Digital Sanskrit Buddhist Canon

बलिसमाश्वासनमेकादशमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
बलिसमाश्वासनमेकादशमं प्रकरणम्।



अथ स राजा बलिरसुरेन्द्रोऽवलोकितेश्वरं बोधिसत्त्वं महासत्त्वं दूरत एवागच्छन्तं पश्यति स्म। दृष्ट्वा च सान्तःपुरपरिवारैः सार्धमनेकैरसुरशतसहस्रैः कुब्जवामनकादिभिः सहस्रपरिवारैर्गत्वा अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य पादयोर्निपत्येदमुदानयति स्म–



अद्य मे सफलं जन्म जीवितं पुण्यमेव च।

अद्य मे हीदृशं चैव परिपूर्णं मनोरथम्॥ १॥



अद्य मे आशयः पूर्णः परिशुद्धश्च दुःखतः।

यन्मया दर्शने सम्यग् दृष्ट्वा लोकैकबान्धवः॥ २॥



तदा मे सर्वसौख्यं च कामे संतिष्ठते पुनः।

सौख्या भवन्ति ते सत्त्वा सर्वदुःखविवर्जिताः॥ ३॥



संसारबन्धनान्मुक्तास्तिष्ठन्ति सुखमोदकाः।

ममापि दर्शनेनैव सर्वे स्फुटितबन्धनाः।

दूराद्दूरतरं यान्ति गरूडस्येव पन्नगाः॥ ४॥



अथ स राजा बलिस्तस्य भगवतोऽवलोकितेश्वरस्य पादयोः प्रणिपत्य रत्नपीठकं दत्त्वा दशनखाञ्जलिं कृत्वैवमाह–



अपि च। भगवन्, निषीदस्व अस्मिन्नासने, अनुग्रहं कुरु, पापरतानां जात्यन्धभूतानां परदारगमनप्रसक्तानां प्राणातिपातोद्युक्तानां परप्राणाहिंसकानां जरामरणभयभीतानामुद्विग्नमानसानां संसारदुष्टवार्तानां त्राता भव। अनाथानां मातापितृभूतो भव। दुष्टदारुणचण्डभूतानां भगवन् त्राता भव। परमदारुणदुष्टप्रशमको भव। एषामस्माकं बन्धनबद्धानां तव दर्शनेन सर्वबन्धनादयः परिमुक्ताः, स्फुटिताः दूराद्दूरतरं पलायन्ति। त्वद्दर्शनमात्रेण यानि तानि राज्ञश्चक्रवर्तिनश्च शुभकर्मजातानि चक्रवर्तिसुखानि मम संविद्यन्ते, तत्स भगवन् तादृशं धर्ममार्गमुपदर्शय, येनैवं पुनरेव बन्धनदुःखं न प्रत्यनुभवेम। न च पुनरिमानि यानि सर्वबन्धनानि चक्षुषु आभासमागच्छेयुः॥



अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो राजानं बलिमसुरेन्द्रमेवमाह-ये महाराज सत्त्वानामन्तिके अविहिंसाचित्तमुत्पादयन्ति, तथागतशासने पिण्डपात्रमनुप्रयच्छन्ति, कारोपकारं बहुतरं कुर्वन्ति, न च तेषां केचित्सत्त्वाः स्वप्नेनापि पीडयन्ति। अमुं च कारण्डव्यूहं महायानसूत्ररत्न‍राजं लिखन्ति, लिखापयन्ति, अन्ततो नामधेयमपि, अस्माद्धर्मपर्यायं शृण्वन्ति, अस्य बोधिसत्त्वस्यैकमपि पिण्डपात्रमनुप्रयच्छन्ति, तेषां च धर्मभाणकानामस्य धर्मपर्यायस्य धारकानां वाचकानां लेखकानां संश्रावकाणाम्, अस्य च तथागतस्य धर्मपर्यायमुद्दिश्य एकदिवसमपि पुरोभक्तमपि पिण्डपात्रमनुप्रदास्यति, ते सर्वे चक्रवर्तिराज्यलाभिनो भविष्यन्ति। न च कदाचित्क्षुत्पिपासादुःखं प्रत्यनुभविष्यन्ति। न च कदाचिन्नरकबन्धनदुःखं प्रत्यनुभविष्यन्ति। न च प्रियविप्रयोगदुःखम्। अपि च सर्वदुःखेभ्यो विमुच्यन्ते। सुखावतीलोकधातुमनुगमिष्यन्ति, तस्य च भगवतोऽमिताभस्य तथागतस्य पुरतः संमुखं धर्मं श्रुत्वा व्याकरणमनुप्राप्स्यन्ति। अपि च महाराज। श्रूयतां दानफलम्। तद्यथापि नाम कुलपुत्र ये तथागतस्यार्हतः सम्यक्संबुद्धस्य तिष्ठतः परिनिर्वृतस्य वा पिण्डपात्रमनुप्रयच्छन्ति, तेषामिदं पुण्यस्कन्धं प्रवक्ष्यामि। तद्यथापि नाम कुलपुत्र द्वादशगङ्गानदीवालुकोपमा मम सदृशा बोधिसत्त्वा महासत्त्वा भवेयुः, ते चैकस्थाने धारयेयुर्दिव्यकल्पतत्पुण्यप्रमाणमुद्ग्रहीतुं सर्वसुखोपधानेन समुपतिष्ठमानाः, तेऽपि सर्वे समग्रीभूता न शक्यन्ते एकस्य पिण्डप्रात्रप्रदानस्य कुशलमूलसंभारस्य पुण्यस्कन्धं गणयितुम्। प्रागेवाहमेकाकी अस्मिन्नसुरभवने विहरामि। तद्यथापि नाम कुलपुत्र शक्यते मया परमाणुरजसां प्रमाणमुद्ग्रहीतुम्। न तु कुलपुत्र शक्यं मया पिण्डपात्रस्य पुण्यस्कन्धं गणयितुम्। तद्यथापि नम कुलपुत्र चतुर्षु महाद्वीपेषु स्त्रीपुरुषदारकदारिकादयस्ते सर्वे कृषिकर्मान्ते उद्युक्ता भवेयुः। ते चतुर्महाद्वीपेषु नान्यं कृषिं कारयेयुः। कालेन कालं नागराजानो वर्षधारामनुप्रयच्छन्ति। ते च सर्षपान् निष्पाद्यन्ते। तच्चैकद्वीपखलं कुर्यात्। सर्वे ते स्त्रीपुरुषदारकदारिकादयः शकटैर्भारैर्मुटैः पीठकैरुष्ट्रैर्गोभिर्गर्दभैः सर्वे ते मर्दयित्वा तस्मिन् महाखलके महान्तं राशिं कुर्यात्। गोभिर्गर्दभादिभिर्मर्दयित्वा महान्तं राशिं निष्पादयित्वा। तच्छक्यं कुलपुत्र एकमेकं फलं गणयितुम्। न तु कुलपुत्र शक्यते पिण्डपात्रस्य पुण्यस्कन्धं गणयितुम्। तद्यथापि नाम कुलपुत्र सुमेरुः पर्वतराजः चतुरशीतियोजनसहस्राणि अधस्तादुपगतः ऊर्ध्वेण चतुरशीतियोजनसहस्राण्युच्छ्रयेण च। स कुलपुत्र भूर्जराशिर्भवेत्। महासमुद्रो मेलन्दुकपरिमण्डलं भवेत्। ये चतुर्द्वीपनिवासिनः पुरुषदारकदारिकास्ते च सर्वे लेखका भवेयुः। तच्च सुमेरुपर्वतराजान्तपर्यन्तं लिखितं भवेत्। तच्च कुलपुत्र शक्यं मयैकैकाक्षरं गणयितुम्। न तु कुलपुत्र शक्यते पिण्डपात्रस्य पुण्यस्कन्धं गणयितुम्। तद्यथापि नाम कुलपुत्र लेखकाः सर्वे ते दशभूमिप्रतिष्ठिता बोधिसत्त्वा भवेयुः पर्यापन्नाः। यच्च तेषां दशभूमिप्रतिष्ठितानां बोधिसत्त्वानां महासत्त्वानां पुण्यस्कन्धं तमेकस्य पिण्डपात्रस्य पुण्यस्कन्धं गणयितुम्। तद्यथापि नाम कुलपुत्र गङ्गाया नद्या वालुकासमुद्रस्य च शक्यं मया एकैकं वालुकां गणयितुम्, न तु कुलपुत्र शक्यते मया पिण्डपात्रस्य पुण्यस्कन्धं गणयितुम्। तद्यथापि नाम कुलपुत्र शक्यते मया सर्वमतुरास्रां(?) प्रमाणमुद्ग्रहीतुम्। न शक्यं मया कुलपुत्र पिण्डपात्रस्य पुण्यस्कन्धं गणयितुम्॥



