Digital Sanskrit Buddhist Canon

दान-परिवर्तो नाम पञ्चमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Dāna-parivarto nāma pañcamaḥ

V दान-परिवर्तो नाम पञ्चमः



स च पुनः कुलपुत्र महाकारुणिको बोधिसत्त्वो महासत्त्वो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ शिरसा वन्दित्वा रत्नगर्भस्य तथागतस्य पुरतो निषसाद रत्नगर्भं तथागतं परिपृच्छत् - "समाधानमुखनिर्देशसंभारविशुद्धिमुखो धर्मपर्यायो बोधिसत्त्वानां मार्गो भगवता निर्दिष्टः; कियता भदन्त भगवन् समाधानमुखनिर्देशसंभारविशुद्धिमुखो धर्मपर्यायो बोधिसत्त्वानां मार्गो भगवता निर्दिष्टः?; कियता भदन्त भगवन् समाधानमुखनिर्देशसंभारविशुद्धिमुखो धर्मपर्यायः परिपूर्णो भवति?; कियद्रूपेण वा भदन्त भगवन् संभारेण समन्वागतः कुलपुत्रो वा कुलदुहिता वा दृढप्रतिष्ठितो भवति?; कियद्रूपेण समाधानमुखनिर्देशनालङ्कृतो भवति?" स भोः पुनः कुलपुत्र रत्नगर्भस्तथागतोऽर्हन् सम्यक्संबुद्धो महाकारुणिकं बोधिसत्त्वमेतदवोचत् - "साधु साधु महाकारुणिक भद्रकः प्रश्नः कल्याणं ते प्रतिभानं। भूयस्या मात्रया त्वं महाकारुणिकाप्रमेयासंख्येयानां बोधिसत्त्वानां महासत्त्वानां हितकरो बहुकरश्चोत्पन्नो, यत्र हि नाम त्वं महाकारुणिक तथागतमिदमेवंरूपं प्रश्नं परिप्रष्टव्यं मन्यसे। तेन हि महाकारुणिक शृणु साधु च सुष्ठु च मनसिकुरु च।



महायानसंप्रस्थितानां कुलपुत्राणां अस्ति महाकारुणिक शूरंगमो नाम समाधिर्यत्र समाधौ स्थितो बोधिसत्त्वः सर्वसमाधिष्वनुप्रविष्टो भवति। अस्ति रत्नमुद्रो नाम समाधिर्येन सर्वसमाधयो मुद्रिता भवन्ति। अस्ति सिंहविक्रीडितो नाम समाधिर्यत्र स्थितः सर्वसमाधिभिर्विक्रीडति। सुचन्द्रो नाम समाधिः सर्वसमाधीनवभासयति। चन्द्रध्वजकेतुः समाधिः सर्वसमाधीनां ध्वजं धारयति। सर्वधर्मोद्गतः समाधिः सर्वसमाधयोऽन्तर्गच्छन्ति। विलोकितमुद्रो नाम समाधिः सर्वसमाधीनां मुर्धानं व्यवलोकयति। धर्मधातुविगतसमाधौ स्थितो बोधिसत्त्वः सर्वधर्मधातुविनिश्चयाय गच्छति। नियतध्वजकेतौ समाधौ स्थितः सर्वसमाधीनां ध्वजं धारयति। वज्रे समाधौ स्थितः सर्वसमाधीन्निर्भिनत्ति। धर्मप्रवेशमुद्रे समाधौ स्थितः सर्वधर्मान् मुद्रयति। समाधिराजसुप्रतिष्ठितेन समाधिना सर्वसमाधिषु राजत्वेन प्रतिष्ठितो भवति। रश्मिमुक्तेन समाधिना सर्वसमाधिषु रश्मयोऽवसरन्ति। बलवीर्येण समाधिना सर्वसमाधिषु बलवीर्यतां कारयति। समुद्गतेन समाधिना सर्वसमाधिषूद्गच्छति। निरुक्तिनिर्देशेन समाधिना सर्वसमाधिवचनप्रवेशां प्रविशति। अधिवचनप्रवेशेन समाधिना सर्वसमाधीनां नामधेयान्यनुप्रविशति। दिग्विलोकेन समाधिना सर्वसमाधीनवलोकयति। सर्वधर्मप्रभेदेन समाधिना सर्वधर्मप्रभेदतामनुप्रविशति। धारणीमुद्रेण समाधिना सर्वसमाधीनां मुद्रान् धारयति। सर्वधर्मविविक्तेन समाधिना सर्वसमाधिषु विवेकधर्मतामनुप्रविशति। असंप्रमोषेण समाधिना सर्वसमाधयो न मुष्यन्ति। सर्वधर्माचलेन समाधिना सर्वसमाधिष्वचलतायै संतिष्ठते। सर्वधर्मसमवसरणसागरमुद्रे समाधौ सर्वसमाधयः संग्रहं समवसरणं गच्छन्ति। सर्वधर्मामन्यने समाधौ सर्वसमाधय उदयव्ययामन्यनतां गच्छन्ति। आकाशस्फरणेन समाधिना सर्वसमाधय आकाशे स्फुरन्ति। सर्वधर्माच्छेदनेन समाधिना सर्वसमाधयोऽनुपच्छेदं गच्छन्ति। वज्रमण्डलेन समाधिना सर्वसमाधीनां मण्डलं धारयति। सर्वधर्मैकरसेन समाधिना सर्वसमाधीनां रसं धारयति। रणं जहेन समाधिना सर्वोपकरणक्लेशां जहाति। सर्वधर्मानुत्पादेन समाधिना सर्वधर्मानुत्पादानिरोधं दर्शयति। वैरोचनेन समाधिना सर्वसमाधीन् भावयति तपति विरोचति। सर्वधर्मानिरोधेन समाधिना सर्वसमाधीन् विभजति। अनिमिषेण समाधिना सर्वसमाधयो न कदाचित् समाधिधर्मा एषन्ते। अनिकेतेन समाधिना सर्वसमाधिषु न कदाचिद् धर्मस्थितिं समनुपश्यति। गगनकल्पेन समाधिना सर्वसमाधीन् गगनस्वभावासारत्वाय समनुपश्यति। निश्चित्तेन समाधिना सर्वसमाधिषु चित्तचैतसिका धर्माः प्रहीयन्ते। रूपापर्यन्तेन समाधिना रूपमवभासयति। विमलप्रदीपेन समाधिना सर्वसमाधीनां प्रदीपं करोति। सर्वधर्मापर्यन्तेन समाधिना सर्वसमाधिष्वपर्यन्तज्ञानं दर्शयति। विद्युदुन्मिषेण समाधिना सर्वसमाधिष्वपर्यन्तं ज्ञानं दर्शयति। सर्वप्रभंकरेण समाधिना सर्वसमाधिषु प्रभंकरमुखमुपदर्शयति। धातुपर्यन्तेन समाधिना सर्वसमाधीनपर्यन्तविज्ञापनायोपदर्शयति। समाधिशुद्धसारेण समाधिना शून्यतां समाधिधर्मेष्वनुप्राप्नोति। मेरुचित्रेण समाधिना सर्वधर्मेषु ऋक्ततां संदर्शयति। विमलप्रभेन समाधिना सर्वसमाधीनां मलमपकर्षयति। सर्वधर्मासंप्रभेदेन समाधिना सर्वसमाधीनां व्युपकृष्टतां संदर्शयति। रतिकरेण समाधिना सर्वसमाधिषु रतिं प्रतिलभते। सर्वधर्मस्वभावविक्रीडितेन समाधिना सर्वसमाधिषु रूपानुपलब्धिं दर्शयति। विद्युद्विकरणेन समाधिना सर्वसमाधिष्वलक्षणत्वं दर्शयति। सर्वधर्मानिक्षेपविरजेन समाधिना सर्वसमाधीनां विरजं ज्ञानमुपदर्शयति। अक्षयवतेन समाधिना सर्वसमाधीनां न क्षयं नाक्षयं दर्शयति। सर्वधर्माचिन्त्यशुद्धेन समाधिना सर्वधर्मां प्रतिभासोपमां दर्शयति। तेजोवता समाधिना सर्वसमाधिषु ज्ञानं ज्वालयति। क्षयापगतेन समाधिना सर्वसमाधीनक्षयानुपगतां दर्शयति। अनिञ्जितेन समाधिना सर्वधर्मेषु नेञ्जति न वेपति न प्रपञ्चयति। विवर्धनेन समाधिना सर्वसमाधिसमापत्तिषु विवर्धमानां ज्ञेयं समनुपश्यति। सूर्यप्रदीपेन समाधिना सर्वसमाधिषु रश्मिमुखान्यवकिरति। चन्द्रविमलेन समाधिना सर्वसमाधिष्वालोकं करोति। शुद्धप्रतिभासेन समाधिना सर्वसमाधिषु चतस्रः प्रतिसंविदाः प्रतिलभते। काराकारेण समाधिना कारविहारक्रियां करोति ज्ञानकेतुं समनुपश्यति। वज्रोपमेन समाधिना सर्वधर्मान्निर्वेधीकरोति यस्य वेधमपि न समनुपश्यति। चित्तस्थितेन समाधिना चित्तं न चलति न वेधति न प्रतिभासति न विघातमापद्यते, न चास्यैवं भवति "चित्तमेतद्" इति। समन्तालोकेन समाधिना सर्वसमाधिष्वालोकं समनुपश्यति। सुप्रतिष्ठितेन समाधिना सर्वसमाधिषु सुप्रतिष्ठितत्वे प्रतिष्ठति। रत्नकूटेन समाधिना सर्वसमाधिषु रत्नकूट इव संदृश्यते। वरधर्ममुद्रेण समाधिना सर्वसमाधयो मुद्रिता भवन्ति, धर्मसमतया न कंचिद्धर्मं समतानिर्मुक्तं समनुपश्यति। रतिं जहेन समाधिना सर्वधर्मेषु रतिं जहाति। धर्मोल्केन समाधिना सर्वधर्मेष्वसमारकृतां प्रतिलभते। अक्षरापगतेन समाधिना सर्वधर्मेष्वेकाक्षरमपि नोपलभते। आलंबनच्छेदेन समाधिना सर्वालंबनां व्युपच्छिनत्ति। अविकारेण समाधिना सर्वधर्माणां विकारं नोपलभते। प्रकृतिविशुद्धेन समाधिना सर्वधर्माणामुपकारं नोपलभते। अनिकेतचरेण समाधिना सर्वधर्मेषु निकेतं नोपलभते। तिमिरापगतेन समाधिना सर्वसमाधिचरणं न समनुपश्यति, तमोविषयं समतिक्रामति। सर्वगुणसंचयगतेन समाधिना सर्वधर्मेषु सन्निचयं जहाति। स्थितनिश्चित्तेन समाधिना सर्वधर्मेषु चित्तमिति नोपलभते। बोध्यङ्गगतेन समाधिना सर्वधर्मां बुध्यति। स्मृतिविकरणेन समाधिना सर्वधर्मेष्वसंख्येयप्रतिभानं प्रतिलभते। तत्करज्ञानविशुद्धेन समाधिना सर्वधर्मेष्वसमासमतां प्रतिलभते। ज्ञानकेतुसमाधिना सर्वत्रैधातुकमतिक्रामति। ज्ञानोपच्छेदसमाधिना सर्वधर्मव्यवच्छेदं समनुपश्यति। ज्ञानविकरणेन समाधिना सर्वधर्मविकरणतामनुप्राप्नोति। निरधिष्ठानेन समाधिना सर्वधर्मामनाश्रयभूतां समनुपश्यति। एकव्यूहेन समाधिना न कंचिद्धर्मद्वयं समनुपश्यति। आकारनिर्हारवता समाधिना सर्वधर्माणां अनाकारनिर्हारं समनुपश्यति। सर्वाधिकारसर्वभवतलविकरणेन समाधिना सर्वधर्मेषु निर्वेधज्ञानं प्रविशति, यस्यानुप्रवेशान्न कंचित् प्रतिलभते। सङ्केतरुतप्रवेशेन समाधिना सर्वरुतसङ्केतेष्वनुप्रविशति। घोषवाग्भिरक्षरविमुक्तेन समाधिना सर्वधर्मेष्वक्षरविमुक्तिं समनुपश्यति। ज्ञानोल्कामता समाधिना सर्वसमाधिषु तेन भासति तपति विरोचति। वरज्ञानलक्षणविजृंभितेन समाधिना सर्वधर्मेष्वपरिशुद्धं लक्षणं दर्शयति। अनभिज्ञालक्षणवतेन समाधिना सर्वधर्मेष्वनभिलक्षणार्थं समनुपश्यति। सर्वाकारवरोपतेन समाधिना सर्वधर्मसमाधिषु सर्वाकारवरोपेतो भवति। सर्वदुःखसुजहेन समाधिना सर्वधर्मेष्वनिश्रियं समनुपश्यति। अक्षयकारणेन समाधिना सर्वधर्मेष्वक्षयं न समनुपश्यति। धारणपदेन समाधिना सर्वसमाधीं सर्वधर्मांश्च धारयति, सम्यक्त्वमिथ्यात्वं न समनुपश्यति। निरोधविधप्रशमेन समाधिना सर्वधर्मानुरोधविरोधां न समनुपश्यति। विमलप्रभासेन समाधिना सर्वसमाधिषु संस्कृतविमलं न समनुपश्यति। सारानुगतेन समाधिना सर्वधर्मेष्वसारं नोपलभते। पूर्णचन्द्रविमलेन समाधिना सर्वसमाधिषु गुणपरिपूर्णो भवति। महाव्यूहेन समाधिना सर्वसमाधिषु महाव्यूहसमन्वागतो भवति। सर्वलोकप्रभेदेन समाधिना सर्वधर्मेषु ज्ञानेनावभासयति। समाधिसमताविरोचनेन समाधिना सर्वसमाधिष्वेकाग्रतां प्रतिलभते। अरणेन समाधिना सर्वधर्मेषु न रणति। अनिलनिकेतेन समाधिना सर्वधर्मेष्वालयं न करोति। तथास्थितनीश्चित्तेन समाधिना सर्वधर्मेषु तथता न विनिवर्तते। कायकलिसंप्रमथनेन समाधिना सर्वधर्मेषु सत्कायं नोपलभते। वाक्कलिविध्वंसनगगनप्रतिलब्धेन समाधिना बोधिसत्त्वः सर्वधर्मेषु वाक्कर्म नोपलभते। आकाशसंगगतिविमुक्तिनिरुपलेपसमाधिस्थितो बोधिसत्त्वः सर्वधर्मेष्वाकाशसंगतामनुप्राप्नोति। अयं समाधिमुखो महायानसंप्रस्थितानां बोधिसत्त्वानां निर्वेशः।



