Digital Sanskrit Buddhist Canon

सप्तमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Saptamaṁ prakaraṇam

सप्तमं प्रकरणम्।



अथ भगवान् शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धस्तमेतदवोचत्–लब्धलाभस्त्वं कुलपुत्र? स आह–यथा भगवान् ज्ञानं संजानीते। ततः सप्तसप्ततिः सम्यक्संबुद्धकोटयः संनिपतिताः। तैश्चापि तथागतैरियं धारणी भाषितुमारब्धा–



नमः सप्तानां सम्यक्संबुद्धकोटीनाम्।



॥ +॥ ०॥ ॐ चले चुले चुन्ये स्वाहा॥ ०॥ +॥



इयं सप्तसप्ततिसम्यक्संबुद्धकोटिभिरुक्का नाम धारणी॥



ततो रोमविवरादवतीर्य सूर्यप्रभो नाम रोमविवरः। तत्रानेकानि बोधिसत्त्वकोटिनियुतशतसहस्राणि प्रतिवसन्ति। तस्मिन् सूर्यप्रभे रोमविवरे द्वादशशतसहस्राणि कनकमयानां पर्वतानां प्रतिवसन्ति। तस्मिन् पर्वते द्वादश शृङ्गशतानि। तेषां पर्वतानां पार्श्वानि पद्मरागोपचितानि पार्श्वे दिव्यमणिरत्नखचितानि। परमशोभमानान्युद्यानानि परमशोभितानि विचित्राणि सुरमणीयानि। दिव्यपुष्करिणीरमणीयानि च कूटागारशतसहस्राणि, दिव्यसुवर्णरत्नमयानि मुक्ताफलदामकलापप्रलम्बितानि, मुक्ताहारशतसहस्राणि प्रलम्बितानि। तेषां कूटागाराणामधो सारदो नाम चिन्तामणिरत्नम्, यत्तेषां बोधिसत्त्वानां सर्वोपकरणैरुपस्थानं करोति। तदा ते बोधिसत्त्वास्तेषां कूटागारेषु प्रविशन्ति। प्रविष्टाश्च षडक्षरीमहाविद्यामनुस्मरन्ति। तं चावलोकितेश्वरं पश्यन्ति। दृष्ट्वा च तस्य चित्तप्रसादं जनयन्ति। जनयित्वा च ते बोधिसत्त्वास्तेभ्यः कूटागारेभ्यो निष्क्रामन्ति। निष्क्रम्य केचिच्चंक्रमेषु चंक्रमन्ति। केचिन्मणिरत्नमयेषुद्यानेषु, केचित्पुष्करिणीषु गच्छन्ति, केचित्पद्मरागमयेषु पर्वतेषु गच्छन्ति। गत्वा च पर्यङ्कमाभुज्य ऋजुकायं प्रणिधाय अभिमुखां स्मृतिमुपस्थाप्य। ईदृशास्ते कुलपुत्र बोधिसत्त्वास्तस्मिन् रोमविवरे प्रतिवसन्ति। ततः कुलपुत्र रोमविवरादवतीर्य इन्द्रराजो नाम रोमविवरः। तत्रानेकान्यवैवर्तिकबोधिसत्त्वकोटिनियुतशतसहस्राणि प्रतिवसन्ति। तस्मिन्निन्द्रराजरोमविवरेऽशीतिसहस्राणि पर्वतानामभूवन् दिव्यसुवर्णरत्नमयानि। तत्तेषां पर्वतानां मध्ये पद्मावभासो नाम चिन्तामणिरत्नम्। यदा यदा ते बोधिसत्त्वाश्चिन्तयन्ति, तदा तदा तेषामभिप्रायोऽनुसिध्यति। अथे ते बोधिसत्त्वास्तेषु पर्वतराजेषु विहरन्ति। न च तेषां सांसारिकं दुःखं विद्यते। न च ते संसारिकैः क्लेशैर्लिप्यन्ते। सर्वकालं निर्वाणचिन्ता व्यवस्थिता। न च तेषामन्या चिन्ता शरीरे संविद्यते। ततः कुलपुत्र रोमविवरादवतीर्य महोषधीर्नाम रोमविवरः। तत्रानेकानि प्रथमचित्तोत्पादिकबोधिसत्त्वकोटिनियुतशतसहस्राणि प्रतिवसन्ति। तस्मिन् कुलपुत्र रोमविवरे नवनवतिसहस्राणि पर्वतानाम्। केचिद् वज्रमयां, केचिद्रूप्यमयाः, केचित्सुवर्णमयां, केचिदिन्द्रनीलमयाः, केचित्पद्मरागमयाः, केचिन्मरकतमयाः, केचित्स्फटिकमयाः, केचिद्रजतमयाः, ईदृशास्ते