Digital Sanskrit Buddhist Canon

अष्टमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Aṣṭamaṁ prakaraṇam

अष्टमं प्रकरणम्।



अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्–आगतो भगवन्नवलोकितेश्वरः। यथान्धभूतेन चक्षुरनुप्राप्तम्, एवं भगवन्नवलोकितेश्वरोऽनुप्राप्तः। अद्य मे सफलं जन्म। अद्य मे आशा परिपूर्णा। अद्य मे परिशोधितो बोधिमार्गः। स चेतनसधर्मकायनिर्वाणोपदर्शकम्॥



अथ सर्वनीवरणविष्कम्भी पुनरेव भगवन्तमेतदवोचत्– अद्यास्माकं भगवन् देशय त्वमवलोकितेश्वरस्य गुणविशेषम्॥



भगवानाह–तद्यथापि नाम सर्वनीवरणविष्कम्भिन् चक्रवालमहाचक्रवालौ पर्वतराजानौ। मुचिलिन्दमहामुचिलिन्दौ पर्वतराजानौ। कालमहाकालौ पर्वतराजानौ। संसृष्टमहासंसृष्टौ पर्वतराजानौ। प्रलम्बोदरः पर्वतराजा। अनादर्शकः पर्वतराजा। कृत्स्रागतः पर्वतराजा। जालिनीमुखः पर्वतराजा। शतशृङ्गः पर्वतराजा। भवनश्च पर्वतराजा। महामणिरत्नः पर्वतराजा। सुदर्शनश्च पर्वतराजा। अकालदर्शनश्च पर्वतराजा। एतेषु पर्वतराजेष्वेकैकं लोकधातुषु शक्यते मया पर्वतराजानां पलानि वा पलशतानि वा पलसहस्राणि वा पलकोटीनियुतशतसहस्राणि वा संख्यामपि कलामपि गणनामपि शक्यते मया कुलपुत्र गणयितुम्। न तु कुलपुत्र अवलोकितेश्वरस्य शक्यते पुण्यसंभारं गणयितुम्। तद्यथापि नाम कुलपुत्र शक्यते मया परमाणुरजसां प्रमाणमुद्गृहीतुम्, न तु कुलपुत्र अवलोकितेश्वरस्य शक्यते पुण्यसंभारं गणयितुम्। तद्यथापि नाम कुलपुत्र शक्यते मया महासमुद्रस्यैकैकं बिन्दुं गणयितुम्, न तु कुलपुत्र अवलोकितेश्वरस्य शक्यते मया पुण्यसंभारं गणयितुम्। तद्यथापि नाम कुलपुत्र शक्यते मया शीर्षवनस्यैकैकानि पत्राणि गणयितुम्, न तु कुलपुत्र अवलोकितेश्वरस्य शक्यते पुण्यसंभारं गणयितुम्॥