तत्र कतमो बोधिसत्त्वानां महासत्त्वानां संभारविशुद्धिमुखसंग्रहो धर्मपर्यायः? दानसंभारो बोधिसत्त्वानां सत्त्वपरिपाचनतया संवर्तते। शीलसंभारो बोधिसत्त्वानां प्रणिधानपूर्या संवर्तते। क्षान्तिसंभारो बोधिसत्त्वानां लक्षणानुव्यञ्जनपरिपूर्या संवर्तते। वीर्यसंभारो बोधिसत्त्वानां सर्वकार्यपरिपूर्या संवर्तते। ध्यानसंभारो बोधिसत्त्वानामाजानेयचित्ततया संवर्तते। प्रज्ञासंभारो बोधिसत्त्वानां सर्वक्लेशपरिज्ञया संवर्तते। श्रुतसंभारो बोधिसत्त्वानामसङ्गप्रतिभानतया संवर्तते। पुण्यसंभारो बोधिसत्त्वानां सर्वसत्त्वोपजीव्यतया संवर्तते। ज्ञानसंभारो बोधिसत्त्वानामसङ्गज्ञानतया संवर्तते। शमथसंभारो बोधिसत्त्वानां कर्मण्यचित्ततया संवर्तते। विपश्यनासंभारो बोधिसत्त्वानां विगतकथंकथया संवर्तते। मैत्रीसंभारो बोधिसत्त्वानामप्रतिहतचित्ततया संवर्तते। करुणासंभारो बोधिसत्त्वानां परिपाकाखेदतायै संवर्तते। मुदितासंभारो बोधिसत्त्वानां धर्मारामरतिरमणतायै संवर्तते। उपेक्षासंभारो बोधिसत्त्वानामनुनयप्रतिघप्रहाणाय संवर्तते। धर्मश्रवणसंभारो बोधिसत्त्वानां विवरणप्रहाणाय संवर्तते। निष्क्रमणसंभारो बोधिसत्त्वानां सर्वपरिग्रहोत्सर्गाय संवर्तते। अरण्यवाससंभारो बोधिसत्त्वानां कृतकर्माविप्रणाशतया संवर्तते। स्मृतिसंभारो बोधिसत्त्वानां धारणीप्रतिलाभतया संवर्तते। मतिसंभारो बोधिसत्त्वानां बुद्धिप्रभेदनतया संवर्तते। गतिसंभारो बोधिसत्त्वानामर्थगत्यनुबुध्यनतया संवर्तते। स्मृत्युपस्थानसंभारो बोधिसत्त्वानां कायवेदनाचित्तधर्मानुबुध्यनतया संवर्तते। सम्यक्प्रहाणसंभारो बोधिसत्त्वानां सर्वाकुशलधर्मप्रहाणतायै संवर्तते, सर्वकुशलधर्मभावनाय च। ऋद्धिपादसंभारो बोधिसत्त्वानां कायचित्तलघुत्वतया संवर्तते। इन्द्रियसंभारो बोधिसत्त्वानां सर्वसत्त्वेन्द्रियपरिपूर्या संवर्तते। बलसंभारो बोधिसत्त्वानां सर्वक्लेशानवमर्दनतया संवर्तते। बोध्यङ्गसंभारो बोधिसत्त्वानां धर्मस्वभावानुबुध्यनतया संवर्तते। मार्गसंभारो बोधिसत्त्वानां सर्वकुमार्गसमतिक्रमताय संवर्तते। सत्यसंभारो बोधिसत्त्वानामकुशलधर्मापसरणस्वर्गोपपत्तिप्रतिलाभाय संवर्तते। प्रतिसंवित्संभारो बोधिसत्त्वानां सर्वसत्त्वसंशयच्छेदनतया संवर्तते। प्रतिसरणसंभारो बोधिसत्त्वानामपराधीनज्ञानतया संवर्तते। कल्याणमित्रसंभारो बोधिसत्त्वानां सर्वगुणाय द्वारतया संवर्तते। आशयसंभारो बोधिसत्त्वानां सर्वलोकाविसंवादनतया संवर्तते। प्रयोगसंभारो बोधिसत्त्वानां सर्वसंभारोत्तरणतया संवर्तते। अध्याशयसंभारो बोधिसत्त्वानां विशेषगामितया संवर्तते। प्रतिसंलानसंभारो बोधिसत्त्वानां यथाश्रुतधर्मप्रतिपत्या संवर्तते। सङ्ग्रहवस्तुसंभारो बोधिसत्त्वानां सत्त्वपरिपाचनतया संवर्तते। सद्धर्मपरिग्रहसंभारो बोधिसत्त्वानां त्रिरत्नवंशानुपच्छेदनतया संवर्तते। परिणामनाविधिज्ञकौशल्यसंभारो बोधिसत्त्वानां बुद्धक्षेत्रपरिशुद्ध्या संवर्तते। उपायकौशल्यसंभारो बोधिसत्त्वानां सर्वज्ञज्ञानपरिपूर्या संवर्तते। अयं कुलपुत्र बोधिसत्त्वानां संभारविशुद्धिमुखसङ्ग्रहो धर्मपर्यायः"।



पुनरपि कुलपुत्र रत्नगर्भस्तथागतो महाबोधिसत्त्वपर्षदं व्यवलोक्य महाकारुणिकं बोधिसत्त्वं महासत्त्वमामन्त्रयित्वाह - "तत्र महाकारुणिका कियद्रूपेण वैशारद्यालङ्कारेणालङ्कृतो बोधिसत्त्वो महासत्त्वः क्षान्तिं परिपूरयति? परमार्थदर्शिनो बोधिसत्त्वस्य महासत्त्वस्यामोघव्यायामपरिग्रहचित्तः सर्वत्रैधातुके योऽपरिग्रहचित्तः सर्वसत्त्वेभ्यः स उच्यते महावैशारद्यश्रमणधर्मो यस्याकाशपाणिसमचित्तं सर्वधर्मेषु। अयं महाकारुणिक बोधिसत्त्वस्य वैशारद्यालङ्कारः।



कथं च पुनः क्षान्त्या परिपूरिर्भवति? अणुरपि तत्र धर्मन्नोपलभते यदनुबुध्येय प्रतिबुद्ध्येयुर्वा अविपाकधर्मानधिमुच्यते; यदुत मैत्र्या चैव नैरात्म्यं च, करुणा च निःसत्त्वता च, मुदिता च निर्जीविता चोपेक्षा च निष्पुद्गलता च, दानं च दान्तचित्तता च, शीलं च शान्तचित्तता च, क्षान्तिश्च क्षमाचित्तता च, वीर्यं च विवेकचित्तता च, ध्यानं च निध्यप्तिचित्तता च, प्रज्ञा चाप्युदारचित्तता च, स्मृत्युपस्थानता च स्मृत्यमनसिकारचित्तता च, सम्यक्प्रहाणं चानुत्पादनिरोधचित्तता च, ऋद्धिपादाश्चाप्रमाणचित्तता च, श्रद्धा चासङ्गचित्तता च, स्मृतिश्च स्वयंभूचित्तता च, समाधिश्च समापद्यनुचित्तता च, प्रज्ञेन्द्रियं चातीन्द्रियचित्तता च, बलं चानवमर्दचित्तता च, बोध्यङ्गश्च बुद्धिप्रभेदनचित्तता च, मार्गश्च भावनाचित्तता च, शमथश्चोपशमचित्तता च, विपश्यना चासंमोहचित्तता च, आर्यसत्यभावना चात्यन्तपरिज्ञाभावनाचित्तता च, बुद्धमनसिकारश्चास्वकारचित्तता च, धर्ममनसिकारश्च धर्मधातुसमचित्तता च, सङ्घमनसिकारश्चाप्रतिष्ठितचित्तता च, सत्त्वपरिपाचनश्चादिविशुद्धिचित्तता च, सद्धर्मपरिग्रहश्च धर्मधात्वसंभेदचित्तता च, क्षेत्रपरिशुद्धिश्चाकाशसमचित्तता च, लक्षणपरिपूरिश्चालक्षणचित्तता च, क्षान्तिप्रतिलाभश्चानुपलम्भचित्तता च, अवैवर्तिकभूमिश्च संवर्तानिवर्तचित्तता च, बोधिमण्डालङ्कारचित्तं च त्रैधातुकमण्डलचित्तता च, मारनिग्रहचित्तं च सर्वसत्त्वेभ्यः सर्वसत्त्वानुग्रहचित्तता च, बोधिश्च सर्वधर्मसमता च बोधिचित्तता च, धर्मचक्रप्रवर्तनं च सर्वधर्माप्रवर्तनचित्तता च, महापरिनिर्वाणसंदर्शनं च संसारस्वभावचित्तता च"॥



