Digital Sanskrit Buddhist Canon

बोधिसत्त्व-व्याकरण-परिवर्तश्चतुर्थः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
IV बोधिसत्त्व-व्याकरण-परिवर्तश्चतुर्थः



अथ खलु कुलपुत्र रत्नगर्भस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यैतद् अभवत्। "बह्योऽनेन समुद्ररेणुना ब्राह्मणेन प्राणकोट्योऽनुत्तरायां सम्यक्संबोधौ समादापिता निवेशिताः प्रतिष्ठापिता अवैवर्तिकभूमौ स्थापितास्ते च मया व्याकर्तव्या बुद्धक्षेत्राश्च दर्शयितव्याः"। अथ खलु भगवान् बोधिचित्तासंप्रमोषं नाम समाधिं समापन्नः। स्मितं च प्राविष्कृतवान्, येन स्मिताविष्करणेनानन्ता पर्यन्ता बुद्धक्षेत्रा उदरेणावभासेनावभास्य राज्ञोऽरणेमिनोऽन्येषां च बहूनां प्राणकोटिनां बुद्धक्षेत्रगुणव्यूहं आदर्शयति। तेन खलु पुनः समयेन दशसु दिक्षु गणनातिक्रान्तेषु बुद्धक्षेत्रेषु बोधिसत्त्वा महासत्त्वाः तमवभासं दृष्ट्वा बुद्धानुभावेनेमां लोकधातुं समागता भगवतो दर्शनाय वन्दनाय पर्युपासनाय भिक्षुसङ्घं च। ते च विविधैर्बोधिसत्त्वविकुर्वितैर्भगवतः पूजां कृत्वा पादौ शिरसाभिवन्द्य भगवन्तं पर्युपास्य पुरतो निषण्णा बोधिसत्त्वप्रणिधानं श्रोतुकामाः।



अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणोऽग्रपुरोहितः राजानमरणेमिनमाह - "त्वं तावन् महाराज प्रथमं बुद्धक्षेत्रगुणव्यूहं प्रतिगृह्णीष्व"। अथ राजानणेमी येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - "अहं भगवन् बोध्यर्थिकः, यन्मया मासत्रयं भगवतो नानाविधैरुपकरणैरुपस्थानं कृतमप्रमेयस्य च भिक्षुसङ्घस्य तन्मया कुशलमूलमनुत्तरायां सम्यक्संबोधौ परिणामितं। इमानि च भगवन् मया सप्तवर्षाणि बुद्धक्षेत्रगुणव्यूहाश्चिन्तिता; यत्राहं भगवन् बुद्धक्षेत्रेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धो यत्र न निरया स्युर्न तिर्यग्योनिर्न यमलोकाः। ये च सत्त्वाश्च्यवयुस्ते मा दुर्गतावुपपद्येयुः। सर्वे तत्र सत्त्वाः सुवर्ण्वर्णा भवेयुः। सर्वेषां तत्र देवमनुष्याणां नानात्वं न स्यात्। सर्वे तत्र सत्त्वा जातिस्मराः। सर्वसत्त्वाश्चैवंरूपेण दिव्येन चक्षुषा समन्वागताः स्युर्यद् बुद्धकोटीनियुतशतसहस्राणि अन्येषु लोकधातुषु तिष्ठतो यापयतो धर्मं च देशयतः पश्येयुः। सर्वसत्त्वाश्चैवंरुपेण दिव्येन श्रोत्रेण समन्वागताः स्युः, यद् बुद्धकोटीनियुतशतसहस्राणां धर्मं देशयमानं शृणुयुः। सर्वसत्त्वाश्चैवंरूपेण परचित्तज्ञानेन समन्वागताः स्युः, तेषां बहुबुद्धक्षेत्रकोटीनयुतशतसहस्रस्थितानां सत्त्वानां चित्तचरितान्याजानेयुः। सर्वसत्त्वाः तथाविधेनर्द्धिकौशल्येन समन्वागताः स्युर्यदेकचित्तोत्पादेन बुद्धक्षेत्रकोटीनियुतशतसहस्राणि अतिक्रमेयुः। मा च तत्र सत्त्वा भवेयुः परिग्रहवन्तोऽन्ततः स्वशरीरेऽप्यनागृहीतमानसाः। सर्वसत्त्वाश्चावैवर्तिका भवेयुरनुत्तरायां सम्यक्संबोधौ। सर्वसत्त्वाश्चोपपादुकाः स्युः। न तत्र मातृग्रामस्य प्रज्ञप्तिर्भवेत्। न तत्र सत्त्वानां आयुः प्रमाणपर्यन्तः स्याद्, अन्यत्र प्रणिधानवशेन। न तत्र सत्त्वानामकुशलस्य नामापि स्यात्। न तत्र बुद्धक्षेत्रे दुर्गन्धं स्यात्, दिव्यातिक्रान्तेन भगवद्गन्धेन तद्बुद्धक्षेत्रं स्फुटं स्यात्। सर्वसत्त्वाश्च द्वात्रिंशद्भिर्महापुरुषलक्षणैः समलङ्कृताः स्युः। सर्वसत्त्वाश्चैकजातिप्रतिबद्धाः स्युः, स्थापयित्वा प्रणिधानं। सर्वसत्त्वास्तत्रैकपूर्वाह्णेन बुद्धानुभावेन गणनातिक्रान्तान् बुद्धान् पर्युपासीरन्, यावद् विविधेन बोधिसत्त्वविकुर्वितेनाकाङ्क्षेयुः बुद्धानां पूजां कर्तुं तथैव तेषां सिद्ध्येयुः, तेनैव पूर्वभक्तेन विवर्तेयुः। सर्वसत्त्वाश्च बुद्धपिटकं कथयेयुः। सर्वसत्त्वाश्च नारायणबलसमन्वागता भवेयुः। न कश्चित् सत्त्वो बुद्धक्षेत्रगुणालङ्कारस्य वर्णपर्यन्तं शक्तः स्याद्गृहीतुमन्तशो दिव्येनापि चक्षुषा। सर्वसत्त्वास्तत्र प्रतिसंवित्प्राप्ताः स्युः, असंख्येयप्रतिभानाः। एकैकस्य च बोधिसत्त्वस्य योजनसहस्रप्रमाणं स्यात्। प्रभास्वरं च तद्बुद्धक्षेत्रं स्यात्, समन्तेन च गणनातिक्रान्ता बुद्धक्षेत्रगुणव्युहास्तत्र दृश्येयुः। ये चात्र सत्त्वा उपपद्येयुर्यावद्बोधिपर्यन्तेन ब्रह्मचारिणः स्युः। सर्वसत्त्वाः सदेवकस्य लोकस्य नमस्यनीयाः स्युः, यावद् बोधिपर्यन्तेन नेन्द्रियविकला भवेयुः। सहोपपन्नाश्च तत्र सत्त्वा दिव्यातिक्रान्तमार्यप्रीतिसुखं प्रतिलभेयुः। सर्वसत्त्वाश्च तत्र कुशलमूलसमवधानाः स्युः। सर्वसत्त्वाश्च तत्र नवानि वस्त्राणि काशायाणि धारयेयुः। सहोपपन्नाश्च तत्र सत्त्वाः सुविभक्तिवतीं समाधिं प्रतिलभेयुः, यस्य समाधेः प्रतिलाभाद्गणनातिक्रान्तेषु बुद्धक्षेत्रेषु गत्वा बुद्धान् पर्युपसीरन् यावद् बोधिपर्यन्तेनानुपश्येयुः। ये च तत्र बोधिसत्त्वा उपपद्येयुः ते यादृग्जातीयां बुद्धक्षेत्रगुणव्यूहान् आकाङ्क्षेयुः तादृग्जातीयान् बुद्धक्षेत्रगुणव्यूहाः तेषु रत्नवृक्षेषु पश्येयुः। सहोपपन्नाश्च सत्त्वाः समाधिं प्रतिलभेयुर्यस्य समाधेः प्रतिलाभात् दशसु दिक्षु गणनातिक्रान्तेषु अन्येषु बुद्धक्षेत्रेषु बुद्धास्तिष्ठतो यापयतो नित्यं पश्येयुर्ये तत्र सत्त्वाः प्रत्याजायेयुः ते सर्व एवंरूपेण चीवरविमानालङ्काराभरणवर्णरूपेण स्युर्यथा परनिर्मितवशवर्तिनो देवाः। न तत्र बुद्धक्षेत्रे पांशुशिला कालपर्वता भवेयुः, न चक्रवाडमहाचक्रवाडा न सुमेरुर्न महासमुद्राः; न तत्रावरेणनिवरणक्लेशशब्दाः सर्वेण सर्वं सर्वतश्च; तत्र नरकतिर्यग्योनियमलोकशब्दो न स्यान्नाक्षणशब्दो न दुःखशब्दः।



एवंरूपेणाहं भगवन् बुद्धक्षेत्रेणार्थी; तावदहं भदन्त भगवन् बोधिसत्त्वदुष्करचर्यां चरिष्ये यावन्नैवंरूपैर्गुणैर्बुद्धक्षेत्रं परिशोधयिष्ये; एवमहं भदन्त भगवन् पुरुषकारं करिष्ये, ततः पश्चादनुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये। दशयोजनसाहस्रिकश्च मे बोधिवृक्षो भवेत्, तत्र निषण्णश्चाहमेकक्षणेनचित्तोत्पादेनानुत्तरां सम्यक्संबोधिमभिसंबुध्येय। अप्रमाणा च मे प्रभा स्यात् बुद्धक्षेत्रकोटीनयुतशतसहस्राणां अवभासयन्ति। अपरिमाणा च ममायुर्भवेदप्रमेयकल्पकोटीनयुतशतसहस्राणां न शक्यं केनचिद् गणयितुमन्यत्र सार्वज्ञेन ज्ञानेन। अप्रमेयश्च मे बोधिसत्त्वसङ्घः स्यात् श्रावकप्रत्येकबुद्धवर्जितो, यन्न शक्यं गणयितुं अन्यत्र सार्वज्ञेन ज्ञानेन। बोधिप्राप्तस्य च ममाप्रमेयेष्वसंख्येयेषु अन्येषु बुद्धक्षेत्रेषु बुद्धा भगवन्तो वर्णभाषणं कुर्युर्घोषं चानुश्रावयेयुर्यश उदीरयेयुः। बोधिप्राप्तस्य च ममाप्रमेयेष्वसंख्येयेष्वन्येषु बुद्धक्षेत्रेषु ये सत्त्वा नामधेयं शृणुयुस्ते सर्वे बुद्धक्षेत्रे कुशलमूलपरिणामनं कृत्वा मम बुद्धक्षेत्र उपपद्येयुः, स्थापयित्वानन्तर्यकारकान् सत्त्वान् सद्धर्मप्रतिक्षेपकान्। बोधिप्राप्तस्य मेऽन्यासु गणनातिक्रान्तासु लोकधातुषु सत्त्वा बोधिचित्तोत्पादं कुर्युः, मम बुद्धक्षेत्र उपपत्तिमाकाङ्क्षमाणाः, तत्र च कुशलमूलपरिणामनं कुर्युः; तेषां चाहं मरणकालसमयेष्वग्रतस्तिष्ठेय बोधिसत्त्वगणपरिवृतः; ते च मां दृष्ट्वा प्रीतिं प्रसादं च ममान्तिक उत्पादयेयुः, सर्वावरणतां च निवर्तयेयुः, कालं च कृत्वास्माकं बुद्धक्षेत्र उपपद्येयुः। ये च तत्र बोधिसत्त्वास्तेऽस्माकं सकाशादश्रुतपूर्वां धर्मदेशनामाकाङ्क्षेयुः श्रोतुं ते यादृशीमाकाङ्क्षेयुस्तादृशीं शृणुयुः। बोधिप्राप्तस्य च मम गणनातिक्रान्तेषु बुद्धक्षेत्रेषु बोधिसत्त्वा नामधेयं शृणुयुः तेऽवैवर्तिकाः स्युरनुत्तरायां सम्यक्संबोधौ, प्रथमां क्षान्तिं प्रतिलभेयुः तथा द्वितीयां, यादृशीं समाधिं धारणीं चाकाङ्क्षेयुः तादृशीं समाधिं धारणीं च प्रतिलभेयुः। परिनिर्वृतस्य च मम गणनातिक्रान्तेषु कल्पेषु पश्चाद् गणनातिक्रान्तेषु बुद्धक्षेत्रेषु बोधिसत्त्वा मम नामधेयं श्रुत्वा परमां प्रीतिं प्रसादं प्रामोद्यं च प्राप्नुयुर्मामेव नमस्यमाना आश्चर्यप्राप्ता यशकीर्तिं च वर्णयेयुः; बोधिसत्त्वभूतेन च यदा मया बुद्धकार्यं अभिनिष्पादितं ततः पश्चादनुत्तरां सम्यक्संबोधिमभिसंबुद्ध्येयं, अभिसंबुद्धस्य च मम परमप्रसादप्रतिलब्धा बोधिसत्त्वाः प्रथमायाः क्षान्त्या लाभिनः स्युर्द्वितीयायाः तृतीयायाः, यादृशीं च समाधिं धारणीं आकाङ्क्षेयुस्तादृशीं प्रतिलभेयुः, यावद्बोधिपर्यन्तेनानुपश्येयुः। बोधिप्राप्तस्य च मे गणनातिक्रान्तेषु बुद्धक्षेत्रेषु याः स्त्रियो मम नामधेयं शृणुयुस्ताः परमप्रीतिप्रामोद्यं प्रतिलभेयुः, अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयेयुः, यावद्बोधिपर्यन्तेन न भूयः स्त्रीत्वं प्रतिलभेयुः। परिनिर्वृतस्य च मे गणनातिक्रान्तेषु कल्पेषु गणनातिक्रान्ता याः स्त्रियो मम नामधेयं शृणुयुः ताः परमप्रीतिप्रामोद्यं प्रसादं च प्राप्नुयुः, अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयेयुः, यावद्बोधिपर्यन्तेन न भूयः स्त्रीत्वं प्रतिलभेयुः। ईदृशमहं भदन्त भगवन् बुद्धक्षेत्रमाकाङ्क्षामि, ईदृशाश्च परिशुद्धाशयाः सत्त्वा, ईदृशोऽहं भगवन् बुद्धक्षेत्रेऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं"।



