Digital Sanskrit Buddhist Canon

रोमविवरणावर्णनं द्वितीयं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
रोमविवरणावर्णनं द्वितीयं प्रकरणम्।



तद्यथापि नाम सर्वनीवरणाविष्कम्भिन् सुवर्णं नाम रोमविवरम्। तत्रानेकानिगन्धर्वकोटिनियुतशतसहस्राणि प्रतिवसन्ति स्म। तेन च संसारिकेन दुःखेन न बाध्यन्ते। परमेण सौख्येन संतर्पिता भवन्ति। दिव्यानि वस्तूनि प्रादुर्भवन्ति। तत्र न च ते रागेण बाध्यन्ते। न च मोहेन बाध्यन्ते। न च द्वेषेण बाध्यन्ते। न च ते आघातचित्तमुत्पादयन्ति। न च तेषां हिंसाचित्तमुत्पद्यते। ते सततसमितमार्याष्टाङ्गिकमार्गमुपदर्शिता भवन्ति। सततकालं धर्माभिकाङ्क्षिणो भवन्ति। तद्यथापि नाम सर्वनीवरणविष्कम्भिन् सुवर्णनामरोमविवरे अवभासं नाम चिन्तामणिरत्नम्। यदा ते गन्धर्वा अभिप्रायं चिन्तयन्ति, तदा तेषामभिप्रायोऽनुसिध्यति। तदा सुवर्णरोमविवरादतिक्रम्य कृष्णो नाम रोमविवरः। तत्रानेकानि ऋषिकोटिनियुतशतसहस्राणि प्रतिवसन्ति। केचिदेकाभिज्ञाः, केचिद् द्वयभिज्ञाः, केचित् त्र्यभिज्ञाः, केचिच्चतुरभिज्ञाः, केचित्पञ्चाभिज्ञाः, केचित्षडभिज्ञाः। तस्मिंश्च रोमविवरे रूप्यमयी भूमिः, कनकमयाः पर्वताः, रूप्यमयाः शृङ्गाः, पद्मरागैरुपचिताः पर्वताः, तादृशाः सप्तसप्ततिपर्वताः। एकैकपर्वतेऽशीतिसहस्राणि ऋषीणां प्रतिवसन्ति। तेषां च ऋषीणामीदृशा पर्णकुटिरकल्पवृक्षाणि दृश्यन्ते। लोहितदण्डाः सुवर्णरूप्यपत्रा रत्नावभासिताः। एकैकपार्श्वे रोमविवरे चतस्रः पुष्करिण्यः। केचिदष्टाङ्गोपेतेन वारिणा परिपूर्णाः केचित्पुष्पपरिपूर्णाः। तस्मिन्नुपचारसमीपे दिव्या अगुरुद्रुमवृक्षाः, सुगन्धाश्चन्दनवृक्षाः, परिशोभिताः कल्पवृक्षाः, संदृश्यन्ते। दिव्यालंकारप्रलम्बिता मौलीकुण्डलप्रलम्बिता हारार्धहारप्रलम्बिताः केयूरनूपुरस्रग्दामप्रलम्बिताः सौवर्णपत्राः। तत्रैकैककल्पवृक्षे गन्धर्वशतं विश्रान्तम्। यदा ते वाद्यप्रत्याहारमुदीरयन्ति, तदा मृगपक्ष्यादयः संवेगमापद्यन्ते–सुखदुःखमिदं सांसारिकाणां सत्त्वानाम्। कथं जम्बुद्वीपे दुःखमनुभवन्ति ? जातिजरामरणं पश्यन्ति ? इष्टप्रियवियोगमप्रियसंप्रयोगं पश्यन्ति ? मानुष्यकाणि बहूनि दुःखानि प्रत्यनुभवन्ति ? इत्येवं ते मृगपक्षिणः संवेगमनुविचिन्त्य यदा कारण्डव्यूहस्य महायानसूत्ररत्न‍राजस्य नामानुस्मरन्ति, तदा तेषां दिव्यरसरसाग्रोपेता आहाराः प्रादुर्भवन्ति। दिव्यानि च सौगन्धिकानि वस्तूनि प्रादुर्भवन्ति। दिव्यानि वस्त्राणि प्रादुर्भवन्ति। यदा तेऽभिप्रायमनुविचिन्तयन्ति, तदाभिप्रायाः सिध्यन्ति॥



अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्–परमाश्चर्याद्भुतप्राप्तोऽहं भगवन्। भगवानाह–किं कारणं कुलपुत्र परमविस्मयमापन्नः ? अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्–यदा भगवन् कारण्डव्यूहस्य महायानसूत्ररत्न‍राजस्य नामानुस्मरन्ति, तदाभिप्राया अनुसिध्यन्ति। यस्य नामधेयमात्रेण ईदृशानि वस्तूनि प्रादुर्भवन्ति, सुखितास्ते सत्त्वा ये कारण्डव्यूहं महायानसूत्ररत्न‍राजं श्रोष्यन्ति लिखापयिष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, योनिशं च मनसि करिष्यन्ति। ये कारण्डव्यूहस्य महायानसूत्रराजस्यैकाक्षरमपि लिखापयिष्यन्ति, ते इदं सांसारिकं दुःखं न पश्यन्ति। न च ते चण्डालकुक्कुरकुलेषु जायन्ते। न च ते हीनेन्द्रिया भवन्ति। न च ते खञ्जकुब्जकोर्ध्वनासगण्डलम्बोष्ठाश्च सत्त्वाः कुष्ठिनश्च सन्तः। न च तेषां काये व्याधिः संक्रमते। आरोग्यबलवत्प्रीणितेन्द्रियाश्च भवन्ति। अथ भगवान् साधुकारमदात्। साधु साधु सर्वनीवरणविष्कम्भिन्, यस्त्वमीदृशं प्रतिभानं करोषि। अनेकानि देवनागयक्षगन्धर्वासुरगरूडकिन्नरमहोरगमनुष्यामनुष्या उपासकोपासिकासहस्राणि संनिपतितानि–त्वयेदृशं धर्मसांकथ्यं कृतम्। यतस्त्वयेदृशो वैपुल्यप्रतिभानः कृतः॥



अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्–यदा भगवन्निदं प्रश्नमनिर्दिष्टं तदा देवपुत्राणामभेद्या श्रद्धोत्पन्ना। अथ भगवान् साधुकारमदात्–साधु साधु कुलपुत्र, यस्त्वमेवं पुनः पुनस्तथागतमध्येषसे। तद्यथापि नाम सर्वनीवरणविष्कम्भिन् कृष्णान्नाम रोमविवरादवतीर्य रत्नकुण्डलो नाम रोमविवरः। तत्रानेकानि गन्धर्वकन्याकोटिनियुतशतसहस्राणि प्रतिवसन्ति। ताश्च गन्धर्वकन्या अभिरूपाः दर्शनीयाः परमया शुभवर्णपुष्कलतया समन्वागता दिव्यालंकारविभूषितशरीरा अप्सरसामिव प्रतिस्पर्धिन्यः तादृश्यः, परमशोभनाः। न च ता रागदुःखेन बाध्यन्ते। न च द्वेषदुःखेन बाध्यन्ते। न च मोहदुःखेन बाध्यन्ते। न च तासां काये किंचिन्मानुषीदुःखं संविद्यते। ताश्च गन्धर्वकन्यास्त्रिकालमवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य नाममनुस्मरन्ति। यदा त्रिकालमनुस्मरन्ति, तदा तासां सर्ववस्तूनि प्रादुर्भवन्ति॥



