Digital Sanskrit Buddhist Canon

Epilogue

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Epilogue

VI (EPILOGUE)



यथाहं कुलपुत्र बुद्धचक्षुषा पश्यामि दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमान् बुद्धान् भगवतः परिनिर्वृतान्, ये मया प्रथममनुत्तरायां सम्यक्संबोधौ समादापिता निवेशिताः प्रतिष्ठापिताः, ये मया दानपारमितायां प्रथमं समादापिता यावत्प्रज्ञापारमितायां समादापिता निवेशिताः प्रतिष्ठापिताः। एवमेवैतर्हि पूर्वस्यां दिशि अप्रमेयासंख्येयास्ते बुद्धा भगवन्तः प्रवर्तितधार्मिकधर्मचक्राः तिष्ठन्तो यापयन्तो धर्मं देशयन्तोऽद्रक्षं, ये मया प्रथममनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादिता निवेशिताः प्रतिष्ठापिताः। एवं यावत्षट्सु पारमिताषु वक्तव्यं, एवं दक्षिणपश्चिमोत्तरहेष्टिमोपरिषु दिक्षु वक्तव्यं।



पश्याम्यहं कुलपुत्र पुरिमे दिग्भागे इतो बुद्धक्षेत्रादेकनवतिबुद्धक्षेत्रशतसहस्राण्यतिक्रम्य संपुष्पिते लोकधातौ विमलतेजगुणराजो नाम तथागतस्तिष्ठति ध्रियते यापयति धर्मं च देशयति। मया स भगवान् पूर्वं प्रथममनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितः समादापितो निवेशितः प्रतिष्ठापितः; मया दानपारमितायां यावत्प्रज्ञापारमितायां प्रथमं समादापिताः, पेयालं। पुरिमायां दिशि अभिरत्ये बुद्धक्षेत्रे अक्षोभ्यो नाम तथागतो, जम्बूनदे बुद्धक्षेत्रे सूर्यगर्भो नाम तथागतः, रतीश्वरे बुद्धक्षेत्रे रतीश्वरघोषज्योतिर्नाम तथागतः, सूर्यप्रतिष्ठिते बुद्धक्षेत्रे ज्ञानभास्करो नाम तथागतः, जयवैश्रये बुद्धक्षेत्रे नागनिनर्दितो नाम तथागतः, संजीवने बुद्धक्षेत्रे वज्रकीर्तिर्नाम तथागतः, स्वरजे बुद्धक्षेत्रे व्याघ्ररश्मिर्नाम तथागतः, अरतीये बुद्धक्षेत्रे सूर्यगर्भो नाम तथागतः, वैरप्रभे बुद्धक्षेत्रे कीर्तिश्वरराजो नाम तथागतः, मेरुप्रभे बुद्धक्षेत्रे अचिन्त्यराजो नाम तथागतः, संवरे बुद्धक्षेत्रे ज्योतिश्रीर्नाम तथागतः, कुसुमप्रभे बुद्धक्षेत्रे प्रभाकेतुर्नाम तथागतः, क्षमोत्तरे बुद्धक्षेत्रे मेरुस्वरसन्दर्शनमेरुर्नाम तथागतः, धरणावत्यां बुद्धक्षेत्रे ज्ञानबिम्बो नाम तथागतः, कुसुमविचित्रे बुद्धक्षेत्रे विमलनेत्रो नाम तथागतः। एतां पूर्वंगमां कृत्वा कुलपुत्र पुरिमायां दिश्यप्रमेयासंख्येयान् बुद्धान् भगवतस्तिष्ठतो यापयतो धर्मं देशयतो बुद्धचक्षुषा पश्यामि। येऽनुत्पादितबोधिचित्ताः पूर्वेऽनुत्तरायां सम्यक्संबोधौ समादापिता मया च प्रथमं दानपारमितायां यावत्प्रज्ञापारमितायां समादापिताः प्रतिष्ठापिता, मया च प्रथमं तिष्ठतां यापयतां बुद्धानां भगवतां सकाशमुपनीता यत्र तैः सर्वप्रथमं व्याकरणं प्रतिलब्धं अनुत्तरायां सम्यक्संबोधौ"॥



अथ तस्यां वेलायां संपुष्पितायां लोकधातौ तस्य विमलगुणतेजराजस्य तथागतस्यासनं प्रकंपितं। ये तत्र बोधिसत्त्वास्ते तस्य विमलगुणतेजराजस्य तथागतस्यासनं प्रकंपितं दृष्ट्वा तमेव तथागतं पृष्टवन्तः। "को भदन्त भगवन् हेतुः कः प्रत्ययो यदि इदमदृष्टपूर्वं भगवत आसनं प्रकंपितम्[?"]इति। स तथागतस्तानवोचत् - "अस्ति कुलपुत्राः पश्चिमे दिग्भागे इतो बुद्धक्षेत्रादेकोननवतिबुद्धक्षेत्रानतिक्रम्य तत्र सहा नाम लोकधातुस्तत्र शाक्यमुनिर्नाम तथागतस्तिष्ठति ध्रियते यापयति। स एतर्हि चतुर्णां पर्षदां पूर्वयोगमारभ्य धर्मं देशयति। तेन तथागतेन पूर्वं बोधिसत्त्वभूतेनानुत्तरायां सम्यक्संबोधौ समादपिताः, येन मे प्रथममनुत्तरायां सम्यक्संबोधौ चित्तमुत्पन्नं; तेन तथागतेनाहं प्रथमं दानपारमितायां समादापितो निवेशितः प्रतिष्ठापितो यावत्प्रज्ञापारमितायां; तेन तथागतेन पूर्वबोधिसत्त्वचर्यां चरताहं प्रथमं तिष्ठतां यापयतां बुद्धानां भगवतां सकाशमुपनीतो, यत्र मे प्रथमं व्याकरणं प्रतिलब्धमनुत्तरायां सम्यक्संबोधौ। स च मे शाक्यमुनिस्तथागतः कल्याणमित्रः सहे लोकधातौ तिष्ठति यापयति, स एवं चतुर्णां पर्षदां इमं पूर्वयोगमारभ्य धर्मं देशयति। तेन तथागताधिष्ठानेन ममासनं कंपते। को युष्माकं कुलपुत्रोत्सहते मद्वचनात् सहं बुद्धक्षेत्रं गन्तुं शाक्यमुनेस्तथागतस्यारोग्यकौशल्यं परिपृच्छनाय?"। ततस्ते बोधिसत्त्वा विमलगुणतेजराजानं तथागतमाहुर्[। "]य इह भदन्त भगवन् संपुष्पिते बुद्धक्षेत्रे ऋद्धिमन्तः सर्वबोधिसत्त्वगुणपारमिताप्राप्तास्तेऽद्य पूर्वाह्नसमये महान्तमवभासं दृष्ट्वान्यस्माद्बुद्धक्षेत्राद्विकुर्व्याभ्यागतस्तेनायं मुहूर्तं पृथिवीचालः पुष्पवृष्टिश्च"। ते च बोधिसत्त्वा आहुः। "वयमपि भदन्त भगवन् गमिष्यामस्तं सहं बुद्धक्षेत्रं तं शाक्यमुनिं वन्दनाय पर्युपसनाय तं च सर्वज्ञताकारधारणीमुखप्रवेशं धर्मपर्यायं श्रवणाय"।