अस्मिन् धर्मपर्याये भाष्यमाणे चतुःषष्टीनां बोधिसत्त्वशतसहस्राणां ये दशभ्यो दिग्भ्यो गृध्रकूटे पर्वते शाक्यमुनेस्तथागतस्यान्तिके पूर्वयोगसमाधानमुखनिर्देशं संभारविशुद्धिमुखधर्मपर्यायं श्रवणार्थमागतास्तैरनुत्पत्तिकेभ्यो धर्मेभ्यः क्षान्तिः प्रतिलब्धाः। शाक्यमुनिस्तथागत आह - "अस्य खलु पुनः कुलपुत्र धर्मपर्यायस्य रत्नगर्भस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य भाषमाणस्याष्टचत्वारिंशतीनां गङ्गानदीवालिकासमानां बोधिसत्त्वानां महासत्त्वानामनुत्पत्तिकधर्मक्षान्तिप्रतिलाभोऽभूत्। चातुर्द्वीपिकलोकधातुपरमाणुरजःसमैर्बोधिसत्त्वैर्महासत्त्वैरवैवर्तिकभूमिः प्रतिलब्धो बभूव। गङ्गानदीवालिकासमानां बोधिसत्त्वानां महासत्त्वानामस्य समाधानमुखनिर्देशस्य संभारविशुद्धिमुखधर्मपर्यायस्य सकलपरिपूर्णं विशुद्धज्ञानाधिगमो बभूव"॥



स च कुलपुत्र महाकारुणिको बोधिसत्त्वो महासत्त्वस्तेन प्रामोद्यप्रसादेन विंशतिवर्षसदृशः कुमारभूतः संवृत्तो, रत्नगर्भस्य तथागतस्य पृष्ठतः समनुबद्धोऽस्थात्। स च कुलपुत्र राजामृतशुद्धः सार्धं पुत्रसहस्रेणाशीतिभिश्च कोट्टराजसहस्रैरन्यैश्च द्वानवतिभिः प्राणकोटिभिः सार्धं निष्क्रम्य प्रव्रजितः शीलश्रुतसमाधिसौरत्यैरभियोगकृतवान्।



स च कुलपुत्र महाकारुणिको बोधिसत्त्वो महासत्त्वोऽनुपूर्वेण चतुरशीतिधर्मस्कन्धसहस्राणि रत्नगर्भस्य तथागतस्य सकाशाच्छ्रावकयानकथां पठितवान् पर्यवाप्तवांश्च; नवतिधर्मस्कन्धसहस्राणि प्रत्येकबुद्धयानकथामुद्दिष्टवां पठितवान् पर्यवाप्तवान्; ततः शतसहस्रमनुत्तरमहायानकथायां तथा कायस्मृत्युपस्थानकथायामुद्दिष्टवान् पठितवान् पर्यवाप्तवांश्च, शतसहस्रं वेदनास्मृत्युपस्थानकथायां, शतसहस्रं चित्तस्मृत्युपस्थानकथायां, शतसहस्रं धर्मस्मृत्युपस्थानकथायामुद्दिष्टा पठिता पर्यवाप्ताश्च; शतसहस्रं धातुस्कन्धकथां, शतसहस्रमायतनस्कन्धकथां, शतसहस्रं रागसंयोजनप्रहाणस्कन्धकथां, शतसहस्रं द्वेषसंयोजनप्रहाणस्कन्धकथां, शतसहस्रं मोहप्रहाणप्रतीत्यसमुत्पादस्कन्धकथां, शतसहस्रं समाधिविमोक्षस्कन्धकथां, शतसहस्रं बलवैशारद्यावेणिकबुद्धधर्मस्कन्धकथामुद्दिष्टवान् पठितवान् पर्यवाप्तवांश्च। यावद्दशधर्मस्कन्धशतसहस्रं रत्नगर्भस्य तथागतस्य सकाशादुद्गृहीतवान् पर्यवाप्तवांश्च।



यावदपरेण कालसमयेन रत्नगर्भस्तथागतोऽर्हन् सम्यक्संबुद्धोऽनुपधिशेषे निर्वाणधातौ परिनिर्वृतः। स च कुलपुत्र महाकारुणिको बोधिसत्त्वः नानाविधाप्रमेयासंख्येया वाद्यपुष्पचूर्णामाल्यगन्धविलेपनच्छत्रध्वजपताकारत्नैः पूजां कृतवान्, नानागन्धैश्च स्नापनं कृतवान्, शरीरप्रतिष्ठापनं च सप्तरत्नमयं स्तूपं कृतवान् पञ्चयोजनमुच्चत्वेनार्धयोजनं विस्तारेण। ततः सप्तदिवसान्यप्रमेयासंख्येया

वाद्यपुष्पमाल्यगन्धविलेपनच्छत्रध्वजपताकारत्नैश्च पूजां कृत्वा, पुनरपि तत्राप्रमेयासंख्येयास्त्रिषु यानेषु समादापिता निवेशिताः प्रतिष्ठापिताः। स तेषां सप्तानां दिवसानामत्ययेन चतुरशीतिभिः प्राणसहस्रैः सार्धं निष्क्रम्य केशश्मश्रूण्यवतार्य काषायानि वस्त्राण्याच्छाद्य सम्यगेव श्रद्धयागारादनागरिकां प्रव्रज्य रत्नगर्भस्य तथागतस्य परिनिर्वृतस्य शासनं ज्वालितवान्; दशवर्षसहस्राणि सद्धर्मधारको बभूव। तत्र चाप्रमेयासंख्येयां सत्त्वांस्त्रिभिर्यानैः समादापयामास निवेशयामास प्रतिष्ठापयामास, त्रिशरणगमने च प्रतिष्ठापयामास, उपासकसंवरे च श्रामणेरसंवरे उपसंपदायां भिक्षुभावे ब्रह्मचर्यवाससंवरे निवेशिताः प्रतिष्ठापिताः। स बहूनि प्राणकोटीनयुतशतसहस्राणि अभिज्ञर्द्धिकौशल्ये च नियोजयित्वा सौरत्यब्रह्मचर्यवासे नियोजयित्वा शत्रुभूतेषु च स्कन्धेसु परिज्ञायां नियोजयित्वा शून्यग्रामायतनपरिज्ञायां नियोजयित्वा प्रतीत्यसमुत्पन्नाः सर्वधर्माः संस्कृतज्ञानपरिज्ञायां नियोजयित्वा प्रतिभासोपमान् मरीच्युपमान् दकचन्द्रोपमान् सर्वधर्मान्

दर्शयित्वानुत्पादानिरोधाप्रतिसंधिनिरोधशान्तप्रशान्तोपशान्तपरमप्रणीतनिरोधनिर्वाणपरिज्ञानं दर्शयित्वा आर्याष्टाङ्गे मार्गे प्रतिष्ठापयित्वा कालं कृतवान्। एवमेव च ते सत्त्वास्तस्य महाकारुणिकस्य महाश्रमणस्य शरीरेषु शरीरपूजां कृतवन्तो, यथा राज्ञश्चक्रवर्तिनः शरीरेषु शरीरपूजा क्रियते। एवमेव तस्मिन् समये ते सत्त्वा महाकारुणिकस्य महाश्रमणस्य शरीरेषु शरीरपूजां कृतवन्तो। यस्मिंश्च दिवसे महाकारुणिको महाश्रमणः कालगतस्तस्मिन् दिवसे रत्नगर्भस्य तथागतस्य सद्धर्मोऽन्तर्हितस्तैश्च बोधिसत्त्वैर्महासत्त्वैः प्रणिधानवशेनान्यत्र लोकधातुषूपपत्तिः परिगृहीताः; केचित् प्रणिधानवशेन तुषितभवन उपपन्नाः, केचिन् मनुस्येषु केचिन्नागेषु केचिदसुरेषु केचित् प्रणिधानेन विविधासु तिर्यग्योनिषूपपन्नाः॥



कालगतश्च कुलपुत्र महाकारुणिको महाश्रमणः प्रणिधानवशेन दक्षिणायां दिशायामितो बुद्धक्षेत्राद्दशबुद्धक्षेत्राण्यतिक्रम्य तत्र संकर्षणो नाम लोकधातुरशीतिवर्षायुष्काश्च तत्र मनुष्या अकुशलमूलसमवधाना रौद्रा लोहितपाणयः पापनिविष्टा अदयापन्नः सर्वसत्त्वेषु अमातृज्ञा अपितृज्ञा अपरलोकभयादर्शिनः। प्रणिधानवशेन महाकारुणिको महाश्रमणस्तत्र संकर्षणे बुद्धक्षेत्रे चण्डालकुल उपपन्नोऽभूत्। स चातीवदीर्घशरीरोऽभूदतीवबलवान् अतीववेगवान् अतीवस्मृतिमान् अतीवप्रतिभानवान् अतीवजवसमन्वागतोऽभूत्। स दृढेन बलवेगेन सत्त्वान् संगृहीत्वाह - "यदि यूयं भो सत्त्वा अदत्तादानात् प्रतिविरमत, काममिथ्याचाराद्यावन् मिथ्यादृष्ट्याः प्रतिविरमत, तदहं युष्माकं जीवितं प्रयच्छामि जीवितोपकरणानि च दास्यामि। अथ च पुनर्न प्रतिविरमत, अहं जीविताद्व्यपरोपयित्वा प्रक्रमिष्यामि"। ततस्ते सत्त्वा अञ्जलिं प्रगृह्याहुः। "वयमिदानीन् तव नाथस्य वचनेनाद्याग्रेण यावज्जीवमदत्तादानाद्यावन् मिथ्यादृष्ट्याः प्रतिविरमामः"। स बलचण्डालो गत्वा राज्ञो वा राजभट्टानां वा निवेदयति।"जीवितोपकरणेन मे प्रयोजनमन्नेन वा पानेन वा खाद्येन वा भोज्येन वा पेयवस्त्रशय्यागन्धहिरण्यसुवर्णमणिमुक्तवैडूर्यशङ्खशिलाप्रवाडरजतजातरूपेण वा प्रभूतानि जीवितोपकरणानि ददत मम"। स बलचण्डालः सत्त्वान् यावज्जीवं दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयामास। ततस्ते मनुष्याः पञ्चवर्षशतायुष्का बभूवुः। यश्च तत्र राजा स कालगतः ततस्तै राजामात्यैः स बलचण्डालो राजाभिषेकेनाभिषिच्य राज्ये प्रतिष्ठापितः पुण्यबलो नाम संस्कृतः।



अथ कुलपुत्र राजा पुण्यबलो न चिरेणैव तं विषयमनुशासितवान्, दृढवीर्यपराक्रमेण द्वितीयं विषयं समनुशासितवान्। यावद् राजा पुण्यबलो न चिरेण सर्वजम्बूद्वीपे राजा बलचक्रवर्ती बभूव। यदा च राज्ञा पुण्यबलेन सर्वजम्बूद्वीपे राजत्वं प्रतिगृहीतं ततः पश्चात् सत्त्वाः प्राणातिपातविरमणे समादापिता निवेशिताः प्रतिष्ठापिताः। एवमदत्तादानाद्यावन् मिथ्यादृष्टिवैरमण्ये समादापिताः सम्यग्दृष्ट्यां प्रतिष्ठापिता, यथाभिप्रायाः सत्त्वास्त्रिषु यानेषु समादापिता निवेशिताः प्रतिष्ठापिताः। अथ राजा पुण्यबलः सर्वजम्बूद्वीपिकां सत्त्वां दशकुशलेषु कर्मपथेषु प्रतिष्ठापयित्वा त्रिषु यानेषु संनियोज्य सर्वजम्बूद्वीपे घोषमनुश्रावयमास। "ये केचिद् याचनका अन्नार्थिका यावद् रत्नार्थिका वा ते सर्व आगच्छन्तु। अहं सर्वदानानि दास्यामि"। ततोऽपरेण कालसमयेन सर्वजम्बूद्वीपिकाः सत्त्वा आगत्वा राजानं पुण्यबलं याचितवन्तः; राजापि पुण्यबलस्तान्यारभ्य विविधानि दानानि दत्तवान्।