तद्यथापि नाम कुलपुत्र सुमेरुः पर्वतराजो भूर्यराशिर्भवेत्। महासमुद्रः भेरण्डुमण्डलं भवेत्। चतुर्द्वीपनिवासिनः स्त्रीपुरुषदारकदारिकादयः सर्वे ते लेखका भवेयुः। स च सुमेरुपर्वतराजोऽनन्तो लिखितो भवेत्। शक्यते मयैकैकाक्षरं गणयितुम्। न त्ववलोकितेश्वरस्य शक्यते पुण्यसंभारं गणयितुम्। तद्यथापि नाम सर्वनीवरणविष्कम्भिन् द्वादश गङ्गानदीवालुकोपमास्तथागता अर्हन्तः सम्यक्संबुद्धाश्चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वोपकरणैः समुपस्थिता भवेयुः। यश्च तेषां तथागतानामुपस्थाने पुण्यस्कन्धः, ततः कुलपुत्र अवलोकितेश्वरस्यैकवालाग्रे पुण्यस्कन्धः। तद्यथापि नाम सर्वनीवरणविष्कम्भिन् अवलोकितेश्वरः अनेकैः समाधिशतैः समन्वागतः। तद्यथा–प्रभंजनो नाम समाधिः। विभूषणकलो नाम समाधिः। अभूषणकरो नाम समाधिः। विद्युल्लोचनो नाम समाधिः। क्षपणो नाम समाधिः। महामनस्वी नाम समधिः। आकारकरो नाम समाधिः। वज्रमाला नाम समाधिः। वरदो नाम समाधिः। शतवीर्यो नाम समाधिः। अन्धव्यूहो नाम समाधिः। प्रतिभानकूटो नाम समाधिः। राजेन्द्रो नाम समाधिः। वज्रप्राकारो नाम समाधिः। वज्रमुखो नाम समाधिः। सदावरदायको नाम समाधिः। इन्द्रियपरिमोचनो नाम समाधिः। द्वेषपरिमोचनो नाम समाधिः। चन्द्रवरलोचनो नाम समाधिः। दिवाकरवरलोचनो नाम समाधिः। धर्माभिमुखो नाम समाधिः। वज्रकुक्षिर्नाम समाधिः। सुदर्शको नाम समाधिः। निर्वाणकरो नाम समाधिः। अनन्तरश्मिनिष्पादनकरो नाम समाधिः। योगकरो नाम समाधिः। विकिरिणो नाम समाधिः। जम्बुद्वीपवरलोचनो नाम समाधिः। बुद्धक्षेत्रवरलोचनो नाम समाधिः। मैत्र्याभिमुखो नाम समाधिः। प्रज्ञाप्रतिभासितो नाम समाधिः। सुदन्तो नाम समाधिः। अक्षराक्षरो नाम समाधिः। अवीचिसंशोषणो नाम समाधिः। सागरगम्भीरो नाम समाधिः। शतपरिवारो नाम समाधिः। मार्गसंदर्शनो नाम समाधिः। एभिः कुलपुत्र अवलोकितेश्वरः समन्वागतः॥



तद्यथापि नाम सर्वनीवरणविष्कम्भिन् भूतपूर्वं कुलपुत्र क्रकुच्छन्दो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। तेन कालेन तेन समयेन अहं दानशूरो नाम बोधिसत्त्वोऽभूवम्। तदा एतस्य तथागतस्य पुरः स्थित्वा ईदृशमवलोकितेश्वरसमन्तभद्रयोः समाधिविग्रहो मया दृष्टः। भद्रादिभिश्चान्यैर्बोधिसत्त्वैर्महासत्त्वैः समाधिविग्रहो दृष्टः। यदा समन्तभद्रो बोधिसत्त्वो वज्रोद्गतं नाम समाधिं समापेदे, तदावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो विविधमाधिसमाधिं समापेदे। यदा समन्तभद्रश्चन्द्रवरलोचनं नाम समाधिं समापेदे, तदावलोकितेश्वरः सूर्यवरलोचनं नाम समाधिं समापेदे। यदा समन्तभद्रो विच्छुरितं नाम समाधिं समापेदे, तदावलोकितेश्वरो गगनगञ्जं नाम समाधिं समापेदे। यदा समन्तभद्र आकारकरं नाम समाधिं समापेदे, तदावलोकितेश्वर इन्द्रमतिं नाम समाधिं समापेदे। यदा समन्तभद्रो भद्रराजं नाम समाधिं समापेदे, तदा अवलोकितेश्वरः सागरगम्भीरं नाम समाधिं समापेदे। यदा समन्तभद्रः सिंहविष्कम्भितं नाम समाधिं समापेदे, तदावलोकितेश्वरः सिंहविक्रीडितं नाम समाधिं समापेदे। यदा समन्तभद्रो वरदायकं नाम समाधिं समापेदे, तदावलोकितेश्वरः अवीचिसंशोषणं नाम समाधिं समापेदे। यदा समन्तभद्रः सर्वरोमविवराण्युद्धाटयति, तदावलोकितेश्वरः सर्वरोमविवराण्यपावृणोति। तदा समन्तभद्रस्तमेतदवोचत्–साधु साध्ववलोकितेश्वर, यस्त्वमीदृशं प्रतिभानवान्। अथ क्रकुच्छन्दस्तथागतस्तमेतदवोचत्–अल्पं त्वया कुलपुत्र अवलोकितेश्वरस्य प्रतिभानं दृष्टम्। यादृशमवलोकितेश्वरस्य प्रतिभानं तादृशं तथागतानां न संविद्यते। ईदृशं मया कुलपुत्र क्रकुच्छन्दस्य तथागतस्य सकाशाच्छ्रुतम्॥



अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्–देशयतु मे भगवान् कारण्डव्यूहं महायानसूत्ररत्न‍राजं येन वयं धर्मरसेनापूर्यमाणाः संतृप्ताः भवेम। भगवानाह–ये कुलपुत्र कारण्डव्यूहमहायानसूत्ररत्न‍राजस्य नाम श्रोष्यन्ति, तेषां पूर्वकानि कर्मावरणानि न संविद्यन्ते। ये परदारगमनप्रसक्ता औरभ्रिककर्मोद्युक्ताः, ये मातापितृघातका अर्हद्धातस्तूपभेदकास्तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादकाः, ईदृशानां पापरतानां सत्त्वानां तदपि कारण्डव्यूहो महायानसूत्ररत्न‍राजः सर्वपापपरिमोक्षणं कुरुते॥



अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्–कथं जानाम्यहं भगवन् कारण्डव्यूहं महायानसूत्ररत्न‍राजं सर्वपापपरिमोक्षणं कुरुते? भगवानाह–अस्ति कुलपुत्र सुमेरोः पर्वतराजस्य दक्षिणपार्श्वे सप्तभिः सम्यक्संबुद्धैर्मलनिर्मलौ तीर्थौ परिकल्पितौ। एतर्हि मया विकल्पितौ। यथा पाण्डुलवस्त्रं नीलमनुगच्छन्ति, स पापराशिरिव द्रष्टव्यः। एवमेव कुलपुत्र इदं कारण्डव्यूहं महायानसूत्ररत्न‍राजं सर्वपापानि दहति। सुशुक्लभावं कुरुते। तद्यथापि नाम सर्वनीवरणविष्कम्भिन् वर्षाकालसमये सर्वाणि तृणगुल्मौषधिवनस्पतयः सर्वे नीलाभि(रूपा) भवन्ति। अथ शतमुखो नाम नागराजः भवनादवतीर्य सर्वास्ता तृणगुल्मौषधिवनस्पतीर्दहति। एवमेवायं कुलपुत्रं कारण्डव्यूहं महायानसूत्ररत्न‍राजं सर्वपापानि दहति, शुक्लभावं कुरुते। सुखितास्ते सत्त्वा भविष्यन्ति, य इमं कारण्डव्यूहं महायानसूत्रं रत्न‍राजं श्रोष्यन्ति। न ते कुलपुत्र पृथग्जना इति वक्तव्याः। अवैवर्तिका बोधिसत्त्वा इव द्रष्टव्याः। तेषां च मरणकारणसमये द्वादश तथागता उपसंक्रम्य आश्वासयन्ति–मा भैषीः कुलपुत्र। त्वया कारण्डव्यूहं महायानसूत्ररत्न‍राजं श्रुतम्। न त्वया पुनरेव संसारं संसरितव्यम्। न पुनरपि तेषां जातिजरामरणं भविष्यति। तत इष्टप्रियविप्रयोगो प्रियसंप्रयोगो न भविष्यति। गमिष्यसि त्वं कुलपुत्र सुखावतिलोकधातुम्। अमिताभस्य तथागतस्य सकाशाद्धर्ममनुश्रोष्यसि। एवं कुलपुत्र तेषां सत्त्वानां सुखमरणं भविष्यति। अथावलोकितेश्वरो भगवतः पादौ शिरसाभिवन्द्य एकान्ते प्रक्रान्तः। अथ सर्वनीवरणविष्कम्भिस्तूष्णींभावेन व्यवस्थितः। त च देवा नागा यक्षा गन्धर्वा असुरा गरूडाः किन्नरा महोरगा मनुष्यामनुष्याः प्रक्रान्ताः॥



