Digital Sanskrit Buddhist Canon

द्वितीयो निर्व्यूहः- अश्वराजवर्णनं प्रथमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
द्वितीयो निर्व्यूहः।



अश्वराजवर्णनं प्रथमं प्रकरणम्।



अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्–आख्याहि भगवन् अवलोकितेश्वरस्य भूतपुर्वं कृतमेते समाधयः, यैरवलोकितेश्वरः समापन्नः। भगवानाह–अप्रमेयैरसंख्येयैः समाधिकोटिनियुतशतसहस्रैः समापन्नौऽवलोकितेश्वरः, येषां समाधीनां (न) शक्यं सर्वतथागतैः पर्यन्तमधिगन्तुम्। अथ सर्वनीवरणविष्कम्भी आह–निर्देशय भगवंस्तानि समाधीनि सर्वसत्त्वानुकम्पया। भगवानाह–तद्यथापि नाम कुलपुत्र आकारकरो नाम समाधिः, प्रभाकरो नाम समाधिः, वज्रोद्गतो नाम समाधिः, सूर्यप्रभो नाम समाधिः, विकिरिणो नाम समाधिः, केयूरो नाम समाधिः, ध्वजाग्रो नाम समाधिः, अलंकारो नाम समाधिः, व्यूहराजो नाम समाधिः, दशदिग्व्यवलोकनो नाम समाधिः, चिन्तामणिवरलोचनो नाम समाधिः, धर्मधरो नाम समाधिः, समुद्रावरोहणो नाम समाधिः, अभिनमितो नाम समाधिः, उष्णीषकुण्डलो नाम समाधिः, चन्द्रवरलोचनो नाम समाधिः, बहुजनपरिवारो नाम समाधिः, देवकुण्डलरोचनो नाम समाधिः, कल्पद्वीपो नाम समाधिः, प्रातिहार्यसंदर्शनो नाम समाधिः, पद्मोत्तमो नाम समाधिः, अवीचिसंशोषणो नाम समाधिः, रुचितो नाम समाधिः, देवमण्डलो नाम समाधि, अमृतबिन्दुर्नाम समाधिः, प्रभामण्डलो नाम समाधिः, समुद्रावगाहनो नाम समाधिः, विमाननिर्व्यूहो नाम समाधिः, कलविङ्कस्वरो नाम समाधिः, नीलोत्पलगन्धो नाम समाधिः, आरूढो नाम समाधिः, वज्रकुचो नाम समाधिः, द्विरदरतो नाम समाधिः, सिंहविक्रीडितो नाम समाधिः, अनुत्तरो नाम समाधिः, दमनो नाम समाधिः, चन्द्रोत्तर्यो नाम समाधिः, आभासकरो नाम समाधिः, शतकिरणो नाम समाधिः, विच्छुरितो नाम समाधिः, प्रभाकरो नाम समाधिः, स्वाकारकरो नाम समाधिः, असुरसंचोदनो नाम समाधिः, भवसंशोधनो नाम समाधिः, निर्वाणसंचोदनो नाम समाधिः, महाद्वीपो नाम समाधिः, द्विपराजो नाम समाधिः, भवोत्तारकरो नाम समाधिः, अक्षरकरो नाम समाधिः, देवाभिमुखो नाम समाधिः, योगकरो नाम समाधिः, परमार्थदर्शनो नाम समाधिः, विद्युन्नाम समाधिः, नामव्युहो नाम समाधिः, सिंहविजृम्भितो नाम समाधिः, स्वातिमुखो नाम समाधिः, आगमनागमनो नाम समाधिः, बुद्धिविस्फुरणो नाम समाधिः, स्मृतीन्द्रियसंवर्धनो नाम समाधिः, अभिमुक्तो नाम समाधिः, जयवाहनो नाम समाधिः, मार्गसंदर्शनो नाम समाधिः। एभिं कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः समाधिभिः समन्वागतः। तस्यैककरोमविवरे समाधिशतसहस्राणि सन्ति। अयं कुलपुत्र अवलोकितेश्वरस्य परमपुण्यसंभारः। ईदृशस्तथागतानां पुण्यसंभारो न संविद्यते, प्रागेव बोधिसत्त्वभूतस्य॥



