Digital Sanskrit Buddhist Canon

षडक्षरीमहाविद्यामाहात्म्यवर्णनं तृतीयं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
षडक्षरीमहाविद्यामाहात्म्यवर्णनं तृतीयं प्रकरणम्।



अथ सर्वनीवरणविष्कभी भगवन्तमेतदवोचत्–कुतो भगवन् षडक्षरी महाविद्या प्राप्यते? भगवानाह–दुर्लभा कुलपुत्र सा षडक्षरी महाविद्या। न च तथागता जानन्ति प्रागेव बोधिसत्त्वभूताः। अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्–यद्भगवन् तथागता अर्हन्तः सम्यक्संबुद्धा न जानन्ति? भगवानाह–कुलपुत्र सा षडक्षरी महाविद्या त्ववलोकितेश्वरस्य परमहृदयम्। यश्च परमहृदयं जानाति स मोक्षं जानाति। अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्–अस्ति भगवन् केचित्सत्त्वा ये षडक्षरीं महाविद्यां जानन्ति? भगवानाह–न कश्चिज्जानीते कुलपुत्र। षडक्षरी महाविद्या राज्ञी। एषा दुरासदा अप्रमेया योगिनस्तथागता जानन्ति प्रागेव बोधिसत्त्वभूताः। अस्याः कुलपुत्र षडक्षरीमहाविद्यायाः कारणेन सर्वे तथागताः षोडशकल्याणसंख्येयाः परिभ्रमिताः प्रागेव बोधिसत्त्वभूताः कुतो जानन्ति ? अयं स परमहृदयः अवलोकितेश्वरस्य। योऽप्ययं परिभ्रमति जगन्मण्डले, कश्चिज्जानीते षडक्षरीं महाविद्याम्। पुण्यवन्तस्ते सत्त्वा ये षडक्षरीं महाविद्यां सततपरिग्रहं जपाभियुक्ता भवन्ति। तस्या जपकाले तु नवनवतिगङ्गानदीवालुकोपमास्तथागताः संनिपतन्ति, परमाणुरजोपमा बोधिसत्त्वाः संनिपतन्ति, षट्पारमिता द्वारस्था भवन्ति। अन्ये च द्वात्रिंशद्देवनिकायाः देवपुत्राः संनिपतिताः। चत्त्वारश्च महाराजानश्चतस्रो दिशो रक्षन्ति। सागरश्च नागराजः। अनवतप्तश्च नागराजः। तक्षकश्च नागराजः। वासुकिर्नागराजः–एवंप्रमुखान्यनेकानि नागराजकोटीनियुतशतसहस्राणि धरणीं परिरक्षन्ति। अन्ये च भौमा यक्षाः। अन्ये चावकाशं रक्षन्ति। तस्य कुलपुत्रस्य एकैकरोमविवरे तथागतकोट्यो विश्रमन्ति, विश्रमित्वा साधुकारमनुप्रयन्ति–साधु साधु कुलपुत्र, यस्त्वमीदृशं चिन्तामणिरत्नलब्धलाभोऽसि। विमोक्षितास्ते सप्तकुलवंशा जातिपरंपरया। ये च तव कुलपुत्र कुक्षिगताः प्राणिनः, सर्वे तेऽवैवर्तिका बोधिसत्त्वा भविष्यन्ति। यः कश्चिदिमां धारयेत् षडक्षरीं महाविद्यां कायगतां कण्ठगतां वा, स कुलपुत्र वज्रकायशरीर इति वेदितव्यः, धातुस्तूप इति वेदितव्यः, तथागतज्ञानकोटिरिति वेदितव्यः। यः कश्चित्कुलपुत्रो वा कुलदुहिता वा इमां षडक्षरीं महाविद्यां जपन्ति सोऽक्षयप्रतिभानो भवति। ज्ञानराशिविशुद्धो भवति। महाकरुणया समन्वागतो भवति। स दिने दिने षट्पारमिताः परिपूरयति। विद्याधरचक्रवर्त्यभिषेकं प्रतिलभते। यस्य कस्यचिदुच्छवस्योच्छ्वासप्रश्वासं ददाति मैत्र्या वा द्वेषेण वा, सर्वे तेऽवैवर्तिकाधिसत्त्वा भवन्ति, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते। ये केचिद्वस्त्रस्पर्शनेनापि स्पृशन्ति, सर्वे ते चरमभविका बोधिसत्त्वा भवेयुः। दर्शनमात्रेण स्त्री वा पुरुषो वा दारिका वा मृगपक्षिणो गोमहिषगर्दभादयश्च चक्षुर्दर्शनेनापि पश्यन्ति, सर्वे ते चरमभविका बोधिसत्त्वा भवेयुः, जातिजराव्याधिमरणदुःखप्रियविप्रयोगविहीणा भवेयुः। अचिन्त्या योगिनश्च भवेयुः। एवं तु षडक्षरीं महाविद्यां जपमानस्य संचोदनो भवति॥



अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्–कथं भगवन् लभेयमहं षडक्षरीं महाविद्याम्? सोऽचिन्त्यो योगानां चाप्रमेयध्यानानां च अपरिस्थितश्चानुत्तरायां सम्यक्संबोधौ, निर्वाणस्योपदर्शकः, मोक्षस्य प्रवेशनम्, रागद्वेषस्य व्युपशमनम्, धर्मराजस्य च परिपूरणम्, उन्मूलनं च संसारस्य पञ्चगतिकस्य, संशोषणं च नारकाणां क्लेशानाम्, समुद्धातनमुत्तारणं च तिर्यग्योनिगतानाम्, आस्वादो धर्माणां च परिपूरणम्, सर्वज्ञज्ञानस्य अक्षयं निर्देशं श्रोतुमिच्छामि। भगवन् यो मे षडक्षरीं महाविद्यामनुप्रयच्छति, तस्य चतुर्द्वीपान् सप्तरत्नपरिपूर्णान्निर्यातयितुम्। यदि भगवन् लिख्यमानायापि भूर्जं न संविद्यते, न मसिः, न च करमम्। मदीयेन शोणितेन मसिं कुर्यात्, चर्ममुत्पाट्य भूर्जं कुर्यात्, अस्थिं भङ्क्तवा च करमं कुर्यात्, तदापि भगवन् मम नास्ति खेदं शरीरस्य। स च मे मातापितृभूतो भवेत् गुरूणामपि गुरुश्च॥