अथ सर्वनीवरणाविष्कम्भी भगवन्तमेतदवोचत्–गमिष्याम्यहं भगवन्। तानि रोमविवराणि द्रष्टुकामोऽहम्। भगवानाह–अग्राह्यास्ते कुलपुत्र रोमविवरा असंस्पर्शाः। यथा आकाशधातुरग्राह्योऽसंस्पर्शः, एवमेव ते कुलपुत्र रोमविवरा अग्राह्या असंस्पर्शाः। तेषु रोमविवरेषु समन्तभद्रो बोधिसत्त्वो महासत्त्वस्तेषां रोमविवराणां द्वादश वर्षाणि परिभ्रमितः, न च तेन तानि रोमविवराणि दृष्टाणि। यस्यैकैकरोमविवरे स्थितं बुद्धशतम्, तेनापि न दृष्टाणि, प्रागेवान्ये बोधिसत्त्वभूताः॥



अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्– यदा भगवन् समन्तभद्रेण बोधिसत्त्वेन महासत्त्वेन न दृष्टं द्वादशवर्षाणि परिभ्रमता, न च तेन तानि रोमविवराणि दृष्टानि, अस्यैकैकरोमविवरे स्थितं बुद्धशतं तेनापि न दृष्टम्, तदा तेषां रोमविवराणामन्ततोऽहमपि किं गमिष्यामि ? आह–कुलपुत्र, मयापि तस्य रोमविवरं वीक्षमाणेन परिमार्गयमाणेन न दृश्यते। सर्वनीवरणविष्कम्भिन् कुलपुत्र, अयं मायावी असाध्यः सूक्ष्म एवमनुदृश्यते। निरञ्जनो रूपी महापी(?) शतसहस्रभुजः कोटिशतसहस्रनेत्रो विश्वरूपी एकादशशीर्षः महायोगी निर्वाणभूमिव्यवस्थितः सुचेतनो महाप्राज्ञः भवोत्तारकः कुलीनोऽनादर्शी प्राज्ञो निर्देशस्तथाच्छायाभूतः सर्वधर्मेषु, एवमेव कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो न श्रुतो न केनचिद् दृश्यते। तस्य स्वभावका अन्यथार्तगता न पश्यन्ति, प्रागेव समन्तभद्रादयोऽन्ये च बोधिसत्त्वाः। अचिन्त्योऽयं कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः प्रातिहार्याणि समुपदर्शयति। अनेकानि च बोधिसत्त्वकोटिनियुतशतसहस्राणि परिपाचयति, सत्त्वांश्च तान् बोधिमार्गे प्रतिष्ठापयति। प्रतिष्ठापयित्वा सुखावतीलोकधातुमनुगच्छति। अमिताभस्य तथागतस्यान्तिके धर्ममनुशृणोति॥



अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्–केनोपायेन भगवन् पश्यामि अहमवलोकितेश्वरं बोधिसत्त्वं महासत्त्वम्? भगवानाह– यदि कुलपुत्र इहैव सहालोकधातुमागच्छति मम दर्शनाय वन्दनाय पर्युपासनाय। अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्–अनुजानाम्यहं भगवन्, अवलोकितेश्वरो बोधिसत्त्वो महासत्त्व आगच्छति ? भगवानाह–यदा कुलपुत्र सत्त्वपरिपाको भवति, तदावलोकितेश्वरः प्रथमतरमागच्छति॥