ते बहुबोधिसत्त्वशतसहस्राः स्वेनर्द्ध्यनुभावेन ततो बुद्धक्षेत्रात्संप्रस्थिताः। ते नावगच्छन्ति क्व गन्तव्यं। तेऽप्याहुः। "तामपि वयं भदन्त भगवन् दिशं न जानीमो यत्र सहा लोकधातुः शाक्यमुनेस्तथागतस्य बुद्धक्षेत्रं"। ततः स विमलगुणतेजराजस्तथागतो बाहुं प्रसार्य पञ्चभ्योऽङ्गुलिभ्यो विविधान्यर्चिंषि प्रमुमोच। ततस्तार्चिष एकोननवतिबुद्धक्षेत्रसहस्राण्यवभासितवान्, यावच्चेमं सहं बुद्धक्षेत्रमवभासितवान्। यतस्ते बोधिसत्त्वाः पश्यन्ति सर्वावदिमं सहं बुद्धक्षेत्रं स्फुटं बोधिसत्त्वैर्गगनतले च देवनागयक्षासुरैः स्फुटं। दृष्ट्वा च पुनस्ते बोधिसत्त्वास्तं विमलगुणतेजराजानं तथागतमेवमाहुः। "पश्यामो वयं भदन्त भगवन् सहं बुद्धक्षेत्रं सर्वावन्तं स्फुटं, नास्ति तत्रावकाशोऽन्तशो दण्डनिक्षेपणमात्रमपि यन्न स्फुटं बोधिसत्त्वैः। पश्यामः शाक्यमुनिस्तथागतोऽस्मान् निरीक्षते धर्मं च देशयति"। स च विमलगुणतेजराजस्तथागतस्तेषां बोधिसत्त्वानामेवमाह - "समन्तचक्षुः कुलपुत्राः शाक्यमुनिस्तथागतो। ये केचित् कुलपुत्राः सहे लोकधातौ सत्त्वा भूमिस्थिता वा अन्तरीक्षस्थिता वा ततश्चैकैकः सत्त्व एवं संजानाति, "मं शाक्यमुनिस्तथागतः सर्वचेतसा निरीक्षते ममैकमारभ्य धर्मं देशयति"। सर्ववर्णंश्च स कुलपुत्र शाक्यमुनिस्तथागतो धर्मं देशयति एकवर्णस्थानं। ये च तत्र कुलपुत्र सत्त्वा ब्राह्मभक्तास्ते शाक्यमुनिं तथागतं ब्रह्माणं समनुपश्यन्ति, महाब्रह्मपतिव्याहारेण धर्मं शृण्वन्ति; यावद् ये मारभक्तिका, ये सूर्यभक्तिका, ये चन्द्रभक्तिका, ये वैश्रवणभक्तिका, ये विरूढकभक्तिका, ये विरूपाक्षभक्तिका, ये धृतराष्ट्रभक्तिका, ये महेश्वरभक्तिकास्ते सत्त्वा महेश्वररूपवर्णसंस्थानवचनव्याहारेण शाक्यमुनिं तथागतं पश्यन्ति धर्मं च शृण्वन्ति। यावच्चतुरशीतिस्तत्र सत्त्वानां वर्णसंस्थानभक्तिरूपव्याहारसहस्राणि ते तथा चैव शाक्यमुनिं तथागतं पश्यन्ति धर्मं च शृण्वन्ति"।



तस्यां च पर्षदि रहगर्जितो नाम बोधिसत्त्वो द्वितीयश्च ज्योतिरश्मिर्नाम बोधिसत्त्वः। अथ विमलगुणतेजराजस्तथागतस्तान् बोधिसत्त्वान् आमन्त्रयति स्म। "गच्छथ यूयं कुलपुत्राः सहे लोकधातौ शाक्यमुनिं तथागतं मद्वचनादारोग्यकौशल्यं सुखस्पर्शविहारतां परिपृच्छथ"। ते बोधिसत्त्वा आहुः। "सर्वावन्तं भदन्त भगवन् सहं बुद्धक्षेत्रं सक्षितिगगनं बोधिसत्त्वैः स्फुटं समनुपश्यामः। न चात्रैकसत्त्वस्याप्यवकाशोऽस्ति क्षितौ गगने वा यत्र वयं प्रतितिष्ठेमः"। स च विमलगुणतेजराजस्तथागत आह - "मा कुलपुत्रा एवं वदथ, "नास्ति सहे बुद्धक्षेत्रेऽवकाशः"। विस्तीर्णावकाशः स शाक्यमुनिस्तथागतोऽचिन्त्यैर्बुद्धगुणैः, पूर्वप्रणिधानेन विस्तीर्णा तथागतस्य कृपाशासनावतारप्रवेशा, त्रिशरणगमनं, त्रियानधर्मदेशनामारभ्य धर्मं देशयति, त्रिविधं च शिक्षासंवरं देशयति, त्रीणि च विमोक्षद्वाराण्युपदर्शयति, त्रिभ्योऽपायेभ्यः सत्त्वानुद्धरति, तिसृषु च शिवेषु पथेषु प्रतिष्ठापयति।



