Digital Sanskrit Buddhist Canon

सत्त्वधातुपरिमोक्षणं तृतीयं प्रकरणम्

Technical Details
सत्त्वधातुपरिमोक्षणं तृतीयं प्रकरणम्।



अथ सर्वनीवरणविष्कम्भी भगवन्तमेतदवोचत्–कदा भगवन्नागच्छति अवलोकितेश्वरो बोधिसत्त्वो महासत्त्वः ? भगवानाह–एष कुलपुत्र अवीचीमहानरकान्निष्क्रम्य प्रेतनगरं प्रविष्टः। तत्रानेकानि प्रेतशतसहस्राणि पुरस्ताद्धावन्ति स्म दग्धस्थूणाकृतिभिरस्थियन्त्रवदुच्छ्रितैः पर्वतोदरसंनिभैः सूचीच्छिद्रोपममुखैः। यदावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः प्रेतनगरमुपसंक्रामति, तदा स प्रेतनगरः शीतीभावमनुगच्छति, सा च वज्राशनिर्व्युपशमिता, स च द्वारपालपुरूष उद्बद्धभिण्डिपालः कालकूटव्यग्रहस्तो लोहिताक्षः। सततमस्यानुभावेन मैत्रचित्तं संभावयति–न च मे ईदृशेन कर्मभूमिना कृत्यम्॥



अथार्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वस्तं च सत्त्वनिकायं दृष्ट्वा महाकरुणाचित्तमुत्पाद्य दशभ्यो हस्ताङ्गुलीभ्यो दश वैतरणीर्निष्क्रामयति। दशभ्यः पादाङ्गुलीभ्यो दश वैतरणीर्निष्क्रामयति। अतिकरुणाभिभूतचेतसा अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य तेषां सत्त्वानामन्तिके सर्वरोमकूपेभ्योऽष्टाङ्गवारिपरिपूर्णा महानद्यो निष्क्रामन्ति। यदा च ते प्रेतसत्त्वास्तदुदकमास्वादयन्ति, तदा ते विपुलकण्ठा भवन्ति, परिपूर्णगात्राश्च भवन्ति। तेन चैते दिव्यरसरसाग्रोपेतेनाहारेण संतर्पिताश्च भवन्ति। तदा मानुषिकीं चेतनामुपादायैव सांसारिकीं चिन्तां विचिन्तयन्ति–अहो बत ते जाम्बुद्वीपका मनुष्याः सुखिताः, ये शीतलां छायां परिसेवन्ति। सुखितास्ते जाम्बुद्वीपका मनुष्या ये मातापितरौ सततं परिग्रहमुपस्थानं कुर्वन्ति। सुखितास्ते सत्पुरुषा ये कल्याणमित्रं सततसमितमन्वेषयन्ति, परिग्रहं परिपालयन्ति। ते सत्पुरूषाः सचेतना ये महायानं सततसमितमवगाहयन्ति। ते सत्पुरुषा ये आर्यास्तान् गोमार्गाय वासमुपवसन्ति। ते सत्पुरूषा ये धर्मदण्डिकामाकोटयन्ति। ते सत्पुरुषाः ये त्रुटितस्फुटितान् विहारान् प्रतिसंस्कारं कुर्वन्ति, प्रतिष्ठापयन्ति। ते सत्पुरुषा ये पूर्विकानि स्तूपबिम्बानि त्रुटितस्फुटितानि विशीर्णभूतानि प्रतिसंस्कारं कुर्वन्ति। ते सत्पुरुषा ये धर्मभाणकांल्लेखकान् धारकान् वाचकान् सूत्रराजस्य श्रावकान् सततसमितं परिसेवन्ति चोपतिष्ठन्ति च। ते सत्पुरूषा ये तथागतप्रातिहार्याणि विविधानि च तथागतचंक्रमणानि धर्मसराणि च पश्यन्ति। ते सत्पुरूषा ये प्रत्येकबुद्धचंक्रमणानि पश्यन्ति। ते सत्पुरुषा येऽर्हच्चंक्रमणानि पश्यन्ति। ते सत्पुरुषा ये बोधिसत्त्वविकुर्वितानि चंक्रमणानि पश्यन्ति। इत्येवं ते प्रेतविषयं शरीरमनुविचिन्त्य मानसानां कामानामभावोपपत्तिं प्रति परित्यजन्ति। तदा तस्य सकाशात् 'कारण्डव्यूह'महायानसूत्ररत्न राजशब्दो निश्चरति। तदा तेषां विंशतिशिखर समुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा सर्वे ते सुखावत्यां लोकधातावुपपन्नाः आकाङ्क्षितमुखा नाम बोधिसत्त्वा उपपन्नाः। अथावलोकितेश्वरो यदा ते सत्त्वधातवः परिमोक्षिताः सुपरिमुक्ताश्च, यदा ते सर्वसत्त्वा बोधिसत्त्वभूमावुपपन्नाः, तदा ततः प्रेतनगरात्पुनरपि निष्क्रामति॥



इति सत्त्वधातुपरिमोक्षणं नाम तृतीयं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project