अथ सर्वनीवरणविष्कम्भी बोधिसत्त्वः करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः–किं मया पापरतेन चिरकालजीविकया तेनावलोकितेश्वरदर्शनविप्रहीणेनान्धभूतेन तमोनुप्राप्तमार्गसंप्रस्थितेन? अथ सर्वनीवरणविष्कम्भी बोधिसत्त्वः पुनरपि भगवन्तमेतदवोचत्–कतमस्मिन् काले भगवन्नवलोकितेश्वर आगच्छति ? अथ भगवानपीदं वचनं श्रुत्वा हसति, व्यवहसति च–अकालस्ते कुलपुत्र अवलोकितेश्वरस्यागमनकालसमयः। तद्यथापि नाम कुलपुत्र ततो रोमविवरादवतीर्य अमृतबिन्दुर्नाम रोमविवरः, तत्रानेकानि देवपुत्र कोटिनियुतशतसहस्राणि प्रतिवसन्ति। केचिदेकभूमिका, केचिद् द्विभूमिकाः, केचित्रिभूमिकाः, केचिच्चतुर्भूमिकाः, केचित्पञ्चभूमिकाः, केचित् षड्भूमिकाः, केचित्सप्तभूमिकाः, केचिदष्टभूमिकाः, केचिन्नवभूमिकाः, केचिद्दशभूमिकाः प्रतिष्ठिता बोधिसत्त्वा महासत्त्वा वसन्ति। तद्यथापि नाम सर्वनीवरणविष्कम्भिन् अस्मिन्नमृतबिन्दौ रोमविवरे षष्टिपर्वताः सुवर्णरूप्यमयाः। एकैकपर्वतः षष्टियोजनासहस्राण्युच्छ्रयेण। तदेषां पर्वतानां नवनवतिशृङ्गसहस्राणि दिव्यसुवर्णरत्नोपचितानि। पार्श्वे केचिदेकचित्तोत्पादिका बोधिसत्त्वाः प्रतिवसन्ति। तेषु पर्वतराजिषु अनेकानि गन्धर्वकोटिनियुतशतसहस्राणि प्रतिवसन्ति, ये तस्मिन् रोमविवरे सततसमितं निर्नादितं सूर्यं धारयति। तद्यथापि नाम सर्वनीवरणविष्कम्भिन् तस्मिंश्चामृतबिन्दौ रोमविवरे अनेकानि विमानकोटिनियुतशतसहस्राणि रत्नपरिखचितानि शोभनीयानि दर्शनीयानि विचित्राणि मुक्ताहारशतसहस्राणि प्रलम्बितानि। तेषु विमानेषु बोधिसत्त्वा विश्रमित्वा धर्मसांकथ्यं कुर्वन्ति। ततो विमानान्निष्क्रम्य स्वकस्वकानि चंक्रमणानि प्रत्युद्गताः। चंक्रमे चंक्रमे सप्तति सप्तति पुष्करिण्यः केचिदष्टाङ्गोपेतेन वारिणा परिपूर्णाः, केचिद्विविधपुष्पपरिपूर्णाः, उत्पलपद्मकुमुदपुण्डरीकसौगन्धिकमान्दारवमहामान्दारवपुष्पपरिपूर्णाः। तेषु चंक्रमेषु मनोरमाः कल्पवृक्षाः लोहितवर्णाः सुवर्णरूप्यपत्रा दिव्यालंकारप्रलम्बिता मौलीकुण्डलस्रग्दामप्रलम्बिता हारार्धहारप्रलम्बिताः केयूरप्रलम्बिताः। तदन्ये विविधालंकारप्रलम्बिताः। तेषु चंक्रमेषु रात्रौ ते बोधिसत्त्वाश्चंक्रमन्ति, विविधं च महायानमनुस्मरन्ति, नैर्वाणिकीं भूमिमनुविचिन्तयन्ति। सांसारिकं दुःखमनुविचिन्तयन्ति। नरकनिर्यासं चिन्तयन्ति। संचिन्तयित्वा मैत्रीं भावयन्ति। एवमेव सर्वनीवरणविष्कम्भिन् तस्मिन् रोमविवरे ईदृशा बोधिसत्त्वा वसन्ति। ततोऽमृतवित्तबिन्दुरोमविवरादवतीर्य वज्रमुखो नाम रोमविवरः, तत्रानेकानि किन्नरशतसहस्राणि प्रतिवसन्ति। अङ्गदकुण्डलकेयूरविचित्रमाल्याभरणानुलेपनपरमशोभनानि दृश्यन्ते। सततकालं