अथ भगवान् सर्वनीवरणविष्कम्भिणं बोधिसत्त्वमेतदवोचत्–स्मराम्यहं कुलपुत्र अस्याः षडक्षरिमहाविद्यायाः कारणेन परमाणुरजोपमान् लोकधातून् परिभ्रमितः। अनेकानि तथागतकोटिनियुतशतसहस्राणि मया पर्युपासितानि। न च तेषां तथागतानां सकाशात्सचालंबापि (?) श्रुता। तदा रत्नोत्तमो नाम तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च बुद्धो भगवान्। तस्य मया पुरस्तादश्रूणि प्रमुक्तानि। तदा तेन तथागतेनार्हता सम्यक्संबुद्धेनाभिहितम्–मा कुलपुत्र एवं करुणकरूणान्यश्रूणि प्रमुञ्च। गच्छ कुलपुत्र येन पद्मोत्तमो नाम लोकधातुः। तत्र पद्मोत्तमो नाम तथागतोऽर्हन् सम्यक्संबुद्धः। स इमां षडक्षरीं महाविद्यामनुजानाति। तस्य कुलपुत्र अहं रत्नोत्तमस्य तथागतस्यान्तिकात् प्रक्रान्तः। येन पद्मोत्तमस्य तथागतस्य बुद्धक्षेत्रं तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा पुरस्तात्प्राञ्जलीभूत्वोत्तम्–लभेयमहं भगवन् पद्मोत्तम षडक्षरीं महाविद्यां राज्ञीं यस्या नामानुस्मरणमात्रेण सर्वपापानि क्षयन्ते, दुर्लभां बोधिं प्रतिलभते, येनार्थेनाहं क्लिष्टोऽनेकानि लोकधातूनि। इहैवागत्वा मा व्यर्थश्रमो भवेयम्। तदा पद्मोत्तमस्तथागत इमां षडक्षरीं महाविद्यागुणां संस्मारयति स्म–तद्यथापि नाम कुलपुत्र शक्यते परमाणुरजःप्रमाणमुद्गृहीतुम्, न तु कुलपुत्र शक्यते षडक्षरिमहाविद्याया एकजापस्य पुण्यस्कन्धं गणयितुम्। शक्यते मया कुलपुत्र चतुःसमुद्रस्यैकैकां वालुकां गणयितुम्, न तु कुलपुत्र शक्यते मया षडक्षरिमहाविद्याया एकजापस्य पुण्यस्कन्धं गणयितुम्। तद्यथापि नाम कुलपुत्र कश्चिदेव पुरुषो भवेत्। स गृहं पूर्णं योजनसहस्रं कुर्यात् द्विगुणं पञ्चयोजनशतानि। तं तिलफलैः परिपूर्णं कुर्यात्। यत्र सूचीविवरं न संविद्यते, तत्र पुरुषो द्वारे स्थापितोऽजरामरः। स कल्पशतस्यातिक्रान्तस्य अस्यैकतिलफलं बहिर्द्वारे प्रक्षिपेत्। तदनेन पर्यायेण तं गृहसमूहप्रतिष्ठितास्तिलाः परिक्षयपर्यवदानं यावत्कालेन व्रजेयुः, तच्छक्यते मया गणयितुम्। न तु कुलपुत्र शक्यते षडक्षरिमहाविद्यायाः एकजापस्य पुण्यस्कन्धं गणयितुम्। तद्यथापि नाम कुलपुत्र चतुर्द्वीपे नानाविधानि कृषिं कारयन्ति यवगोधूमशालिमुद्गमाषादयस्तिलकोलकुलत्थादिभिः, तत्र कालेन कालं नागराजानो वर्षधारामनुप्रयच्छन्ति। तानि शस्यानि निष्पाद्यन्ते, ततस्ते परिपक्काः परिछिद्यन्ते। एवं जम्बुद्वीपं खलं कुर्यात्, ततस्ते शकटैर्भारैर्मुटैः पिठकैर्गोभिर्गर्दभादिभिर्लङ्घयित्वा तस्मिन् खलाभ्यन्तरे प्रक्षिपेरन्, तानि गोभिर्गर्दभैर्मर्दयित्वा महान्तं राशिं निष्पाद्यते। शक्यते मया कुलपुत्र एकैकानि फलानि गणयितुम्, न तु कुलपुत्र शक्यते मया षडक्षरिमहाविद्याया एकजापस्य पुण्यस्कन्धं गणयितुम्। तद्यथापि नाम कुलपुत्र इमा महानद्यो जम्बुद्वीपे प्रवहन्ति रात्रौ दिवा च। तद्यथा गङ्गा सीता यमुना सिन्धुः शतद्रुः चन्द्रभागा एरावती सुमागन्धा हिमरती कलशोदरी चेति। एकैकनदी पञ्चसहस्रपरिवारा। रात्रौ च दिवा च महासमुद्रे प्रवहन्ति। एवमेव षडक्षरिमहाविद्याया एकजापस्य पुण्यस्कन्धः प्रवहति। तत्रासां महानदीनां शक्यते मया एकैकबिन्दुं गणयितुम्। न च कुलपुत्र शक्यते मया षडक्षरिमहाविद्याया एकजापस्य पुण्यस्कन्धं गणयितुम्। तद्यथापि नाम कुलपुत्र चतुर्द्वीपेषु चतुष्पाज्जातीनां गोगर्दभमहिषाश्वहस्तिनः, श्वजम्बुकच्छागलपशवः, तथा सिंहव्याघ्रतरक्षुमृगमर्कटशशकादयः, एषां मयैकैकानि रोमाणि शक्यते गणयितुम्, न तु कुलपुत्र षडाक्षरिमहाविद्यायाः शक्यते एकजापस्य पुण्यस्कन्धं गणयितुम्। तद्यथापि नाम कुलपुत्र वज्राङ्कुशो नाम पर्वतराजो नवनवतियोजनसहस्राण्युच्छ्रयेण चतुरशीतियोजनसहस्राण्यधस्तात्। तस्य पर्वतराजस्य वज्राङ्कुशस्यैकं पार्श्वं चतुरशीतियोजनसहस्रम्। तस्य च पार्श्वे पर्वतराजस्य जरामरः पुरुषो भवेत्। स कल्पस्यातिक्रान्तस्य एकवारं कशिकवस्त्रेण परिमार्जयेत्। एवं कृत्वा तस्य परिक्षयं पर्यवदानं भवेत्, एतत्कालेषु वर्षमासदिनमुहूर्तनाडीकलाः यावत् श्वासाः, तेषां प्रमाणं कर्तुंशक्यम्, न तु षडक्षरिमहाविद्यायाः शक्यते एकजापस्य पुण्यस्कन्धं गणयितुम्। तद्यथापि नाम कुलपुत्र महासमुद्रं चतुरशीतियोजनसहस्रं गाम्भीर्येण, अप्रमेयं वैपुल्येन वडवामुखपर्यन्तं शक्यते मया शताग्रभिन्नया वालग्रकोट्या एकैकं बिन्दुं गणयितुम्। न तु कुलपुत्र शक्यते मया षडक्षरिमहाविद्यायाः पुण्यस्कन्धं गणयितुम्। तद्यथापि नाम कुलपुत्र शक्यते मया शीर्षवनस्य एकैकपत्राणि गणयितुम्, न तु षडक्षरिमहाविद्यायाः शक्यते एकजापस्य पुण्यस्कन्धम् गणयितुम्। तद्यथापि नाम कुलपुत्र चतुर्द्विपनिवासिनं स्त्रीपुरुषदारकदारिकास्ते सर्वे दशभूमिप्रतिष्ठिता बोधिसत्त्वा भवेयुः। यत्तेषां बोधिसत्त्वानां पुण्यस्कन्धम्, ततः षडक्षरिमहाविद्याया एकजापस्य पुण्यस्कन्धम्। तद्यथापि नाम कुलपुत्र द्वादशमासिकेन संवत्सरेण अधिमासिकेन त्रयोदशमासिकेन वा संवत्सरेण तथा संवत्सरगणनया पूर्ण कल्पं देवो रत्रौ दिवा वर्षति, तच्छक्यते मया कुलपुत्र एकैकं बिन्दुं गणयितुम्। न तु कुलपुत्र षडक्षरिमहाविद्याया एकजापस्य पुण्यस्कन्धं गणयितुम्। एवं कुलपुत्र बहवो मत्सदृशाः तथागतकोटय एकस्थानधारिता दिव्यं कल्पं चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वोपकरणोपस्थाने नोपस्थिता भवेयुः। न च तथागताः शक्नुवन्ति षडक्षरिमहाविद्यायाः पुण्यस्कन्धं गणयितुम्। प्रागेवाहमेकाकी अस्मिँल्लोकधातौ विहरामि। अचिन्त्यध्यानपदेन समुत्थानेनाहं कुलपुत्र भावनायोगमनुयुक्तः। स च सूक्ष्मो धर्मः, अव्यक्तो धर्मं, अनागतो धर्मः, परमहृदयप्राप्तः। अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्योपायकुशलैर्धर्मैः प्रतिष्ठितः। एवं कुलपुत्र षडक्षरिमहाविद्याया उपायकौशल्यं प्राप्तुमहमपि कुलपुत्र अनेकानि लोकधातुकोटीनियुतशतसहस्राणि परिभ्रमितः। गत्वा चामिताभस्य तथागतस्य पुरस्तात्प्राञ्जलीभूत्वा धर्मवेगेनाश्रूणि प्रमुक्तानि, तथामिताभस्तथागतो जानाति अनागतप्रत्युत्पन्नम्॥