एकस्मिं समये कुलपुत्र शाक्यमुनिस्तथागतोऽचिराभिसंबुद्धो वैनेयसत्त्वावेक्षया मध्ये शैलपर्वते इन्द्राक्षस्य यक्षस्य भवने सालगुहायां विहरति, सप्ताहमेकपर्यङ्केनातिनामयति, विमुक्तिप्रीतिसुखं प्रतिसंवेदयति। सर्वावती च सा सालगुहा तथागतकायेन स्फुटा, नास्ति तत्रावकाशोऽन्तशश्चतुरङ्गुलप्रमाणं यत्तथागतकायेन न स्फुटं। तस्य च सप्ताहस्यात्ययेन दशभिर् दिशाभिर्द्वादशनयुता बोधिसत्त्वानां तत्र सहे लोकधातौ यस्तस्य पर्वतस्याभिमुखं स्थित्वा शाक्यमुनेस्तथागतस्य वन्दनाय पर्युपासनाय धर्मश्रवणाय। स च कुलपुत्र शाक्यमुनिस्तथागतस्तत्र पर्शदि रिध्यभिसंस्कारमभिसंस्कृतवान्; सा च सालगुहा एवं विस्तीर्णा चैवं विपुला च प्रादुर्भूता, यदा ते द्वादशनयुता बोधिसत्त्वानां तत्र सालगुहायां प्रविष्टा विस्तीर्णावकाशं पश्यन्ति स्म। एकैकश्च बोधिसत्त्वस्तत्र तथागतस्य विविधबोधिसत्त्वविकुर्वणेन पूजां कृत्वा, एकैको बोधिसत्त्वस्तत्र सप्तरत्नमयासनं निर्मितवान् यत्रोपविष्टा धर्मं शृण्वन्ति स्म। एवं विस्तीर्णावकाशः कुलपुत्र स शाक्यमुनिस्तथागतः। ते च बोधिसत्त्वास्तस्य शाक्यमुनेस्तथागतस्य सकाशाद्धर्मं श्रुत्वा शाक्यमुनेस्तथागतस्य पादौ शिरसा वन्दित्वा त्रिष्कृत्वः प्रदक्षिणीकृत्य स्वकस्वकेषु बुद्धक्षेत्रेषु संप्रस्थिताः। अचिरप्रकान्तानां च तेषां बोधिसत्त्वानां सालगुहा यथा पौर्वाणां संस्थिता।



तत्र चतुर्द्वीपिकायां कौशिको नाम शक्र आयुःपरीक्षीणस्तिर्यग्योन्युपपत्तिभयभीतः, स चतुरशीतिभिस्त्रयस्त्रिंशद्देवसहस्रैः सार्धं येन सालगुहा येन च भगवांस्तेनोपसंक्रामति। उपसंक्रम्य सामन्तके इन्द्राक्षस्य सालगुहाभवने स्थितः, तस्य भगवतोऽनुभावेन एतदभवत्। "यन्नूनं वयं पञ्चशिखं गन्धर्वपुत्रमध्येषेमः। स च पञ्चशिखो मधुरेण स्वरेण भगवन्तमभिमुखं स्तविष्यति, तदा भगवान् ध्यानसमाधिभ्यो व्युत्थास्यति"। ततः शक्रः पञ्चशिखं गन्धर्वपुत्रमधीष्ठवान्। अथ पञ्चशिखो वीणां मनोज्ञेन गीतवादितेन भगवतोऽनुभावेन पञ्चभिः स्तवशतैर्भगवतो वर्णमभाषत। यदा च कुलपुत्र पञ्चशिख आरब्धो भगवतोऽभिस्तवनाय ततः स शाक्यमुनिर्भगवान् सुघोषवैरोचनकेतुं नाम समाधिं समापन्नस्तेन समाधिना ये सहे लोकधातौ महर्द्धिकयक्षराक्षसा वासुरा वा गरुडा वा किन्नरा वा महोरगा वा गन्धर्वा वा सर्वे कामावचरा देवा सर्वे रूपावचरा देवपुत्रास्तत्र सन्निपाता बभूवुर्ये च स्वरभक्तिकास्ते स्वरं श्रुत्वा प्रसीदन्ति, ये वर्णयशोभक्तिकास्ते भगवतो वर्णं श्रुत्वा तस्य भगवतः सकाशे तीव्रप्रेमप्रसादगुरुगौरवचित्रीकारजाताः प्रसीदन्ति, ये वेणुवाद्यभक्तिकास्ते वेणुवाद्यं श्रुत्वा प्रसीदन्ति। ततः शाक्यमुनिर्भगवांस्ततः समाधेर्व्युत्थाय सालगुहाया द्वारं दर्शापयामास। शक्रश्चोपसंक्रान्तो भगवन्तं पृष्टवान्। "भगवं कुत्रोपविशामः?"। स शाक्यमुनिस्तथागत उवाच - "निषीदध्वं यक्षा यावत्तस्थुः समागताः"। ततः सालगुहा एवं विस्तीर्णा संस्थिता यथा द्वादशगङ्गानदीवालिकासमा यक्षास्तत्र गुहायां प्रविष्टा, निषण्णायाश्च तस्याः पर्षदः स शाक्यमुनिस्तथागतस्तथारूपां धर्मदेशनां कृतवां; यथा ये तस्मिन् पर्षदि श्रावकयानिका निषण्णास्ते श्रावकयानकथां शृण्वन्ति, नवनवतिकोट्यस्तत्र श्रोतापत्तिफलं प्राप्ताः; ये च तत्र पर्षदि अनुत्तरसम्यक्संबुद्धयानिकास्ते शुद्धां महायानकथां शृण्वन्ति; तत्र च पञ्चशिखगन्धर्वपूर्वंगमा अष्टादशनयुता अवैवर्तिकाः संस्थिता अनुत्तरायां सम्यक्संबोधौ; यैश्च तत्रानुत्पादितं त्रिषु यानेषु चित्तं, तत्र कश्चिदनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितं, केश्चित्तत्र प्रत्येकबुद्धयाने चित्तमुत्पादितं, कश्चिच्छ्रावकयाने चित्तमुत्पादितं; स च तत्र कौशिकः शक्रो भयात्परिमुक्तो, वर्षसहस्रं चायुर्विवृद्धं, अवैवर्तिकश्चानुत्तरायां सम्यक्संबोधौ बभूव। तदेवं विस्तीर्णावकाशः कुलपुत्र स शाक्यमुनिस्तथागतः।



एवं विस्तीर्णं चास्य तथागतस्य स्वरमण्डलं। न शक्यं केनचित्तस्य तथागतस्य स्वरमण्डलस्य पर्यन्तमुद्गृहीतुं वा गणायितुं वा। विस्तीर्णं तस्य तथागतस्योपायकौशल्यं सत्त्वपरिपाकश्च: न शक्यं तस्य तथागतस्योपायकौशल्यं पर्यन्तमुद्गृहीतुं। विस्तीर्णकायश्च कुलपुत्र तथागतो; न शाक्यं केनचित्तस्य मूर्धानमवलोकयितुं, कायस्य वा पर्यन्तमधिगन्तुं। यावन्तश्च सत्त्वा एतर्हि तत्र सहे बुद्धक्षेत्रे सन्निपतिता यदि ते सत्त्वाः शाक्यमुनेस्तथागतस्य कुक्षौ प्रविशेयुस्ते सर्वे तत्र विचरेयुस्ते च सत्त्वास्तस्य तथागतस्यैकरोममुखे प्रविशेयुः निष्क्रमेयुश्च; ते एकरोममुखात्तस्य तथागतस्य न शक्ताः पर्यन्तमुद्गृहीतुं ऊनत्वं वा पूर्णत्वं वान्तशो दिव्येनापि चक्षुषा। तदेवं विस्तीर्णकायः स शाक्यमुनिस्तथागतः।



