Digital Sanskrit Buddhist Canon

देवभवनभ्रमणं त्रयोदशं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Devabhavanabhramaṇaṁ trayodaśaṁ prakaraṇam
देवभवनभ्रमणं त्रयोदशं प्रकरणम्।



अथार्यावलोकितेश्वरो ज्वलदिवाग्निपिण्डमाकाशेऽन्तर्हितः। ततो देवभवनं गत्वा शुद्धावासकायिकदेवपुत्राणां सकाशमुपसंक्रान्तः। उपसंक्रम्य ब्राह्मणरूपमात्मानमभिनिर्मायागमत्। तत्र देवनिकायेषु सुकुण्डलो नाम देवपुत्रो दरिद्रो दुश्चित्तश्चेति। अथ आर्यावलोकितेश्वरः स तेन ब्राह्मणरूपेण तस्य देवपुत्रस्य सकाशमुपसंक्रान्तः। उपसंक्रम्य सर्वेषां देवानां दारिद्र्यदुःखव्युपशमाय तं देवपुत्रमेतदवोचत्–बुभुक्षितोऽहं तृषितश्चेति। अथ स देवपुत्रो रुदंस्तं ब्राह्मणमेतदवोचत्–न च मे ब्राह्मण किंचित्संविद्यते। ब्राह्मणोऽवोचत्–अवश्यं त्वया मम किंचिद्दातव्यम्। अथ स देवपुत्रो विमानं प्रविश्य सर्वभाण्डं निरभ्यवेक्षितुमारब्धः। स च परिपतितं निवेशनं दिव्यैर्महार्है रत्नभाण्डैः परिपूर्णं दक्षिणपार्श्वम्, अन्यानि च भाण्डानि दिव्यरसरसाग्रोपेतैराहारैः परिपूर्णानि वामपार्श्वे विमानस्य वस्त्राभरणैः सर्वपुष्पगन्धादिभिः परिपूर्णानि॥



अथ स देवपुत्र एतद् दृष्टैवं चिन्तामापेदे–अवश्यमयं स सत्पात्रो द्वारे स्थितो यस्य दर्शनमात्रेणापिदृशी लक्ष्मीर्ममानुप्राप्ता। अथ स देवपुत्रस्तं ब्राह्मणमाहूयैवमाह–एहि ब्राह्मण, इदं विमानं प्रविश। स च ब्राह्मणस्तेन देवपुत्रेण विमाने प्रविश्य तैर्दिव्यरत्नैः प्रतिपादितः, दिव्यै रसरसाग्रोपेतैराहारैर्भोजितः, दिव्यैर्वस्त्रैः प्रवारितः। स भुक्त्वा च स्वस्तिकारमनुकुरुते। अथ स देवपुत्रस्तं ब्राह्मणमेतदवोचत्–भो ब्राह्मण, कतमाया भूम्यास्त्वमागतः? ब्राह्मण आह–जेतवननाममहाविहारादहमागतः। अथ स देवपुत्रस्तमेतदवोचत्–कीदृशी सा भूमिः? अथ स ब्राह्मणो देवपुत्रमेतदवोचत्–तथागताध्युषिता सा भूमी रमणीया दिव्यमणिरत्नपरिखचिता परिशोभिता। परिभोगाय च तद्भूमौ दिव्यकल्पवृक्षाः प्रादुर्भूताः, मनोरमाणि पुष्पाणि प्रादुभर्वन्ति, विविधाः पुष्करिण्यो दृश्यन्ते, विविधाश्च शीलवन्तो गुणवन्तो दक्षिणीया दृश्यन्ते विश्वभुवः। तथागतस्यानेकानि प्रातिहार्याणि दृश्यन्ते। एवं सा परमरमणीया देवपुत्र भूमिः। अथ स देवपुत्रस्तं ब्राह्मणमेतदवोचत्–अवश्यं त्वया ब्राह्मण सत्यं प्रत्याहारः कर्तव्यः। अथवा त्वं देवोऽसि, मनुष्योऽसि वा? न च मनुष्यस्येदृशं निमित्तं भवति यादृशं तव निमित्तं भवति। अथ स ब्राह्मणस्तमेतदवोचत्–न देवः, अपि तु मानुषोऽहं बोधिसत्त्वभूतः। एवं हीनदीनानुकम्पको बोधिमार्गमुपदर्शकः। अथ स देवपुत्रस्तस्मै मौलिकुण्डलमुपनामयति, उपनामयित्वा च स देवपुत्र इमां गाथां भाषित(वान्)–



अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम्।

अद्यैव वापितं बीजं अद्यैव फलसंपदम्॥

अथ स देवपुत्र इमां गाथां भाषित्वा तत्रैव प्रक्रान्तः॥

इति देवभवनभ्रमणं नाम त्रयोदशं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project