भूतपूर्वं कुलपुत्र अहं सिंहलराजो नाम बोधिसत्त्वभूतोऽभूवम्। ततोऽहं सिंहलद्वीपयात्रां संप्रस्थितः। पञ्चभिर्वणिक्पुत्रशतैः सार्धं शकटैर्भारैर्मूटैः पिठरैरुष्ट्रैर्गोभिर्गर्दभादिभिः प्रभूतं पण्यमारोप्य सिंहलद्वीपं संप्रस्थितः। ततोऽनुपूर्वेण ग्रामनगरनिगमपर्णपत्तनेषु चंचूर्यमाणः सिंहलद्वीपमनुप्राप्तः, येन निपुणं तद्यानपात्रं प्रतिपादितम्। तदा मे कर्णधारा आहुः–कथय कथय युष्माकं कतमद्वीपेषु गमनायेदृशा वायवो वान्ति ? अथवा रत्नद्वीपेषु वायवो वान्ति, अथवा राक्षसद्वीपेषु वायवो वान्ति? अथ कर्णधार एवमाह– यत्खलु देवो जानीयात्–सिंहलद्वीपेषु वायवो वान्ति। अथ तद्यानपात्रमारुह्य सिंहलद्वीपं संप्रस्थितः॥



ततोऽहं सिंहलद्वीपनिवासिनीभी राक्षसीभिः संप्रस्थितो विदित्वा अकालवायव उत्सृष्टाः। तच्च तद्यानपात्रं खण्डखण्डं विशीर्णम्। ते च वणिक्पुरुषा उदके पतिता बाहुबलेन संतर्तुमारब्धाः। ततस्तीरस्य समीपमनुप्राप्ताः॥



ततो राक्षसीनां पञ्च शतानि निष्क्रान्तानि किलकिलायमानानि। कुमारीरूपमभिनिर्माय तदा कूलस्य समीपमनुप्राप्ताः। उत्तार्य शाटकानि दत्त्वा उदकेभ्य उत्क्षिप्ताः। ते च स्वकीयानि वस्त्राणि शरीरे लग्नानि गृहीत्वा निष्पीडितुमारब्धाः। निष्पीडयित्वा ते तस्मात्स्थानादतिक्रम्य अन्यप्रदेशे महतश्चम्पकवृक्षस्य तले विश्रान्ताः। विश्रमित्वा परस्परं सांकथ्यं कर्तुमारब्धाः–कोऽस्माकमुपायः संविद्यते? ते कथयन्ति–नास्माकं उपायस्य स्थानम्। एवं सांकथ्यं कृत्वा तूषींभावेन व्यवस्थिताः। अथ तेषां राक्षस्यः पुरुषाणां पुरतः स्थित्वैवमाहुः–स्वागतम्। भवन्त आगच्छताम्, अस्वामिकानां स्वामी भव। अगतिकानां गतिको भव। अद्वीपानां द्वीपो भव। अनालयनानां अपरायणानां आलयो भव, परायणो भव। इमानि तेऽन्नगृहाणि पानगृहाणि यानगृहाणि वस्त्रगृहाणि कटककेयूराणां मौलिकुण्डलानां गृहाणि उद्यानरमणीयानि पुष्किरिणीरमणीयानि संतिष्ठन्ति। ताभी राक्षसीभिरेकैकं पुरुषं गृहीत्वा स्वकं स्वकं निवेशनं प्रत्युद्गताः। या च तासां राक्षसीनां वृद्धतरा, तयाहं स्वकीयं निवेशनं नीत्वा दिव्यरससाग्रोपेतेनाहारेण संतर्पितः। संतर्पयित्वा क्रीडितुमारब्धा। स तु ततो मानुष्यकेन सौख्येन संतर्पितः। एवं द्वित्रिसप्तदिनान्यतिक्रान्तानि। स रात्रौ शयितः। एवं यावत्पश्यति रतिकरहसनं तदाहं विस्मयमापन्नः। न कदाचित्स्यान्मया दृष्टं वा श्रुतं वा प्रज्वलितमेव रतिकरहसनम्, तदैव मया तस्य प्रत्याहारः कृतः–किं कारणं त्वं हससे ? इयं सिंहलद्वीपनिवासिनी राक्षसी। सा तव जिवितान्तरायं करिष्यति। तदा मे तस्य प्रत्याहारः कृतः–त्वं जानासि राक्षसीति ? स कथयति– यदि न प्रतीयसि, दक्षिणपन्थलिकां गृहीत्वा अनुविचरन् गच्छ। तत्रायं स नगरमूर्ध्वमुच्चं गवाक्षतोरणविप्रहीणं चाप्रतिहतम्। तत्रानेकानि वणिग्जनानि भक्षयित्वा अस्थीनिप्रक्षिप्तानि। अन्ये च जीवन्तो अन्ये च मृताः। यदि न प्रतीयसि, तदपि मार्गं गच्छ। गत्वा च मार्गं निरीक्षस्व, तदा मे श्रद्धास्यसि। तदा तस्यास्तेन मोहजाला नाम निद्राति सा॥



