Digital Sanskrit Buddhist Canon

तथागतसंवादः षष्ठं प्रकरणम्

Technical Details
तथागतसंवादः षष्ठं प्रकरणम्।



अथ तस्मिन्नेव पर्षदि रत्नपाणिर्नाम बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्–किं कारणं भगवन्, ईदृशं निमित्तं प्रादुर्भूतं दर्शितम् ? भगवानाह–एष कुलपुत्र अवलोकितेश्वरः सुखावत्या लोकधातोरागच्छति, तस्य आगच्छमानस्येदं मयेदृशं निमित्तं प्रादुर्भूतं दर्शितम्॥



अथ रत्नपाणिर्नाम बोधिसत्त्व आह–कीदृशानि तानि निमित्तानि? दर्शयतु भगवान्। भगवानाह–यदा कुलपुत्र अवलोकितेश्वरो बोधिसत्त्वो महासत्त्व आगच्छति, तदा विविधानि कल्पवृक्षा विस्तरन्ति, चूतवृक्षा विस्तरन्ति, कुन्दपुष्पाणि सततं जायन्ते, चम्पकवृक्षा अभिनमन्ति। अतिपुष्पावकीर्णाः पुष्करिण्यः प्रादुर्भवन्ति। रत्नवृक्षशतानि ततो दृश्यन्ते। विविधानि पुष्पवर्षाणि पतन्ति, रत्नवर्षाणि च प्रवर्षन्ति, विविधानि च रत्नमणिमुक्तावज्रवैदूर्यशङ्खशिलाप्रवालजातरूपरजतताम्राणि प्रवर्षन्ति, दिव्यानि च वस्त्रवर्षाणि पतन्ति। तस्मिन्नेव विहारसमीपे सप्त रत्नानि प्रादूर्भूतानि। तद्यथा–हस्तिरत्नं मनिरत्नं अश्वरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नम्। एवं सप्त रत्नानि प्रादुर्भूतानि। भूमिः सुवर्णनिर्भासा संदृश्यते। यदा आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः सुखावत्या लोकधातोर्निष्क्रान्तः, तदा सर्वपृथिवी षड्‍विकारं प्रकम्पिता॥



अथ रत्नपाणिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्–कस्य निमित्तानि भगवन्? भगवानाह–एष कुलपुत्र आर्यावलोकितेश्वरो महासत्त्वो बोधिसत्त्व आगच्छति, तस्यैष शुभनिमित्तमीदृशं प्रादुर्भूतम्। यदा स चलति तदा मनोरमं पद्मवर्षः पतति। तदा अवलोकितेश्वरो सहस्रपत्राणि पद्मानि सुवर्णदण्डानि वैदूर्यनिर्भासानि गृहीत्वा येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य भगवतस्तानि पद्मान्युपनामयति स्म–इमानि ते भगवन्नमिताभेन तथागतेनार्हता सम्यक्संबुद्धेन प्रहितानि। स तथागतः पृच्छति अनातङ्कतां लघुतां सुखस्पर्शविहारितां च। ततो भगवता पद्मानि गृहीत्वा वामपार्श्वे स्थापितानि। तदा अर्यावलोकितेश्वरस्य गुणोद्भावनां कुरुते–कीदृशी त्वया अवलोकितेश्वर कर्मभूमिर्निष्पादिता सदा प्रेतेषु अवीचावुपपन्नेषु? कालसूत्ररौरवोपपन्नेषु सत्त्वेषु, हाहे तपने प्रेतायने महानरके, अग्निघटे महानरके, शाल्मलिमहानरके, अन्धकाले महानरके, शीतोदके महानरके–एवं चान्येष्वपि? महानरके ये उपपन्नाः सत्त्वास्तेषां च कर्मभूमिं दृष्ट्वा तत्र मया सत्त्वपरिपाको मे कृतः कर्तव्यश्च। कृत्वा सर्वे च अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयितव्याः। न च तावत् त्वयानुत्तरा सम्यक्संबोधिरभिसंबोद्धव्या, यावत्समन्ताद्दशभ्यो दिग्भ्यः सर्वाक्षणोपपन्नाः सत्त्वा अरूपविशेषे निर्वाणधातौ न प्रतिष्ठापिता भवेयुः॥



अथावलोकितेश्वरो बोधिसत्त्व इदं प्रश्नव्याहारं कृत्वा भगवतः पादौ शिरसाभिवन्द्य एकान्ते प्रकान्तः, प्रक्रमित्वा ज्वलन्निवाग्निपिण्ड आकाशेऽन्तर्हितः॥



इति तथागतसंवादो नाम षष्ठं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project