यदा ते प्रक्रान्तास्तदायुष्मानानन्दो भगवन्तमेतदवोचत्–देशयतु मे भगवानस्माकं शिक्षासंवरम्। भगवानाह–ये भिक्षव उपसंपदाभावमिच्छन्ति, तैः प्रथमतरं गत्वा आवासं सम्यगवलोकयितव्यम्। व्यवलोकयित्वा भिक्षुक(?)मारोचयितव्यं शुद्धयते भदन्त नानावासं न च यत्र नानावासेऽस्थीनि संविद्यन्ते। उच्चारप्रस्तावे न संविद्येते। परिशुद्धयति। एवं भदन्त नानावासमर्हति उपसंपदाभावो भिक्षूणाम्॥



भगवानाह–दुःशीलेन भिक्षुणा नोपसंपादयितव्यम्। न च ज्ञप्तिर्दातव्या। किं बहुना? भिक्षवो दुःशीलेन भिक्षुणा नानावासं न कर्तव्यम्, प्रागेव ज्ञप्तिचतुर्थम्। एते हि शासनदूषकाः। दुःशीलानां भिक्षूणां शीलवतां दक्षिणीयाणां मध्ये आवासो न दातव्यः। तेषां बहिर्विहारे आवासो दातव्यः। तथा संघालापो न दातव्यः। न च तेषां सांघिकी भूमिमर्हति। न च तेषां किंचिद्भिक्षुभावं संविद्यते॥



अथ खल्वायुष्मानानन्दो भगवन्तमेतदवोचत्–कतमे काले भगवन्नीदृशादक्षिणीया भविष्यन्ति? भगवानाह–तृतीये वर्षशतगते मम परिनिर्वृतस्य तथागतस्य ईदृशादक्षिणीया भविष्यन्ति, ये विहारे गृहिसंज्ञां धारयिष्यन्ति। ते दारकदारिकापरिवृता भविष्यन्ति। ते सांघिकं मञ्चपीठं वंशिकोपबिम्बोपधानकं शयनासनं असत्परिभोगेन परिभोक्ष्यन्ते। ये च सांघिकोपचारे उच्चारं प्रस्रावं कुर्वन्ति, ते वाराणस्यां महानगर्यामुच्चारप्रस्रावे गूढमृत्तिकोदरे प्राणिनो जायन्ते। ये सांघिकं दन्तकाष्ठमसत्परिभोगेन परिभुञ्जन्ते, ते कूर्ममकरमत्स्येषु जायन्ते। ये सांघिकं तिलतण्डुलकोद्रवकुलत्थधान्यादीनसत्परिभोगेन परिभूञ्जन्ते, ते प्रेतनगरेषुपपद्यन्ते। हीनेन्द्रिया दग्धस्थूणाकृतिभिरस्थिपत्रवदुच्छ्रितैः स्वकेशरोमप्रतिच्छन्नैः पर्वतोदरसंनिभैः सूचीछिद्रोपममुखैः काये ईदृशं ते दुःखं प्रत्यनुभवन्ति। ये सांघिकस्यान्नपानादेरन्यायेन परिभोगं कुर्वन्ति, तेऽल्पश्रुतेषु कुलेषु जायन्ते। हीनेन्द्रियाश्च जायन्ते। खञ्जकुब्जकाणवामनाश्च जायन्ते। परमुखयाचनकाश्च जायन्ते। ततश्चोत्तरि व्याधिताश्च जायन्ते। पूयशोणितं काये वहन्ति। स्वकीयलोमसंकुचितकाया उत्तिष्ठन्ति, तदा मांसपिण्डा भूमौ पतन्ति। अस्थीनि दृश्यन्ते। एवं ते बहूनि वर्षशतानि कायिकं दुःखं प्रत्यनुभवन्ति। ये सांघिकीं भूमिमसत्परिभोगेन परिभुञ्जन्ते, ते द्वादश कल्पान् रौरवे महानरके उपपद्यन्ते। तेषां तप्तान्ययोमुहानि मुखेविष्कम्भान्ते दह्यन्ते। ओष्ठमपि, दन्ता अपि विशीर्यन्ते। तालूनि स्फूटन्ति दह्यन्ते। कण्ठमपि ताल्वपि हृदयमपि। अन्यान्यपि सर्वेण सर्वं दह्यन्ते, अवशेषं गच्छन्ति। तदा भिक्षवः कर्मवायवो वान्ति येन ते मृताः पुरूषाः पुनरेव जीवन्ति। ततः पुनरपि यमपालैः पुरुषैः संगृह्यन्ते। ततः तेषां कर्मोपगानां कर्मवशानां महती जिह्वा प्रादुर्भवति। तत्र जिह्वायामुपरि हलशतसहस्रं कृष्यते। एवं ते बहूनि वर्षशतानि बहूनि वर्षसहस्राणि बहूनि वर्षशतसहस्राणि नारकं दुःखं प्रत्यनुभवन्ति। ततश्च्युत्वा अग्निघटे महानरके उपपत्स्यन्ते। ततस्ते यमपालपुरुषा गृहीत्वा च तस्य जिह्वायां सूचीशतसहस्रं विध्यन्ति। तदपि कर्मवशाज्जीवन्ति, तत उत्क्षिप्य अग्निखदामध्ये क्षिपन्ति। तस्यामग्निखदायामुत्क्षिप्य महतीं वैतरणीं क्षिपन्ति, तदपि कालं न कुर्वन्ति, तदन्यनरकेषुपपद्यन्ते। एवं परिक्रमतां तेषां त्रयः कल्पाः परीक्षीयन्ते। ततश्च्युत्वा जम्बूद्वीपे जायन्ते दरिद्राः जात्यन्धाः। तस्मात्ते ह्यनिन्दान्युत्तराणि सांघिकानि वस्तूनि रक्षितव्यानि॥