पुनरपरं कुलपुत्र विस्तीर्णबुद्धक्षेत्रः स शाक्यमुनिस्तथागतो। यावन्तश्च दशसु दिक्षु गङ्गानदीवालिकसमा बुद्धक्षेत्रा एवं परिपूर्णा भवेयुः सत्त्वैस्तद्यथापि नामैतर्हि सहं बुद्धक्षेत्रं सर्वे ते सत्त्वा एतर्हि सहे बुद्धक्षेत्रे विशेयुः सर्वे ते तत्र विचरेयुः। तत्कस्माद्धेतोस्[?।] तथैव तस्य तथागतस्य पूर्वं प्रथमचित्तोत्पादेनानुत्तरायां सम्यक्संबोधौ प्रणिधानं बभूव। तिष्ठतु कुलपुत्रैकं गङ्गानदीवालिकासमा लोकधातवः, सचेत्कुलपुत्र यावद्दशसु दिक्षु सहस्रं गङ्गानदीवालिकासमा बुद्धक्षेत्रा एवं विस्तीर्णाः तद्यथैतर्हि सहबुद्धक्षेत्रं परिपूर्णं सत्त्वैः ते सर्वे एतर्हि सहे लोकधातौ प्रविशेयुस्ते सर्वे तत्र विचरेयुरेवंरूपं तस्य तथागतस्य पूर्वं प्रथमचित्तोत्पादितानुत्तरज्ञानप्रतिलाभाय प्रणिधानं बभूव। एवं विस्तीर्णबुद्धक्षेत्रः स कुलपुत्र शाक्यमुनिस्तथागतः। एभिश्चतुर्धर्मैर्विशिष्टतरः स शाक्यमुनिस्तथागतो यथावद्गृह्णीत यूयं कुलपुत्रा इमां चन्द्ररोचविमलां पुष्पां, गच्छथ पश्चिमां दिशं यथा स्वयं दृष्ट्वा सहं बुद्धक्षेत्रं, मम वचनेन तं शाक्यमुनिं तथागतं आरोग्यकौशल्यं पृच्छत"।



स च विमलगुणतेजराजस्तथागतश्चन्द्ररोचविमलां पुष्पां गृहीत्वा रहराजस्य बोधिसत्त्वस्य ज्योतिरश्मेश्च बोधिसत्त्वस्य दत्वाह - "गच्छत कुलपुत्रौ ममर्द्धिबलाधानेन सहां लोकधातुं"। तत्र च विंशतिः प्राणिसहस्राण्याहुर्[। "]वयमपि भदन्त भगवन् गच्छेमः तथागतानुभावेन सहं लोकधातुं तस्य शाक्यमुनेस्तथागतस्य दर्शनाये वन्दनाय पर्युपासनाय"। विमलगुणतेजराजस्तथागत आह - "गच्छत कुलपुत्रा यथाभिप्रायाः"। तौ च द्वौ बोधिसत्त्वौ रहराजश्च ज्योतिरश्मिश्च सार्धं विंशतिभिर्बोधिसत्त्वसहस्रैस्तस्य विमलगुणतेजराजस्य तथागतस्य रिद्धिबलेन ततः संपुष्पिताया लोकधातोः संप्रस्थिता एकचित्तक्षणेनेदं सहं बुद्धक्षेत्रमनुप्राप्ता गृध्रकूटे पर्वते प्रत्यस्थातः। ते येन भगवां शाक्यमुनिस्तथागतस्तेनाञ्जलिं प्रणम्याहुः। "अस्ति भगवन् पुरस्तिमे दिग्भागे एकोननवतिबुद्धक्षेत्रसहस्राण्यतिक्रम्य तत्र संपुष्पितो नाम लोकधातुः, तत्र विमलगुणतेजराजो नाम तथागतः। स च पुनस्तथागतो बोधिसत्त्वगणपरिवारस्तथागतस्य गुणवर्णकीर्तयमान एवमाह - "शाक्यमुनिर्नाम तथागतः सहे बुद्धक्षेत्रे तिष्ठति यापयति। तेन च तथागतेन पूर्वं बोधिसत्त्वभूतेन बोधिसत्त्वचारिकां चरमाणेनाहं सर्वप्रथममनुत्तरायां सम्यक्संबोधौ समादापितो निवेशितः प्रतिष्ठापितस्तस्य च वचनेन मयानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितं तेन तथागतेनाहं प्रथमं दानपारमितायां निवेशितो, यावत्पूर्वोक्तं। एवमेभिश्चतुर्भिर्धर्मैर्विशिष्टतरः स शाक्यमुनिस्तथागतो। यथा तेनेमे चन्द्ररोचविमला पुष्पाः प्रेषिता आरोग्यकौशल्यं च पृच्छति"।



एवमभिरत्या बुद्धक्षेत्रादक्षोभ्यस्य तथागतस्यासनं कंपति। ये च तत्र बोधिसत्त्वाः सन्निपत्तितस्ते चापि दृष्ट्वाक्षोभ्यस्य तथागतस्यासनं कंपितं परिपृच्छन्ति स्म। पेयालं यथा पूर्वोक्तं। सर्वेषां एवं वक्तव्यं। तेन च समयेनाप्रमेयासंख्येयाः पुरिमायां दिशि तथागतदूता बोधिसत्त्वा इमं सहं बुद्धक्षेत्रं सहचन्द्ररोचविमलैः पुष्पैः संप्राप्ताः शाक्यमुनेस्तथागतस्य परिपृच्छनाय पूजनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च।