अथे बलिसुरेन्द्रः इदं च तस्य भगवतोऽवलोकितेश्वरस्यान्तिकात्पिण्डपात्रकुशलभूतस्य सुक्षेत्रावरूढबीजपात्रभूतस्य निर्देश्यमानस्य तत्सर्वमनुमोद्य साश्रुदुर्दिनवदनो गद्गदकण्ठः बाष्पपरिपूर्ण उच्छ्वसन् अवलोकितेश्वरं बोधिसत्त्वं महासत्त्वमेतदवोचत्-कीदृशं मया भगवन् बलिना कर्म कृतं दानं दत्तम्, येनेहैव जन्मनि बन्धनमनुप्राप्तम् ? सान्तः-पुरपरिवारेण कुक्षेत्रे मया दानं दत्तम्। तस्यैव तत्कर्मणः फलमनुभवामि। अथवा सर्वज्ञक्षेत्रे भस्ममुष्टिमुपक्षिप्तमपि अमृतं परिनिष्पद्यते। मयाज्ञानेन यज्ञां यजितम्। यदा मया च भगवन् तैर्थिकदृष्टिपर्यापन्नेन मानग्रस्तमानसेन च यज्ञं यजता महादानसमुच्छ्रयं कर्तुमारब्धम्, तदा मे तत्र यज्ञे वामनकरूपेण याचनको हिंस्रः समागतः। तस्य मे मौलीकुण्डलस्रग्दामानि रत्नाभरणानि ह्यश्वरथादीनि मुक्त्वा रत्नकवचानि मरकतप्रलम्बितानि चामरप्रलम्बितानि मुक्ताहाराणि मुक्तिकाजालप्रलम्बितानि मुक्तिकाजालप्रतिच्छन्नानि मुक्तिकाकलापजालाङ्गुलीकानि सौवर्णघण्टिकारूप्यनिबद्धानि रणरणायमानानि, (अन्यानि च) कपिलासहस्राणि रूप्यपादानि सौवर्णशृङ्गानि मुक्ताजालप्रलम्बितानि मुक्तिकाजालप्रतिच्छन्नानि अर्घपात्रसमायुक्तानि नानाविचित्रघण्टारत्नसमायुक्तानि, तादृक्षाणि कपिलासहस्राणि, (अन्यानि च) कुमारीणां शतसहस्राणि परमया गुर्वरुणपुष्कलतया समन्वागतानां नानाविचित्राणां कन्यालक्षणसमलंकृतानां परमरूपशोभमानामप्सरसामपि प्रतिस्पर्धिनीनां दिव्यालंकारविभूषितानां मौलीकुण्डलस्रग्दामपरिक्षेपिकाणां केयूरकटकनूपुरकटिमेखलाहस्तोत्तर्या कर्णपृष्ठोत्तर्या हस्ताङ्गुलीयसमायुक्तानां सरसरायमाणमालासमायुक्तानां नानारङ्गोपरक्तवस्त्रप्रावृतानाम्, (अन्यानि) रत्नपीठशतसहस्राण्यनेकानि सुवर्णराशिरूप्यराशीनि रत्न‍राशीनि स्थापितानि। अनेकानि च वस्त्राभरणानि स्थापितानि। अनेकानि च गोकुलशतानि सगोपालसमायुक्तानि सज्जीकृतानि। अनेकान्यन्नपानशतानां स्थापितानि। दिव्यरसरसाग्रोपेतान्याहाराणि सज्जीकृताणि। अनेकानि सुवर्णरूप्यमयानि दण्डानि रत्नसंयुक्तानि सततं व्यवस्थापितानि। अनेकानि सुवर्णरूप्यमयानि संहासनानि रत्नसंयुक्तानि च। दिव्यानि चामरदण्डानि धत्राण्युपानहानि रत्नपरिवेष्टितानि। अनेकानि सुवर्णमयानि रूप्यमयानि मौलिकुण्डलस्रग्दामसहस्राणि रत्नोपचितानि। तस्मिन् स मया राज्ञा शतसहस्रान् संनिपतितान् ब्राह्मणशतसहस्रं संनिपतितम्। अनेकानि क्षत्रियशतसहस्राणि संनिपतितानि। तदाहं भगवन् एवं स्थानस्थितानां यथासंनिपतितानां दृष्ट्वा विस्मयमापन्नः। त्रीणि वाराणि एकच्छत्रां पृथिवीं कृतवान्। तत्र मया पात्रभूतेष्विदं दानं दातुमारब्धम्। एतत्पौर्विकं पापं प्रतिदेशयामि-क्षात्रियभार्याणां गुर्विणीनां यावद्धृदयं स्फुटयित्वा कुमारकुमारिका जीविताद्वयपरोपिताः। ततस्ते च महाक्षत्रियाः सर्वे मया हडनिगडबन्धनैर्बद्धाः। नीत्वा ताम्रगुहायामनेकानि क्षत्रियशतसहस्राणि पञ्चबन्धनबद्धानि कृत्वा स्थापितानि पञ्चपाण्डवप्रभृतीनि। तस्यामेव यक्षगुहायामुपयमानि कीलकानि शृङ्खलासमायुक्तानि तेषां क्षत्रियाणां हस्तपादानि बद्ध्वा स्थापितानि। तदा मे सर्वद्वाराणि जृम्भीकृतानि। प्रथमं द्वारं काष्ठमयम्, द्वितीयं द्वारं खदिरमयम्, तृतीयं द्वारमयोमयम्, चतुर्थं द्वारं ताम्रमयम्, पञ्चमं द्वारं रूप्यमयम्, षष्ठं द्वारं सुवर्णमयम्, सप्तमं द्वारं रत्नमयम्। एतानि सप्त द्वाराणि। एकैकद्वारे पञ्च पञ्च शतानि कपाटानि यन्त्रसमायुक्तानि। तस्मिन् सुवर्णमये द्वारे सप्तपर्वतान्युपर्युपरि स्थापितानि। एकैकस्मिन् द्वारे एकैकपर्वतानि उपर्युपरि स्थापितानि। ततोऽहं पश्चाद्दशरथपुत्रमन्वेषयामि। क्वचिद्दिवसे मक्षिकारूपेण, क्वचिद्दिवसे भ्रमररूपेण, क्वचिद्दिवसे वराहरूपेण, क्वचिद्दिवसे मानुषरूपेण। रूपं कृत्वा दिने दिने मृगपक्ष्यादिना नानाजन्तुरूपेण। न च संमुखं तं समनुपश्यामि। तदा मेऽनुविचिन्तयित्वा यज्ञः प्रारब्धः॥



