Digital Sanskrit Buddhist Canon

महाविद्योपदेशो नाम पञ्चमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Mahāvidyopadeśo nāma pañcamaṁ prakaraṇam
महाविद्योपदेशो नाम पञ्चमं प्रकरणम्।



अथ पद्मोत्तमस्तथागतोऽर्हन् सम्यक्संबुद्धो अवलोकितेश्वरमेतदवोचत्–ददस्व मे कुलपुत्र षडक्षरीं महाविद्यां राज्ञीम्, येनाहमनेकसत्त्वकोटीनियुतशतसहस्राणि दुःखात्परिमोचयेयम्। यथा ते क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते॥



अथे अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः पद्मोत्तमस्य तथागतस्यार्हतः सम्यक्संबुद्धस्येमां षडक्षरीं महाविद्यामनुप्रयच्छति–



॥ *॥ +॥ ०॥ +॥ ॐ मणिपद्मे हूं॥ +॥ ०॥ +॥ *॥



यस्मिन् काले इयं षडक्षरी महाविद्या अनुप्रदत्ता, तदा चत्वारो द्वीपाः, सदेवभवनपर्यन्ताः कदलीपत्रेव संचलिताः, क्षुब्धाश्चत्वारो महासमुद्राः सर्वविघ्नविनायकाः। निष्पलायन्ते यक्षराक्षसकुम्भाण्डा महाकालमातृगणसहिताः॥



अथ पद्मोत्तमेन तथागतेन भुजंगसदृशं बाहुं प्रसार्य अवलोकितेश्वरस्य शतसहस्रमूल्यं मुक्ताहारम्, तेन गृहीत्वा अमिताभस्य तथागतस्यार्हतः सम्यक्संबुद्धस्योपनामितम्। तेन गृहीत्वा तस्य पद्मोत्तमस्य तथागतस्यार्हतः सम्यक्संबुद्धस्योपनामितम्। अथ पद्मोत्तमस्तथागतोऽर्हन् सम्यक्संबुद्ध इमां षडक्षरीं महाविद्यां गृहीत्वा येन पत्रोत्तमो नाम लोकधातुस्तेनोपसंक्रान्तः। एवं कुलपुत्र मया भूतपूर्वं पद्मोत्तमस्य तथागतस्यार्हतः सम्यक्संबुद्धस्व सकाशाच्छ्रुतम्॥



अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्-कथं भगवन् लभेयं षडक्षरीं महाविद्या राज्ञीं प्राप्तयोगस्य ? यथा हि भगवन्नमृतस्य लब्धास्वादास्तृप्तिं न लभन्ते, एवमहं भगवन् षडक्षरिमहाविद्याश्रुतमात्रेण तृप्तिं न लभाम। पुण्यवन्तस्ते सत्त्वा य इमां षडक्षरीं महाविद्यां जपन्ति शृण्वन्ति चिन्तयन्ति अध्याशयेन धारयन्ति॥



भगवानाह–कुलपुत्र, यश्चेमां षडक्षरीं महाविद्यां लिखापयेत्, तेन चतुरशीतिधर्मस्कन्धसहस्राणि लिखापितानि भवन्ति। परमाणुरजोपमानां तथागतानामर्हतां सम्यक्संबुद्धानां दिव्यसौवर्णरत्नमयान् स्तूपान् कारयेत्, कारयित्वा एकदिने धात्वावरोपणं कुर्यात्। यश्च तेषां फलविपाकः, स षडक्षरिमहाविद्याया एकस्याक्षरस्य फलविपाकः। अचिन्त्योऽगुणानां सुप्रतिष्ठितो मोक्षः। यः कुलपुत्रो वा कुलदुहिता वा इमाः षडक्षरीं महाविद्यां जपेत्, स इमान् समाधीन् प्रतिलभते। तद्यथा–मणिधरो नाम समाधिः, नरकतिर्यक्संशोधनं नाम समाधिः, वज्रकवचो नाम समाधिः, सुप्रतिष्ठितचरणो नाम समाधिः, सर्वोपायकौशल्यप्रवेशनो नाम समाधिः, विकिरिणो नाम समाधिः, सर्वबुद्धक्षेत्रसंदर्शनो नाम समाधिः, सर्वधर्मप्रवेशनो नाम समाधिः, ध्यानालंकारो नाम समाधिः धर्मरथाभिरूढो नाम समाधिः, रागद्वेषमोहपरिमोक्षणो नाम समाधिः, अनन्तवत्सो नाम समाधिः, षट्पारमितानिर्देशो नाम समाधिः, महामेरुधरो नाम समाधिः, सर्वभवोत्तारणो नाम समाधिः, सर्वतथागतव्यवलोकनो नाम समाधिः, सुप्रतिष्ठितासनो नाम समाधिः। एवंप्रमुखानामष्टोत्तरसमाधिशतं प्रतिलभते, य इमां षडक्षरीं महाविद्यां धारयति॥



इति षडक्षरिमहाविद्योपदेशो नाम पञ्चमं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project