तत्र पांशुघोषो नामाजीविको राजानं पुण्यबलमुपसंक्रम्याह। "यदि त्वं महाराज विविधं महादानपरित्यागं परित्यजसि, अनुत्तरां सम्यक्संबोधिमाकाङ्क्षसि। यदि त्वं महाराज ममाशां परिपूरयिष्यसि, भविष्यसि त्वं महाराज लोकप्रदीपो जिन" इति। राजाह - "केन तेऽर्थः"। पांशुघोष आजीविक आह - "अहं महाराज विद्याधरत्वमिच्छामि महासुरसंग्रामप्रमर्दनकल्पं साधयितुं। तेनाहं तव पुरतः स्थित्वा विज्ञापयामि जीवतः पुरुषस्य चर्मणा प्रयोजनं चक्षुषा च प्रयोजनं"। अथ कुलपुत्र राजा पुण्यबल एवं चिन्तयति। "प्रतिलब्धम्मया बलचक्रवर्तिराजत्वं। गणनातिक्रान्तश्च सत्त्वा दशकुशलेषु कर्मपथेषु प्रतिष्ठापितास्त्रिषु च यानेषु नियोजिता, अप्रमेयं च मे दानं दत्तं। अयं च मे कल्याणमित्रोऽसारात् कायात् सारमाददामि"। स राजाह - "तुष्टो भव ददामि ते इमं प्राकृतमांसचक्षुस्तेनाहं लभेयानुत्तरं धर्मचक्षुः। ददामि ते इमं स्वकं चर्म प्रसन्नचित्तेन, तेन चाहं लप्स्येऽनुत्तरां सम्यक्संबोधिं"। अथ कुलपुत्र राजा पुण्यबलो दक्षिणेन हस्तेनोभौ नेत्रावुत्पाद्याजीविकस्य दत्वा रुधिरम्रक्षितेन मुखेनाह। "शृण्वन्तु मे इह देवयक्षमहर्द्धिका ये केचिन्नरा येऽसुरा ये च भूता इहागताः खेचरा भूमौ स्थिता ये नरा, बोधाय मया दानं नामितं शुभं प्राप्स्येऽहं शान्तं पदं, सत्त्वांस्तारयेयं, घोरात् संसारार्णवात् पारेऽनुत्तरे निर्वाणे शिवे स्थापयेयं"। पुनराह - "यद्यहमनुत्तरां सम्यक्संबोधिं प्राप्नुयां, तावच्चिरं मम जीवितेन्द्रियं मा निरुध्येत मा च मे स्मृतिर्नश्येत मा च मे विप्रतिसारो भवेद्, यावच्चिरमस्याजीविकस्य सा विद्या न सिद्धा भवेत्"। आह - "गृह्णाहि चर्म"। स च कुलपुत्र पांशुघोषाजीविकस्तीक्ष्णं शस्त्रं गृहीत्वा राज्ञो ध्रियतः कायच्चर्ममपनेत्वा चर्म गृहीत्वा विद्यां साधयित्वा, तथा सप्तदिवसानि राज्ञः पुण्यबलस्य जीवितेन्द्रियं न निरुद्धं, न च स्मृतिः प्रमुष्टा, न च तां दुःखां वेदनां वेदयति, न चास्यैकक्षणं अपि विप्रतिसारो जातः।



तत्किं मन्यध्वे कुलपुत्रान्यः स तेन कालेन तेन समयेन महाकारुणिको नाम बभूव, न चान्यो द्रष्टव्योऽहं स तेन कालेन तेन समयेन महाकारुणिको नाम बभूव रत्नगर्भस्य तथागतस्य पिता। अयं मे प्रथमचित्तोत्पादोऽभूतनुत्तरायां सम्यक्संबोधौ। प्रथमचित्तोत्पादेन च मे गणानातिक्रान्ताः सत्त्वाः समादापिता अनुत्तरायां सम्यक्संबोधौ। अयं मे प्रथमः शूरभावः शूरकार्यं च। सोऽहं प्रणिधानवशेन ततश्च्यवित्वा संकर्षणे बुद्धक्षेत्र उपपन्नश्चण्डालकुले द्वितीयः शूरभावः शूरकार्यं च। तदा मे चण्डालवंशे स्थित्वा सत्त्वां कुशले नियोज्य स्वबलपराक्रमेण यावद्बलचक्रवर्तित्वं प्राप्तं, सर्वजंबूद्वीपे च कलिकलुषकलहाः प्रशमिता, आयुश्च वर्धापिताः। अयं च मे प्रथम आत्मपरित्यागः, यदा च मे स्वनेत्राः परित्यक्ताः स्वचर्मपरित्यागश्च। सोऽहं ततश्च्युतस्तत्रैव संकर्षणे क्षेत्रे द्वितीये द्वीपे प्रणिधानवशेन चण्डालकुल उपपन्नः। पेयालं, तत्र च मयैवंरूपेण दृढवीर्यपराक्रमेण सत्त्वान्नियोजयित्वा कुशलेषु कर्मेषु, यावद्बलचक्रवर्तित्वं मे प्राप्तं। तत्र च कलिकलुषकलहवैरविग्रहाः प्रशमिता, आयुश्च वर्धापितं। तत्र च स्वशरीरात् जिह्वा कर्णौ च परित्यक्तौ, यावत् सर्वन् तत्संकर्षणं महासाहस्रं बुद्धक्षेत्रं सर्वद्वीपेष्वेवं पुरुषकारं कृतं। प्रणिधानदृढवीर्यपराक्रमेणानुप्रबन्धेन प्रणिधानवशेन गङ्गानदीवालिकासमेषु पञ्चकषायेषु बुद्धक्षेत्रेषु एवंरूपं महापुरुषकारं कृतं, सत्त्वाश्च कुशलेषु नियोजिताः, त्रिषु च यानेषु समादापिताः, कलिकलुषकलहरणविग्रहाः शमिताः। इत्यर्थं कुलपुत्रान्येषां बुद्धानां भगवतां बुद्धक्षेत्रं परिशुद्धं। यदा ते बुद्धा भगवन्तः पूर्वेऽनुत्तरां सम्यक्संबोधिचर्यां चरमाणा न परामापत्त्या चोदयन्ति, न च परस्य भयं दर्शयन्ति, न श्रावकप्रत्येकबुद्धयाने सत्त्वां समादापयन्ति। इत्यर्थं तेषां बुद्धानां भगवतां परिपूर्णाभिप्रायाणां परिशुद्धं बुद्धक्षेत्रं भवति। न च तत्र बुद्धक्षेत्रे आपत्तिनाम, न शिक्षाग्रहणस्य, न च परुषवचनं श्रूयते, न चाकुशलशब्दः; अन्यत्र धर्मशब्देन तद्बुद्धक्षेत्रमपगतामनापशब्देन स्फुटं भवति। तत्र च सत्त्वा यथाकामकरणीया भवन्ति, न च तत्र श्रावकप्रत्येकबुद्धयानस्य नाम प्रज्ञप्तिप्रादुर्भावोऽस्ति। यदा च मया गङ्गानदीवालिकासमेषु महाकल्पेषु गङ्गानदीवालिकासमेषु शून्येषु पञ्चकषायेषु बुद्धक्षेत्रेषु परुषवचनभयेन सत्त्वाः प्राणातिपातवैरमण्ये समादापिता यावत्त्रिषु यानेषु समादापिता निवेशिताः प्रतिष्ठापिताः। तेन कर्मावशेषेण म एतर्ह्येवं परिक्लिष्टं बुद्धक्षेत्रं अकुशलशब्देनापूरितं अकुशलमूलसमवधानगतैः सत्त्वैः परिपूर्णं, त्रिभिश्च यानैर्धर्मं देशयामि। यथा च मे पूर्वं प्रणिधानं कृतं तथारूपं बुद्धक्षेत्रं परिगृहीतं। यादृशाश्च मे सत्त्वा वैनेयाः परिगृहीतास्तदृशेनैव बलवीर्योद्योगेन बोधिचारिकाः चीर्णाः, यादृशं चैव बीजं प्रक्षिप्तं तादृशं बुद्धक्षेत्रं प्रतिलब्धं। यथारूपं मया प्रणिधानं कृतं।



संक्षिप्तेन ते कुलपुत्र दानपारमितां कथयिष्यामि यथा मया बोधिसत्त्वचारिकां चरमाणेन दानपरित्यागः परित्यक्तः, न केनचित् पूर्वं बोधिसत्त्वेनैवंरूपः दानपरित्यागः परित्यक्तः, न च पुनः कश्चिद्बोधिसत्त्वो भविष्यति य एवंरूपं दानपरित्यागं बोधिचारिकां चरमाणः परित्यजति, यथा मया बोधिसत्त्वचारिकां चरमाणेन दानं परित्यक्तं, अन्यत्राष्टौ सत्पुरुषाः। धरणिदत्तो नाम सत्पुरुषो बभूव, दक्षिणायां दिशायां सर्वघोषायां लोकधातावनुत्तरां सम्यक्संबोधिमभिसंबुद्धः संकरमर्दार्चिर्नाम तथागतो वर्षशतायुष्कायां प्रजायां धर्मं देशयति। स सप्तमे दिवसे परिनिर्वास्यति। एवं वीर्यसंचोदनो नाम बभूव बोधिसत्त्वः, यः पुरिमायां दिशायामजयवत्यां लोकधातावनुत्तरां सम्यक्संबोधिमभिसंबुद्धः, वर्षशतायुष्कायां प्रजायां बुद्धकार्यं कृतवान् गङ्गानदीवालिकासमा कल्पातिक्रान्ताः। यदा स तथागतोऽनुत्तरपरिनिर्वाणेन परिनिर्वृतः, अद्यापि तस्य महाकारुणिकस्य शरीराणि शून्येषु बुद्धक्षेत्रेषु पञ्चकषायेषु बुद्धकार्यं कुर्वन्ति। एवं च वदन्ति सारकुसुमितो बोधिसत्त्वो दृढवीर्यसमाधानो बलवेगपरित्यागेन बोधिसत्त्वचारिकां चरति। दशगङ्गानदीवालिकासमैर्महाकल्पैरतिक्रान्तैः पश्चात् स तत्रोत्तरायां दिशायां सहेतुसंकर्षणो नाम भविष्यति पञ्चकषाये बुद्धक्षेत्रे तत्रासौ सत्पुरुषोऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यति, सहेतुकृष्णविध्वंसनराजो नाम भविष्यति तथागतोऽर्हन् सम्यक्संबुद्धो यावद् बुद्धो भगवान्। प्रज्ञार्चिःसंकोपितदष्टो नाम बोधिसत्त्वः सत्पुरुष एकस्य महाकल्पस्यात्ययेन पश्चिमायां दिशि भैरवती नाम लोकधातुर्भविष्यति पञ्चकषाये वर्षशतायुष्कायां प्रजायामनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, सूर्यगर्भार्चिविमलेन्द्रो नाम भविष्यति तथागतोऽर्हन् सम्यक्संबुद्धो भगवान्। अयं पुनः संरोचनो गणनातिक्रान्तैः कल्पैर्निर्दिष्टितैरुपरिमस्यां दिशि क्षारवर्चनिकुञ्जितायां लोकधातौ पञ्चकषाये तीव्रकलुषसंक्षोभणे कल्पेऽसौ संरोचनः पूर्वप्रणिधानेन पञ्चाशद्वर्षायुष्कायां प्रजायां तत्र क्षारवर्चनिकुञ्जिते बुद्धक्षेत्रेऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, अचिन्त्यरोचनो नाम तथागतो भविष्यति यावद् बुद्धो भगवान्। स पूर्वप्रणिधानेन दशवर्षानि सकलं बुद्धकार्यं कृत्वा परिनिर्वास्यति। तत्रैव दिवसे तस्य तथागतस्य सद्धर्मोऽन्तर्धास्यति, दशवर्षाणि पुनस्तं बुद्धक्षेत्रं शून्यं भविष्यति। ततः पश्चादसौ प्रहसितबाहुर्बोधिसत्त्वस्तत्र च क्षारवर्चनिकुञ्जिते बुद्धक्षेत्रेऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, वैरोचनधर्मो नाम भविष्यति तथागतोऽर्हन् सम्यक्संबुद्धो। सोऽपि दशवर्षाणि सकलं बुद्धकार्यं कृत्वानुपधिशेषे निर्वाणधातौ परिनिर्वास्यति। तस्य च परिनिर्वृतस्य पूर्वप्रणिधानेन सप्तवर्षाणि सद्धर्मः स्थास्यति। अत्र द्वौ सत्पुरुषौ लब्धपूर्वव्याकरणौ लब्धास्वादावनुत्तरायां सम्यक्संबोधौ भगवतः पुरतः पादौ शिरसा वन्दित्वा प्रीतिसौमनस्यप्रामोद्येन सप्ततालमात्रप्रमाणमुपर्यन्तरीक्षेऽभ्युद्गम्य प्राञ्जलीभूतौ स्थित्वा भगवन्तमेकस्वरेण गाथाभिरध्यभाषतां।