अथ खलु कुलपुत्र रत्नगर्भस्तथागतोऽर्हन् सम्यक्संबुद्धो राज्ञोऽरणेमिनः साधुकारमदात्। "साधु साधु महाराज, गम्भीरस्ते महाराज प्रणिधानं परिशुद्धं ते बुद्धक्षेत्रं परिगृहीतं। पश्य महाराज पश्चिमायां दिशि कोटीशतसहस्रबुद्धक्षेत्राणां अतिक्रम्य इन्द्रसुविराजिता नाम लोकधातुः, तत्रेन्द्रघोषेश्वरराजो नाम तथागतोऽर्हन् सम्यक्संबुद्धस्तिष्ठति ध्रियते यापयति परिशुद्धानां सत्त्वानां धर्मं देशयति। न च तत्र बुद्धक्षेत्रे श्रावकप्रत्येकबुद्धानां प्रज्ञप्तिरप्यस्ति, उत्पादाय न तत्र श्रावकप्रत्येकबुद्धकथा क्रियते, शुद्धा च तत्र महायानकथा। सर्व एवोपपादुकाः सत्त्वा, न च तत्र मातृग्रामस्य नामापि ज्ञायते। सर्व एते गुणास्तत्र बुद्धक्षेत्रे यथा महाराजेनापरिमितं बुद्धक्षेत्रगुणव्यूहप्रणिधानम् कृतममिताशयाः सत्त्वा वैनेयाः परिगृहीतास्तेन त्वं महाराज इन्द्रघोषेश्वरराजतथागतस्य परिनिर्वृतस्य तस्मिन् सद्धर्मेऽन्तर्हिते षष्टीनामन्तरकल्पानामत्ययेन सा लोकधातुर्मेरुप्रभा नाम भविष्यति। तत्राचिन्त्यमतिगुणराजो नाम तथागतो भविष्यत्यर्हन् सम्यक्संबुद्धो। यथैवेन्द्रघोषेश्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य इन्द्रसुविराजितायां लोकधातौ बुद्धक्षेत्रगुणव्यूहः तथैवाचिन्त्यमतिगुणराजस्य तथागतस्य मेरुप्रभायां लोकधातौ गुणव्यूहो भविष्यति। तस्य चाचिन्त्यमतिगुणराजस्य तथागतस्य षष्ट्यन्तरकल्पाण्यायुःप्रमाणं भविष्यति। यदाचिन्त्यमतिगुणराजस्तथागतः परिनिर्वास्यति तस्य षोडशान्तरकल्पाः सद्धर्मः स्थास्यति, तस्य सद्धर्मेऽन्तर्हिते सहस्रान्तरकल्पात्ययेन विरतिर्नाम सा लोकधातुर्भविष्यति। तत्र रश्मिर्नाम तथागतोऽर्हन् सम्यक्संबुद्धः, पेयालं पूर्ववत्, समाश्चैषामायुः समा लोकधातुः। एवं परिनिर्वृतानां सद्धर्मेऽन्तर्हिते अपरा नाम सा लोकधातुर्भविष्यति। तर रत्नेश्वरघोषो नाम तथागतोऽर्हन् सम्यक्संबुद्ध उत्पत्स्यते। समो बुद्धक्षेत्रगुणव्यूहः समं चान्तरकल्पा स्थास्यति यापयिष्यति धर्मं च देशयिष्यति। तस्य परिनिर्वृतस्य सप्तान्तरकल्पां सद्धर्मः स्थास्यति, तस्मिंश्च सद्धर्मेऽन्तर्हिते, पेयालं पूर्ववत्। एवं चाप्रमेयापरिमाणान् तथागतांस्तत्र बुद्धक्षेत्र उपपन्नान् पश्यामि परिनिर्वृतांश्च, नैवासौ लोकधातुस्संवर्तते न निवर्तते। तत्रानागतेऽध्वनि अतिक्रान्त एकस्मिन् गङ्गावालिकासमेऽसंख्येये प्रतिष्ठे द्वितीये नदीगङ्गावालिकासमेऽसंख्येये सा लोकधातुः सुखावती नाम भविष्यति। तत्र त्वं महाराजनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, अमितायुर्नाम तथागतोऽर्हन् सम्यक्संबुद्धो भविष्यसि"।



राजारणेम्याह - "कुत्र ते भदन्त भगवन् बोधिसत्त्वा महासत्त्वा येऽस्माकं प्रथमतरं तत्र बुद्धक्षेत्रेऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते?"। भगवान् आह - "इमे ते महाराज बोधिसत्त्वा महासत्त्वा येऽप्रमेयैरसंख्येयैरतुल्यैरपरिमाणैर्दशभ्यो दिग्भ्यः ताभ्यस्ताभ्यो लोकधातुभ्य आगता मं वन्दनाय पर्युपासनाय धर्मश्रवणाय, ये मम पुरतो निषण्णा एतेऽतीतैर्बुद्धैर्व्याकृता अनुत्तरायां सम्यक्संबोधौ, प्रत्युत्पन्नैरपि बुद्धैर्भगवद्भिरेते कुलपुत्रा व्याकृता अनुत्तरायां सम्यक्संबोधौ। ये तत्र बुद्धक्षेत्रे प्रथमतरमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते, एकैकश्चैष महाराज बोधिसत्त्वोऽनेकेषां बुद्धकोटीनयुतशतसहस्राणां अन्तिके कृताधिकारोऽवरुप्तकुशलमूलो भावितप्रज्ञः, त एते महाराज कुलपुत्रा ये तत्र प्रथमतरं बुद्धक्षेत्रे बुद्धा भविष्यन्ति"। राजारणेम्याह - "अयं भदन्त भगवन् समुद्ररेणुर्ब्राह्मणो येनाहं सपरिषत्कोऽनुत्तरायां सम्यक्संबोधौ समादापिताः स कियता कालेनानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते ?"। भगवान् आह - "महाकारुणिक एष ब्राह्मणः समुद्ररेणुः, श्रोष्यसि त्वं यथैष सिंहनादं नदिष्यति"।



राजा आह - "यद्येष मे प्रणिधिः समृध्यति यथाहं भगवता व्याकृताः, तद्यथाहं भगवतः पादवन्दनं कुर्यां पञ्चमण्डलेन तदा गङ्गानदीवालिकासमा लोकधातवः प्रकम्पन्तु प्रचलन्तु। ये च तेषु बुद्धक्षेत्रेषु बुद्धाः तिष्ठन्ति ध्रियन्ति यापयन्ति ते च मां व्याकुर्युः"।



अथ खलु कुलपुत्र राजारणेमी रत्नगर्भस्य तथागतस्य पञ्चमण्डलकेन पादयोर्निपतितः। यदैव राज्ञः शिरसा पृथिवी स्पृष्टा तदा गङ्गानदीवालिकासमा बुद्धक्षेत्राः कम्पिताः चलिताः प्रचलिताः क्षुभिताः संप्रक्षुभिताः, गाङ्गानदीवालिकासमा बुद्धा व्याकुर्वन्ति। "सन्तीरणे बुद्धक्षेत्रे धारणे कल्पेऽशीतिवर्षसहस्रायुष्कायां प्रजायां रत्नगर्भस्तथागतोऽर्हन् सम्यक्संबुद्धो राजानमरणेमिनं व्याकरोति। भविष्यसि त्वमनागतेऽध्वनि अतिक्रान्ते गङ्गानदीवालिकासमेऽसंख्येये प्रविष्टे द्वितीयेऽसंख्येये सुखावत्यां लोकधातावमितशुद्धायां अमितायुर्नाम तथागतोऽर्हन् सम्यक्संबुद्धः, समन्ततो दशसु दिक्षु गङ्गानदीवालिकासमान् लोकधातून् अवभासयिष्यसि"।



भगवान् आह -



"उत्तिष्ठ प्रवरसत्त्वा विधिज्ञ

व्याकृतस्त्वं दशबलैः।

गङ्गाप्रख्या वेलितवसुमतीसशैला

भविष्यसि नरवरदम्यसारथिः"॥



अथ खलु कुलपुत्र राजारणेमी तुष्ट उदग्रः प्रमुदिताः प्रीतिसौमनस्यजातः, अतिक्रम्य नातिदूरे एकान्ते निषण्णो धर्मश्रवणाय॥



अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणो राज्ञोऽरणेमिनो ज्येष्ठपुत्रमनिमिषं नाम राजकुमारमामन्त्रयति स्म।



अनिमिषोऽवोचत्। पेयालं पूर्ववत्, "अवलोकिता मयापाया ये च तत्र सत्त्वा उपपन्नाः प्रचण्डघोरं दुःखं अनुभवन्ति। अवलोकिता मया स्वर्गा ये च तत्र सत्त्वा उपपन्नाः संक्लिष्टचित्ताः पुनरप्यपायेषु प्रपतन्ति। सर्वसत्त्वाश्च मयावलोकिता अकल्याणमित्रसंसृष्टा विहरन्ति, धर्मदुर्भिक्षान्धकारे कुशलमूलपरिक्षीणा दृष्टिग्राहग्रस्ताः कुमार्गैर्विहन्यते। स्वरेणाहं भगवन् तान् सत्त्वान् विज्ञपयामि, सर्वं च कुशलं परिणामयामि अनुत्तरायां सम्यक्संबोधौ। यद् अहं बोधिसत्त्वचर्यां चरेयं ये केचनसत्त्वा दुःखोत्पीडा भयतर्जिता धर्मदुर्भिक्षान्धकारे प्रविष्टा लीना दीना अत्राणा अशरणा अपरायणा मामनुस्मरेयुः, नाम च परिकीर्तयेयुः। यद्यहं दिव्येन श्रोत्रेण शृणुयां दिव्येन चक्षुषा पश्येयं, न च तां सत्त्वान् व्यसनेभ्यः परिमोचयेयं, नाहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं। यदाहं भदन्त भगवन् सत्त्वहेतोश्चिरप्रणिधानविशेषेण चिरं बोधिसत्त्वचर्यां चरिष्यामि तदा मे आशापरिपूरिर्भवतु। यदाहं भदन्त भगवन् महाराजारणेमी अतिक्रान्ते एकस्मिन् गङ्गानदीवालिकासमेऽसंख्येये प्रतिष्ठे द्वितीये सुखावत्यां लोकधातावनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, अमितायुर्नाम भविष्यति तथागतोऽर्हन् सम्यक्संबुद्धः, परिशुद्धे बुद्धक्षेत्रे परिशुद्धानां सत्त्वानां बुद्धकार्यं करिष्यति, यावत्यामितायुस्तथागतः अपरिमाणान् कल्पान् बुद्धकार्यं कृत्वा परिनिष्ठितबुद्धकार्योऽनुपधिशेषनिर्वाणधातौ प्रवेक्ष्यते, तस्य प्रविष्टस्य यावत् सद्धर्मः स्थास्यति तावच्चिरमहं बोधिसत्त्वचर्यां चरिष्यामि, बोधिसत्त्वभूतोऽहं बुद्धकार्यं करिष्यामि। यदामितायुषस्तथागतस्य सम्यक्संबुद्धस्य रात्र्याः प्रथमे यामे सद्धर्मोऽन्तर्धास्यति तस्यामेव रात्र्यां पश्चिमे यामेऽहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं। व्याकरोतु मां भगवान् अनुत्तरायां सम्यक्संबोधौ। एवमेवाहं दशसु दिक्षु गङ्गानदीवालिकासमासु लोकधातुषु ये बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ति यापयन्ति तान् अपि बुद्धान् भगवतः स्वरेण विज्ञपयामि व्याकुर्वन्तु मां ते बुद्धा भगवन्तोऽनुत्तरायां सम्यक्संबोधौ"।



