां प्रवर्तते चित्तं बुद्धधर्मपरायणम्॥७३॥



तेषां प्रजायते श्रद्धा मूलजाता समुद्गता।

ज्ञानेऽत्र हि रतिस्तेषामनिलम्भे निरालये॥७४॥



संपूर्णाः कुशलैर्धर्मैः कल्पकोटीसमार्जितैः।

नामयन्ति च तत्सर्वे एते ज्ञानार्थिनोऽसमाः॥७५॥



विचरन्ति च संसारे न च संसारनिश्रिताः।

निश्चिता बुद्धधर्मेषु रमन्ते बुद्धगोचरे॥७६॥



यावती लोकसंपत्तिः सत्त्वधातौ प्रवर्तते।

सर्व प्रहीणा धीराणां बुद्धसंपस्थिता हि ते॥७७॥



वृथा समाश्रितो लोकः सदा बद्धः प्रवर्तते।

असङ्गचारिणस्तत्र सदा सत्त्वार्थनिश्रिताः॥७८॥



अतुल्यं चरितं तेषामचिन्त्यं सर्वदेहिभिः।

लोकसौख्यं चिन्तयन्ति येन दुःखं निवर्तते॥७९॥



बोधिज्ञानविशुद्धास्ते सर्वलोकानुकम्पकाः।

आलोकभूता लोकस्य सर्वलोकप्रमोचकाः॥८०॥



अथ खलु सर्वावरणविकिरणज्ञानविक्रान्तराजो बोधिसत्त्वो बुद्धाधिष्ठानेन दश दिशो व्यवलोक्य तस्यां वेलायामिमा गाथा अभाषत—



सुदुर्लभो बुद्धशब्दः कल्पकोटीशतैरपि।

किं पुनर्दर्शनं सर्वकाङ्क्षाछेदनमुत्तमम्॥८१॥



स दृष्टो लोकप्रद्योतः सर्वधर्मगतिं गतः।

पुण्यतीर्थं त्रिलोकस्य सर्वसत्त्वविशोधनम्॥८२॥



पश्यतां रूपकायेन सत्त्वसारमनिन्दितम्।

न समुत्पद्यते तृप्तिः कल्पकोट्ययुतैरपि॥८३॥



रूपकायं नरेन्द्रस्य प्रेक्षमाणा जिनौरसाः।

असङ्गाः स्वं शुभं बोधौ नामयन्ति परार्थिनः॥८४॥



बुद्धबोधेर्मुखमिदम् रूपकायो महामुनेः।

निश्चरन्ति यतोऽसङ्गा अक्षयाः प्रतिसंविदः॥८५॥



अचिन्त्यानमितान् सत्त्वानवभास्य महामुनिः।

अवतार्य महायाने व्याकरोत्यग्रबोधये॥८६॥



महत्पुण्यमयं क्षेत्रमुदितं ज्ञानमण्डलम्।

भासयत्यमितं लोकं पुण्यस्कन्धविवर्धनम्॥८७॥



छेदनो दुःखजालस्य ज्ञानस्कन्धविशोधनः।

न दुर्गतिभयं तेषां यैरिहारागितो जिनः॥८८॥



विपुलं जायते चित्तं पश्यतां द्विपदोत्तमम्।

प्रज्ञाबलमसंख्येयं जायते चन्द्रभास्वरम्॥८९॥



भवन्ति नियता बोधौ दृष्ट्वा बुद्धं नरोत्तमम्।

निश्चितं च भवत्येषां भविष्यामि तथागतः॥९०॥



अथ खलु धर्मधातुतलभेदज्ञानाभिज्ञाराजो बोधिसत्त्वो बुद्धाधिष्ठानेन दश दिशो व्यवलोक्य तस्यां वेलायामिमा गाथा अभाषत—



अनन्तगुणसंपन्नं दृष्ट्वा शाक्यर्षभं मुनिम्।

परिणामयतां चित्तं महायाने विशुध्यति॥९१॥



अर्थाय सर्वसत्त्वानामुत्पद्यन्ते तथागताः।

महाकारुणिका धीरा धर्मचक्रप्रवर्तकाः॥९२॥



प्रतिकर्तुं कथं शक्यं बुद्धानां सर्वदेहिभिः।

सत्त्वार्थेष्वभियुक्तानां कल्पकोटिशतैरपि॥९३॥



कल्पकोट्यो वरं पक्वस्त्र्यपाये भृशदारुणे।

न त्वेवादर्शनं शास्तुः सर्वसङ्गविवर्तिनः॥९४॥



सर्वसत्त्वगतौ यावान् दुःखस्कन्धः प्रवर्तते।

उत्सोढव्यः स निखिलो बुद्धानां न त्वदर्शनम्॥९५॥



यावन्त्यः सर्वलोकेऽस्मिन्नपायगतयः पृथक्।

वरं तत्र चिरं वासो बुद्धानामश्रुतिर्न च॥९६॥



एकैकत्र वरं कल्पान् निवासो नरकेऽपि तान्।

न त्वन्यत्र जिनाप्तायाः स्थितो बोधेर्विदूरतः॥९७॥



किं कारणमपायेषु निवासश्चिरमिष्यते।

यत्कारणं जिनेन्द्रस्य दर्शनं ज्ञानवर्धनम्॥९८॥



छिद्यन्ते सर्वदुःखानि दृष्ट्वा लोकेश्वरं जिनम्।

संभवत्यवतारश्च ज्ञाने संबुद्धगोचरे॥९९॥



क्षपयत्यावृतीः सर्वा दृष्ट्वा बुद्धं नरोत्तमम्।

वर्धयत्यमितम् पुण्यं येन बोधिरवाप्यते॥१००॥



छिनत्ति काङ्क्षा विमतीः सत्त्वानां बुद्धदर्शनम्।

प्रपूरयति संकल्पांल्लौकिकांल्लोकोत्तरानपि॥१०१॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project