"विरोचसे बुद्ध यथैव सूर्य

अभ्युद्गतो मेरुरिमस्मिं लोके।

विशुद्धचक्षुर्विरजा विनायका

आलोकभूता सुगता नमोऽस्तु ते॥



बहूनि कल्पान ति वीर्यभाविता

पर्येषमाणेन ति अग्रबोधि।

बहुजिना पूजिता पूर्वे ये त्वया

न चैव ते व्याकर्षीमतितनायकाः॥



प्रहीणरागा परिमुक्तचित्ता

कृतं ति कार्यमिह सर्वलोके।

प्रणष्टमार्गाण देशेसि धर्मं

सत्त्वांश्च उत्तारयसे भवार्णवात्॥



वयं पि प्रव्रज्य स्वयंभूशासने

या प्रातिमोक्ष जिन शिक्ष देशिता।

वयं पि शिक्षित्व समाहितेन्द्रिया

तवैव आसन्न सदा भवेमः॥



अनिश्रिता जीवितकर्मकामा

शास्तारमाज्ञाय श्रुणित्व धर्मं।

आस्वाद लप्स्याम्यभिसेकभूमि

जिनोऽभिव्याकार्षी इदमेव अर्थं"॥



भगवानाह - "तौ च कुलपुत्र द्वौ अनुत्पादितबोधिचित्तौ; इमौ च संरोचनः प्रहसितबाहुः, ते चत्वारो धरणिदत्तो वीर्यसंचोदनः सारकुसुमितः प्रज्ञार्चिःसंकोपितदष्टः, इमे षट्सत्पुरुषा मया प्रथमं बोधाय समादापितास्तां शृणु।



भूतपूर्वं कुलपुत्रातीतेऽध्वन्यसंख्येयैरप्रमाणैः कल्पैरतिक्रान्तैः, यदासीत्तेन कालेन तेन समयेनेदं बुद्धक्षेत्रमरजमेरुजुगुप्सितं नामाभुत्, तदाहं महाकल्पे वर्तमाने वर्षशतायुष्कायां प्रजायां गन्धपद्मस्य तथागतस्य शासने सद्धर्मप्रतिरूपके वर्तमानेऽहं च कुलपुत्र तेन कालेन दुर्धनो नाम बभूव बलचक्रवर्ती जम्बूद्वीपविजयी सहस्रं पुत्राणां बभूव। तानप्यहमनुत्तरायां सम्यक्संबोधौ समादापितवान्। तेऽप्यपरेण समयेन निष्क्रम्य गन्धपद्मस्य तथागतस्य शासने प्रव्रजितास्ते च भूयस्या मात्रया गन्धपद्मस्य तथागतस्य शासनं ज्वालितवन्तः, स्थापयित्वा षट्पुत्रां ये न प्रव्रजिता न चेच्छन्ति बोधिचित्तमुत्पादयितुं। अहं च पुनः पुनर्विज्ञापयामि। "को युष्माकमभिप्रायो यद्यूयं बोधिचित्तं नोत्पादयथ, न च प्रव्रजथ?"। ते आहुः। "न वयं प्रव्रजामः। तत्कस्माद्धेतोः?, यः क्षयान्तकाले सद्धर्मप्रतिरूपके वर्तमाने प्रव्रजितोऽशक्तः सकलं शीलस्कन्धमाराधयितुं, स च सप्तधनविरहितो भवति, मग्नः संसारपङ्के, पुनश्च स देवमनुष्यश्रीः कदाचिल्लभति, नित्यं त्रिष्वपायेषु परिभ्रमति, बुद्धशिक्षायां न समादाय वर्तते। इत्यर्थं वयं न परिव्रजामः"। तानहं पुनः पृष्टवान्। "किं पुनर्यूयं बोधौ चित्तं नोत्पादयथ?"। त आहुर्["]यद्यस्माकं सर्वं जम्बूद्वीपं दद्यादेवं वयं अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेमः"।



तदहं कुलपुत्र श्रुत्वा परमप्रीतमना एवं चिन्तयामि। "मया सर्वं जम्बुद्वीपका मनुष्यस्त्रिशरणगमने प्रतिष्ठापिता, आर्याष्टाङ्गे उपोषधवासे समादापितास्त्रिषु च यानेषु समादापिता। यन्नूनमहमिमं जम्बुद्वीपं षड्भागं कृत्वा षण्णां पुत्राणां दद्यां; दत्वा चानुत्तरायां सम्यक्संबोधौ समादापयेयं। अहं च निष्क्रम्य प्रव्रजेयं"। एवं सर्वं जम्बूद्वीपं षड्भागं कृत्वा पुत्राणां दत्तं। अहं च निष्क्रम्य प्रव्रजितस्ते च षज्जम्बूद्वीपराजानः परस्परविरुद्धाः कलहभण्डनविग्रहरोगपरचक्रसंक्षोभविविदमापन्नाः। यतः सर्वजम्बूद्वीपे दुर्भिक्षं संवृत्तं, शष्पानि न संपद्यन्ते, वर्षं न प्रवर्षति, वृक्षेभ्यश्च पत्रपुष्पफलानि न निष्पद्यन्ते, ओषधितृणानि च न संपद्यन्ते, मृगपक्षिणोऽपि क्षुत्तृष्णाप्रज्वालितगात्रा विहन्यन्ते। तदाहमेवं चिन्तयामि। "मया चैतर्हि आत्मपरित्यागः कर्तव्यः, सत्त्वाः स्वमान्सरुधिरेण संतर्पयितव्यास्[।"]ततोऽहम् आश्रमं परित्यज्य मध्यमेषु जनपदेषु गत्वा दगपालं पर्वतमभिरुह्य प्रणिधानमकरोत्।



"यथा त्यजामि स्वशरीरजीवितं

कारुण्यहेतोर्न च स्वर्गहेतोरर्थाय

लोकस्य सदेवकस्य भवेद्

इहापर्वतमात्रमुच्छ्रयं॥



यथा त्यजामि प्रियरूपसंपदं

न शक्रब्रह्माण न मारकारणात्।

अर्थं करो भेष्यसि देवलोके

भवेयं मह्यं बहुमान्सशोणितं॥



शृण्वन्तु नागा नरदेवयक्षा

ये देवता शैलगिरौ निवासिणः।

कृपा ममोत्पन्नय सत्त्वहेतोः

तर्पष्य सत्त्वां स्वकमांसशोणितैः"॥



यदा च मया कृतं प्रणिधानं, क्षुभितास्त्रयो लोकाः, कंपिता धरणी, चलितो मेरुः, रुदन्ति देवगणास्ततोऽहमात्मानं दगपालात्पर्वतात्पातयामास। प्रणिधानवशेन मम पर्वतप्रमाणमात्मभावः संवृत्तः, योजनशतं विस्तारेण योजनमुच्चत्वेन; यावन् मनुष्यमृगपक्षिणः आरब्धा मान्सरुधिरं भक्षयितुं। मम च कुलपुत्र स कायः सत्त्वैः परिभुज्यमानः प्रतिदिनं वर्धते, योजनशतसहस्रं विस्तारेण संवृत्तः योजनसहस्रमुच्चत्वेन। सर्वत्र मानुषशिराः प्रादुर्भूताः सकेशकर्णनयनानासौष्ठदान्ताः सजिह्वा अनेकमुखशतसहस्राः प्रादुर्भूताः। ते च मुखा मनुष्यशब्देन घोषयन्ति। "भोः सत्त्वा भो गृह्णथ येनार्थं, मान्सं परिभुञ्जथ, रुधिरं पिवथ, नयनां गृह्णथ, कर्णनासां केशौष्ठदन्तजिह्वां गृह्णथ। यस्यार्थं येनार्थं यावदर्थं संतर्पितशरीराः परिपुर्णाभिप्राया अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयथ, श्रावकयानेन वा प्रत्येकबुद्धयानेन वा। अयं युष्माकमुपभोगपरिभोगो न क्षीयते, न च युष्माकं श्रद्धादेयं भविष्यति, मा वः क्षिप्रमेव जीवितक्षयो भवतु"। ये च तत्र विज्ञाः सत्त्वास्ते केचिच्छ्रावकयाने चित्तमुत्पादयन्ति, केचित् प्रत्येकबुद्धयाने, केचिदनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयन्ति, केचित् पुनर्देवमनुष्योपपत्तौ चित्तान्युत्पादयन्ति; मान्सं भक्षयन्ति, रुधिरं पिवन्ति, केचिन्नयनानि गृह्णन्ति, केचित् कर्णौ, केचिन्नासां, केचिदोष्ठौ, केचिद्दान्तां गृह्णन्ति; गृहित्वा प्रक्रमन्ति; प्रणिधानवशेन चान्योन्यं प्रादुर्भवति, मान्सं न चापचयं भवति, न परिक्षयं गच्छति। यावद्दशवर्षसहस्राणि सर्वजम्बूद्वीपका मनुष्या यक्षमृगपक्षिणोऽपि स्वशरीरेण संतर्पयामास। तैश्च दशभिर्वर्षसहस्रैर्गङ्गानदीवालिकासमानि मया नेत्राणि परित्यक्तानि, चतुःसमुद्रोदकप्रमाणं मया रुधिरं परित्यक्तं, सुमेरुसहस्रप्रमाणं मया मान्सं परित्यक्तं, चक्रवाडपर्वतप्रमाणा मया जिह्वा परित्यक्ता, युगन्धरमेरुप्रमाणा मया कर्णाः परित्यक्ताः, विपुलासुमेरुप्रमाणा मया नासाः परित्यक्ताः, इमं गृध्रकूटपर्वतप्रमाणा मया दान्ताः परित्यक्ताः, कृत्स्नं सहं बुद्धक्षेत्रं प्रज्ञापनप्रमाणं मे तत्र स्वचर्म परित्यक्तं।