व्याकृतः कुलपुत्र रत्नगर्भेण तथागतेनानिमिषो राजपुत्रः। एवं चाह - "यत्त्वया कुलपुत्रावलोकिता अपायाः अवलोकिताः स्वर्गा अवलोकितं सर्वसत्त्वानां दुःखं संजनितं कारुण्यचित्तं सत्त्वानां दुःखमोचनार्थं क्लेशप्रशमनार्थं, तस्मात्त्वं कुलपुत्रावलोकितेश्वरो नाम भविष्यसि। त्वमवलोकितेश्वर बहूनां सत्त्वकोटीनयुतशतसहस्राणां दुःखमोचकः। बोधिसत्त्वभूतस्त्वं कुलपुत्र बुद्धकार्यं करिष्यसि। परिनिवृते चामिताभे तथागतेऽवशिष्टे द्वितीये गङ्गानदीवालिकासमेऽसंख्येये, यस्यामेव रात्र्यां प्रथमे यामे सद्धर्मोऽन्तर्धास्यति तस्यामेव रात्र्यां पश्चिमे यामे त्वं कुलपुत्रानेकव्यूहे बोधिवृक्षमूले वज्रासने निषण्णः अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, समन्तरश्म्यभ्युद्गतश्रीकूटराजो नाम भविष्यसि तथागतोऽर्हन् सम्यक्संबुद्धः। षण्णवतिकल्पकोटीनियुतशतसहस्राणि तवायुर्भविष्यति। परिनिर्वृतस्य ते त्रिषष्टिकल्पकोट्यः सद्धर्मः स्थास्यति"।



अवलोकितेश्वर आह - "यदि भगवन् निमा ममाशा परिपूर्यते तद्यदाहं भगवतः पादाभिवन्दनं करोमि तदा ये बुद्धा भगवन्तो दशसु दिक्षु गङ्गानदीवालिकासमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति ते व्याकुर्वन्तु मां, चलतु च धरणी सर्वगङ्गानदीवालिकासमासु दशसु दिक्षु लोकधातुषु, सर्वपर्वतपाषाणशिखरवृक्षेभ्यः पञ्चाङ्गिकानां तूर्याणां शब्दो निश्चरतु, सर्वसत्त्वाश्च विरागचित्तं प्रतिलभन्तु"। यदा चावलोकितेश्वरेण बोधिसत्त्वेन रत्नगर्भस्तथागतः पञ्चमण्डलकेन वन्दितस्तदा गङ्गानदीवालिकासमेषु बुद्धक्षेत्रेषु धरणी प्रचलिता, ते च बुद्धा भगवन्तो व्याकुर्वन्ति पेयालं पूर्ववत्, सर्वपर्वतपाषाणशिखरेभ्यः पञ्चाङ्गिकस्य तूर्यस्य शब्दो निश्चरति, सर्वसत्त्वाश्च विरागचित्तेन स्थिताः।



भगवान् आह -



"उत्तिष्ठ कारुण्यपुण्यसु हृष्टमानसो

व्याकृतस्त्वं दशदिशि वरदेहधारी।

प्रकम्पिता धरणीसक्षेत्र षड्विकारो

भविष्यसि जिनाग्रपुगलो महर्षी"॥



अथ खलु समुद्ररेणुर्ब्राह्मणोऽग्रपुरोहितो द्वितीयं राजपुत्रं निमिर्नामामन्त्रयामास। "एवं चानुमोद त्वं कुलपुत्रेमं महापरित्यागं, यच्च त्वया शुभमुपार्जितं तत्सर्वं सत्त्वहेतोः सर्वज्ञतायां परिणामय, उत्पादय चित्तमनुत्तरायां सम्यक्संबोधौ"।



अथ निमी राजकुमारो भगवतः पुरस्तान्निषद्येदमवोचत् - "यत् मया भगवान् उपस्थितः सर्वोपकरणैः सार्धमपरिमितेन भिक्षुसङ्घेन, यश्चानुमोदनोद्गतः पुण्यस्कन्धः, यच्च कायवाङ्मनः सुचरितं पुण्यं परिणामयामि अनुत्तरायां सम्यक्संबोधौ। न केवलमस्मिन् क्लिष्टे बुद्धक्षेत्रे बोधिमहं स्पृशेयं; यत्रावलोकितेश्वरः कुमारः सर्वरत्नसन्निचयायां लोकधातावनेकरत्नव्यूहे बोधिवृक्षे निषण्णोऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते समन्तरश्म्यभुद्गतश्रीकूटराजो नाम तथागतो भविष्यति, तमहं अध्येषयेयं धर्मदेशनायां यावच्चासौ तथागतो धर्मं देशयेत् तावदहं बोधिसत्त्वचर्यां चरेयं, तस्य तथागतस्यास्तंगतस्य सद्धर्मेऽन्तर्हिते तस्यानन्तरेणाहं सम्यक्संबोधिमभिसंबुध्येयं। एवंरूपं मे बुद्धक्षेत्रं भवेद्गुणव्यूहेन, एवमेवाहं बुद्धकार्यं कुर्यां, एवमेव परिनिर्वापयेयं, एवमेव परिनिर्वृतस्य सद्धर्मश्चिरं तिष्ठेत्, सर्व एव गुणव्यूहः यथा समन्तरश्म्यभ्युद्गतश्रीकूटराजस्य तथागतस्य"।



भगवान् आह - "महास्थामन्ते कुलपुत्र प्रार्थितं। प्राप्स्यसि त्वं कुलपुत्रैवंरूपं स्थानं यथा स्वयं परिगृहीतं। प्राप्स्यसि त्वं कुलपुत्र तस्मिन् बुद्धक्षेत्रेऽनुत्तरां सम्यक्संबोधिं। सुप्रतिष्ठितगुणमणिकूटराजो नाम तथागतो भविष्यसि। यथा स्थामन्ते कुलपुत्र महास्थानं परिगृहीतं, तेन त्वं कुलपुत्र महास्थामप्राप्तो भवस्व"।



स प्राह - "यदि मे भगवन्नेषाशा परिपूर्यते, तद्यदाहं भगवतः पञ्चमण्डलकेन कायेन पादौ वन्दामि तदा मे दशसु दिक्षु गङ्गानदीवालिकासमा बुद्धा भगवन्तो व्याकुर्वन्तु, सुमनावर्षश्च प्रवर्षतु"। यदा कुलपुत्र महास्थामप्राप्तेन सत्पुरुषेण रत्नगर्भस्य पञ्चमण्डलकेन पादाभिवन्दनं कृतं तदा गङ्गानदीवालिकासमेषु दशसु दिक्षु गङ्गानदीवालिकासमैर्बुद्धैर्भगवद्भिर्व्याकृतः, षड्विकारं च महापृथिवी प्रचलिता, सुमनावृष्टिश्च प्रपतिता।