समनन्तरपरिवासितो भगवतः पुरिमायां दिशि बुद्धक्षेत्रनाम परिकीर्तनं बुद्धानां भगवतां, दक्षिणां दिशं पुनर्भगवानारब्धः परिकीर्तयितुं। "पश्याम्यहं कुलपुत्र दक्षिणस्यां दिशीतो बुद्धक्षेत्रादेकगङ्गानदीवालिकासमानि बुद्धक्षेत्राण्यतिक्रम्य तत्र सर्वशोकापगतो नाम लोकधातुस्तत्राशोकश्रीर्नाम तथागतस्तिष्ठति ध्रियति यापयति। मया स भगवान् सर्वप्रथमं पूर्वं बोधिसत्त्वचारिकां चरमाणेनानुत्तरायां सम्यक्संबोधौ समादापितो, यावद्यथा पूर्वोक्तं। जंबूप्रभे बुद्धक्षेत्रे धर्मेश्वरविनर्दिर्नाम तथागतः, मेरुप्रतिष्ठिते बुद्धक्षेत्रे गतीश्वरसालेन्द्रो नाम तथागतः, गुणेन्द्रनिर्यूहे बुद्धक्षेत्रे सिंहविजृम्भितराजा नाम तथागतः, मणिमूलव्यूहे बुद्धक्षेत्रे नारायणविजितगर्भो नाम तथागतः, मुक्ताप्रभसंचये बुद्धक्षेत्रे रत्नगुणविजृम्भितसंचयो नाम तथागतः, देवसोमे बुद्धक्षेत्रे ज्योतिगर्भो नाम तथागतः, चन्दनमूले बुद्धक्षेत्रे नक्षत्रविधानकीर्तिर्नाम तथागतः, विशिष्टगन्धे बुद्धक्षेत्रे पुण्यबलसालराजा नाम तथागतः, सुविदिते बुद्धक्षेत्रे मनोज्ञघोषस्वरविनर्दितो नाम तथागतः, दुरण्ये बुद्धक्षेत्रे सालजयबिन्दुराजा नाम तथागतः, नर्दश्चोचे बुद्धक्षेत्रे तेजेश्वरप्रभासो नाम तथागतः, अभिगर्जिते बुद्धक्षेत्रे सुमनोज्ञस्वरनिर्घोषे नाम तथागतः, रत्नविसभे बुद्धक्षेत्रे रत्नतलनागेन्द्रो नाम तथागतः, पलामरत्नवृक्षरत्ने बुद्धक्षेत्रे धर्ममेघनिर्घोषेश्वरसौम्यो नाम तथागतः, पेयालं यथा पूर्वोक्तं। एवमप्रमेयासंख्येयानां बुद्धानां भगवतां दक्षिणस्यां दिश्यासनानि कंपन्ति। सर्वे ते बुद्धा भगन्तः शाक्यमुनेस्तथागतस्य वर्णं यशः कीर्तिमुदीरयन्ति। यावत्तेन समयेनाप्रमेयासंख्येया दक्षिणस्यां दिशि तथागतदूता बोधिसत्त्वाः सहचन्द्ररोचविमलैः पुष्पैरिमं सहं बुद्धक्षेत्रमनुप्राप्ताः शाक्यमुनेस्तथागतस्य पृच्छनाय यावद्धर्मश्रवणाय"।



पुनश्च भगवान् आह - "पश्याम्यहं कुलपुत्र पश्चिमायां दिशीतो बुद्धक्षेत्रात् सप्तानवतिबुद्धक्षेत्रनयुतशतसहस्राण्यतिक्रम्य तत्रोपशान्तमतिर्नाम बुद्धक्षेत्रस्तत्र रत्नगिरिर्नाम तथागतः तिष्ठति ध्रियति यापयति धर्मं च देशयति। मया स भगवान् पूर्वं बोधिसत्त्वभूतेन बोधिसत्त्वचर्यां चरमाणेन सर्वप्रथममनुत्तरायां सम्यक्संबोधौ समादापितो, यावद्यथा पूर्वोक्तं। बुद्धक्षेत्राणां पेयालं, वररश्मिकोशो नाम तथागतः, स्वरज्ञकोशो नाम तथागतः, हरितालकीर्तिः, समन्तगर्भः, ब्रह्मकुसुमः, करधरविक्रमः, धर्मवेशप्रदीपः, असमन्तरमेरुस्वरविघुष्टराजः, ब्रह्मेन्द्रघोषः, यथा पूर्वोक्तं। एवमप्रमेयासंख्येयानां पश्चिमायां बुद्धानां भगवतां येषां शाक्यमुनिना तथागतेन नामानि परिकीर्तितानि तेषामासनानि कंपन्ति। यावत्तेन समयेनाप्रमेयासंख्येयाः पश्चिमायां दिशि बुद्धदूता बोधिसत्त्वाः सहचन्द्ररोचविमलैः पुष्पैरिमं सहं बुद्धक्षेत्रमनुप्राप्ता यावन्निषण्णा धर्मश्रवणाय। पेयालं, एवमुत्तरा दिग्वक्तव्या, एवमुपरिमायामेवमधः, एवं पूर्वदक्षिणा, एवं दक्षिणपश्चिमा, एवं पश्चिमोत्तरा, एवमुत्तरपूर्वा"।



पुनः शाक्यमुनिर्भगवानाह - "पश्याम्यहं कुलपुत्रोत्तरपूर्वायां दिशीतो बुद्धक्षेत्रादष्टानवतिबुद्धक्षेत्रकोटीनयुतशतसहस्राण्यतिक्रम्य तत्र विजयं नाम बुद्धक्षेत्रं, विगतसंतापोभववैश्रवणसालराजो नाम तथागतः। मया स तथागतः पूर्वं बोधिसत्त्वभूतेन बोधिसत्त्वचर्यां चरमाणेन सर्वप्रथममनुत्तरायां सम्यक्संबोधौ समादापितो, यावत्षट्सु पारमितासु; यावन्मया सर्वप्रथमं तिष्ठतां यापयतां बुद्धानां भगवतां सकाशमुपनीतो, यत्र तेन व्याकरणं प्रतिलब्धमनुत्तरायां सम्यक्संबोधौ; यदा नाम परिकीर्तितं तदासनं कंपितां; यावच्चतुरशीतिसत्त्वानां वर्णभक्तिसंस्थानरूपव्याहारसहस्राणि तथा शाक्यमुनिं तथागतं पश्यन्ति धर्मं च शृण्वन्ति।