बुद्धधर्मसंघाभिप्रसन्नाः एकाग्रधर्ममैत्रीविहारिकाः क्षान्तिसंभाविता निर्वाणचिन्तकाः संवेगमानुष्यकाः। ईदृशास्ते कुलपुत्र किन्नरा धर्माभिरताः। तस्मिन्नेव रोमविवरे अनेकानि पर्वतविवराणि शतसहस्राणि। केचिद्वज्रमयाः केचित्पद्मरागमयाः केचिदिन्द्रनीलमयाः केचित्सप्तरत्नमयाः। ईदृशानि च तत्र कुलपुत्र रोमविवरे सद्धर्मनिमित्तानि च दृश्यन्ते। तत्र रोमविवरे अनेकाः कल्पवृक्षाः, अनेकविद्रुमवृक्षाश्चन्द्रनवृक्षाः सौगन्धिकवृक्षाः, अनेकानि पुष्करिणीशतसहस्राणि, दिव्यानि विमानानि, स्फटिकरजतसंयुक्ताः परमशोभनीयाः रमणीयाः प्रासादाः। यत्र ईदृशानि विमानानि प्रादुर्भवन्ति, तेषु विमानेषु किन्नरा विश्रान्ताः। विश्रमित्वा धर्मसांकथ्यं कुर्वन्ति। यदुत दानपारमितासांकथ्यं कुर्वन्ति। ध्यानपारमितासांकथ्यं कुर्वन्ति। प्रज्ञापारमितासांकथ्यं कुर्वन्ति। एवं षट्पारमितासांकथ्यं कृत्वा स्वकस्वकानि चंक्रमणानि चंक्रमन्ति। केचित्सुवर्णमयाश्चंक्रमाः। तेषु चंक्रमेषु सामन्तकेषु कल्पवृक्षा लोहितदण्डाः सौवर्णरूप्यपत्रा दिव्यालंकारप्रलम्बिताः मौलिकुण्डलस्रग्दामप्रलम्बिता हारार्धहारप्रलम्बिता रत्नहारप्रलम्बिताः। ते च कल्पवृक्षास्तस्मिंश्चंक्रमे कूटागारवत्संस्थिताः, कूटागारसदृशेषु तेषु चंक्रमेषु किन्नराश्चंक्रमन्ति। चंक्रम्यमाणाः सांसारिकं सत्यमनुविचिन्तयन्ति–अहो दुःखम्। जातिर्दुःखम्। अहो दुःखम्। जरामरणदुःखम्। अहो दुःखम्। तदपि दारिद्र्यदुःखम्। इष्टप्रियवियोगाप्रियावियोगदुःखम्। तदपि कष्टतरं दुःखम्। ये चावीचावुपपन्ना रौरवोपपन्नाः, कालसूत्रोपपन्नाः, हाहवे महानरके उपपन्नाः, प्रतापने नरके उपपन्नाः, अग्निघटेषुपपन्नाः, वज्रशैलेषुपपन्नाः, प्रेतनगरोपपन्नाः, तदेषां सर्वसत्त्वानां दुःखतरम्। एवं च ते किन्नराश्चित्तेन चिन्तयन्ति। चिन्तयित्वा नैर्वाणिकीं भूमीं चिन्तयन्ति। एवमेव कुलपुत्र किन्नरा धर्माभिरताः सततकालमवलोकितेश्वरस्य नामनुस्मरन्ति। यदा ते नामानुस्मरन्ति, तदा तेषां सर्वोपकरणैरुपस्थिता भवन्ति। एवं दुर्लभः कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानां मातापितृभूतः सर्वसत्त्वेष्वभयंददः। सर्वसत्त्वेषु मार्गोपदर्शकः। सर्वसत्त्वेषु कल्याणमित्रः। एवं कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः। दुर्लभं कुलपुत्र तस्य नामग्रहणम्। ये च तस्य षडक्षरीमहाविद्यानामानुस्मरन्ति, तदा तेषु रोमविवरेषु जायन्ते। न च पुनरेव संसारे संसरन्ति। रोमविवराद्रोमविवरमुपसंक्रामन्ति। तेषां तेषु रोमविवरेषु तावत्तिष्ठन्ति यावन्नैर्वाणिकीं भूमिमन्वेषन्ते॥



इति रोमविवरवर्णनं नाम द्वितीयं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project