भगवान् आह -

"उत्तिष्ठ दृढस्थामवेगपुण्य

व्याकृत दशदिशि लोकनाथैः।

चलिता महापृथिवी वृष्टिर्वृष्टा सुमना-

वर्षैर्भविष्यसि त्वं सुरनरब्रह्मभूतः"॥



अथ समुद्ररेणुर्ब्राह्मणस्तृतीयं राजपुत्रमिन्द्रगणं नाममन्त्रयति स्म। पेयालं पूर्ववत्, प्रतिगृह्याञ्जलिं रत्नगर्भं तथागतमेतदवोचत् - "यन्मया भगवान् सर्वोपकरणैरुपस्थितः सार्धं भिक्षुसङ्घेन, यच्च मे कायवाङ्मनः सुचरितं, इदं चानुमोदनासहगतं पुण्यस्कन्धं, एतत्सर्वमनुत्तरायां सम्यक्संबोधौ परिणामयामि। न तु क्लिष्टे बुद्धक्षेत्रेऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं, न चातिक्षिप्रं प्राप्नुयां। न यावच्चाहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं तावद्बोधिचर्यां चरन्, दशसु दिक्ष्वनन्तापर्यन्तेषु अन्येषु लोकधातुषु बुद्धान् भगवतः पश्येयं। ये मया प्रथमं बोधाय समादापिता येषां मया तत्प्रथमं बोधिचित्तमुत्पादितं बोधिचित्ते प्रतिष्ठापिताः, पारमितासु च ये मया समादापिता निवेशिता प्रतिष्ठापिता बोधिचर्यां चरता, तान् अहं दिव्येन चक्षुषा गङ्गानदीवालिकासमे बुद्धक्षेत्रे परमाणुरजःसमेषु बुद्धक्षेत्रेषु बुद्धान् भगवतो धर्मन् देशयतः पश्येयं, ये मया बोधाय समादापिताः। एवमहं बोधिसत्त्वचर्यां चरन् बुद्धकार्यं कुर्यां, तावदहं बोधिसत्त्वचर्यां चरेयं सत्त्वानामाशयपरिशोधयमानः यावन्तः केचित् सत्त्वा मम बुद्धक्षेत्र उपपद्येरन् त एवंविधाः स्युः तद्यथा ब्रह्मकायिका देवाः; तथा च बुद्धक्षेत्रगुणव्यूहं परिशोधयेयं यथा गङ्गानदीवालिकासमं त्रिसाहस्रमहासाहस्रं एकं बुद्धक्षेत्रं स्यात्। तस्य च बुद्धक्षेत्रस्य भवाग्रपर्यन्तानि प्राकाराणि अनेकरत्नसंस्थितानि नानारत्नप्रत्युप्तानि च स्युः, सर्वा च तत्र बुद्धक्षेत्रे शुद्धवैडूर्यमयी पृथिवी स्यात्, अपगतरजःपाषाणशर्करापगतकलुषसंस्पर्शा धरणी स्यात्। न तत्र मातृग्रामस्यनाम प्रज्ञप्तिः स्यात्, सर्वसत्त्वाश्चोपपादुकाः स्युर्न तत्र सत्त्वाः कवदीकाराहाराः स्युः, सर्वे च तत्र सत्त्वा प्रीत्याहारा धर्माहाराः स्युः। न तत्र बुद्धक्षेत्रे श्रावकप्रत्येकबुद्धानां प्रज्ञप्तिः स्यात्, शुद्धानां बोधिसत्त्वानामपगतखिलमलद्वेषम्रक्षाणां शुद्धानां ब्रह्मचारिणां बुद्धक्षेत्रं परिशुद्धं स्यात्। सर्वे तत्र बोधिसत्त्वा मुण्डाः काषायवस्त्रधारिणः प्रादुर्भवेयुः, समनन्तरप्रादुर्भूतानां महावभासं भवेत्, तेषां दक्षिणे हस्ते रत्नपात्री नानारसपूर्णा प्रादुर्भवेत्; समनन्तरप्रादुर्भूतानां एवंरूपां स्मृतिं प्रतिलभेयुर्नास्माकं प्रतिरूपं ये वयं कवडीकाराहारमाहरेम, यन्नूनं वयमन्यासु लोकधातुषु गत्वा बुद्धान् भगवतस्तिष्ठतो यापयतोऽनेनाहारेण प्रतिमानयामो बुद्धश्रावकांश्च दुःखितं च जनं प्रतिमानयामः, प्रेतभवनेषु च गत्वा क्षुत्तर्षप्रज्वलितगात्रान् सत्त्वान् अनेनाहारेण प्रतिमानयामः"। सहचित्तोत्पादेन ते बोधिसत्त्वा महासत्त्वा अचिन्त्यचारित्रवतीं नाम समाधिं प्रतिलभेयुः, तस्य च समाधेः प्रतिलाभादसज्जना दशसु दिक्ष्वप्रमेयेष्वन्येषु बुद्धक्षेत्रेषु गच्छेयुः, तिष्ठतो यापयतो बुद्धान् भगवत आहारेण प्रतिमानयेयुः श्रावकांश्चान्यांश्च सत्त्वां, प्रीत्या प्रतिमान्य धर्मदेशनां कृत्वा तेनैव पूर्वभक्तेन स्वबुद्धक्षेत्रं आगच्छेयुः। एवं चीवररत्नानि, यावत् तेनैव पूर्वभक्तेन स्वकं बुद्धक्षेत्रमागत्यान्योन्यं चीवरेण प्रावरयेयुः। यावन्ति च तत्र बुद्धक्षेत्रे तेषां बोधिसत्त्वानामुपभोगः परिभोगा भवेयुस्तैः सर्वैर्बुद्धैः श्रावकैश्चान्यैश्च सत्त्वैः सहसाधारणं कृत्वा पश्चादात्मना परिभुञ्जेयुः। अष्टाक्षणवर्जितं च बुद्धक्षेत्रं भवेत्, न च तत्र दुःखशब्दो भवेत्, न शिक्षाग्रहणशब्दः, आपत्तिव्युत्थानशब्दोऽपि न भवेत्। अनेकरत्नशतसहस्रोपचितं तद्बुद्धक्षेत्रं स्यात्, अनेकरत्नप्रत्युप्तं मणिसन्दर्शनसदृशं भवेत्, यानि मणिरत्नानि दशसु दिक्ष्वदृष्टपूर्वाणि तानि अश्रुतपूर्वाणि तानि मणिरत्नानि प्रचरेयुः, येषां मणिरत्नानां नामधेये निर्दिश्यमाने वर्षकोट्योऽपि क्षयं गच्छेयुः। यश्च बोधिसत्त्वः आकाङ्क्षेत स्वर्णमयं एव बुद्धक्षेत्रं पश्येयं तस्य स्वर्णमयं एव तिष्ठेत। यो रूप्यमयमाकाङ्क्षेत स रूप्यमयं पश्येत्, न चास्य सुवर्णमयं परिहायेयं, पेयालं पूर्ववत्। य आकाङ्क्षेत स्फतिकमयं वैडूर्यमयं अश्मगर्भमयं लोहितमुक्तामयं मुसालगल्वमयं एवंविधं तद्बुद्धक्षेत्रं पश्येम, इत्याकाङ्क्षेयुः। अगरुमयं तगरमयं तमालपत्रमयं यो बोधिसत्त्व आकाङ्क्षेदुरगसारचन्दनमयं गोषीर्षचन्दनमयं तद्बुद्धक्षेत्रं द्रष्टुं तस्य तथैव स्यात्। यथा यथा यादृशमाकाङ्क्षेयुः तथा तथा तादृशं स्यात्; न चैको द्वितीयस्य प्रणिधिः स्यात्, सर्वेषां एव प्रणिधिः परिपूर्यते। न च तत्र बुद्धक्षेत्रे सूर्यचन्द्रमसौ प्रज्ञायेयातां, स्वयं प्रभाश्च तत्र बोधिसत्त्वाः प्रत्याजायेयुः, अन्यां यादृशीं प्रभामाकाङ्क्षेरन् तादृशीमुत्सृजेयुः, अन्ततो बुद्धक्षेत्रकोटीनयुतशतसहस्रेष्वपि। न च तत्र बुद्धक्षेत्रे रात्रिदिवसानां नामधेयमपि प्रज्ञायते, अन्यत्र कुसुमविकसनतया। न च तत्र बुद्धक्षेत्रे शीतोष्णं प्रज्ञायते न व्याधिर्न ग्लान्यं न जरामरणमन्यत्र यो बोधिसत्त्व आकाङ्क्षेद्बोधिमभिसंबोद्धुं सोऽन्यत्र लोकधातावुषित्वा आयुः क्षपयित्वा बोधिमभिसंबुध्येत। न तत्र बुद्धक्षेत्रे मरणं भवेयुः, अनुत्तरपरिनिर्वाणेन उपर्यन्तरीक्षे तथागतपरिनिर्वाणं स्यात्। यादृग्जात्रीयांश्च बोधिसत्त्व उपभोगपरिभोगामाकाङ्क्षेरन् तादृग्जातीया अभिनिर्वर्तेयुः। सर्वत्र च बुद्धक्षेत्रे गगनतले तूर्यकोटीनियुतशतसहस्रा वाद्येयुः। न च तेभ्यस्तूर्येभ्यः कामोपसंहिताः शब्दा निश्चरेयुः, अन्यत्र पारमिता शब्दा निश्चरेयुः, बुद्धशब्दो धर्मशब्दः सङ्घशब्दो बोधिसत्त्वपिटकधर्मपर्यायशब्दो निश्चरेत्। यथाधिमुक्ता बोधिसत्त्वास्तादृग्जातीयां शब्दां शृणुयुः। बोधिसत्त्वचारिकामहं भगवंश्चरमाणो यावन् मयाप्रमेयेष्वसंख्येयेषु बुद्धकोटीनयुतशतसहस्रेषु बुद्धक्षेत्रगुणव्यूहा दृष्टास्ते व्यूहास्तेऽलङ्कारास्तानि लिङ्गानि तानि निमित्तानि तानि स्थानानि तानि प्रणिधानानि सर्व एव मम बुद्धक्षेत्रे प्रविशेयुः, स्थापयित्वा श्रावकप्रत्येकबुद्धव्यूहां पञ्चकषायिकांश्च बुद्धक्षेत्रगुणव्यूहां। न च तत्र बुद्धक्षेत्रे नरकतिर्यक्प्रेताः प्रज्ञायेयुर्न सुमेरुर्न चक्रवाडमहाचक्रवाडा न शीलापांशुपर्वताः प्रज्ञायेयुः, न महासमुद्रा; न चान्ये काष्ठवृक्षा भवेयुर्दिव्यातिक्रान्तैर्नानावृक्षैस्तद्बुद्धक्षेत्रमाकीर्णं स्यात्, अन्यत्र दिव्यैः कुसुमैर्मान्दारवमहामान्दारवैर्न च तत्र दुर्गन्धं स्यान्नानागन्धैरुदारोदारैस्तद्बुद्धक्षेत्रं स्फुटं स्यात्। सर्वे तत्रैकजातिप्रतिबद्धा बोधिसत्त्वा उत्पद्येरन्, न तत्रैकसत्त्वः स्याद्यस्ततश्च्यवित्वान्यत्र प्रत्याजायेत, अन्यत्र तुषितेभ्यः ततश्च्युतोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येत। तावदहं भदन्त भगवन् बोधिसत्त्वचर्यां चरिष्यामि यावन्नैवंविधं महापुरुषकारमभिनिष्पादयिष्यामि। एवंरूपं बुद्धक्षेत्रं स्थापयिष्यामि, एवंरूपैः शुद्धाशयैः सत्त्वैरेकजातिप्रतिबद्धैर्बोधिसत्त्वैः सार्धं तद्बुद्धक्षेत्रमाकीर्णं प्रतिष्ठापयिष्यामि। न तत्र बोधिसत्त्वः स्याद् यो न मया प्रथमं बोधाय समादापितः स्यात्; सर्वे ते तत्र बोधिसत्त्वाः प्रत्याजायेयुः ये मया प्रथमं बोधाय समादापिताः पारमितासु निवेशिताः; तत्रैवेदं बुद्धक्षेत्रमन्तर्गतं कुर्यां सर्वे चामी दुःखा प्रशमयेयं। बोधिसत्त्वभूतोऽहं भदन्त भगवन् एवंरूपं पुरुषकारं निष्पादयेयं, ततः पश्चात् तत्र बुद्धक्षेत्रेऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं। दशचातुर्द्वीपिकसहस्रप्रमाणो मे बोधिवृक्षः परिणाहेन स्यात्, सप्तरत्नविचित्रसन्दर्शनो नाम भवेत्। दशत्रिसाहस्रः समन्तपरिणाहेन; तस्य च बोधिवृक्षस्य गन्धेनाभया च कृत्सनं बुद्धक्षेत्रं स्फुटं स्यात्; तस्य मूले पञ्चचातुर्द्वीपिकप्रमाणं मे नानारत्नविचित्रं वज्रासनं स्यात्, प्रशमक्षमसुविचित्रज्ञानगन्धसमवसरणं नाम भवेच्चतुरशीतियोजनान्युच्चत्वेन; तस्याहं बोधिवृक्षस्य मूले वज्रासने निषीदेयं, पर्यङ्कमाभुज्य तेनैव मुहूर्तेनानुत्तरां सम्यक्संबोधिमभिसंबुध्येयं यावत् परिनिर्वाणकालं तत्पर्यङ्कं न भिन्द्यां न मुचेयं न तस्माद् बोधिवृक्षमूलादुत्तिष्ठेयं। बोधिवृक्षमूलस्थ एवाहं वज्रासने निषण्णोऽहं निर्मितान् बुद्धान् बोधिसत्त्वांश्च गणनातिक्रान्तेष्वन्येषु बुद्धक्षेत्रेषु प्रेषयेयं, एकैको बुद्ध एकपूर्वभक्तेन सत्त्वानां धर्मं देशयेत्, तेनैव पूर्वभक्तेन गणनातिक्रान्तान् सत्त्वान् अनुत्तरायां सम्यक्संबोधौ समादापयेयुः प्रतिष्ठापयेयुः अवैवर्तिकां स्थापयेयुः, एवं निर्मिता बोधिसत्त्वा बोधिसत्त्वकार्यं कुर्युः। बोधिप्राप्तस्य मे गणनातिक्रान्तेषु दशसु दिक्ष्वन्यासु लोकधातुषु मम कायो दृष्येत्, येषां च सत्त्वानां मम कायो लक्षणालङ्कृतश्चक्षुरिन्द्रियस्याभासमागच्छेत् सर्वे ते सत्त्वा नियता भवेयुरनुत्तरायां सम्यक्संबोधौ, यावद् बोधिपरिनिर्वाणेन ते सत्त्वा अविरहिता भवेयुर्बुद्धैर्भगवद्भिः। न तत्रेन्द्रियविकला भवेयुर्ये च तत्र बोधिसत्त्वा मां द्रष्टुं इच्छेयुस्ते येन येनैव गच्छेयुः परिवर्तेयुः चंक्रमेयुर्निषीदेयुः तिष्ठेयुः, सर्वे ते बोधिसत्त्वाः समनन्तरोत्पादितेन बुद्धनमस्कारचित्तेन मां बोधिवृक्षनिषण्णं पश्येयुः, दृष्ट्वा च यस्य धर्मसंशयः स्यात् सोऽस्य सहदर्शनेन विगच्छेत्तीर्णवचिकित्साः स्यादनुपदिष्टस्य धर्मपदस्यार्थमाजानेयुः। अप्रमाणं मे आयुर्भवेत् न शक्यते केनचिद् गणयितुं अन्यत्र सार्वज्ञेन ज्ञानेन, अप्रमानाश्च तत्र बोधिसत्त्वा भवेयुः। यस्मिंश्च क्षणेऽहं तत्र बुद्धक्षेत्रेऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं तस्मिन् क्षणे तत्र बुद्धक्षेत्रे बोधिसत्त्वा मुण्डाः काषायवस्त्राः संभवेयुः, यावन् मम परिनिर्वाणान्न चात्र बुद्धक्षेत्र एकसत्त्वोऽपि दीर्घकेशः स्यात् शुक्लप्रावरणो वा, सर्व एव श्रमणवर्णाः स्युः श्रमणप्रतिरूपास्तिष्ठेयुः"।



भगवान् आह - "साधु साधु सत्पुरुष, त्वमपि पण्डितो व्यक्तो मेधावी अतीवशोभनं ते प्रणिधानं कृतं, अतीवगुणवास्त्वमतीवज्ञानवान्; यतस्त्वं कुलपुत्र सर्वसत्त्वानामर्थायैवंरूपां प्रवरां प्रशस्तां मतिं कृतवान् प्रवरो बुद्धक्षेत्रगुणव्यूहः परिगृहीतः, ततस्ते कुलपुत्र मञ्जुश्रीर्नाम भवतु। भविष्यसि त्वं मञ्जुश्रीरनागतेऽध्वनि अतिक्रान्तयोर्द्वयोर्नदीवालिकासमयोरसंख्येययोः प्रविष्टे च तृतीयेऽसंख्येये दक्षिणस्यां दिशि शुद्धविरजःसन्निचयो नाम लोकधातुर्भविष्यति, तत्र च सहालोकधातुरन्तर्गता भविष्यति, अनुप्रविष्टश्च एवंरूपया गुणव्यूहया तद्बुद्धक्षेत्रं प्रादुर्भविष्यति। तत्र त्वं मञ्जुश्रीरनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, समन्तदर्शी नाम तथागतो भविष्यसि अर्हन् सम्यक्संबुद्धः। एवंरूपा च ते बोधिसत्त्वपर्षद्भविष्यति सर्वे चैते प्रणिधानास्त्वयि संपत्स्यन्ते यथा त्वया प्रणिधानं कृतं; बोधिसत्त्वभूतेन ततस्त्वं बहुबुद्धकोटीष्ववरुप्तकुशलमूलो भविष्यसि, आशयपरिशोधकश्च क्लेशप्रमर्दकः, ये च ते मञ्जुश्रीस्सत्त्वा नामं श्रोष्यन्ति तेषां सर्वकर्मावरणक्षयो भविष्यति, कुशलविवर्धकश्च भविष्यसि"।



मञ्जुश्रीराह - "यदि मे भगवन्नेवंरूपा आशापरिपूरिर्भवेदिति यथा मे प्रणिधानं कृतं तथा चैव मां बुद्धा भगवन्तो व्याकुर्वन्तु ये दशसु दिक्ष्वप्रमेयेष्वसंख्येयेषु लोकधातुषु तिष्ठन्ति ध्रियन्ति यापयन्ति सत्त्वानां च धर्मं देशयन्ति। तथाप्रमेयासंख्येया बुद्धक्षेत्राः प्रकंपन्तु। सर्वसत्त्वाश्चैवंरूपेण सुखेन समर्पिता भवन्तु, तद्यथा द्वितीयध्यानक्रीडाव्यूहसमापन्नस्य बोधिसत्त्वस्य। तथाप्रमेयासंख्येयेभ्यो बुद्धक्षेत्रेभ्यो दिव्यमान्दारवपुष्पाण्यभिप्रवर्षन्तु, तेभ्यश्च मान्दारवेभ्य एवंरूपः शब्दो निश्चरतु यदुत बुद्धशब्दो धर्मशब्दः सङ्घशब्दः पारमिताशब्दः बलवैशारद्यशब्दश्च निश्चरतु। यदा चाहं भगवतः पञ्चमण्डलेन पादौ वन्देय तदा चैवंरूपं निमित्तं प्रादुर्भवेत्"। यदा च मञ्जुश्रिया कुमारभूतेन भगवतः पादाभिवन्दनं कृतं तदा तत्क्षणादेवमप्रमेयासंख्येया बुद्धक्षेत्राः प्रकंपिता, दिव्यानि च मान्दारवाण्यभिप्रवर्षितानि, सर्वसत्त्वाश्चैवंरूपेण सुखेन समर्पिता अभवन्यथा प्रणिधानं कृतं। ये च बोधिसत्त्वा महासत्त्वास्तेषां बुद्धानां भगवतां धर्मं शृण्वन्ति ते तान् बुद्धान् भगवतः परिपृच्छन्ति, "कोऽत्र हेतुः कः प्रत्ययः एवंरूपाणां निमित्तानां प्रादुर्भावाय?" ते च बुद्धा भगवन्तो मञ्जुश्रियं कुमारभूतं व्याकुर्वन्ति अनुत्तरायां सम्यक्संबोधौ।