तत्र च पर्षदि द्वौ बोधिसत्त्वौ, एकः विगोपशिखरो नाम द्वितीयः संरोचनबुद्धो नाम; स च विगतसंतापोद्भववैश्रवणसालराजो नाम तथागतस्तौ द्वौ बोधिसत्त्ववामन्त्रयित्वैवमाह - "गच्छत यूयं कुलपुत्रौ सहे बुद्धक्षेत्रे, मद्वचनाच्छाक्यमुनेस्तथागतस्यारोग्यकशल्यं सुखस्पर्शविहारतां परिपृच्छत"। तावाहतुः। "सर्वावन्तं भदन्त भगवन्नावां सहं बुद्धक्षेत्रं सक्षितिगगनं समनुपश्यामः। न च तत्रैकसत्त्वस्याप्यवकाशोऽस्ति क्षितौ वा गगने वा यत्रावां प्रतिष्ठेवहि"। स च तथागत आह - "मा कुलपुत्रैवं वदत, "नास्ति सहे बुद्धक्षेत्रेऽवकाशः"। तत्कस्माद्धेतोर्[?।]विस्तीर्णावकाशः कुलपुत्रौ स शाक्यमुनिस्तथागतोऽचिन्त्यैर्बुद्धगुणैः, पूर्वप्रणिधानेन विस्तीर्णा तस्य तथागतस्य कृपाशासनावतारप्रवेशा, त्रिशरणगमनं, त्रिभिर्यानैर्धर्मं देशयति, त्रिविधं शिक्षासंवरं देशयति, त्रीणि विमोक्षद्वाराणि प्रकाशयति, त्रिभ्यश्चापायेभ्यः सत्त्वानुद्धरति, त्रिषु च शिवपथेषु सत्त्वान् प्रतिष्ठापयति।



एकस्मिन् समये कुलपुत्र स शाक्यमुनिस्तथागतोऽचिराभिसंबुद्धो वैनेयसत्त्वावेक्षया विषमशैलेन्द्रपर्वतमध्ये इन्द्राक्षस्य यक्षस्य भवने सालगुहायां विहरति स्म, सप्ताहमेकपर्यङ्केनातिनामयति स्म, विमुक्तिप्रीतिसुखसंवेदी। सर्वावती च सा सालगुहा स्फुटा तथागतकायेन, नास्ति तत्रावकाशोऽन्तशश्चतुरङ्गुलप्रमाणं यन्न तथागतकायेन स्फुटं। तस्य च सप्ताहस्यात्ययेन दशभ्यो दिग्भ्यः द्वादशनयुता बोधिसत्त्वानां महासत्त्वानां सहे लोकधातौ संप्राप्तास्तस्य शाक्यमुनेस्तथागतस्य वन्दनाय। यावदिमैश्चतुर्भिर्धर्मैर्विशिष्टतरः स शाक्यमुनिस्तथागतो यथान्ये तथागता।



गृह्णीध्वं यूयं कुलपुत्रा इमां चन्द्ररोचविमलां पुष्पां; गृहीत्वा गच्छत दक्षिणपश्चिमां दिशं, यथा स्वयं दृष्ट्वा तं सहं बुद्धक्षेत्रं; मम वचनात्तस्य शाक्यमुनेस्तथागतस्यारोग्यकौशल्यं पृच्छत"। स च विगतसंतापोद्भववैश्रवणसालराजस्तथागतः चन्द्ररोचविमलान् पुष्पां गृहीत्वा विगोपशिखरस्य बोधिसत्त्वस्य ददाति संरोचनबुद्धस्य च बोधिसत्त्वस्य महासत्त्वस्य, एवं चाह - "गच्छत कुलपुत्रौ ममर्द्धिबलाधानेन सहं बुद्धक्षेत्रं"। तत्र विंशतिप्राणसहस्राण्याहुः। "वयमपि भगवन् गमिष्यामस्तथागतस्यानुभावेन सहं बुद्धक्षेत्रं शाक्यमुनिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय"। तथागत आह - "गच्छत कुलपुत्रा यथाभिप्रायाः"। ततस्तौ द्वौ बोधिसत्त्वौ सार्धं विंशतिभिर्बोधिसत्त्वसहस्रैस्तस्य तथागतस्य रिद्ध्यनुभावेन ततो विरजाद्बुद्धक्षेत्रात्संप्रस्थिताः, एकक्षणेनेह बुद्धक्षेत्रेऽनुप्राप्ता गृध्रकूटे पर्वते प्रत्यस्थुः। एकान्तस्थिताश्च येन शाक्यमुनिस्तथागतस्तेनाञ्जलिं प्रणम्याहुः। "अस्ति भदन्त भगवन्नुत्तरपूर्वायां दिशि, यथा पूर्वोक्तं। तेन तथागतेनेमे चन्द्ररोचविमलाः पुष्पाः प्रेषिता, भगवतश्चारोग्यकौशल्यं पृच्छति"। एवं मारभवनविध्वंसनस्य तथागतस्यासनं कंपितं। ये च तत्र बोधिसत्त्वाः सन्निपतितास्ते चापि दृष्ट्वा तं मारभवनविध्वंसनं तथागतस्यासनं कंपितं तथागतं परिपृच्छन्ति, यावद्यथा पूर्वोक्तं। एवं सालेन्द्रराजा विक्रमरश्मिः पद्मोत्तरः चन्दनो मेरुराजः सागरः सारज्योतिर्ज्ञानविक्रमस्तथागतः। यावत्तेन च समयेनाप्रमेयासंख्येया उत्तरपुरिमायां दिशि तथागतास्ते बोधिसत्त्वाः सहचन्द्ररोचविमलपुष्पैरिह सहे बुद्धक्षेत्रे संप्राप्ताः शाक्यमुनेस्तथागतस्य पृच्छनाय पूजनाय वन्दनाय धर्मश्रवणाय॥