अथ स बोधिसत्त्वो रात्रिप्रथमयामे समये तस्या राक्षस्याः सकाशादुत्थाय संप्रस्थितः। चन्द्रावभासं खङ्गं सज्जीकृतम्। उपगृह्यानुविचरंस्तां दक्षिणपन्थलिकां गृहीत्वा संप्रस्थितः। अनुपूर्वेणायसं नगरमनुप्राप्तः, समन्तेन परिक्रमति। न च द्वाराणि गवाक्षाणि समनुपश्यति। अथ तस्मिन्नायसे नगरे महान् यश्चम्पकवृक्षस्तत्रैवारुह्य ततो मया तेषामुत्कासनशब्दः कृतः। ततो मे वणिक्पुरुषाः कथयन्ति–यत्खलु महासार्थवाहो जानीयात्–वयं राक्षसीभिरायसे नगरे प्रक्षिप्ताः। तदा दिने दिने शतं पुरुषाणां गृहीत्वा भक्षयन्ति। तान् भक्षयित्वा अस्थीन्यत्रैवायसे नगरे क्षिपन्ति। तेन तस्य भूतपूर्वं वर्णितम्। तदाहं चम्पकवृक्षादवतीर्य पुनरेव दक्षिणां पन्थलिकां गृहीत्वा अनुविचरन् त्वरित आगच्छामि स्म। ततो प्रविष्टः॥