भगवान् आह -

"उत्तिष्ठ प्रवरमति विशालबुद्धे

व्याकृतस्त्वं दशदिशि लोकनाथैः।

चलिता क्षितिः तर्पिताः सत्त्वाः सौख्यैः

पुष्पाः प्रवृष्टा भेष्यसे बुद्ध लोक"॥ इति॥



अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणश्चतुर्थं राजपुत्रमानङ्गणं नामामन्त्रयति। पेयालं यथा मञ्जुश्रिया प्रणिधानं कृतं। तस्य भगवान् साधुकारमनुप्रादासीत्, "साधु साधु कुलपुत्र, बोधिसत्त्वभूतस्त्वं कुलपुत्राप्रमेयासंख्येयानां सत्त्वानां क्लेशपर्वतां भेत्स्यसि, बुद्धकार्यं च करिष्यसि, ततः पश्चादनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे। तेन त्वं कुलपुत्र वज्रच्छेदप्रज्ञावभासश्रीर्नाम बोधिसत्त्वो भवस्व। भविष्यसि त्वं वज्रच्छेदप्रज्ञावभासानागतेऽध्वन्यतिक्रान्तानामेकगङ्गानदीवालिकानामसंख्येयेऽनुप्रविष्टे द्वितीये गङ्गानदीवालिकासंख्येये पुरिमायां दिशि दशगङ्गानदीवालिकासमान् बुद्धक्षेत्रपरमाणुरजःसमाल्लोकधातूनतिक्रम्य तत्रानिमिषा नाम लोकधातुर्भविष्यति, तत्र त्वं कुलपुत्र बोधिमभिसंभोत्स्यसि, समन्तभद्रो नाम तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसम्पन्नो भविष्यसि यावद् बुद्धो भगवान्। एवंरूपं च ते बुद्धक्षेत्रमनेकगुणव्यूहितं भविष्यति यथा प्रणिधानं कृतं"।



समनन्तरव्याकृतश्च कुलपुत्र रत्नगर्भेण तथागतेन वज्रच्छेदप्रज्ञावभासो बोधिसत्त्वोऽनुत्तरायां सम्यक्संबोधौ, गगनतलगतान्यनेकानि देवकोटीनियुतशतसहस्राणि साधुकारमदुर्गोशीर्षोरगसारचन्दनागरुतमालचूर्णं च प्रवार्षुः।



स आह - "यदि मे भदन्त भगवन्नेवंरूपाशा परिपूर्येत तद्यदाहं भगवन्तं पञ्चमण्डलेन वन्देयं तदा गङ्गानदीवालिकासमाल्लोकधातवो दिव्यातिक्रान्तेनोदारेण गन्धेन स्फुटा भवेयुः। ये च तत्र लोकधातुषु सत्त्वा उपपन्ना भवेयुः नैरयिका वा तैर्यग्योनिका वा यामलौकिका वा देवा वा मनुष्या वा ते सर्वे तं गन्धं घ्रायेयुः, तेषां कायव्याधिः कायदुःखं चित्तव्याधिः चित्तदुःखं च तावच्चिरं प्रशान्तं भवेद्यावदहं शीर्षेण पृथिवीं स्पृशेयं"।



अथ खलु कुलपुत्र वज्रच्छेदप्रज्ञावभासो बोधिसत्त्वो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ वन्दते। अथ तवदेव गङ्गानदीवालिकासमा लोकधातवो दिव्यातिक्रान्तेनोदारेण गन्धेन स्फुटा बभूवुः, सर्वेषां च सत्त्वानां कायव्याधिश्चित्तव्याधिः कायदुःखं चित्तदुःखं च प्रशान्तं प्रतिप्रस्रब्धं।



भगवान् आह -

"उत्तिष्ठ वज्रभेदकर

गन्धेन स्फुटा क्षेत्रबहू।

सत्त्वसुखं प्रीतिकरो

भेष्यसि वरलोकपिता"॥



अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणः पञ्चमं राजपुत्रमभयं नामामन्त्रयते स्म। पेयालं, "न च केवलमस्मिं क्लिष्टे बुद्धक्षेत्रे, तत्राहं भदन्त भगवन् बोधिमभिसंबुध्येयं यत्र न नरका भवेयुर्न तिर्यग्योनिर्न यमलोकाः, यत्र नीलवैडूर्यमयी भूमिर्विस्तरेण यथा पद्मायां लोकधातौ बुद्धक्षेत्रे गुणव्यूहा तथा वक्तव्याः। अभयश्च राजपुत्रो रत्नगर्भस्य तथागतस्याग्रतः पद्मं स्थापयित्वाह।"यदि मे भदन्त भगवन्नेवंरूपा आशा परिपूर्येत तदहं भगवतोऽनुभावेन दर्शनव्यूहं समाधिं प्रतिलभेयं, येनाहं भगवतोऽग्रतो दशसु दिक्षु गङ्गानदीवालिकासमासु लोकधातुषु बुद्धक्षेत्रपरमाणुरजःसंख्यै रथचक्रप्रमाणमात्रैः पद्मैः पुष्पवृष्टिः प्रवर्षेत् वयं च पश्येम"। सहोदीरते वाक्ये बुद्धानुभावेन दर्शनव्यूहं समाधिं प्रतिलब्धवान्, दशसु दिक्षु गङ्गानदीवालिकासमेषु लोकधातुषु बुद्धक्षेत्रपरमाणुरजःसमै रथचक्रप्रमाणामात्रैः पद्मैः पद्मवर्षं प्रवर्षितं, यं दृष्ट्वाभयो राजकुमारः परमप्रीतिसौमनस्यजातो बभूव।



भगवान् आह - "अतीव कुलपुत्र शोभनं त्वया प्रणिधानं कृतं, शोभनं च बुद्धक्षेत्रं परिगृहीतं, अतिशीघ्रं च ते समाधिः प्रतिलब्धः, सत्यवचनेन पद्मवृष्टिः प्रवर्षिताः"।



स आह - "यदि ममानुत्तरायां सम्यक्संबोधावाशापरिपूरिर्भवेत तदेते पद्मा गगने तिष्ठन्तु तथैव गगने स्थिता वर्षन्तु"।



भगवान् आह - "अतिक्षिप्रं कुलपुत्र गगनतलं पद्मैर्मुद्रितं, तेन हि त्वं कुलपुत्र गगनमुद्रो नाम भवस्व। भविष्यसि त्वं गगनमुद्रोऽनागतेऽध्वनि अतिक्रान्ते एकगङ्गानदीवालिकासमेऽसंख्येयेऽनुप्रविष्टे द्वितीये पूर्वदक्षिणस्यां दिशि कोटीशतसहस्रं गङ्गानदीवालिकासमानि बुद्धक्षेत्राण्यतिक्रामयित्वा तत्र पद्मा नाम लोकधातुर्भविष्यति, तत्र त्वं बोधिमभिसंभोत्स्यसे, पद्मोत्तरश्च नाम तथागतो भविष्यस्यर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नो यावद्बुद्धो भगवान् अप्रमेयेन शुद्धेन बोधिसत्त्वसङ्घेन, अपरिमाणा च ते आयुर्भविष्यति। सर्वैश्चैतैर्गुणैः समन्वागतं लप्स्यसि तदेतत्प्रणिधाणं कृतं"। गगनमुद्रो बोधिसत्त्वो रत्नगर्भस्य तथागतस्य पादौ शिरसा निपपात।



तद्भगवान् आह -

"भविष्यसे जगति हितकरः

क्लेशकलुषशमकरः।

क्षेत्ररजःसमगुणधरो

बोधिं प्राप्स्यसि यथा पूर्वजिनैः"॥



अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणः षष्ठं राजपुत्रमम्बरं नामान्त्रयति स्म। पेयालं, "न च केवलमस्मिं क्लिष्टे बुद्धक्षेत्रे", यावद् यथा गगनमुद्रेण बोधिसत्त्वेन प्रणिधानं कृतं। "यदि मे भगवन्नेवंरूपा आशा परिपूर्येत तद् दशदिशी गङ्गानदीवालिकासमासु लोकधातुषु सर्वगगनेषु सप्तरत्नमयाः छत्राः प्रादुर्भवन्तु हेमजालप्रतिच्छन्नाः सप्तरत्नमयाभिर्घण्टाभिरलङ्कृताः। तत्र छत्रघण्टाजालैरेवंरूपः शब्दो निश्चरेत् यदुत बुद्धशब्दो धर्मशब्दः सङ्घशब्दः पारमिताशब्दो बलशब्दोऽभिज्ञाशब्दो वैशारद्यशब्दः, सर्वे च ते सत्त्वा एवंरूपं शब्दं शृणुयुः ते श्रुत्वा सर्वेऽनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेयुः। ये चात्र सत्त्वाः पूर्वमुत्पादितबोधिचित्तास्तेऽवैवर्तिका भवेयुरनुत्तरायां सम्यक्संबोधौ"। समनन्तरव्याहृतेऽस्मिं व्याहारे अथ दशसु दिक्षु गङ्गानदीवालिकासमेषु लोकधातुषु सर्वगगनतलात् पेयालं एवंरूपाः शब्दा निश्चरन्ति। भगवतश्चानुभावात् स्वयमेवाद्राक्षीत्, पुनरेवं आह - "सचेन्मे भदन्त भगवन्नेवंरूपा आशा परिपूर्येत यथा मे प्रणिधानं कृतं तदहं भगवतः पुरतो ज्ञानवैरोचनं समाधिं प्रतिलभेय, येन मम कुशला धर्मा निवर्तेयुः, प्रतिलब्धे च समाधौ मां भगवां व्याकुर्यात्"। भगवतश्चानुभावेन ज्ञानवैरोचनसमाधिः प्रतिलब्धा।



भगवान् आह - "साधु साधु सत्पुरुष, उदारं ते प्रणिधानं कृतं, तेन त्वं पुण्याभिस्यन्देन दशसु दिक्षु गङ्गानदीवालिकासमा बुद्धक्षेत्रा बहवश्चैकप्रमाणाः, शतसहस्रमनोज्ञशब्दसंचोदितो बुद्धक्षेत्रः, ततस्त्वं कुलपुत्र वेगवैरोचनो नाम भगस्व। भविष्यसि त्वं वेगवैरोचनातिक्रान्तेऽनागतेऽध्वन्येकनदीगङ्गावालिकासमेऽसंख्येयेऽनुप्रविष्टे द्वितीये पुरस्तिमायां दिशि गङ्गानदीवालिकासमा लोकधातवोऽतिक्रमित्वा आदित्यसोमा नाम लोकधातुः तत्र त्वं बोधिमभिसंभोत्स्यसे, धर्मवशवर्तीश्वरराजो नाम तथागतो भविष्यस्यर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नो यावद् बुद्धो भगवान्"। स च वेगवैरोचनो बोधिसत्त्वस्तं भगवन्तं पञ्चमण्डलेन वन्दति रत्नगर्भं तथागतं।