तावदेव शाक्यमुनिस्तथागत ऋद्ध्यनुभावेन सर्वेषां सत्त्वानां ये सहे बुद्धक्षेत्रे सन्निपतितास्तेषां एकैकस्य सत्त्वस्य योजनप्रमाणमात्रमात्मभावः संस्थितः; सर्वावन्तं च सहं बुद्धक्षेत्रं एवंरूपैः सत्त्वैः स्फुटं, न कश्चिद्बुद्धक्षेत्रे क्षितौ वा गगने वावकाशो यः सत्त्वैरस्फुटोऽन्तशोऽञ्जनशलाकाप्रदेशमात्रमपि यः सत्त्वेभ्यो न स्फुटोऽभूत्। सर्वे च ते सत्त्वाः शून्यमाकाशं पश्यन्ति, न च परस्परं पश्यन्ति; न चैषां पर्वतसुमेरुचक्रवाडमहाचक्रवाडपर्वताश्चक्षुष आभासमागच्छन्ति, न लोकान्तरिका दिव्या विमाना ऊर्द्धं यावदधो काञ्चनचक्रं ततोर्द्धं पृथिवी चक्षुषो नाभासमागच्छन्ति, स्थापयित्वा तथागतं शाक्यमुनिं। ते तथागतं पश्यन्ति। तत्र च भगवान् आकाशस्फुरणं धर्मावच्छेदप्रश्रब्धिसमाधिं समापन्नो। यतस्ते चन्द्ररोचविमलाः पुष्पाः सर्वरोममुखेसु भगवतः प्रविशन्ति। सर्वे च ते सत्त्वाः पश्यन्ति सहे लोकधातावन्तर्गता विगताः सर्वसत्त्वानां चित्तचैतसिकेषु मनसिकाररूपसंदर्शनताः, ते चैव भगवतो रोममुखे निरीक्षन्ते स्म। तत्र चोद्यानमद्राक्षुः, नानारत्नवृक्षं नानापत्रं नानापुष्पं नानाफलाकीर्णां नानावस्त्रं नानाच्छत्रध्वजपताकाकेयूरमुक्तिकाहारालङ्कृतांस्तां वृक्षां पश्यन्ति, तद्यथापि नाम सुखावत्यां लोकधातावुद्यानां। सर्वेषां च तेषां सत्त्वानामेतदभवत्। "गच्छामो वयमेतदुद्यानं दर्शनाय"। सर्वे च ते सत्त्वा ये सहे लोकधातावन्तर्गताः, स्थापयित्वा नैरयिकां यामलौकिकां तैर्यग्योनिकां आरूप्यावचरां, सर्वे परिशिष्टाः सत्त्वास्तस्य तथागतस्य रोममुखेभ्यस्तथागतशरीरे प्रविष्टाः। अथ भगवांस्तामृद्धिं प्रतिप्रस्रम्भयित्वा व्युत्थितः। ततस्ते सत्त्वा अन्योन्यं दृष्ट्वाहुः। "कुत्र शाक्यमुनिस्तथागतः?। मैत्रेयो बोधिसत्त्व आह - "संप्रजानं ततः सत्त्वाः समन्वाहरत सर्वे वयं तथागतस्य कुक्षौ सन्निपतिताः"। ततस्ते सत्त्वाः सान्तरबाहिरं तथागतकायं दृष्ट्वा स्वयं प्रत्यक्षीभूता "यथा वयं तथागतस्य कुक्षावन्तर्गताः सन्निपतिताश्च", तेषामेतदभवत्।"कुतो वयं तथागतस्य कुक्षौ प्रविष्टाः, केनास्मिन् प्रवेशिताः?"। ततो मैत्रेयः सर्वावती पर्षदं स्वरेण विज्ञपयन्नुवाच - "शृण्वन्तु भवन्तस्तथागतस्यैवमृद्धिविकुर्वणप्रातिहार्यं यदस्माकं हितकरः शास्ता धर्मं देशयति तद्युष्माभिः सर्वचेतसा समन्वाहर्तव्याः"। ततः सर्वावती पर्षत्प्राञ्जलीभूताः।



भगवांश्च सर्वसुखचर्याधर्मं देशयति स्म। तत्र कतरा सर्वसुखचर्या?। यदुत संसारपङ्कादुत्तारणं आर्याष्टाङ्गमार्गेऽवतारणं सर्वज्ञता स्वयंभूज्ञानपरिपूर्णता। तत्र दशप्रकारा ध्याननिवेशचित्तोत्पादपरिणामनता, यदुत सर्वसत्त्वेभ्यो महाकरुणाचित्ताधिष्ठानं, हितवस्तुसंजननता, अतीर्णसत्त्वोत्तारणतया महानावसमुदाननता, अमुक्तमोचनतासन्नाहं असन्तविपर्यासपरिमोचनतया, महासिंहनादानुत्रासनसन्नाह नैरात्म्यधर्मप्रत्यवेक्षणतया, सर्वलोकधातुगमनसन्नाह मायास्वप्नप्रतिभासोपमसर्वधर्मावबुध्यनतया, सर्वलोकधात्ववभासनालङ्करणसन्नाहः शीलस्कन्धाधिष्ठानपरिशुद्ध्या, दशतथागतबलपरिनिष्पादनसन्नाहः सर्वपारमितापरिपूर्या, चतुर्वैशारद्यप्रतिलाभसन्नाहं यथावादितथाकारितया, यावदष्टादशावेणिकबुद्धधर्मनिरवशेषप्रतिलाभसन्नाहं, बोधिसत्त्वानां यथाश्रुतधर्मप्रतिपत्तिरप्रपञ्चनता चेयं दशप्रकारा निवेशधर्ममुखचर्या। अलक्षणामुखपरिज्ञागतिचर्याया सर्वधर्मनैरात्म्यमनसिकारचित्तानुत्पादानिरोधासमयमवैवर्तिकभूमिर्यत्र संवर्तविवर्तानुच्छेदमशाश्वतमविक्षिप्तं। इमस्य खलु पुनर्धर्मपर्यायस्य भाष्यमाणस्याशीतिकोटीगङ्गानदीवालिकासमाः सत्त्वास्तथागतस्य कुक्षिगता अवैवर्तिका अभूवन्ननुत्तरायां सम्यक्संबोधौ; गणनातिक्रान्ताश्च तत्र बोधिसत्त्वा महासत्त्वा ये नानाविधधारणीक्षान्तिप्रतिलब्धा अभून्। सर्वे च पुनस्तथागतशरीराद्रोममुखेभ्यो निष्क्रान्ता आश्चर्यप्राप्ता, भगवतः पादौ शिरसा वन्दित्वा, दशदिशः प्रकान्ताः, स्वकस्वकेषु बुद्धक्षेत्रेषु गतास्तथागतस्य स्वरमण्डलकायप्रमाणज्ञपनार्थं।



तत्र ये बोधिसत्त्वाः पुरिमां दिशं गच्छन्ति अप्रमेयासंख्येयाः, पुरिमायां दिशि यद्बुद्धक्षेत्रानतिक्रामन्ति न च शाक्यमुनेस्तथागतस्य स्वरमण्डलं प्रतिहन्यते, एवं च तत्र स्वरं शृण्वन्ति विचित्रपदार्थव्यञ्जनाः, तद्यथा शाक्यमुनेस्तथागतस्य पुरतो निषण्णैर्धर्मः श्रुतः, एवमेवास्य धर्मं शृण्वन्ति। अपि च तत्रापि शाक्यमुनेस्तथागतस्य कायस्योनत्वं वा पूर्णत्वं वा न प्रज्ञायते, शाक्यमुनेस्तथागतस्य कायः स्फुटो दृश्यते बोधिसत्त्वैः श्रावकैश्चाप्रमेयासंख्येया बोधिसत्त्वाः श्रावकाश्चैकरोममुखे शाक्यमुनेस्तथागतस्य प्रविशन्तो निष्क्रामन्तश्च संदृश्यन्ते। एवं द्वितीये रोममुखे, यावत्सर्वरोममुखेभ्यः प्रविशन्तो निष्क्रामन्तश्च संदृश्यन्ते, यावच्चैवं दशसु दिक्षु वक्तव्यं।



