Digital Sanskrit Buddhist Canon

वाराणसीभ्रमणं पञ्चदशं प्रकरणम्

Technical Details
वाराणसीभ्रमणं पञ्चदशं प्रकरणम्।



अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तस्मात्सिंहलद्वीपादवतीर्य वाराणस्यां महानगर्यामुच्चारप्रस्रावस्थाने गतो यत्रानेकान्यनेकानि कृमिकुलशतसहस्राणि प्रतिवसन्ति। ततोऽवलोकितेश्वरो बोधिसत्त्वो महासत्त्व उपसंक्रम्य तत्रास तानि प्राणिशतसहस्राणि दृष्ट्वा आत्मानं भ्रमररूपमभिनिर्माय घुणघुणायमाणम्। तदेषां शब्दं निश्चारयति–नमो बुद्धाय, नमो धर्माय, नमः संघाय इति। तच्छ्रुत्वा ते च सर्वे प्राणकाः नमो बुद्धाय नमो धर्माय नमः संघायेति नाममनुस्मारयन्ति। ते च सर्वे बुद्धनामस्मरणमात्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा सर्वे ते सुखावत्यां लोकधातावुपपन्नाः सुगन्धमुखा नाम बोधिसत्त्वा बभूवुः। सर्वे ते भगवतोऽमिताभस्य तथागतस्यान्तिकादिदं कारण्डव्यूहं नाम महायानं श्रुत्वा अनुमोद्य च नानादिग्भ्यो व्याकरणानि प्रतिलब्धानि॥



अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो सत्त्वपरिपाकं कृत्वा तस्या वाराणस्या महानगर्याः प्रक्रान्तः॥



इति वाराणसीभ्रमणं नाम पञ्चदशं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project