पश्य कुलपुत्र दशवर्षसहस्राणि एवमप्रमेयासंख्येयापरिमाणाः स्वशरीरपरित्यागाः परित्यक्ता एकजीवितेन; एवमप्रमेयासंख्येयापरिमाणाः सत्त्वाः संतर्पिताः; एकचित्तक्षणमपि मे विप्रतिसारो नोत्पन्नः। एवं च मे तत्र प्रणिधानं कृतं। यद्यहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं, इयं मे आशा परिपूर्यतु, यथा मयैकद्वीपे स्वशरीरेण सर्वसत्त्वाः संतर्पिताः, एवमेव गङ्गानदीवालिकासमा वर्षसहस्रा अस्मिन्नरजमेरुजुगुप्सिते बुद्धक्षेत्रे सर्वद्वीपेष्वेवंरूपो ममात्मभावः प्रादुरभवत्, यथैकद्वीपे दशवर्षसहस्राणि एवं सर्वद्वीपेषु सत्त्वां स्वमान्सरुधिरचर्मनयनकर्णनासौष्ठजिह्वाकेशैः संतर्पयित्वा त्रिषु यानेषु समादापयेयं, मनुष्यां यक्षराक्षसां सर्वतिर्यग्योनिकान् ये केचिन् मान्सरुधिरभोजनाहाराः पृथग्यक्षा यावदन्तशः यामलौकिकाः तांश्चाहं संतर्पयेयं। यथा चाहमेकस्मिन् बुद्धक्षेत्रे स्वशरीरेण सर्वसत्त्वां संतर्पयेयं। एवमेव समन्तद्दशसु दिक्षु गङ्गानदीवालिकासमेषु बुद्धक्षेत्रेषु स्वमान्सरुधिरचर्मनयनां यावज्जिह्वाभिरेवंरूपेणात्मभावेन गङ्गानदीवालिकासमान् महाकल्पान् तेषु तेषु बुद्धक्षेत्रेषु स्वकायजीवितेन सत्त्वां संतर्पयेयं, एवंरूपमात्मभावं प्रतिलभ्य। विसंवादिता मे बुद्धा भगवन्तो भवेयुर्ये दशसु दिक्ष्वन्येषु बुद्धक्षेत्रेषु प्रवर्तितधर्मचक्राः तिष्ठन्ति यापयन्ति धर्मं च देशयन्ति, माहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं, मा चाहं संसारे संसरमाणो बुद्धशब्दं शृणुयां मा च धर्मशब्दं मा सङ्घशब्दं मा पारमिताशब्दं मा मारबलपराशयशब्दं मा वैशारद्यशब्दं यावत् कुशलशब्दमपि संसारे मा शृणुयां, नित्यं चावीचौ नरके संभवेयं; यदि मे एवंरूपः स्वशरीरपरित्यागः सत्त्वसंतर्पणार्थे न संपद्यत, नैवंरूपं च मे प्रणिधानं परिपूरि स्याद्यथा मे आशा चिन्तिता। येऽपि चेमस्मिं बुद्धक्षेत्रे सर्वत्र द्वीपेष्वेकैकस्मिं द्वीप एवंरूपा आत्मभावाः परित्यक्ताः सत्त्वांश्च मान्सरुधिरेण संतर्पिता, एवं दशसु दिक्षु गङ्गानदीवालिकासमेष्वन्येषु बुद्धक्षेत्रेषु सत्त्वा एवंरूपेणात्मभावेन स्वमान्सरुधिरेण सन्तर्पिताः। पश्य कुलपुत्र तथागतस्य दानपारमिता आत्मभावपरित्यागं य मयानुप्रबन्धेन तत्कालं नेत्राः परित्यक्ताः तेषां पुनरयं जम्बूद्वीपे यावत्त्रायस्त्रिंशद्देवपर्यन्तप्रमाणे राशिर्भवेत्। अयं कुलपुत्र तथागतस्य संक्षिप्तेन आत्मपरित्यागदानपारमिता।



पुनरपरं कुलपुत्र ततः पश्चादप्रमेयानां कल्पानामत्ययेन अयं बुद्धक्षेत्रश्चन्द्रविद्युतो नाम बभूव; तमपि पञ्चकषायं बभूव। अहं चास्मिं जम्बुद्वीपे राजा बभूव प्रदीपप्रद्योतो नाम बलवांश्चक्रवर्ती। एवं च मया सर्वजंबूद्वीपकाः सत्त्वाः कुशलेषु नियोजिता, यथा पूर्वोक्तं। पश्चादहमुद्यानभूमिं निर्यातः स्वभूमिदर्शनाय; तत्र चाहं पुरुषमद्राक्षं, पश्चाद्बाहुं गाढबन्धनं बध्यमानं दृष्ट्वा मयामात्याः पृष्टाः। "किम् अनेन पुरुषेण कृतं?"। अमात्या मां प्रत्यूचुर्[। "]अयं पुरुषो देवस्य सापराधिको; यदेतस्य पुरुषस्य संवत्सरे शष्पं धान्यं चोत्पद्यते ततो देवस्य षट्कांशो देयः, यथान्ये कुटुम्बिनो ददन्त्यायद्वारं ये देवस्य नगरग्रामजनपदकर्वटेषु प्रतिवसन्ति कर्मान्तेन जीविकां कल्पयन्ति; तं चैष पुरुषो न ददाति"। तानहमेतदवोचं - "उत्सृजत एतं पुरुषं। मा कस्यचिद्बलाद्धनधान्यं गृह्णीत"। ते कथयन्ति। "देव न कश्चित् सुप्रसन्नचित्तो ददाति, यद्देवस्य दिवसेदिवसेऽन्नपानभोजनपरिभोगो देवीनां देवस्य चान्तःपुरदेवस्य पुत्राणां दुहितृणां उपभोगपरिभोगः सर्वं तत्परः सकाशादुद्ध्रियते। न च कश्चित् प्रसन्नः प्रयच्छति"। तच्चाहं परमदुर्मनाश्चिन्तयामि। "कस्याहमिमं सर्वं जम्बूद्वीपं राज्यैश्वर्यं दद्यां?"। मम पञ्चपुत्रशतानि बभूवुस्तांश्च बोधौ समादापयित्वा, इमं जम्बूद्वीपं पञ्चभागशतानि कृत्वा पुत्राणां प्रदत्तं। अहं च तपोवनं गत्वा रिषिप्रव्रज्येन ब्रह्मचर्यं चचार; वनखण्डे उडुम्बरमूले दक्षिणस्य महासमुद्रस्य नातिदूरे नवमूलफलाहारो विहरामि ध्यायी अनुपूर्वेण पञ्चाभिज्ञः संवृत्तः।



तेन खलु पुनः समयेन पञ्चशता जम्बूद्वीपकानां वाणिजानां महासमुद्रमवतीर्णास्तैस्ततः प्रभूतो रत्नस्कन्ध आसादितः। तत्र च चन्द्रो नाम सार्थवाहः तेन भाग्यवता विज्ञपुरुषेण चिन्तामणिः समासादितः। स ततो रत्नद्वीपाद्विपुलं रत्नधनस्कन्धं तं च चिन्तामणिं गृहीत्वा संप्रस्थितः, ततः क्षुभितः समुद्रो नागा आकुला रुदन्ति देवता यास्तत्र निवासिन्यस्तत्र चाश्वस्तो नाम रिषिर्बोधिसत्त्वः पूर्वप्रणिधानेन तत्रोपपन्नः; तेन महासत्त्वेन स सार्थः स्वस्तिना क्षेमेण च महासमुद्रादुत्तारितस्तस्य च सार्थवाहस्यान्यतरो दुष्टराक्षसः प्रत्यर्थिकोऽवतारप्रेक्षी विवरगवेषी पृष्ठतः पृष्ठतः समनुबद्धः। तेन सप्तदिवसानि परमकलुषा वातवृष्टिरवसृता; यतस्ते वणिजः प्रणष्टमार्गा परमभीतादुच्चस्वरेण क्रन्दन्ति रुदन्ति परिदेवन्ति, देवतामायाचन्ति शिववरुणां यावन् मातापितरमाक्रन्दन्ति प्रियपुत्रां। यावदश्रोषीदहं दिव्येन श्रोत्रेण यावत्तत्रागत्वा वणिजः समाश्वासिताः, "समागतोऽहं; मा भायथ; अहं युष्माकं मार्गामुपदर्शयिष्यामि, यावज्जम्बूद्वीपं स्वस्तिना क्षेमेण च प्राप्स्यथ"। तदाहं पट्टं तैलेन म्रक्षयित्वा स्वहस्तं वेष्ट्य अग्निना प्रज्वाल्य सत्यवचनमकरोत् - "यदि मया षट्त्रिंशद्वर्षा चतुर्भिर्ब्राह्मैर्विहारैर्वनखण्डनिवासिनां सत्त्वानामर्थाय हिताय नवमूलफलाहारेण चतुरशीतीनां नागयक्षसहस्राणां चित्तसन्ततिः परिपाचिता अवैवर्तिकाश्च स्थापिता अनुत्तरायां सम्यक्संबोधौ। तेन सत्येन सत्यवचनेन कुशलमूलपरिपाकेन ज्वलतु मे हस्तं; लभन्तु मार्गं वणिजः स्वस्तिना क्षेमेण जम्बूद्वीपं प्रापयन्तु"। यावत् सप्तरात्रिदिवसाः स्वहस्तं ज्वालितवान्, ते वणिजो जम्बूद्वीपे स्थापितास्तत्र मया प्रणिधानं कृतं : यदा जम्बूद्वीपं रत्नपरिहीणं भवेत्, तद् यदाहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं, तदा इयं मे आशा परिपूर्यतु, सार्थवाहो भवेयं जम्बुद्वीपे सप्तवारां चिन्तामणिमानयित्वा विविधं रत्नवर्षं अभिप्रवर्षयेयं; यावत् सर्वद्वीपेष्वस्मिन् बुद्धक्षेत्रे एवमेव दशसु दिक्षु गङ्गानदीवालिकासमेषु शून्येषु बुद्धक्षेत्रेषु पञ्चकषायेषु रत्नं प्रवर्षयेयं, यावत्पूर्वोक्तं। एवं च मे आशा परिपूर्णा गङ्गानदीवालिकासमानां महाकल्पानामन्तरेण सार्थवाहोऽभूवन्, गङ्गानदीवालिकासमेषु शून्येषु पञ्चकषायेषु बुद्धक्षेत्रेषु रत्नानि प्रवर्षितानि; एकैकद्वीपे सप्तवारां विविधं रत्नवर्षं प्रवर्षितं। एवमप्रमेयासंख्येयाः सत्त्वा रत्नैः परिपुर्णाभिप्रायाः कृतास्त्रिषु च यानेषु नियोजिताः। पश्य कुलपुत्र तथागतस्य रत्नपरित्यागलक्षणं विपाककुशलमूलं।



पुनरपरं कुलपुत्राप्रमेयाणां कल्पानामत्ययेनान्तरेणायं बुद्धक्षेत्रस्तिमिरं नामाभूत्; संतोषणे कल्पे वर्तमाने पञ्चकषाये पञ्चवर्षसहस्रिकायां प्रजायां प्रणिधानेनाहमस्मिन् जम्बूद्वीपे सूर्यमालगन्धो नाम ब्राह्मणोऽभूवन् वेदपाठकः। तत्कालं च सत्त्वा भूयसा शाश्वतदृष्टयोऽभूवन् सवैरपराक्रमाः सकलहाधिष्ठानाः। तेषां चाहं महाबलवेगपराक्रमेण सत्त्वानां शत्रुभूतं स्कन्धप्रयोगेन धर्मं देशयामि, शून्यग्रामायतनप्रत्यवेक्षणाप्रत्ययसमनुबद्धं सोत्पादव्ययं आनापानस्मृतिमनस्कारं दर्शयामि। तेऽनुत्तरायां सम्यक्संबोधौ चित्तोत्पादनकुशलमूलपरिणामनाभियोजिताः, स्वयमेव चाहं पञ्चाभिज्ञः संवृत्तः; तेन च समयेनाप्रमेयासंख्येयाः सत्त्वा ममाववादानुशासनेन पञ्चाभिज्ञाः संवृत्ताः। एवमप्रमेयासंख्येयाः सत्त्वाः कलहविग्रहवैरानवसृज्य वनखण्डमाशृत्य वनखण्डे मूलफलाहारा ध्यायन्तश्चतुर्भिर्ब्राह्मैर्विहारै रात्रिदिवसमतिनामितवन्तः। ततः क्षीयमाणे कल्पे यदा तैर्दक्षिणीयैः कृत्स्नं जम्बूद्वीपं स्फुटमभूत्। ते च कलिकलहरणवैरविग्रहविवादाः प्रशान्ताः, अकालवातवर्षाः प्रशमिताः, प्रणीता ओजवतीपृथिवीसंनिश्रिताः शष्पा बभूवुः। केवलं विविधरोगोपहता बभूवुः कल्पदोषेण।