तेन ममाभिहितम्–कुलपुत्र षडक्षरीं महाविद्यां राज्ञीमिच्छसि भावनायोगमनुयुक्तः ? मयोक्तम्–इच्छामि सुगत। यथा तृषार्तः पानीयमन्वेषते एवमहं भगवन् षडक्षरीं महाविद्यां समन्वेषमाणोऽनेकलोकधातूनुपसंक्रान्तः। पर्युपासितानि मेऽनेकानि तथागतकोटीनियुतशतसहस्राणि, न कस्यचित्सकाशान्मया लब्धा षडक्षरी महाविद्या राज्ञी। त्वं भगवन् त्राता भव, शरणं परायणम्। विकलेन्द्रियस्य चक्षुर्भूतो भव। नष्टमार्गस्य दर्शको भव। सूर्यतापदग्धानां छत्रभूतो भव। चतुर्महापथे शालवृक्ष इव भव। धर्मपरितृषिस्यानन्तधर्ममार्गमुपदर्शको भव। सुप्रतिष्ठितचेतसो वज्रकवचभूतो भव॥



अथामिताभस्य तथागतार्हतः सम्यक्संबुद्धस्य अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य लम्बिकरुतेन स्वरेण निर्घोषेणारोचयति–पस्य कुलपुत्र अयं पद्मोत्तमस्तथागतोऽर्हन् सम्यक्संबुद्धः षडक्षरीमहाविद्यायाः कारणेनानेकलोकधातुकोटीनियुतशतसहस्राणि परिभ्रमितः। ददस्व कुलपुत्र षडक्षरीं महाविद्यां राज्ञीम्। तथागत एवं परिभ्रमति॥



इति षडक्षरिमहाविद्यामाहात्म्यवर्णनं तृतीयं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project