आह -

"उत्तिष्ठ सुव्रत सुरत दान्तचित्त

सत्त्वेभ्यः तीव्रकरुणा महती प्रवृत्ता।

तारे हि सत्त्वान् दुःखार्णवतीरं संस्था

यावन्न बुध्यसि अनुत्तरबुद्धबोधिं"॥



अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणः सप्तमं राजपुत्रमङ्गजमामन्त्रयां आस। पेयालं, "न चास्मिं क्लिष्टे बुद्धक्षेत्रे तत्राहं बोधिमभिसंबुद्धेयं। यत्र च न नरका न तिर्यग्योनिः न यमलोकः प्रज्ञायते, न मातृग्रामो न च सत्त्वानां गर्भवासः, न सुमेरुः न चक्रवाडमहाचक्रवाडा न पांशुशैलपर्वता नोत्सदशर्करकठल्लकण्टकगहना न काष्ठवृक्षा न महासमुद्रा, न च तत्रादित्यचन्द्रा न तारकरूपा न रात्रिदिवसा न तमस्कन्धा, न च तत्र सत्त्वानामुच्चारप्रस्रावखेटसिङ्घाणकं न कायखेददुर्गन्धं, न च सत्त्वानां कायक्लमता भवेत् न चित्तक्लमता; न च तत्र पांशुभूमिर्भवेत् ; सर्वा च तत्र भूमिरश्मगर्भमयी भवेत् अनेकरत्नशतसहस्रालङ्कृता भवेत्, मान्दारवमहामान्दारवपुष्पावकीर्णं च तद् बुद्धक्षेत्रं नानारत्नवृक्षालङ्कृतं भवेत्; ते च रत्नवृक्षा नानारत्नजालालङ्कृता भवेयुः; नानारत्नदुष्या नानारत्नवस्त्रा नानारत्नमाला नानारत्नाभरणालङ्कारालङ्कृता नानामाल्येभ्यो नानावाद्यैर्नानारत्नभाजनैर्नानापुष्पैश्च ते रत्नवृक्षालङ्कृता भवेयुः; न तत्र रात्रिः प्रज्ञायेत, अन्यत्र यदा पुष्पाः संकुचेयुर्वाद्याश्च वाद्येयुः। संकुचितेभ्यश्च पुष्पेभ्यः बोधिसत्त्वा प्रत्याजायेयुः; समापन्नाश्च तत्र बोधिसत्त्वा दर्शनव्यूहं नाम समाधिं प्रतिलभेयुः, येन समाधिना प्रतिलब्धेन दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमान् अन्येषु लोकधातुषु तिष्ठतो यापयतो बुद्धान् भगवतः पश्येयुः; तत्क्षणे चैवंरूपं विशुद्धं दिव्यश्रोत्रं प्रतिलभेयुः, येन दशसु दिक्ष्वन्येषु लोकधातुषु बुद्धक्षेत्रपरमाणुरजःसमेषु बुद्धक्षेत्रेषु बुद्धानां भगवतां धर्मदेशनां शृणुयुः। सहोपपन्नाश्च सत्त्वाः सर्वे जातिस्मरा भवेयुस्ते च बुद्धक्षेत्रपरमाणुरजःसमान् कल्पान् अनुस्मरेयुः। सहोपपन्नाश्च ते सत्त्वाः सर्वे एवंरूपं दिव्यं चक्षुः प्रतिलभेयुः, यत् समन्ताद्दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमान् बुद्धक्षेत्रगुणव्यूहां पश्येयुः। सहोपपन्नाश्च ते सत्त्वाः सर्व एवंरूपेण परचित्तज्ञानकौशल्येन समन्वागता भवेयुः, यदेकक्षणेन बुद्धक्षेत्रपरमाणुरजःसमेषु बुद्धक्षेत्रेषु सर्वसत्त्वानां चित्तचरितां विजानेयुर्यावद्बोधिपरिनिर्वाणां ते सत्त्वास्तां समाधिं प्रणामेयू; रात्र्याः प्रत्युषकालसमये चतुर्दिशं सुगन्धाः प्रीतिकराश्च मृदुसुखसंस्पर्शा वायवो वायेयुः, ये तान् पुष्पान् विकासयेयुः। ते च बोधिसत्त्वास्ताभ्यः समाधिभ्यो व्युत्थिहित्वा तेभ्यः पुष्पकेशरेभ्य उत्तिष्ठेयुः; तथारूपं च ऋद्धिविषयं प्रतिलभेरन् यद् एकचित्तक्षणेने बुद्धक्षेत्रपरमाणुरजःसमान्येकैकां दिशं गच्छेयुः, तिष्ठतो यापयतो बुद्धान् भगवतो वन्दित्वा पर्युपासित्वा तदा निवर्तेयुः, तत्र च मान्दारवमहामान्दारवपुष्पकेशरेषु पर्यङ्कमाबध्वा निषीदेयुः, धर्मसुखमनसिकारेण तथागतं प्रेक्षेयुर्येन येन च निषीदेयुः परिवर्तेयुर्वा सर्वदिशासु च मामेव पश्येयुः। यथारूपं च तत्र बोधिसत्त्वानां महासत्त्वानां काङ्क्षाविमतिधर्मेषु संशयोत्पद्येत तत्सर्वं मम दर्शनव्यवलोकनमात्रेण विगच्छेयुः। यथारूपं च धर्मदेशनान् ते बोधिसत्त्वा महासत्त्वा आकाङ्क्षेयुः तथारूपं धर्मदेशनां मम व्यवलोकनमात्रेणाजानेयुः। अममा अपरिग्रहाश्च तत्र सत्त्वा भवेयुः, अन्तशः स्वकायजीवितेनाप्यनर्थिकाः। सर्वे च तत्र बोधिसत्त्वा अवैवर्तिका भवेयुः। न तत्राकुशलस्य नाम भवेन्न च तत्र बुद्धक्षेत्रे शिक्षाग्रहणस्य नाम भवेत्, न चापत्तिव्यूत्थापनकथा, यथा यावत्सर्वसत्त्वा द्वात्रिंशद्भिर्महापुरुषलक्षणैः समन्वागता भवेयुः। सर्वे च नारायनबलिका भवेयुः। न च तत्रैकसत्त्वोऽपीन्द्रियविकलो भवेत् यावद्बोधिनिर्वाणेन। सर्वे च तत्र सत्त्वा मुण्डा नवकाषायचीवरप्रावृताः प्रत्याजायेयुः; सुविभक्तं च समाधिं प्रतिलभेयुः; यावद्बोधिपर्यन्तेन प्रणामेयुः। सर्वे च तत्र समवधानकुशलमूला भवेयुः। न च तत्र बुद्धक्षेत्रे सत्त्वानां जराव्याधिदुःखं प्रज्ञायेत। येषां सत्त्वानामायुःपरिक्षयो भवेत् ते सर्वे पर्यङ्केन परिनिर्वायेयुः, स्वकाच्च शरीरात्तेजोधातुं प्रमुञ्चेयुर्येनात्मनः शरीरं साध्येयुः, चतुर्दिशश्च वायव आगच्छेयुः ये तानि बोधिसत्त्वशरीराणि शून्येषु बुद्धक्षेत्रेषु क्षिपेयुः। एवंरूपाश्च महामणिरत्नाः प्रादुर्भवेयुः तद्यथा राज्ञश्चक्रवर्तिनः प्रभास्वरं मणिरत्नं; ये च तत्र सत्त्वास्तां मणिरत्नप्रभां पश्येयुः तं वा मणिरत्नं पश्येयुः स्पार्शेयुर्वा ते सर्वे नरकतिर्यग्यमलोकदुःखानि यावद्बोधिनिर्वाणेन मा प्रतिसंवेदयेयुः। ते च ततश्च्यवित्वा तत्रोपपद्येयुः यत्र तिष्ठन्तो यापयन्तो बुद्धा भगवन्तः सत्त्वानां धर्मं देशयन्ति। तत्रोपपन्नाश्च ते सत्त्वास्तेषां बुद्धानां भगवतां सकाशाद्धर्मं शृणुयुस्ते च बोधिचित्तमुत्पादयेयुः, सहोत्पादिते च बोधिचित्तेऽवैवर्तिका भवेयुरनुत्तरायां सम्यक्संबोधौ। न कश्चित्सत्त्वो मम बुद्धक्षेत्रेऽसमाहितः कालं कुर्यात्, न दुःखवेदनाया न परस्परव्यावधचित्ताविप्रयोगमरणाय ततश्च माराक्षणेषुपपद्येयुः, यावद्बोधिपर्यन्तं बुद्धदर्शनेनाविरहिता भवेयुः धर्मश्रवणेन सङ्घोपस्थानेनाविरहिता भवेयुः। सर्वे च तत्र सत्त्वा अपगतखिलद्वेषम्रक्षेर्ष्यामात्सर्या भवेयुः। विवर्जितं च तं बुद्धक्षेत्रं श्रावकप्रत्येकबुद्धैर्भवेत्, शुद्धैश्च बोधिसत्त्वैस्तं बुद्धक्षेत्रं स्फुटं भवेत्। स्निग्धचित्ता मृदुचित्ता अवैरचित्ता अकिल्विषचित्ताः शान्तचित्ताः समाहितचित्ताश्च भवेयुः तत्र ये सत्त्वा उपपद्येयुः। प्रभास्वरं च मे तद्बुद्धक्षेत्रं भवेत्, महद्गुणव्यूहं च मे तद्बुद्धक्षेत्रं भवेत्। दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमैः लोकधातुभिर्दृश्येत गन्धेन च स्फुरेत्। नित्यसुखसमर्पिताश्च तत्र सत्त्वा भवेयुः। न च तत्र बुद्धक्षेत्रे दुःखशब्दः श्रूयेत। तावच्चाहं बोधिसत्त्वचर्यां चरिष्यामि यावदहं बोधिसत्त्वभूतश्चैवंरूपाभिर्बुद्धक्षेत्रगुणव्यूहसंपदाभिः बुद्धक्षेत्रं परिशुद्धं स्थापयिष्यामि, एवंरूपैः परिशुद्धाशयैः सत्त्वैस्तद्बुद्धक्षेत्रं स्फुटं स्थापयिष्यामि; ततः पश्चाद् अहं तत्र बुद्धक्षेत्रेऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं। बोधिप्राप्तस्य च मेऽप्रमाणा प्रभा भवेत्; सहस्रबुद्धक्षेत्रपरमाणुरजःसमेषु च दशसु दिक्ष्वन्येषु बुद्धक्षेत्रेषु लक्षनालङ्कृतो मे कायः संदृश्येदिति। ये च तत्र सत्त्वा मां पश्येयुः तेषां सत्त्वानां रागः प्रशमयेत्, द्वेषो मोहेर्ष्या मानम्रक्षसर्वक्लेशोपक्लेशाः प्रशमेयुः; सर्वे बोधिचित्तमुत्पादयेयुः; यथाविधाश्च समाधिधारणीराकाङ्क्षेत तथारूपा मां दृष्ट्वा प्रतिलभेयुः। ये च तत्र सत्त्वाः शीतनरके प्रत्याजाता भवेयुस्तेषां मां दृष्ट्वा सुखावेदना प्रादुर्भवेत्, तथारूपां च सुखां वेदनां प्रतिलभेरन् यथापि नाम द्वितीयध्यानसमापन्नस्य भिक्षोस्ते च मां दृष्ट्वा परमेण कायचैतसिकेन सुखेन समर्पिता भवेयुस्ते च सर्वेऽनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेयुस्ते च ततश्च्यवित्वा मम बुद्धक्षेत्र उपपद्येरन्, तत्र चानैवर्तिका भवेयुः अनुत्तरायां सम्यक्संबोधौ। ये च सत्त्वाः प्रेतभवनेषूपपन्नाः मम पश्येयुः, पेयालं अवैवर्तिका भवेयुरनुत्तरायां सम्यक्संबोधौ; एवं तिर्यग्योनिगता वक्तव्याः। एवं देवाः द्विगुणा च मे प्रभासयेयं। अप्रमाणा च मे आयुर्भवेत्, यन्न शक्यं केनचिद्गणयितुं अन्यत्र सर्वज्ञज्ञानेन। बोधिप्राप्तस्य च मे दशसु दिक्ष्वप्रमेयेष्वपरिमाणेष्वन्येषु लोकधातुषु बुद्धा भगवन्तो मम वर्णं भाषेरन्येषां अनुश्रावयेयं; ये च तत्र सत्त्वा मम वर्णं शृणुयुः ते तत्र मम बुद्धक्षेत्रे कुशलमूलं परिणामयेयुः, ते कालं कृत्वा मम बुद्धक्षेत्र उपपद्येयुः स्थापयित्वानन्तर्यकारकां सद्धर्मप्रतिक्षेपकां आर्यापवादकां। बोधिप्राप्तस्य च मे ये सत्त्वा अप्रमेयेष्वसंख्येयेषु लोकधातुषु मम नामधेयं शृणुयुः मम च बुद्धक्षेत्र उपपत्तिं आकाङ्क्षेयुः, तेषामहं मरणकालसमयेष्वनेकगणपरिवृतो वितिमिरसमाधिं समापन्नाः तथारूपेण सुभाषितेन तान् सत्त्वान् संतोषयेयं, तेषां सत्त्वानां सर्वदुःखं प्रशमेत्, तेनैव प्रसादेन निश्चितां समाधिं प्रतिलभेयुः, चित्तस्पृहणां धर्मक्षान्तिं प्रतिलभेयुः, कालं च कृत्वा मम बुद्धक्षेत्र उपपद्येयुः। ये च पुनरन्यत्र बुद्धक्षेत्रेषु सप्तधनविरहिताः सत्त्वा अनर्थिकाः त्रिभिर्यानैरनर्थिका देवमानुषिकाभिः संपत्तिभिरनर्थिकाः कुशलपर्येष्ट्या त्रिभिः पुण्यक्रियावस्तुभिः अधर्मरागरक्ता विषमलोभाभिभूता मिथ्याधर्मपरीतास्तेषां प्रभासमाधिना मरणकालसमये पुरतः तिष्ठेयं, अनेकगणपरिवृतो धर्मं देशयेयं, तेषां स्वकं बुद्धक्षेत्रं दर्शयेयं, बोधौ च समादापयेयं। ते सत्त्वा ममान्तिके परमप्रीतिप्रसादं प्रामोद्यं प्रतिलभेयुः बोधौ च चित्तान्युत्पाद्येयुः, तेषां सर्वदुःखा वेदनाः प्रशमेयुः, ते सूर्यप्रदीपं च समाधिं प्रतिलभेरन्, मोहप्रणाहं चैषां भवेत्, कालं च कृत्वा मम बुद्धक्षेत्र उपपद्येयुः"।