ये भिक्षवः शिक्षासंवरसंवृताश्च भवन्ति, तैः इमानि त्रीणि चीवराणि धारयितव्यानि। एकं चीवरं संघस्य विश्वासेन संघपरिभोगाय, तथा द्वितीयं चीवरं राजकुलद्वारगमनाय च, तृतीयं चीवरं ग्रामनगरनिगमपल्लीपत्तनेषु च। इमानि त्रीणि चीवराणि भिक्षवो धारयितव्यानि। ये शीलवन्तो गुणवन्तः प्रज्ञावन्तस्तैर्भिक्षव इमानि शिक्षापदानि मया प्रज्ञप्तानि धारयितव्यानि। असत्परिभोगेन भिक्षवो न परिभोक्तव्यं सांघिकं वस्तु अग्निघटोपमम्। सांघिकं वस्तु विषोपमम्। सांघिकं वस्तु वज्रोपमम्। सांघिकं वस्तु भारोपमम्। विषस्य प्रतीकारं कर्तुं शक्यते, न तु सांघिकस्य वस्तुनः प्रतिकारं कर्तुं शक्यते॥



अथायुष्मानानन्दो भगवन्तमेतदवोचत्–आज्ञप्तानि भगवता शिक्षापदानि, ये भिक्षवो धारयन्ति, ते प्रतिमोक्षसंवरसंवृता भवन्ति। विनायाभिमुखा भवन्ति। कोशाभिमुखा भवन्ति। शिक्षाकुशला भवन्ति। तानि च भगवतः शिक्षापदानि भवन्ति॥



आयुष्मानानन्दो भगवतः पादौ शिरसा वन्दित्वा प्रक्रान्तः। अथ ते महाश्रावकाः स्वकं स्वकं बुद्धक्षेत्रं प्रक्रान्ताः। ते च देवा नागा यक्षा गन्धर्वा असुरा गरुडाः किन्नरा महोरगा मनुष्याः, सर्वे ते प्रक्रान्ताः॥



इति शिक्षासंवरो नाम द्वादशं(?) प्रकरणम्॥



इदमवोचद्भगवान्, ते च बोधिसत्त्वाः सा च सर्वावती पर्षत् सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति॥



अयं कारण्डव्यूहमहायानसूत्ररत्न‍राजस्य धारणिव्यूहः महेश्वरः समाप्तः॥

आर्यकारण्डव्यूहो महायानसूत्ररत्न‍राजः समाप्तः॥



* * * * *



ये धर्म हेतुप्रभवा हेतुस्तेषां तथागतो ह्यवदत्।

तेषां च यो निरोध एवं वादी महाश्रमणः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project