तदात्र मे दशरथपुत्रेणावतारप्रेक्षिणा गत्वा तेन द्वारस्थापिताः सप्त पर्वता उत्पाटिताः। उत्पाटयित्वा लघुनीवान्यप्रदेशे छोरयित्वा उच्चैःशब्देन तेषां क्षत्रियाणामारोचयति स्म युधिष्ठिरनकुलसहदेवभीमसेनार्जुनकौरवादिभिः। अन्ये राजानः शब्दमनुश्रुतं श्रुत्वा समाश्वास्य स्वस्थकाया व्यवस्थिताः। स च तानेवमाह-जीवन्तो युष्माकमथवा मृताः? ते कथयन्ति-जीवामो भगवन्। तेन महावीर्येण पुरुषेण सर्वाणि तानि द्वाराणि भग्नानि। यावत्ताम्रगुहायां पश्यति, सर्वे ते राजानो बन्धनबद्धाः। दृष्ट्वा च नारायणं सर्वे ते परस्परं विचिन्तयन्ति- अथ बलिरसुरेन्द्रो मृतः कालगतः? अथवा पुनरपि मरणकालोऽस्माकं भूतः? अथ ते कथयन्ति-वरमस्माकं संग्रामभूमीमरणं न तु बन्धनबद्धानां मरणम्। यदा बन्धनबद्धाः कालं कुर्याम, तदा क्षत्रियधर्ममस्माकं विनश्यति। यदा संग्रामभूमौ कालं कुर्याम, तदा स्वर्गोपगा वयं भवेम॥