अथ रतिकरो मामेतदवोचत्– दृष्टस्ते सार्थवाह मद्वचनम्? उक्तं च मया–दृष्टं युष्माकं सत्यं सांकथ्यकृतम्। तदा मेऽस्य प्रत्याहारः कृतः–सत्यमेव, क उपायोऽस्माकम्? अथ स रतिकर एतदवोचत्–अस्ति मे महासार्थवाहोपायम्, येनोपायेन सिंहलद्वीपात् स्वस्तिक्षेमाभ्यां जम्बूद्वीपं निर्गच्छसि। पुनरेव जम्बुद्वीपमपसरसि। अथ स रतिकरो मामेतदवोचत्–अस्ति तस्मिन्नेव द्वीपे महासमुद्रतीरे देवबालाहो नामाश्वराजो हीनदीनानुकम्पकः। स च बालाहोऽश्वराजः। सर्वश्वेतानामौषधीं भुक्त्वा सुवर्णवालुकास्थले आवर्तनपरिवर्तनसंपरिवर्तनं कृत्वा शरीरं प्रच्छोडयति, प्रच्छोडयित्वा प्रत्याहारं कुरुते–कः पारगामी, कः पारगामी कः पारगामीति ? त्वयैवं वक्तव्यम्–अहं देव पारगामीति। एवं सांकथ्यं कृत्वा सा राक्षसी समीपमुपगम्य सार्धं शयित एव प्रतिविबुद्धा। सा कथयति– आर्यपुत्र, कथं ते शरीरं शीतलम्? तदा मया तस्या मृषावादं प्रत्याहारं कृतम्। बहिर्नगरस्य उच्चारप्रस्रवेण निष्क्रान्तोऽहम्, ततः शरीरं शीतलम्। इत्युक्त्वा सा पुनरपि शयिता। ततः प्रातः सूर्यस्य चाभ्युद्गमनकालसमये उत्थाय तेषां वणिक्पुरूषाणामारोचयति स्म–आगच्छन्तु भवन्तो बहिर्नगरस्य गच्छामः। ते सर्वे सहिताः समग्रा बहिर्नगरस्य संप्रस्थिताः। ते च बहिर्नगरस्य गत्वा एकान्ते विश्रान्ताः सांकथ्यं कर्तुमारब्धाः–कस्य कीदृशी भार्या स्नेहवती? केचित्कथयन्ति–अतिस्नेहं न कुरुते। केचित्कथयन्ति–मम दिव्यरसरसाग्रोपेतैराहारैः संधारयति। केचित् कथयन्ति–नानाविधैर्वस्त्रैर्मम संधारयति। केचित्कथयन्ति–मम दिव्यमौलीकुण्डलस्रग्दामानि धारयति। केचित्कथयन्ति–नास्माकं कायदौर्बल्यम्। केचित्कथयन्ति–मम विविधानि चन्दनकर्पूरकस्तूरिकादीनि धारयति। एवं तैः सांकथ्यं कृतम्। तदा तेषां वणिक्पुरुषाणां प्रत्याहारं करोति स्म–न युष्माकं युक्तमिदं यद्वयं राक्षसीभिः प्रसक्ताः। इति श्रुत्वा ते विह्वलीभूताः एवमाहुः–सत्यं महासार्थवाह, राक्षसी सिंहलद्वीपनिवासिनीति। तदा तेषां मया प्रत्याहारः कृतः–सत्यं सत्यं बुद्धधर्मसंघेभ्यं, नेयं मानुषी, राक्षसी। अथ ते वणिक्पुरुषाः कथयन्ति–कास्माकं गतिः? किं परायणम्? तदा तेषां मया प्रत्याहारः कृतः– अस्माकं गतिः शरणं परायणम् ? वणिक्पुरूषाः कथयन्ति– उपदर्शय सार्थवाह। अथ स तेषामेवमाह–अस्ति युष्माकं सिंहलद्वीपे बालाहो नाम अश्वराजः। स च हीनदीनानुकम्पकः। स सर्वश्वेतानामौषधीर्भुक्त्वा सुवर्णवालुकास्थले आवर्तनं करोति। कृत्वा च शरीरं प्रच्छोडयित्वा वाणीं प्रत्याहरेदिति–कः पारगामी कः पारगामी कः पारगामीति। तत्रास्माभिर्गन्तव्यम्–वयं पारंगामिन इति। अथ ते वणिक्पुरूषा ऊचुः–कतमे दिने गच्छामो वयम्? स प्रत्याहारं कर्तुमारब्धः–तृतीये दिवसेऽवश्यं गन्तव्यम्। पुरुषेण संबलं कर्तव्यमिति। ते क्रियाकारं कृत्वा पुनरेव तन्नगरं प्रविष्टाः स्वकस्वकं निवेशनमुपगता। ताभी राक्षसीभिः संभाषिताः– श्रान्तस्त्वम्, दृष्टास्ते तान्युद्यानरमणीयानि पुष्करिणीशतानि रमणीयानि? स कथयति–न च ते किंचिद् दृष्टम्। अथ सा राक्षसी तमेतदवोचत्–सन्ति आर्यपुत्र विविधान्यस्मिन् सिंहलद्वीपे उद्यानरमणीयानि पुष्करिणीरमणीयानि विविधविचित्रपुष्पपरिपूर्णानि। अनेकानि च पुष्करिणीशतानि रमणीयानि। स प्रत्याहारं कर्तुमारब्धः–तृतीये दिवसे गमिष्यामीत्यतः संबलं कर्तव्यम्। उद्यानभूमिदर्शनायोपसंक्रमिष्यामि। तानि च विविधानि पुष्करिणीशतानि रमणीयानि उद्यानशतानि पुष्पपरिपूर्णानि पश्यामि। तानि च विविधानि पुष्पाणि गृहीत्वा आगमिष्यामि। सा कथयति स्म–आर्यपुत्र। एवं करोम्यहम्। ततस्तेन शरीरमनुविचिन्त्य। (?) अथ राक्षस्यो जानन्ति योगं तेनास्माकं (?) जीवितान्तरायं करिष्यन्ति। ईदृशं शरीरमनुविचिन्त्य तूष्णींभावेन व्यवस्थितः। तस्य तया प्रणीताप्रणीतान्याहाराण्यनुप्रदत्ता। भुक्त्वा च उच्छ्वासं छोरितम्। सा कथयति राक्षसी–आर्यपुत्र किं कारणं उच्छ्वासं छोरितम् ? अथ स तामेतदवोचत्–स्वदेशाभिरता जाम्बुद्वीपका मनुष्याः। सा आह–किं करोष्यार्यपुत्र स्वकीयेन विषयेन?