पर्वतराजानः। एकैकस्मिन् पर्वतेऽशीतिशृङ्गसहस्राणि विविधरत्नखचितानि परमशोभनीयानि विविधचित्राणि रमणीयानि। तेषु शृङ्गेषु गन्धर्वाः प्रतिवसन्ति। सततकालं रोमविवरान्निनादितं तूर्यं धारयन्ति। ये ते प्रथमचित्तोत्पादिका बोधिसत्त्वस्ते शून्यतानिमित्तं चिन्तयन्ति। अहो दुःखम्, जरा दुःखम्, मरणं दुःखम्, इष्टप्रियसंप्रयोगवियोगो दुःखम्, अवीच्युपपन्नानां दुःखम्, प्रेतनगरोपपन्नानां सत्त्वानां दुःखम्। इदं काये संवेगमनुविचिन्त्य तदा ते पर्यङ्कमाभुज्य ऋजुकायं प्रणिधाय प्रतिमुखां स्मृतिमुपस्थाप्य तेषुपर्वतराजेषु विहरन्ति। ततः कुलपुत्र रोमविवरादवतीर्य चित्तराजो नम रोमविवरः। तत्रानेकानि प्रत्येकबुद्धकोटिनियुतशतसहस्राणि प्रतिवसन्ति, ये ज्वलनतपनविद्योतनवर्षणप्रातिहार्याणि कुर्वन्ति। तस्मिन् रोमविवरे शतसहस्राणि पर्वतानाम्। ते सर्वे पर्वतराजाः सप्तरत्नमयाः। तेषु पर्वतराजेषु विविधानि कल्पवृक्षाणि सौवर्णदण्डानि रूप्यपत्राण्यनेकरत्नखचितानि विविधालंकारप्रलम्बितानि मौलीकुण्डलस्रग्दामप्रलम्बितानि केयूरहारार्धहारप्रलम्बितानि काशिकवस्त्रप्रलम्बितानि सौवर्णरूप्यघण्टारुणरूणायमानानि। तादृशैः कल्पवृक्षैः पर्वतराजेषु प्रत्येकबुद्धा विहरन्ति। अनेकानि सूत्रगेयव्याकरणगाथोदानेतिवृत्तकजातकवैपुल्याङ्गात् धर्मोपदेशं परस्परमीदृशं सांकथ्यं कुर्वन्ति। तदा सर्वनीवरणविष्कम्भी ततो रोमविवरादवतीर्य सर्वपश्चिमोऽयं रोमविवरः ध्वजाग्रो नाम रोमविवरः। स रोमविवरोऽशीतियोजनसहस्राणि। तस्मिन् रोमविवरेऽशीतिपर्वतसहस्राण्यभूवन्, विविधरत्नपरिखचितविचित्राणि। तेषु पर्वतराजेषु अनेकाः कल्पवृक्षाः, अनेकाश्चन्दनवृक्षाः शतसहस्राः, अगुरुवृक्षाः शतसहस्राः। तस्मिन् रोमविवरे वज्रमयी भूमिः। तस्मिन् रोमविवरे नवनवतिकूटागारशतसहस्राणि दिव्यसौवर्णमयानि मुक्ताहारपटदामकलापप्रलम्बितानि घण्टामालाप्रलम्बितानि चन्द्रकान्तिरत्नावभासितानि। तत्तेषु कूटागारेषु तथागतविग्रहा निषण्णाः। ते जाम्बूद्वीपकानां मनुष्याणां च धर्मं देशयन्ति। यदुत षट्पारमितानिर्देशं निर्दिशन्ति। दानपारमितानिर्देशं निर्दिशन्ति। शीलपारमितानिर्देशं निर्दिशन्ति। क्षान्तिपारमितानिर्देशं निर्दिशन्ति। वीर्यपारमितानिर्देशं निर्दिशन्ति। ध्यानपारमितानिर्देशं निर्दिशन्ति। प्रज्ञापारमितानिर्देशं निर्दिशन्ति। एवं विविधां धर्मदेशनां कृत्वा जाम्बुद्वीपकानां मनुष्याणां कालेन कालं धर्म देशयन्ति। एवं ते कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य रोमविवराणि यावत्पश्यन्ति। तस्मिन्नेव जेतवनविहारे देवनागयक्षगन्धर्वासुरगरूडकिन्नरमहोरगमनुष्यामनुष्यमहेश्वरनारायणपूर्वंगमानि देवपुत्राणि संनिपतितानि। अनेकानि बोधिसत्त्वकोटिनियुतशतसहस्राणि संनिपतितानि॥



अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्–किं भगवन्। यानि रोमविवराणि, संविद्यन्ते वाः? भगवानाह–ततः कुलपुत्र रोमविवरादतिक्रम्य अवलोकितेश्वरस्य दक्षिणं पादाङ्गुष्ठं यत्र ते चत्वारो महासमुद्राः परिभ्रमन्ति, न च जानन्त्यवगाहयन्ति। यदा दक्षिणपादाङ्गुष्ठादुदकं निष्क्रामति, तदा वडवामुखे पतन्ति। तदा भस्मराशिमनुगच्छन्ति। एवमेव कुलपुत्र अवलोकितेश्वरस्य बोधिसत्त्वस्याधिष्ठानं संविद्यते। अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्–तदपि भगवन् रोमविवरं संविद्यते? भगवानाह– तदपि कुलपुत्र न संविद्यते॥



अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्–नागच्छति भगवन्नवलोकितेश्वरः ? भगवानाह–आगच्छति कुलपुत्र अवलोकितेश्वरः। अस्मिन्नेव जेतवनमहाविहारे मम दर्शनाय वन्दनाय पर्युपासनाय, महेश्वरस्य देवपुत्रस्य सहाया लोकधातौ व्याकरणमुद्देशाय च॥



अथावलोकितेश्वरेण बोधिसत्त्वेन महासत्त्वेन रश्मय उत्सृष्टा नीलपीतलोहितावदातमाञ्जिष्ठस्फटिकरजतवर्णाः। ते च रश्मयो जेतवनमागच्छन्ति। आगत्य भगवन्तं त्रिः प्रदक्षिणीकृत्य पुनरेव जेतवनाद्विहारान्निष्क्रम्य अवीचिं महानरकं गच्छन्ति। तत्र गत्वा अवीचिमहानरकं शीतिभावमुपनयन्ति। अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्–कुतो भगवन् रश्मय आगच्छन्ति कुत्र गच्छन्ति? भगवानाह–एवं कुलपुत्र अवलोकितेश्वरेण नानाविधा रश्मय उत्सृष्टाः। ते चास्मिन् जेतवने विहारमागच्छन्ति। आगत्य च मां त्रिः प्रदक्षिणीकृत्य अवीचिं महानरकं गच्छन्ति। गत्वा चावीचिमहानरकं शीतिभावं कुर्वन्ति। तस्मिन् जेतवने विहारे शुभनिमित्तानि प्रादुर्भूतानि। दिव्यानि चम्पकवृक्षाणि प्रादुर्भूतानि। दिव्याः पुष्करिण्यः प्रादुर्भूताः। तत्र जेतवनविहारे दिव्यसौवर्णनिर्भासा दृश्यन्ते। ईदृशो जेतवनविहारो दृश्यते॥