अथ ते राजानः सर्वे स्वकं स्वकं गृहं गताः। तदा रथयोग्यान्यश्वानि स्वकस्वकानि सज्जीकृतानि। यदा ते रथं सज्जीकुर्वन्ति महार्हाणि शस्त्राणि, तदा दशरथपुत्रेण वामनकरूपमभिनिर्माय मृगाजिनेनोत्तर्य वेणुदण्डमुपगृह्य पीठिकामुपगृह्य संप्रस्थितो मत्सकाशम्। द्वारमागतः। द्वारपालैरनुबद्धः-मा प्रविश वामनक ब्राह्मण इति। स कथयति-दूरादेवाहमागतः। अथ स द्वारपालस्तमेतदवोचत्-ब्राह्मण। कतमस्या भूमेस्त्वमागतः? स तमाहचन्द्रद्वीपाद्राजर्षिरहमागतः। अथ स द्वारपालपुरुषो गत्वा बलिमारोचयति-देव, आगतस्ते वामनको ब्राह्मणः। अथ स बलिस्तमेतदवोचत्-कीदृशं वस्तु याचते ? अथ स द्वारपालस्तमेतदवोचत्-देव न तमनुजानामि। अथ स बलिस्तमेतदवोचत्-गच्छन्तु भवन्तः, आनीयतां ब्राह्मणः। स तैर्द्वारपालपुरुषैराहूयोक्तः- प्रविश महाब्राह्मण। स प्रविष्टः, रत्नपीठमनुप्रदत्तम्। शुक्रस्तत्रैव व्यवस्थितः। स च तस्योपाध्याय इति ख्यायते। स तं बलिमेतदवोचत्- एष कालपुरुषोऽवप्रविष्टः, अवश्यं ते विघातो भविष्यति। बलिस्तमेतदवोचत्- कथं जानासि भगवन् ? शुक्र उवाच- जानाम्यहं तस्य निमित्तानि चिह्नानि च दृष्ट्वा। बलिराह-किमुपायं वयं कुर्यामः? अथ नारायणेन विचिन्त्य अवश्यं दानस्य विप्रतिसारं भविष्यति। तेन मे सरस्वती मुखे न्यस्ता, तदा स कथयति-आगच्छ ब्राह्मण। कीदृशमभिप्रायो भवतः? स प्रविश्यैतदवोचत्-द्विपदभूमी याचयामि। बलिरुवाच-यदि त्वं ब्राह्मण द्विपदं याचसे, मया त्रीणि पदानि तेऽनुप्रदत्तानि। स प्रतिग्रहं तस्योपगृह्य स्वस्तिमुपवद्यानुगृहीतं तेन तिलपानीयसुवर्णसहितम्। ततस्तेन वामनकरूपमन्तर्धापितम्। अथ शुक्रो बलिमेतदवोचत्-राजन् कथितं मया कालपुरुष एष प्रविष्टः। न च त्वया प्रमाणं कृतं वचनम्। तस्यैतत् कर्मफलमनुभव। तेनात्मानं महाप्रमाणीकृतम्। तस्य चन्द्रादित्यौ स्कन्धौ व्यवस्थितौ। गृहीत्वासौ निगडचक्रधनुस्तोमरभिण्डिपालासन्नह्य (?)॥