अस्मिन्नेव सिंहलद्वीपे विविधान्यन्नगृहाणि पानगृहाणि वस्त्रगृहाणि विविधान्युद्यानरमणीयानि पुष्करिणीरमणीयानि। विविधसुखमनुभवसे। किं जम्बुद्वीपमनुशोचसे ? तदाहं तूष्णींभावेन व्यवस्थितः। स तं दिवसमतिक्रान्तः। द्वितीये दिवसे प्रणीतान्याहाराणि सत्वरमनुप्रदत्तानि सज्जीकृतानि। तृतीये दिवसे प्रत्यूषकालसमये सर्वे ते संप्रस्थिताः। ते च बहिर्नगरस्य निष्क्रान्ताः। निष्क्रमित्वा क्रियाकारं कर्तुमारब्धाः। न पुनः केनचित् पुनरेव सिंहलद्वीपो निरीक्षितव्यः। त्वरितमस्माभिर्गन्तव्यम्। ईदृशं क्रियाकारं कृत्वा संप्रस्थिताः त्वरितं त्वरितमेव लघु लघ्वेव गच्छन्ति। अनुपूर्वेण यत्र स बालाहकोऽश्वराजस्तत्रानुप्राप्ताः। यावत्पश्यन्ति बालाहमश्वराजम्। तं सर्वश्वेतानामौषधीमास्वादयति। आस्वादयित्वा सुवर्णवालुकास्थले आवर्तनं करोति। कृत्वा च शरीरं प्रच्छोडयति। यदा शरीरं प्रच्छोडयति तदा सिंहलद्वीपं चलति स्म। त्रीणि वाक्यानि प्रत्याहरति स्म–कः पारगामी, कः पारगामी, कः पारगामीति ? अथ स बालाहोऽश्वराजस्तानेतदवोचत्–भो वणिक्पुरुषाः। यदा शरीरं प्रच्छोडयामि, न तदा युष्माकं केनचित्सिंहलद्वीपो निरीक्षितव्यः। न केनचिच्चक्षुर्विस्फुरितव्यम्। ते तादृशं क्रियाकारं कृत्वा......। तदाहं प्रथमतरमारूढः, पश्चात्पञ्चशताणि वणिग्जनाः। यदा ते आरूढाः तदा सिंहलद्वीपनिवासिन्यो राक्षस्यः किलकिलायमानाः पृष्ठतो धावन्ति स्म रुदन्त्यः करुणकरुणैर्विलापैः। ततस्तै रुदच्छब्दं श्रुत्वा प्रतिनिवर्त्य निरीक्षितुमारब्धम्। तैर्निरीक्ष्यन्ते। तदा तेऽधोमुखा उदके पतन्ति स्म। यदा ते उदके पतिताः, तदा राक्षस्य उत्क्षिप्य मांसं भक्षयन्ति स्म। तदाहमेकाकी जम्बूद्वीपमेव प्रत्युद्गतः। तदा तीरस्य समीपे बालाहमश्वराजं त्रिः प्रदक्षिणीकृत्य तत्रैव प्रक्रान्तः। ततोऽहं संप्रस्थितः। स्वकीयं निवेशनमनुपूर्वेणानुप्राप्तः। तदा मे मातापितारौ कण्ठे परिष्वज्य रोदितुमारब्धौ। ततो बाष्पेण पटलानि विस्फुटितानि। ततो द्रष्टुमारब्धौ। ततो मातापितृभ्यां सार्धं विश्रान्तः। तेन तेषां सर्वं भूतपूर्वं वृत्तान्तमाख्यातम्। ततस्तौ मातापितरौ कथयतः स्म–जीवंस्तु पुत्र त्वमनुप्राप्तः। नास्माकं द्रव्येण कृत्यम्। जराकाले यष्टिभूतोऽन्धकारे मार्गस्योपदर्शकः, मरणकाले पिण्डदाता, मृतस्य सनाथीकरणीयम्। यथा शीतलो वातो नाम पुत्र आह्लादकरः। एतद्वचनं मातापितरौ चाख्यातम्। ईदृशं मया सर्वनीवरणविष्कम्भिन् सार्थवाहबोधिसत्त्वभूतेन दुःखमनुभूतम्॥



तद्यथापि नाम सर्वनीवरणविष्कम्भिन् बालाहकं तमश्वराजभूतेनावलोकितेश्वरेण बोधिसत्त्वेन महासत्त्वेन तादृशादहं मृत्युभयात्परिमोक्षितः। तद्यथापि नाम सर्वनीवरणविष्कम्भिन् न शक्नोम्यवलोकितेश्वरस्य पुण्यसंभारं गणयितुम्। अल्पमात्रमिदं सांकथ्यं कृतं एकैकरोमविवरस्य॥



इति अश्वराजवर्णनं नाम प्रथमं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project