भगवान् आह - "साधु साधु सत्पुरुष, शोधनं ते प्रणिधानं कृतं"। स प्राह - "यदि मे भदन्त भगवन्नेवंरूपा आशा परिपूर्येत तथा च दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमेष्वन्येषु बुद्धक्षेत्रेषूरगसारचन्दनचूर्णं प्रवर्षतु। ये च सत्त्वास्तं गन्धं घ्रायेयुः ते सर्वे बोधौ चित्तमुत्पादयेयुः। अहं चैतर्हि प्रणीतद्युतिं नाम समाधिं प्रतिलभेयं, यत् स्वयं एव पश्येयं। उत्पादितश्च कुलपुत्र प्रणीतद्युतिः समाधिः स्वयमेवाद्राक्षीत् तद्बुद्धक्षेत्रपरमाणुरजःसमेषु दशसु दिक्ष्वन्येषु लोकधातुषु उरगसारचन्दनचूर्णं प्रवर्षितं, दशसु दिक्ष्वेकैकस्यां दिशि गणनातिक्रान्ताः सत्त्वाः प्राञ्जलिभूता अद्राक्षुः, ये बोधाय चित्तान्युत्पादयन्ति"।



भगवान् आह - "अतिशीघ्रं कुलपुत्र गन्धवृष्टिः प्रवर्षिता, गणनातिक्रान्ताश्च सत्त्वा बोधौ समादापितास्तेन त्वं कुलपुत्र सिंहगन्धो भवस्व। अतिक्रान्ते सिंहगन्ध एकगङ्गानदीवालिकासंख्येयेऽनुप्रविष्टे द्वितीये उपरिमाय दिशायेतो बुद्धक्षेत्राद्द्विचत्वारिंशत्गङ्गानदीवालिकासमेषु

बुद्धक्षेत्रपरमाणुरजःसमानि बुद्धक्षेत्राण्यतिक्रम्य तत्र नीलगन्धप्रभासविरजो नाम लोकधातुर्भविष्यति, तत्र त्वं सिंहगन्धानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, प्रभासविरजःसमुच्छ्रयगन्धेश्वरराजो नाम तथागतो भविष्यसि अर्हन् सम्यक्संबुद्धो यावद् बुद्धो भगवान्"।



अथ खलु कुलपुत्र सिंहगन्धो बोधिसत्त्वो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ वन्दितवान्।



तं रत्नगर्भस्तथागत आह -



"उत्तिष्ठासुरनरदेवपूजित

तारय त्वं भगतिसत्त्वदुःखितां।

छित्त्वा त्वं भवदुःखक्लेशबन्धनां

भेष्यसि नरजिन आर्यपुद्गलः"॥



अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणोऽष्टमं राजपुत्रममिघं नामामन्त्रयां आस। पेयालं, "तावदहं भगवन् क्लिष्टे बुद्धक्षेत्रे बोधिसत्त्वभूतो बोधिसत्त्वचारिकां चरिष्यामि यावदहं दशसहस्रान् क्लिष्टान् बुद्धक्षेत्रानेवंरूपां परिशुद्धां स्थापयिष्यामि, यथा नीलगन्धप्रभासविरजं बुद्धक्षेत्रं तथा भविष्यति। एवंरूपैरवरुप्तकुशलमूलैः परिशुद्धाशयैर्महायानसंप्रस्थितैर्बोधिसत्त्वैस्तद्बुद्धक्षेत्रं स्फुटं स्थापयिष्यामि, पश्चादहमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यामि। तथारूपामहं भदन्त भगवन् बोधिसत्त्वचारिकां चरिष्यामि यथा नान्ये बोधिसत्त्वाश्चरन्ति। यदहं भदन्त भगवन्निमानि सप्तवर्षाणि बुद्धगुणबोधिसत्त्वगुणपरिशुद्धं बुद्धक्षेत्रगुणपरिशुद्धं रहोगत एकाकी संचिन्तयमानो निषण्णः, दर्शनव्यूहसमाधिपूर्वंगमेन एकदशबोधिसत्त्वसमाधिसहस्राणि यानि मयात्रोत्पादितानि प्रतिलब्धानि भावितानि, एषा मम भदन्त भगवन् बोधिसत्त्वभूतस्य बोधिसत्त्वचारिका; येऽपि ते दशसु दिक्ष्वनन्तापर्यन्तास्वन्यासु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति यापयन्ति सत्त्वानां हिताय सुखाय धर्मं च देशयन्ति, ये त्राध्वसमतिक्रान्ता ध्वजाग्राकेयूरा बुद्धक्षेत्रास्तां परिपूर्णां जिनैः पश्येयं आवर्तेयं। तेन च समाधिनाहं भदन्त भगवन् परमाणुरजःसमान् बुद्धान् भगवतो बोधिसत्त्वश्रावकगणपरिवृतान् पश्येयं। एकैकस्याहमनिश्रितासमाधिबलेन बुद्धक्षेत्रपरमाणुरजःसमैः कायैर्वन्देयं। एकैकेन चाहं कायेनानुत्तरैर्विचित्रै रत्नैः पुष्पैरनुत्तरैर्विचित्रैर्गन्धैर्माल्यैश्च चुर्णविलेपनैर्वाद्यैः सर्वाभिश्चानुत्तराभिर्व्यूहाभिरेकैकं पूजयेयं। एकक्षेत्रे चाहं समुद्रवालिकाप्रमाणान् कल्पां चरेयं, यदा चाहं सर्वकायविभावनेन समाधिनैकक्षणेनैकैकस्य बुद्धस्य बुद्धक्षेत्रपरमाणुरजःसमान् बुद्धगोचरान् आजानेयं। गुणाकरसमाधिना चाहं भदन्त भगवन् नेकैकस्य बुद्धक्षेत्रपरमाणुरजःसमैरनुत्तरैस्तवैस्तवेयं। अनिमिषसमाधिना चाहं भदन्त भगवन् नेकरजाग्रचित्तप्रमाणेन सर्वबुद्धक्षेत्रान् पूर्णां जिनैः पश्येयं। अरणासमाधिना चाहं भदन्त भगवन् नेकचित्तक्षणेन सर्वबुद्धक्षेत्रेषु बोधिसत्त्वानतीतानागतप्रत्युत्पन्नान् बुद्धक्षेत्रगुणव्यूहान् पश्येयं। शूरङ्गमसमाधिना चाहं भदन्त भगवन्नरकेश्ववतरित्वा नैरयिकमात्मभावमभिनिर्मिणित्वा नैरयिकानां सत्त्वानां धर्मं देशयेयं, बोधाय च समादापयेयं, ततस्तान् सत्त्वान् बोधाय चित्तमुत्पादयेयं, ततश्च्यवित्वा मनुष्याणां सहभाव्यतायामुपपद्येयुः यत्र बुद्धा भगवन्तस्तिष्ठन्ति तेषां बुद्धानां भगवतां सकाशाद्धर्मं शृणुयुः, अवैवर्तिकभूमौ च प्रतिष्ठापयेयं; एवं तिर्यक्षु, एवं प्रेतेषु, एवं यक्षेषु, एवं राक्षसेषु, एवमसुरेषु, एवं नागेषु, एवं किन्नरमहोरगेषु, एवं पिशाचपूतनकटपूतनेषु, एवं मनुष्यचण्डालेषु, एवं वणिजेषु गणिकासु; यथारूपेषु च भगवन् सत्त्वाः कुलेषूपपद्यन्ते, यथारूपश्च तेषां आत्मभावप्रतिलाभः, यथारूपेण च सत्त्वाः कर्मप्रत्ययेन सुखां वेदनां दुःखां वा प्रतिसंवेदयन्ति, यथारूपेषु च शिल्पस्थानकर्मस्थानेषु प्रसक्ताः, तथारूपमात्मभावं निर्मिणित्वा तथारूपशिल्पस्थानकर्मस्थानेषूद्योगं निदर्शयेयं, तथारूपेण चक्षरव्याहारेण सत्त्वानां चित्तमाराधयेयं, धर्मं च देशयेयं, अनुत्तरायां सम्यक्संबोधौ समादापयेयं निवेशयेयं प्रतिष्ठापयेयं, अवैवर्तिकांश्च स्थापयेयं अनुत्तरायां सम्यक्संबोधौ। तावदहं भदन्त भगवन् बोधिसत्त्वचारिकां चरिष्यामि यथा दशसु सर्वबुद्धक्षेत्रसहस्रेषु सर्वेषां सत्त्वानां चित्तसन्ततिं तथा परिशोधयेयं यथा पूर्वकर्मक्लेशां न कुर्युः, यदेकसत्त्वस्यापि चत्वारा माराश्चित्तसन्ततिपथं न प्रजानीयुः, तदहं दशबुद्धक्षेत्रसहस्राण्येवंरूपां परिशुद्धां स्थापयेयं, यथा प्रभासविरजासमुच्छ्रयगन्धेश्वरराजज्योतिस्तथागतस्य नीलगन्धप्रभासविरजे बुद्धक्षेत्रगुणव्यूहास्तथा भवेयं। एवं मया स्वबुद्धक्षेत्रस्य स्वपर्षाया च यथा सिंहगन्धेन बोधिसत्त्वेन प्रणिधानं कृतं। यदि मे भदन्त भगवन्नेवंरूपा आशा परिपूर्येत तथा दशसु बुद्धक्षेत्रसहस्रेषु सत्त्वानां सर्वदुःखानि प्रशाम्यन्तु, सर्वे च मृदुचित्ता भवन्तु, कर्मण्यचित्ता भवन्तु, स्वकस्वकायाश्चतुर्द्वीपिकायाः तिष्ठन्तो बुद्धान् पश्यन्तु। तेषां च सत्त्वानां विचित्ररत्ना विचित्रपुष्पगन्धविलेपनचूर्णच्छत्रध्वजपताकाः प्रादुर्भवन्तु, येन ते सत्त्वाः तान् बुद्धान् पूजयेयुः, अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयेयुः। अहं च भगवन् दर्शनव्यूहसमाधानबलेन स्वयं पश्येयं, सहोदीरितयां वाचास्मिन्नेवमेव स्वयं पश्यति यथा प्रणिधानं कृतं" इति।



भगवान् आह - "साधु साधु कुलपुत्र, यस्त्वं कुलपुत्र समन्तके च स्वके च बुद्धक्षेत्रे दशबुद्धक्षेत्रसहस्राणि परिशुद्धानि स्थापयिष्यसि। अप्रमेयासंख्येयानां च सत्त्वानां सन्ततिं परिशोधयिष्यसि। एवमप्रमेयासंख्येयानां बुद्धानां भगवतामप्रमेयासंख्येयायां पूजायामौत्सुक्यमापत्स्यसे। तेन त्वं कुलपुत्र समन्तभद्रो नाम भवस्व। भविष्यसि त्वं समन्तभद्रानागतेऽध्वनि अतिक्रान्त एकगङ्गानदीवालिकासमेऽसंख्येये परिवर्तावशिष्टे द्वितीय उत्तरायां दिशीतो बुद्धक्षेत्रात् षष्टिगङ्गानदीवालिकासमानि बुद्धक्षेत्राण्यतिक्रमित्वा तत्र ज्ञानतापसुविशुद्धगुणा नाम लोकधातुर्भविष्यति; तत्र त्वं समन्तभद्रानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, ज्ञानवज्रविजृम्भितेश्वरकेतुर्नाम भविष्यसि तथागतोऽर्हन् सम्यक्संबुद्धो यावद्बुद्धो भगवान्"।



अथ खलु कुलपुत्र समन्तभद्रो बोधिसत्त्वो महासत्त्वो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादयोः शिरसा निपपात।



रत्नगर्भस्तथागतस्त्वाह -



"उत्तिष्ठ सुरत सुव्रत दान्तचित्ता

सत्त्वान सन्तति विशोध्य दृढप्रतिज्ञत्वं।

सत्त्वान् तारय क्लेशनदीसुघोरान्

त्वं ज्ञान उल्कधर भेष्यसि बुद्ध लोके"॥



तेन खलु पुनः कुलपुत्र समयेन दशकुशीदप्राणसहस्राणि एककण्ठेन वाचं बभाषिरे। "भविष्याम वयं भदन्त भगवन् ते परिशुद्धेषु बुद्धक्षेत्रेषु तथागता अर्हन्तः सम्यक्संबुद्धाः, यां सुविशुद्धाशयाः समन्तभद्रो बोधिसत्त्वो महासत्त्वो बोधिसत्त्वचारिकां चरामाणः परिशुद्धां स्थापयति। एवं च वयं षट्पारमिताः परिपूरयित्वा तत्र बुद्धक्षेत्र उपपद्येम"।