अथ बलिरसुरेन्द्रोऽधोमुखं प्रपतितः स्मृतिभ्रष्टः थरथरायमानः स्थितः। किं कृत्य(?) स्वहस्तेन मया विषं भक्षितम्। द्विपदानि परिपूरितानि। तृतीयं पदं न संविद्यते। तदा स कथयति-तृतीयस्य पदं न संविद्यते। यन्मम प्रतिग्रहं याचितम्, कीदृशं पापं करोम्यहम्? अथ नारायणस्तमेतदवोचत्-यत्राहं स्थापयामि तत्र त्वया स्थातव्यम्। अथ स बलिरसुरेन्द्रस्तमेतदवोचत्-यादृशं त्वयाज्ञप्तं तादृशं करोम्यहम्। सत्यं कुरुषे? स कथयति-सत्यं सत्यं करोम्यहम्। तेन सत्यपाशैर्बद्धः। सा च यज्ञभूमिर्विनाशिता। तानि च भाण्डान्युच्छिष्टीकृतानि। ता अपि च कुमारिकाः पाण्डवैः कौरवैर्विध्वंसिताः। तानि च सुवर्णमयानि सिंहासनानि दिव्यानि च्छत्राण्युपानहानि रत्नपरिवेष्टितानि च वस्त्राभरणानि च सुवर्णघण्टानि सुवर्णकटकानि रत्नखचितानि कपिलानि कौरवपाण्डवैर्विध्वंसितानि। सा च यज्ञभूमिर्विनाशिता॥



अथ स बलिरसुरेन्द्रो यज्ञभूमेर्निष्क्रान्तः शरीरचिन्तामापेदे-दाता बलिरुदारयज्ञमुपास्य। कालदानस्य दत्तस्य बन्धनमेव लब्धम्। नमोऽस्तु देवाय। यथैव कर्ता सर्ता स नीत्वा पातालमुपस्थापितः सान्तःपुरपरिवारः। आख्यातं हि मया भगवन्-भूतपूर्वं कुरुक्षेत्रे मया दानं दत्तं तस्यैतत्कर्मफलमनुभवामि। तथा त्राता भवाहि मे भगवन्नाथ, न भूयो दुःखमाप्नुयाम्॥