तदाहमेवं चिन्तयामि, "यद्यहं सत्त्वानां व्याधिं न शक्तः शमयितुं"। तस्य ममैतदभवद्, "यन्नूनमहं शक्रं महाब्राह्मणं लोकपालानन्ये च देवर्षयो वा नागर्षयो वा शक्रर्षयो वा मनुष्यर्षयश्च सन्निपातयेयं, भैषज्योपकरणशास्त्रं सत्त्वानां हितार्थमुपदर्शयेयं। तदाहमृद्ध्या गत्वा शक्रब्रह्माणलोकपालदेवर्षीणां नागर्षीणां शक्रर्षीणां मनुष्यर्षीणां आरोचयेयं। एकविडपतिर्नाम पर्वतः, तत्र संनिपातयित्वा विडचरकमूर्धनि नाम स्थानं भूतसंनिवारणप्रतिशरणं रक्षावातपित्तश्लेष्मसंप्रसादनशास्त्रं निर्देशयेयं"। पेयालं, अप्रमेयासंख्येयानां सत्त्वानां व्याधिप्रशमनं कृतं। तत्र महाप्रणिधानं कृतं यथा मयैकदिवसेऽप्रमेयासंख्येयानां सत्त्वानां प्रज्ञावभासः कृतः, त्रिषु च यानेषु नियोजिता, अपायपथाः पिथिताः, स्वर्गपथप्रतिष्ठापिता, विविधाश्च व्याधयः प्रशमिताः परिमोचित्ताश्च। एवमप्रमेयानामसंख्येयानां सत्त्वानां प्रज्ञालोको दत्तः, सौख्येऽवस्थापिताः। तदनेन कुलपुत्र कुशलमूलविपाकेन इयं मे प्रणिधानाशा परिपूर्णाः। यदा च मयैकदिवसेऽप्रमेयानामसंख्येयानां सत्त्वानामपायपथा निरोधिताः, स्वर्गपथे च प्रतिष्ठापिता, ग्लानप्रत्ययोपकरणार्थं देवर्षियक्षसङ्घाः सन्निपातिताः सत्त्वानामर्थाय विडचरकमूर्धनि देवलोके प्रकाशिते सत्त्वानामारोग्यकौशल्यमेवमेव तिमिरे बुद्धक्षेत्रे सर्वद्वीपेषु चैवंरूपः पुरुषकारः कृतः, सत्त्वाश्च स्वर्गपथे प्रतिष्ठापिता, देवनागयक्षमनुष्या ऋषयः सन्निपातिता यैस्सत्त्वानामर्थाय विविधा विद्यास्थानाः प्रकाशिताः। यथेन तिमिरे बुद्धक्षेत्रे एवमेव दशसु दिक्षु गङ्गानदीवालिकासमेषु पञ्चकषायेषु बुद्धक्षेत्रेष्वेवंरूपः पुरुषकारः कृतः, सत्त्वाश्च त्रिषु यानेषु नियोजिताः, स्वर्गपथे च प्रतिष्ठापिता, विविधाश्च विद्यास्थाना लोके प्रकाशिताः, सत्त्वा व्याधितः परिमोचिता, अनुत्तरा च मे कुलपुत्रैवंरूपा आशा परिपूर्णाः। अपि तत्र तिमिरे बुद्धक्षेत्रे सर्वद्वीपेष्वेवंरूपः पुरुषकारः कृतो यथा प्रणिधानं कृतं। अप्यनुत्तरेण ज्ञानेन दशसु दिक्षु गङ्गानदीवालिकासमेषु शून्येषु पञ्चकषायेषु बुद्धक्षेत्रेष्वैकैकस्मिन् बुद्धक्षेत्रे सर्वद्वीपेष्वेवंरूपः पुरुषकारः कृतो, यथा मे पूर्वप्रणिधानं कृतं। पश्य कुलपुत्र प्रज्ञाविशेषं बोधिचर्यायां, अयं च तथागतस्य त्रयाणां सुचरितानां कुशलमूलबीजं।



तथा प्रत्यवरकालसमयेऽसंख्येयैः कल्पैरधिकतरैरन्तरेणेदं बुद्धक्षेत्रं विचितदोषं नामाभूत्, संश्रयसे महाकल्पे वर्तमाने तदपि पञ्चकषायं। पुरिमायां दिश्यनुपञ्चाशायां चातुर्द्वीपिकायां वडं नाम जम्बूद्वीपमभूत्। तत्राप्यहं सत्त्वपरिपाचनार्थमुपपन्नः, चतुर्द्वीपेश्वरः चक्रवर्ती राजा अम्बरो नाम बभूव। तत्र च मया सत्त्वा दशसु कुशलेषु कर्मपथेषु समादापिता निवेशिताः प्रतिष्ठापितास्त्रिषु यानेषु समादापिता निवेशिताः प्रतिष्ठापिताः। सर्वंददश्च बभूव सर्वत्रदायी। तत्र च मे याचनका आगत्वा विविधानि रत्नानि याचन्ति, तद्यथा हिरण्यसुवर्णं यावच्चेन्द्रनीलमहानीलज्योतीरसदकप्रसादकानि याचनकानां तावत्प्रभूतानि रत्नानि लभ्यन्ते। तदाहममात्यां पृष्टवान्। "कुत एषां रत्नानां प्रादुर्भावः?"। त आहुः। "नागराजानो निधीर्निदर्शयन्ति, निधीनां लोके प्रादुर्भावाद्रत्नानां प्रादुर्भावो भवति। न केवलं तात्तका निर्देशयन्ति यात्तका देवस्य याचनकाः"। तदाहं प्रणिधानमकरोत्। "यद्यहं पञ्चकषाये लोके वर्तमाने तीव्रक्लेशारणे कलियुगे वर्तमाने वर्षशतायुष्कायां प्रजायां अनुत्तरां सम्यक्संबोधिमभिसंबुद्ध्येयं। तदियं मे आशा परिपूर्यतु, यदहमस्मिन् बुद्धक्षेत्रे निधिदर्शको नाम नागराजा भवेयं। सर्वत्र चास्मिं विजितघोषे बुद्धक्षेत्रे सर्वद्वीपेषु च एकैकस्मिन् द्वीपे सप्तजन्मानि परिगृह्णीयां। एकैकस्मिंश्च जन्मनि निधिकोटीनयुतशतसहस्राणि दर्शयेयं प्रयच्छेयं च नानारत्नपरिपूर्णानि: तद्यथा हिरण्यसुवर्णं यावदिन्द्रनीलमहानीलज्योतीरसदकप्रसादाश्च। एकैकश्च निधियोजनसहस्राणि गत्वा विस्तरेण परिपूर्णमपि रत्नं सत्त्वानां निदर्शयेयं प्रयच्छयेयं च, यदस्मिं बुद्धक्षेत्रे एवंरूपं शूरभावं कुर्यां। एवमेव दशसु दिक्षु गङ्गानदीवालिकासमेषु बुद्धक्षेत्रेषु पञ्चकषायेषु लोकधातुषु एकैकस्मिन् क्षेत्रे सर्वत्र द्वीपे सप्तजन्मानि प्रतिगृह्णीयां", यावद्यथा पूर्वोक्तं।



यदा च मे कुलपुत्रैवंरूपं प्रणिधानं कृतं तदा गगनतले देवकोटीनयुतशतसहस्रैरन्तरीक्षात् पुष्पवृष्टिः प्रवर्षिता साधुकारश्चानुप्रदत्तः। "साधु साधु सर्वंदद, ऋधिष्यति ते एवंरूपा आशा यथा ते प्रणिधानं कृतं"। अश्रोषीन् महाजनकायः राज्ञोऽम्बरस्य देवैर्गगनतलगतैः सर्वंदद इति नाम कृतं, श्रुत्वा चैषमेतदभवत्। "यन्नूनं वयं दुष्करपरित्यागं दानं याचेमः। यदि परित्यक्ष्यति तदा सर्वंदद इति नाम भविष्यति"। ततस्ते सर्वा आरब्धा राज्ञोऽम्बरस्यान्तःपुरिकां याचितुं, देवीमग्रमहिषीं पुत्रदुहितॄणां याचितुं; तदा राजाम्बरः प्रयच्छति प्रसन्नचित्तस्तेषां एतदभवत्। "न चेदं दुष्करं यो भार्यां परित्यजति। यन्नूनं वयं राज्ञोऽम्बरस्याङ्गप्रत्यङ्गानि याचमः। तद्यदि दास्यति सर्वंददो भविष्यति, अथ न दास्यति न सर्वंददो भविष्यति"।



ततस्तस्याग्रतः तत्र ज्योतीरसो नाम माणवको राज्ञोऽम्बरस्याग्रतः स्थित्वा, "सर्वंदद राज्यं ददस्वे" -ति प्रार्थितवान्। श्रुत्वा च राज्ञाम्बरेण परमप्रीतिमनसा स्वयमेव ब्राह्मणं स्नापयित्वा पट्टं बध्वा राजाभिषेकेनाभिषिच्य राजत्वे प्रतिष्ठापयित्वा सर्वं जम्बूद्वीपं निर्यातयित्वा, प्रणिधानमकरोद्। "अहं सर्वजम्बूद्वीपपरित्यागेनानुत्तरां सम्यक्संबोधिमभिसंबुध्येयं। यदीयं मे आशा परिपूर्यति, योऽयं ममैतर्हि सर्वजम्बूद्वीपे राजा प्रतिष्ठापितो वर्तत्वस्य जम्बूद्वीपे आज्ञा, दीर्घायुष्च भवतु, राजा चक्रवर्ती चिरस्थायी। यदा चाहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं, यदा युवराजत्वेन व्याकुर्यामनुत्तरायां सम्यक्संबोधौ"। रोचो नाम ब्राह्मणस्तेन मे उभौ पादौ याचितौ, तस्य मया स्वयमेव प्रसन्नचित्तेन तीक्ष्णं शस्त्रं गृहीत्वा स्वपादौ छित्वा प्रदत्तौ, प्रणिधानं चाकरोत्। "लभेयाहमनुत्तरां शीलपादां"। तत्र द्राष्टावो नाम ब्राह्मणस्तेन मे उभे नेत्रे याचिते, तस्य च मया उभे नेत्रे उत्पाद्य दत्ते, पेयालं, अनुत्तरं पञ्चचक्षुः प्रतिलभाय प्रणिधानं कृतवान्। न चिरेण सरच्छिघोषो नाम ब्राह्मणस्तेन मे उभौ कर्णौ याचितौ, स्वयमेव तस्य मया कर्णौ छित्वा दत्तौ, अनुत्तरश्रोताप्रतिलाभाय च प्रणिधानं कृतं। संजीवनश्च नामाजीविकोऽभूत्, तेन मे पुरुषनिमित्तं पुरुषेन्द्रियं याचितं, स्वयमेव च मया छित्वा दत्तः, अनुत्तरवस्तिगुह्यतालक्षणप्रतिलाभाय च प्रणिधानं कृतं। अपरेण च मे मांसरुधिरं याचितं, स्वयमेव च मया दत्तं, सुवर्णवर्णतालक्षणप्रतिलाभाय च मे प्रणिधानं कृतं। अपरश्च क्षीरसो नाम परिव्राजकस्तेन च मे उभौ हस्तौ याचितौ, स्वयमेव च मया दक्षिणेन हस्तेन वामं हस्तं छित्वा दक्षिणं छेदापयित्वा दत्तो, अनुत्तरश्रद्धाहस्तप्रतिलाभाय च प्रणिधानं कृतं। यदा चाङ्गप्रत्यङ्गानि छिन्नानि तदा च मया रुधिरम्रक्षितेन कायेन प्रणिधानं कृतं। "यदि मेऽनेन परित्यागेनानुत्तरायां सम्यक्संबोधौ आशा परिपूर्येत, अवश्यमहमस्य कायस्य प्रतिग्राहकं प्रतिलभेयं"।