सर्वावती च सा पर्षा यावद्भगवतः कायान्तर्गताः सा भगवतः कायरोममुखेभ्यो निष्क्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिष्प्रदक्षिणी कृत्वा भगवतोऽभिमुखं प्रत्यवस्थाद्भगवन्तमेव विचित्रार्थपदव्यञ्जनरुतव्याहारैः स्तवमानाः। अथ तावच्चैव कामावचरा रूपावचराश्च देवपुत्रा विचित्रां च गन्धमाल्यविलेपनवृष्टिं प्रवर्षिता, दिव्यानि च तूर्याणि प्रवादितवन्तो, दिव्यानि च छत्रध्वजपताकावस्त्रदुष्याभरणानि भगवतः पूजायोद्युक्ताः॥



तत्र वैशारद्यसमुद्धारणिर्नाम बोधिसत्त्वो येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - "किं नामायं भदन्त भगवन् महाव्याकरणं सूत्रान्तः?"। भगवान् आह - "सर्वज्ञताकारधारणीमुखप्रवेशो नाम, बहुबुद्धकं नाम, बहुसन्निपातं नाम, बोधिसत्त्वव्याकरणं नाम, वैशारद्यमार्गोत्तारणं नाम, समाधानकल्पावतरणो नाम, बुद्धक्षेत्रसन्दर्शनो नाम, सागरोपमो नाम, गणनातिक्रान्तो नाम, करुणापूण्डरीको नाम"।



पुनरप्याह - "कियन्तं भदन्त भगवन् कुलपुत्रो वा कुलदुहिता वा पुण्यस्कन्धं प्रसविष्यति, य इमं धर्मपर्यायं श्रोष्यति उद्गृहीष्यति धारयिष्यति वाचयिष्यति परेषां च विस्तरेण संप्रकाशयिष्यति लिखिष्यति लिखापयिष्यति अन्तश एकगाथामपि?"। आह - "पूर्वं च मयोक्तमिह पुण्यस्कन्धं; संक्षेपेणेदानीं कथयिस्यामि। यः कश्चिदिमं धर्मपर्यायं श्रोष्यति उद्गृहीष्यति धारयिष्यति वाचयिष्यति परेभ्यश्च विस्तरेण संप्रकाशयिष्यति अन्तश एकगाथामपि, यश्च पुनः पश्चिमायां पञ्चाशत्यामन्तशो लिखित्वा धारयिष्यति, स बहुतरं पुण्यस्कन्धं प्रसविष्यति, न त्वेवं षोडशमहाकल्पान् षट्पारमिताचरमाणस्य बोधिसत्त्वस्य पुण्यस्कन्धः। तत्कस्माद्धेतोः?। सदेवकस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रवणब्राह्मणिकायाः प्रजायाः सयक्षनागगन्धर्वकुम्भाण्डप्रेतपिशाचकिन्नरासुराणां दुष्टचित्तानां प्रसादनः, सर्वरोगाणां प्रशमनः, सर्वकलिकलहविग्रहविवादव्युपशमनः, सर्ववाताकालमरणरोगप्रशमनः, सर्वदुर्भिक्षप्रशमनकरः, क्षेमकरणीयः, सुभिक्षकरः, आरोग्यसामग्रीकरः, भीतानामभयसुखकरः, क्लेशव्युपशमनकरः, कुशलमूलविवृद्धिकरः, अपायदुःखप्रमोचनकरस्त्रिभिर्यानैर्मार्गसन्दर्शनकरः, समाधिधारणीक्षान्तिप्रतिलाभकरः, सर्वसत्त्वानामुपजीवकरो, वज्रासननिषीदनकरः, चतुर्मारधर्षणकरो, बोधिपक्षाभिसंबुध्यनकरो, धर्मचक्रप्रवर्तनकरः, आर्यसप्तधनविरहितानां सत्त्वानां बोधिपक्षसमृद्धिकरः, बहुपरिवारः; अभयपुरनगरप्रवेशकरणार्थं मया धर्मपर्यायो भाषितः"।



"कस्य हस्ते इमं धर्मपर्यायं परिन्दामि?। को ममेमं धर्मपर्यायं पश्चिमायां पञ्चाशत्यां रक्षिष्यति, अधर्मभूमिष्ठानां सत्त्वानां भिन्नशीलानां च भिक्षूणां कर्णपुटे प्रकाशयिष्यति, अधर्मरागरक्तानां विषमलोभाभिभूतानां मिथ्याधर्मपरिचितानां अपरिपक्वचित्तां संवेजयिष्यति?"। सर्वावती च सा पर्षा भगवतश्चेतसा चित्तमाज्ञाय; तत्र पर्षदि मेरुपुण्यो नाम यक्षरिषिर्निषण्णः। अथ मैत्रेयो बोधिसत्त्वो महासत्त्वस्तं मेरुपुण्यं यक्षरिषिं गृहीत्वा भगवतः सकाशमुपनीतवान्। भगवान् आह - "उद्गृह्ण त्वं महर्ष इमं धर्मपर्यायं, यावत्पश्चिमायां पञ्चाशत्यां देशान्तरगतानामवैवर्तिकानां बोधिसत्त्वानां कर्णपुटेषु प्रकाशस्व। अद्य चावैवर्तिकचित्तं संजनयस्वा-" है- "वं भदन्त भगवंश्चतुरशीतिमहाकल्पा अतिक्रामन्ता यन्मया भदन्त भगवन् पूर्वं प्रणिधानेन यक्षरिषित्वालब्ध्यानुत्तरायां सम्यक्संबोधौ बोधिचारिकां चरमाणो गणनातिक्रान्ताः सत्त्वा मया चतुर्षु ब्राह्मविहारेषु प्रतिष्ठापिताः, अवैवर्तिकभूमौ च प्रतिष्ठापिताः। अहं च सत्त्वानां स्वयमेव परिपाचयामि यावत्पश्चिमायां पञ्चाशत्यां य इमं धर्मपर्यायं उद्गृहीष्यति, यावद्य इतश्चतुष्पदिकामपि गाथां धारयिष्यति"॥



इदमवोचद्भगवान् आत्तमनाः सर्वावती पर्षत् सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति॥



इति श्रीकरुणापुण्डरीकं नाम महायानसूत्रं समाप्तं॥



शुभम् अस्तु॥



ये धर्मा हेतुप्रभवा हेतु तेषां तथागतः।

हेवदत्तेषां च यो निरोध एवं वादि महाश्रमणं॥



शुभमस्तु सर्वदात्॥

शुभं॥ शुभं॥ शुभं॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project