अथे बलिस्तं भगवन्तमार्यावलोकितेश्वरं बोधिसत्त्वं महासत्त्वं स्तोत्रविशेषैः स्तोतुमारब्धः- त्राणं भवाहि शुभपद्महस्त। पद्मश्रियालंकृतशुद्धकाय। अमिताभमूर्ते शिरसा नमामि। जटार्धमध्ये चिन्तामणिमुकुटधराय। शुभपद्महस्ताय। पद्मश्रिया समलंकृताय। जटामुकुटधराय। सर्वज्ञवशीकृताय। बहुसत्त्वाश्वासनकराय। हीनदीनानुकम्पाय। दीवाकरवररोचनकराय। पृथिवीवररोचनकराय। भैषज्यराजोत्तमाय। सुशुद्धसत्त्वाय। परमयोगमनुप्राप्ताय। मोक्षप्रवराय मोक्षप्रियाय। चिन्तामणिवत्सदृशाय। धर्मगञ्जपरिपालनकराय। षट्पारमितानिर्देशनकराय। सुचेतनकराय। इदं स्तोत्रं मया कृतमवलोकितेश्वरस्य। सुखितास्ते सत्त्वा ये तव नामधेयमनुस्मरन्ति। मुच्यन्ते ते कारसूत्रै रौरवोपपन्नेषु अवीच्युपपन्नेषु प्रेतनगरोपपन्नेषु ये तव नामधेयमनुस्मरन्ति। मुच्यन्ते त बहवः पापदुःखात्। सुचेतनास्ते सत्त्वा ये तव नामधेयमनुस्मरन्ति। गच्छन्ति ते सुखावतीलोकधातुम्। अमिताभस्य तथागतस्य धर्ममनुस्मरन्ति शृण्वन्ति॥



अथ आर्यावलोकितेश्वरो बलेरिन्द्रस्य व्याकरणमनुप्रयच्छति स्म-भविष्यसि त्वमसुरेन्द्र श्रीर्नाम तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। सर्वे तेऽसुरा वैनेया भविष्यन्ति। तत्र तव बुद्धक्षेत्रे न रागशब्दो न द्वेषशब्दो न मोहशब्दो भविष्यति। षडक्षरी महाविद्या लब्धलाभा भविष्यति। तेन तस्य धर्मदक्षिणा उपनामिता। शतसहस्रमूल्यं मुक्ताहारमुपनामितं मौलीकुण्डलं च नानारत्नसमुच्चितमुपनामितं च॥



अथ आर्यावलोकितेश्वरो धर्मदेशनां कर्तुमारब्धः- शृणु महाराज। नित्ये ध्रुवे शाश्वते मानुष्यके ये चिन्तयन्ति सततपरिग्रहं महाभोगान्यनुविचिन्तयन्ति दासीदासकर्मकरपौरुषेयान्, यानि च महार्हाणि वस्त्रशय्यासनानि, ये च महार्हा निधानधनधानधनधान्यकोषकोष्ठागाराः, अज्ञानास्ते सत्त्वा ये पुत्रदारदारिकामनुविचिन्तयन्ति भार्यां मातापितरौ। एभिर्वस्तुभिर्ये सक्तास्ते स्वप्नोपमा एव दृश्यन्ते। मरणकालसमये न कश्चित्तेषां त्राता भवति। यदा प्राणोद्धरणं भवति, तदा जम्बुद्वीपं विपरीतं पश्यति। अथ महतीं वैतरणीं पूयशोणितपरिपूर्णां पश्यन्ति। ये च महार्हा वृक्षास्तान् प्रदीप्तान् सप्रज्वलितानेकज्वालीभूतान् पश्यन्ति। दृष्ट्वा च समापद्यन्ते। ततो यमपालपुरुषैः कालपाशैर्बद्ध्वा नीयन्ते। त्वरितं त्वरितं क्षुरधारोपचिते महापथे पादा विशीर्यन्ते। उत्क्षिप्ते पादे येऽन्याः पादाः प्रादुर्भवन्ति, अनेकैः काकगृध्रश्वानादिभिर्भक्ष्यन्ते। महतीं नारकीयां वेदनां प्रत्यनुभवन्ति। ततः क्षुरधारोपचितान्महापथादवतीर्य यत्र षोडशाङ्गुलिप्रमाणानि कण्टकानि तत्रानीयते, तत एकैकपादे पञ्च पञ्चशतानि कण्टकानि प्रविशन्ति। स चाक्रन्दन्ति-विषयपापरतेन सत्त्वेन कर्म कृतम्॥