तेऽप्यकृपका अनार्या अकृतज्ञाः सत्त्वाः कोट्टराजानोऽमात्याश्चाहुः। "अयं दुर्बुद्धिरल्पमेधाः सर्वाङ्गविकर्तितः सर्वराज्यैश्वर्यपरिभ्रष्टः। किं भूयोऽनेन मान्सपेशिना प्रयोजनं?"। ते मां गृहीत्वा बहिर्नगरश्मशानभूमौ छोरित्वा प्रकान्ताः। तत्र दंशमशका आगत्वा रुधिरं पिबन्ति, कुर्कुरशृगालगृध्रा आगत्वा मान्सं भक्षयन्ति। तत्र चाहं प्रसन्नचित्तः प्रणिधानमकरोत्। "यदा च मया सर्वराज्यैश्वर्यं परित्यक्तं, सर्वशरीरं चैवाङ्गप्रत्यङ्गानि परित्यजता, एकक्षणमपि न विप्रतिसारिकृतं चित्तं, न च मे रोष उत्पादितस्तेन मे आशा परिपूर्यतु, अयं मे कायो मान्सपर्वतः संतिष्ठतां, ये केचित् सत्त्वा मान्साहारा रुधिरपानास्ते मांसं भक्षयन्तु रुधिरं पिबेयन्तु। यावच्च मे सत्त्वा मांसं भक्षयेयू रुधिरं च पिबेयुस्तावन् मे प्रणिधानवशेन शरीरं वर्धतु, अनुपूर्वेण यावद्योजनशतसहस्रमुच्चत्वेन कायः संवर्धतु पञ्चयोजनसहस्रं विस्तारेण। तत्र मया वर्षसहस्रं स्वमान्सरुधिरेण सत्त्वाः संतर्पिता; यावभ्यश्च मया जिह्वाः परित्यक्ता या मृगपक्षिभिः परिभक्ताः प्रणिधानवशेन चान्योन्याः प्रादुर्भूताः तेषां अयं गृध्रकूटपर्वतप्रमाणो राशिः स्यान्नित्यं चानुत्तराप्रभूताजिह्वतालक्षणप्रतिलाभाय मे प्रणिधानं कृतं।



तत्राहं च्युत्वा रूढवडे जम्बूद्वीपे पूर्वप्रणिधानेन नागेषूपपन्नो निधिसंदर्शनो नाम नागराजा बभूव। यामेव रात्रिं नागेषूपपन्नस्तामेव रात्रिं निधिकोटीनयुतशतसहस्राणि निधानानां संदर्शितानि स्वयमेव घोषं चारयामि। "भोः सत्त्वा अस्मिन् प्रदेशे निधिः प्रादुर्भूतः, नानारत्नपरिपूर्णस्तद्यथा हिरण्यसुवर्णः यावद्दकप्रसादकं। यूयं गृह्णध्वं। गृहीत्वा भोः सत्त्वा दशकुशलान् कर्मपथान् समादाय वर्तध्वं, अनुत्तरायां च सम्यक्संबोधौ चित्तमुत्पादयत, श्रावकयानेन वा प्रत्येकबुद्धयानेन वा चित्तमुत्पादयथ। गच्छथ गृह्णथ रत्नानि यावदर्थं"। तत्र च रूढवडे जम्बूद्वीपे सप्तनागजन्मपरिवर्तेन सप्तसप्तवर्षकोटीनयुतशतसहस्रेष्वप्रमेयासंख्येया निधयो निर्दर्शिताश्च प्रदत्ताश्च। एवं च तत्राप्रमेयासंख्येयाः सत्त्वास्त्रिभिर्यानैर्निवेशिता, दशसु कुशलेषु कर्मपथेसु निवेशिता, नानाविधैश्च रत्नैः संतर्पिता, अनुत्तरद्वात्रिंशल्लक्षणप्रतिलाभाय प्रणिधानं कृतं। एवं द्वितीये द्वीपे सप्तभिर्नागजन्मपरिवर्तैरेवंरूपं पुरुषकारं कृतवान्। एवं त्रितीये यावत्सर्वत्र विजितदोषायां लोकधातौ सर्वेषु द्वीपेषु एवंरूपः पुरुषकारः कृतः। एवमेव दशसु दिक्षु गङ्गानदीवालिकासमेसु शून्येषु पञ्चकषायेषु बुद्धक्षेत्रेषु, एकैकस्मिन् द्वीपे एवंरूपाः सप्तनागजन्मपरिवर्तेषु मया यावत् सप्तसप्तवर्षकोटीनयुतशतसहस्रैरेवमप्रमेयासंख्येया निधयः सत्त्वानां प्रदत्ता, यावद्यथा पूर्वोक्तं। पश्य कुलपुत्र तथागतस्य बोधिचारिकां, यथा तथागतस्तीव्रेण बलवीर्येण द्वात्रिंशल्लक्षणपर्येषणबोधिचर्यां चीर्णवान्, यथात्र पूर्वे न ये बोधिसत्त्वा एवंरूपां तीव्रबलवीर्येण बोधिचारिकां चीर्णवन्तः, न कश्चिदेतर्हि, न च पुनः कश्चित् पश्चाद्भविष्यति बोधिसत्त्वो य एवं तीव्रेणोद्योगबलवेगेनानुत्तरायां सम्यक्संबोधौ चारिकां चरेत्, स्थापयित्वा तानष्टौ यथा पूर्वोक्तं।



तदा चासंख्येयानां कल्पानामत्ययेन प्रत्यवरकालसमयेनेदं बुद्धक्षेत्रं प्रवाडोदुपानिर्नाम बभूव। शून्ये पञ्चकषाये उत्पले महाकल्पे वर्तमानेऽस्यां चातुर्द्वीपिकायामहं शक्रोऽभूवन् सविरोचनो नाम। अपश्यमहमस्मिन् जम्बूद्वीपे सत्त्वानामकुशलपर्येष्टिचर्यां; दृष्ट्वा चाहं परमभीषणकं यक्षरूपमात्मानमभिनिर्मायास्मिं जम्बूद्वीपेऽवतीर्य मनुष्याणां पुरतः प्रत्यस्थां। ते च मां दृष्ट्वा भीता मां पृच्छन्ति। "केन ते प्रयोजनं?, वयं ते तद्दास्यामः"। मयोक्तं। "आहारेण मे प्रयोजनं" त आहुः। "कीदृशस्त आहारः?"। मयोक्तं। "मनुष्यान् मारयित्वा भक्षयामि। तांश्चाहं न खादयामि ये मनुष्या यावज्जीवं प्राणातिपाताद्विरता, यावन् मिथ्यादृष्ट्याः प्रतिविरता, अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयन्ति प्रत्येकबुद्धयानेन वा श्रावकयानेन वा चित्तान्युत्पादयन्ति तानप्यहं न खादयामि"। तत्र च मे सत्त्वा निर्मितकाः परिभूक्तायां दृष्ट्वा ते सत्त्वा भयेन यावज्जीवं प्राणातिपातात्प्रतिविरता अदत्तादानाद्यावन् मिथ्यादृष्टेः प्रतिविरताः। कैश्चिदनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितं, कैश्चित् प्रत्येकबुद्धयाने कैश्चिच्छ्रावकयाने चित्तमुत्पादितं। सर्वे चातुर्द्वीपिकाः सत्त्वा दशसु कुशलेषु कर्मपथेषु त्रिषु च यानेषु प्रतिष्ठापितास्तत्र मया प्रणिधानं कृतं। "यदि मेऽनुत्तरायां सम्यक्संबोधौ आशा परिपूर्येत, तदिदं मे प्रणिधानपरिपूर्णं भवेत्, यथा च मे चातुर्द्वीपिकाः सत्त्वाः कुशले मार्गे नियोजिता। एवमेव सर्वत्रास्मिं बुद्धक्षेत्रे सर्वचातुर्द्वीपिकेषु सत्त्वाः एवंरूपेण भयेन मां पश्येयुः, दशसु चैव कुशलेषु कर्मपथेषु प्रतिष्ठापयेयं, त्रिषु च यानेषु नियोजयेयं। एवमेव समन्ताद्दशसु दिक्षु शून्येषु पञ्चकषायेषु बुद्धक्षेत्रेषु सत्त्वां दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेयं, त्रिषु च यानेषु नियोजयेयं"। एवमेव मे कुलपुत्र आशा प्रणिधिश्च परिपूर्णः सर्वत्र प्रवाडोदुपानायां लोकधातौ मनुष्या यक्षरूपेण विनीताः कुशलेषु धर्मेषु। एवमेव दशसु दिक्षु गङ्गानदीवालिकासमेषु शून्येषु पञ्चकषायेषु बुद्धक्षेत्रेषु यक्षरूपेण मया मनुष्याः कुशलमार्गचर्यायां प्रतिष्ठापिताः। यथा च मया बहवः सत्त्वा भयात् कुशलचर्यायां प्रतिष्ठापिताः; तेन कर्मावशेषेण ममैतर्हि बोधिवृक्षमूले वज्रासने निषण्णस्य बोधिमभिसंबोधुकामस्य मारः पापीयां महासैन्येनोपसंक्रान्तो बोधौ व्याक्षेपकरणार्थं। अयं मे कुलपुत्र संक्षिप्तेन दानपारमिता; बोधिचर्यां चरमाणस्य लब्धा चाहं गंभीरां क्षान्तिं गंभीरां धारणीं गंभीरां समाधिं पञ्चलौकिकाभिज्ञाः प्रतिलब्धाः; एवंरूपं महापुरुषकारं कृतवान्। एवमप्रमेयासंख्येयाः सत्त्वा अनुत्तरायां सम्यक्संबोधौ समादापिता निवेशिताः प्रतिष्ठापिताः। एवमप्रमेयासंख्येयाः सत्त्वाः प्रत्येकबुद्धयाने, एवमप्रमेयासंख्येयाः सत्त्वाः श्रावकयाने समादापिता निवेशिताः प्रतिष्ठापिताः। स्थापयित्वा यावन्तो मया बोधिसत्त्वचर्यायां चरमाणेन, बुद्धक्षेत्रपरमाणुरजःसमा मे बुद्धा भगवन्तः पर्युपासिताः, एकैकस्य बुद्धस्यान्तिके सागरोदकबिन्दुप्रमाणा मया गुणाः परिगृहीताः, गणनातिक्रान्तानां प्रत्येकबुद्धानां मया पूज कृता, गणनातिक्रान्तानां तथागतश्रावकानां पूजा कृता, एवं मातापितॄणां पञ्चाभिज्ञानामृषीणां पूजा कृता। मया च कृपया पूर्वं बोधिसत्त्वचर्यां चरमाणेन स्वमांसरुधिरेण सत्त्वाः संतर्पिता, इदानीमपि धर्मेण संतर्पिताः॥



इति श्रीकरुणापुण्डरीके महायानसूत्रे दानपरिवर्तो नाम पञ्चमः॥ ५॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project