अथावलोकितेश्वरः सुखावतीलोकधातोर्निष्क्रम्य येन जेतवनविहारस्तेन संप्रस्थितः। अनुपूर्वेण जेतवनविहारं संप्राप्तः। अथ तस्मिन् जेतवनविहारे प्रविष्टो भगवतः पादौ शिरसाभिवन्द्य एकान्ते स्थितः। तदा कलविङ्करुतस्वराभिनिर्घोषेण भगवानारोचयति– आगतस्त्वं कुलपुत्र? कृतस्ते सत्त्वपरीपाकः ? अथावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्–यथाज्ञप्तो भगवता। एवं च मया कर्मभूमिर्निष्पादिता। अथ भगवान् साधुकारमदात्–साधु साधु कुलपुत्र, यस्त्वया ईदृशा कर्मभूमिर्निष्पादिता। अथावलोकितेश्वरो भगवन्तं पद्मान्युपनामयति–इमानि ते भगवन्नमिताभेन तथागतेन प्रहितानि। पृच्छत्यल्पाबाधतां च अल्पातङ्कतां च लघूत्थानतां च सुखस्पर्शविहारतां च। ततो भगवता गृहीत्वा वामपार्श्वे स्थापितानि॥



अथ महेश्वरो देवपुत्रो येन भगवांस्तेनोपसंक्रान्तः, उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तमेतदवोचत्–लभेयाहं भगवन् व्याकरणनिर्देशस्य समुद्देशम्? भगवानाह–

गच्छ कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्ते व्याकरणं दास्यति। अथ महेश्वरो देवपुत्रोऽवलोकितेश्वरस्य पादयोर्निपत्य स्तोत्रविशेषं कर्तुमारब्धः–



नमोस्त्वलोकितेश्वराय महेश्वराय पद्मधराय पद्मासनाय पद्मप्रियाय शुभपद्महस्ताय पद्मश्रिये परिवृताय जगदास्वादनकराय पृथिवीवरलोचनकराय प्रह्लादनकराय॥



एवं महेश्वरो देवपुत्रो गत्वा अवलोकितेश्वरस्य स्तोत्रविशेषं कृत्वा तूष्णींभावेन व्यवस्थितः। अथ अवलोकितेश्वरस्तमेतदवोचत्–किं कारणं त्वं कुलपुत्र तूष्णींभावेन व्यवस्थितः? अथ महेश्वरो देवपुत्रस्तमेतदवोचत्–ददस्व मे व्याकरणमनुत्तरायां सम्यक्संबोधौ। अवलोकितेश्वरस्तमेतदवोचत्–भविष्यसि त्वं कुलपुत्र विवृतायां लोकधातौ भस्मेश्वरो नाम तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। अथ सा उमादेव्युपसंक्रम्यावलोकितेश्वरस्य पादौ शिरसा वन्दित्वा अवलोकितेश्वरस्य स्तोत्राभिधानं कर्तुमारब्धाः–



नमोऽस्त्वलोकितेश्वराय मेहेश्वराय प्राणंददाय पृथिवीवरलोचनकराय शुभपद्मश्रिये परिवृताय निर्वाणभूमिसंप्रस्थिताय सुचेतनकराय धर्मधराय॥



एवं सा उमादेवी स्तोत्राभिधानं कृत्वा अवलोकितेश्वरस्य प्रत्याहारं कर्तुमारब्धा-परिमोचय मे स्त्रीभावाज्जुगुप्सनीयात्। कलिमलपरिपूर्णगर्भावासदुःखात् सततपरिग्रहसंगृहीतात् परिमोक्षय माम्। अथावलोकितेश्वरस्तामेतदवोचत्–भविष्यसि त्वं भगिनि उमेश्वरो नाम तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। हिमवतः पर्वतराजस्य दक्षिणे पार्श्वे तव लोकधातुर्भविष्यति। अथ सा उमादेवी व्याकरणमनुप्राप्ता॥



भगवानाह–पश्य सर्वनीवरणविष्कम्भिन्। व्याकृता उमादेवी अवलोकितेश्वेरण बोधिसत्त्वेन महासत्त्वेन सर्वे तेऽनुत्तरायां सम्यक्संबोधौ॥



अयं कुलपुत्र महेश्वरनिर्व्यूहो नाम ख्यात इति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project