अथ ते यमपालपुरुषा एवमाहुः-मार्षाः, न त्वया तथागतस्य पिण्डपात्रं निर्यातितम्। न च त्वया धर्मगण्डीमाकोट्यमाना श्रुता। न बुद्धनाम गृहीतम्। न च त्वया क्वचिद्दानानि दीयमानानि दृष्ट्वानुमोदितानि। न च त्वया क्वचित् प्रदेशे स्तूपबिम्बानि प्रदक्षिणीकृतानि। स कथयति-अश्राद्धोऽभूवं पापरतो बुद्धधर्मसंघपरिवर्जितः पापमित्रपरिगृहीतः कल्याणमित्रपरिवर्जितश्च। ते कथयन्ति-तस्यैतत्कर्मफलमनुभवसे। स तैर्यमपालकैर्नीयते चैतत्कर्मभूमिमुपदर्शयितुम्॥



अथे ते यमपुरुषा नीत्वा कालसूत्रे महानरके क्षिपन्ति। शिक्षा चैकैकशक्तिशतं काये विध्यन्ति तदपि जीवति, द्वितीयं शक्तिशतं काये विध्यन्ति तदपि जीवति, तृतीयं शक्तिशतं काये विध्यन्ति तदपि जीवति। यदा कलं न कुर्वन्ति तदाग्निखदामध्ये क्षिपन्ति। तदपि कालं न कुर्वन्ति। ततस्ते तप्तायोगुडामुखे विष्कम्भन्ते दह्यन्ते। तेषामीष्टमपि दन्तानि विशीर्यन्ते, तालूनि विस्फुटन्ते, कण्ठमपि तालुमपि हृदयमपि यन्त्रवत्कला निगडायमाना सर्वं तं कायं दह्यन्ते। एवमेव हा राजन् न कश्चित् त्राता भविष्यति परलोके। तस्मात्तर्हि तं महाराज यत्नेन पुण्यं कर्तव्यम्। एवं सानुलोमिकीं धर्मदेशनां कृत्वा च तं राजानं बलिमसुरेन्द्रमेवमाह-अप्रमत्तेन भवितव्यम्, न पुनः कदाचित्प्रमादचारिणा भवितव्यम्। एवं बहुदोषदुष्टोऽयं गृहावासः परमदारुणनरकभूमिप्रपातनः। तस्मात्तर्हि महाराज अप्रमत्तेन भवितव्यं पापभीरुणा। परलोकं दर्शितम्। अपि च महाराज। ममान्तिकाद्धर्मदेशनां शृण्वतो निरवशेषाणि पापस्कन्धानि न च सुपरिशुद्धानि। सर्वदुःखतरगाढबन्धनैः परिमुक्तः। सुखावतीलोकधातुगमनाय तव पन्थानं परिशुद्धम्। तत्र च तव सप्तरत्नमयं पद्मासनं प्रादुर्भूतं भविष्यति। यत्र रत्नपद्मे निषद्य तस्य भगवतोऽमिताभस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकात् इमं सर्वदुःखपापस्कन्धं पापशमनं सर्वदुर्गतिसाधनं अनन्तमणिमहापुण्यनिर्देशं कारण्डव्यूहमहायानं सूत्ररत्न‍राजं त्वं श्रोष्यसि, श्रुत्वा च तत्रैव व्याकरणमनुप्राप्स्यसे अनुत्तरायां सम्यक्संबोधौ, तावत्सुपरिशुद्धबोधिचित्तालंकारं नाम बोधिसत्त्वजन्म प्रतिलप्स्यसे। यावदनुत्तरां सम्यक्संबोधिमभिसंबुद्धो भविष्यसि॥



अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तस्य च बलेरसुरेन्द्रस्य इमं सर्वदुर्गतिपरिशोधनं बोधिसत्त्वालंकारकारण्डव्यूहं नाम धर्मालोकं देशयित्वा तं राजानं बलिमसुरेन्द्रं समाश्वास्य इदमवोचत्-गमिष्याम्यहम्। अस्मिन् जेतवने महाविहारेऽद्य महासंनिपातो भवति॥



इति बलिसमाश्वासनं नामैकादशं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project