एवं कुलपुत्र रत्नगर्भेण तथागतेन दशप्राणिसहस्रा व्याकृताः। "यदा समन्तभद्रोऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते तदा यूयं तेषु सामन्तकेषु लोकधातुष्वनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यध्वे। सहस्रैकनामकास्तथागता भविष्यथः यदुत सहस्रं ज्वालकुण्डेश्वरघोषा नाम भविष्यथ तथागताः, अपरं सहस्रं संवृतीश्वरघोषा नामानो भविष्यन्ति, अपरं सहस्रं सुविमलघोषेश्वरराजनामा भविष्यन्ति तथागताः, अपरं सहस्रं प्रहीणभयघोषेश्वरराजनामा भविष्यन्ति तथागताः, अपरं सहस्रं विमलघोषतेजेश्वरराजनामा भविष्यन्ति। पञ्चशता एकं नामधेयाः यदुत सूर्यघोषनामा भविष्यन्ति। तथा द्वौ विगतभयकीर्तिराजा विगतरश्मिश्च, विगतरश्मिघोषकीर्तीश्वरघोषश्च, विपरधर्मकीर्तिघोषश्च, गर्भकीर्तिराजरत्नध्वजः, ज्योतीश्वरः, उत्तप्तमुनिज्ञानेश्वरः, केतचीवरसंभृतराजा, अचिन्त्यमतिज्ञानगर्भः, ज्ञानमेरुध्वजः, ज्ञानसागरराजा, महावीर्यघोषेश्वरः, मेरुश्रीकल्पः, ज्ञानविरजवेगः, किमीश्वरबीजः, ज्ञानसुविमलगर्जितेश्वरः, अभिभूतगुणसागरराजा, ज्ञानसंभवबलराजा, विरजवीरेश्वरराजा, मुनिश्रीकूटवेगसंकुसुमः, श्रीकूटज्ञानबुद्धिः, वज्रसिंहः, शीलप्रभास्वरः, भद्रोत्तमः, अनन्तरश्मिः, सिंहनन्दिः, अक्षयज्ञानकूटः, रत्नावभासः, ज्ञानविमलः, ज्ञानप्रवाडः, सिंहकीर्तिः, अभिज्ञागुणराजः, धर्मसुमनावर्षी, प्रभाकरः, अभ्युद्गतमेरुः, धर्मसमुद्गतराजविमलः, गन्धेश्वरः, विमलनेत्रः, महाप्रसन्दयः, असङ्गबलराजा, स्वज्ञानपुण्यबलः, ज्ञानचीवरः, वशवर्ती, असङ्गहितेषी, ज्ञानसंभवः, महामेरुः, बलगर्भः, गुणाकरः, लताकुसुमध्वजः, गणप्रभासः, विगुणमोहराजा, वज्रोत्तमः, धर्मकेतुः, घोषेन्द्रराजा, स्वगुप्तः, वज्रध्वजः, रत्नेश्वरः, अभ्युद्गतध्वजः, शैलकल्पः, रतिमेघः, धर्मकारिसालराजा, समन्तगुप्तसागरराजा, ज्ञानसंनिचयः, ज्ञानार्चिः, कुसुमगणिः, गजेन्द्रेश्वरः, उदुम्बरपुष्पः, काञ्चनध्वजः, धर्मध्वजः, विनर्दितराजः, चन्दनः, सुप्रतिष्ठितस्थामविक्रमः, ध्वजाग्रप्रदीपः, ज्ञानक्रमः, सागरध्वजः, व्ययधर्मकीर्तिः, मारविनर्दितः, गुणार्चिः, ज्ञानप्रभः, ज्ञानप्रदीपः, क्षेमराजा, ज्ञानघोषः, ध्वजसंग्रहः, वज्रप्रदीपः, व्यूहराजा, जयसंख्या, सुप्रतिष्ठितः, मतिचन्द्रराजा, क्रमविनर्दितराजा, सालेन्द्रसिंहविग्रहः, नारायणविजितगर्भः, रत्नगुणसंनिचर्यः, ज्योतिगर्भः, नक्षत्रविभवकीर्तिः, पुण्यबलसालराजा, ज्ञानघोषः, ब्रह्मोत्तरः, धृतराष्ट्रः। अपरं सहस्रं गन्धपद्मविजितकीर्तिराजा नामनो भविष्यन्ति, रश्मिमण्डलज्योतिप्रभासराजा, गन्धपद्मोत्तरवेगः, अनन्तगुणसागरज्ञानोत्तरः, जम्बुच्छायः, गुणशैलध्वजः, सिंहकेतुः, नागविवर्जितकुसुमतेजराजा, सुगन्धबीजनैरात्म, अमृतगुणतेजराजकल्पिनमि भविष्यति। अपरं सहस्रं विसृष्टधर्मराजानो नागेन्द्रविमुक्तिबुद्धलोकसागरलोचनशैलनामा भविष्यन्ति तथागता अर्हन्तः सम्यक्संबुद्धाः। एककाले एकदिवसेऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ति, अन्योन्यासु लोकधातुषु दशान्तरकल्पायुःप्रमाणं भविष्यति"। तेऽपि दशप्राणसहस्रा रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ शिरसा निपेतुः।



रत्नगर्भस्तथागत आह -

"उत्तिष्ठत च दृढनागनर्दता

क्रियता शुभद्रव्यसंचयं।

उद्युजितः पारमितासु वेगता

भविष्यथासुरनरलोकनायकाः"॥
अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणो नवमं राजपुत्रमामन्त्रयते स्म अमिघं नाम। पेयालं, स प्राह - "तथारूपमहं बोधिसत्त्वचारिकां चरिष्यामि यथा मे दशसु दिक्षु गङ्गानदीवालिकासमेषु लोकधातुषु गङ्गानदीवालिकासमास्तिष्ठन्तो यापयन्तः बुद्धा भगवन्तो बोधिचारिकां चरतः साक्षिभूता भविष्यन्ति बोधिसत्त्वचर्यायां। यदहं भदन्त भगवन् त्वत्पुरतो बोधाय चित्तमुत्पादयामि, यावच्चानुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये। अत्रान्तरेण मे बोधिसत्त्वचर्यां चरमाणस्य न विप्रतिसारचित्तमुत्पद्येत, यावद्बोधिपर्यन्तमुपादाय दृढप्रतिज्ञो भवेयं यथावादी तथाकारी, न चान्यस्य सत्त्वस्य चित्तसंक्षोभो भवेयं, न च मे श्रावकप्रत्येकबुद्धयाने चित्तमुत्पद्येत, मा च कामरागचित्तचैतसिका उत्पद्येरन्, मा स्त्यानमिद्धसहगता मौद्धत्यसहगता मा कौकृत्यसहगता न विचिकित्सासहगता न प्राणातिपातं नादत्तादानं नाब्रह्मचर्यं न मृसावादं न पैशुन्यं न पारुष्यं नाभिध्या न व्यापादं न मिथ्यादृष्टिः न संभिन्नप्रलापं न मात्सर्यसहगतं न धर्मेऽगौरवचित्तता न विसंवादनचित्तता। यावद्बोधिपर्यन्तान् मम बोधिसत्त्वचर्यां चरमाणस्य इमे धर्मा न संविद्येयुः। यावद्बोधिपर्यन्तमुपादाय पदवीतिहारकमपि बुद्धानुस्मृतिर्नित्यं चित्तचैतसिकाः प्रवर्तेरन्। यावद्बोधिपर्यन्तेन नाहं बुद्धदर्शनेन विरहितो भवेयं न धर्मश्रवणेन न सङ्घोपस्थानेन। सर्वत्र च जातिषु प्रव्रज्यां प्रतिलभेयं। सर्वासु जातिषु पांशुकूलिको भवेयं, त्रैचीवरिकः वृक्षमूलिकः नैषद्यिकः आरण्यकः पिण्डपातिकः अल्पेच्छः संतुष्टः धर्मदेशकः आदेयवाक्यः अपरिमाणप्रतिभानसंपन्नो भवेयं। न च मूलापत्तिमापद्येयं। न मृषावादसहगतैर्मन्त्रैः परप्रवादिनो विमर्देयं। शून्यताप्रतिसंयुक्तं च मातृग्रामस्य धर्मं देशयेयं, शून्यतामनस्कारेण च मातृग्रामस्य न दन्तविदर्शनं कुर्यात्, न हस्तविकारेण धर्मं देशयेयं। नित्यं चाहं महायानसंप्रस्थितानां बोधिसत्त्वानां शास्तृसंज्ञामुत्पादयेयं। यस्य चाहं धर्मभाणकस्य सकाशाद्धर्मं शृणुयां शास्तृसंज्ञान् तस्यान्तिके उत्पादयेयं, सत्कृत्य चाहं तं धर्मभाणकं यथा तथागतं तथा सत्कुर्यां गुरुकुर्यां मानयेयं पूजयेयं यावदात्ममांसैरपि धर्मभाणकमुपस्थितेयं। न चाहं पात्रमपात्रं चावेक्ष्य दानं दद्यां, न मम धर्मदानमात्सरिका चित्तचैतसिका उत्पद्येयुः। स्वजीवितदानेनाहं बोध्यर्थिकान् सत्त्वान् परित्रायेयं, स्ववीर्यबलप्रणिधानोपार्जितेन चाहं द्रव्येन व्यसनगतान् सत्त्वान् व्यसनेभ्यः परिमोचयेयं। न चाहं प्रव्रजितलिङ्गिनं वा गृहस्थलिङ्गिनं वा आपत्त्यानापत्त्या वा चोदयेयं। नित्यं चाहं लाभसत्कारश्लोकेऽग्निविषशस्त्रसंज्ञामुत्पादयेयं। यदि च मे भदन्त भगवन्निमे प्रणिधाना यावद्बोधिपर्यन्तमुपादाय संऋध्येयुः यथा भगवतः पुरतः प्रणिधानं कृतं, तदुभाभ्यां पाणिभ्यां दिव्याश्चक्ररत्नाः प्रादुर्भवन्तु सहस्राराः सनाभिकाः सनेमिकाः आदित्यवर्णप्रभास्वराः"। सहभाषितायां अस्यां वाचि अमिघेन राजपुत्रेणोभायां पाणिभ्यां तथारूपाणि चक्राणि प्रादुर्भूतानि यथायाचिताः। पुनराह - "यदि मे भदन्त भगवन्नेवंरूपा आशा परिपूर्येत यावद्बोधिपर्यन्तेन तदिमे चक्राः शून्येषु पञ्चकषायेषु बुद्धक्षेत्रेषु गच्छन्तु, एवंरूपेणोच्चशब्देन यथा नन्दोपनन्दा नागराजा गच्छन्ति तथा सर्वावन्तं बुद्धक्षेत्रं स्वरेण विज्ञापयन्तु बोधिसत्त्वव्याकरणस्मृत्यसंप्रमोषज्ञानदर्शनशून्यताभावनाप्रचारबुद्धविषयं धर्मपर्यायं चारयितुं। ये च तत्र सत्त्वा उपपन्नास्तेषां सर्वेषां श्रोत्रेन्द्रियेष्वयं धर्मपर्यायमाभासमागच्छतु, निपतितमात्रे च तेषां सत्त्वानां रागः प्रशमतु, द्वेषो मोहो मानेर्ष्या मात्सर्यः प्रशमतु, सर्वबुद्धानुस्मृतिमनसिकारेणानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयन्तु"।



प्रेषितौ च कुलपुत्रामिघेन राजपुत्रेण तौ द्वौ चक्ररत्नौ तौ चैवंरूपेण जवेन गच्छतस्तद्यथा बुद्धा भगवन्तो बुद्धजवेन गच्छन्ति; एवमेव तौ द्वौ चक्ररत्नौ गच्छतः दशसु दिशास्वप्रमेयेश्वसंख्येयेषु पञ्चकषायेषु बुद्धक्षेत्रेषु गत्वा सत्त्वानां बोधिसत्त्वव्याकरणस्मृत्यसंप्रमोषज्ञानान्तर्गताभावनाप्रचारबुद्धधर्मपर्यायं चारयन्ति। तेषां च सत्त्वानामयं धर्मपर्यायं श्रोत्रेन्द्रियस्याभासमागच्छति, तेषां सर्वेषां रागो यावन् मात्सर्यचित्तचैतसिकाः प्रशान्ताः, सर्वे च बुद्धज्ञानविषयं मनस्कारेणानुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितवन्तो, मुहूर्तमात्रेण च ते चक्राः प्रतिनिवृत्यामिघस्य राजपुत्रस्य पुरतः स्थिताः।



अथ खलु कुलपुत्र रत्नगर्भस्तथागतः अमिघस्य राजपुत्रस्य साधुकारमदात्, "साधु साधु कुलपुत्र, त्वयातीव शोभनः प्रणिधिः कृत, इमे च दिव्याश्चक्ररत्नाः शून्येषु पञ्चकषायेषु बुद्धक्षेत्रेषु प्रेषिता, बहूनि च प्राणकोटीनियुतशतसहस्राण्यकलुषचित्तान्यवस्थापितानि, बोधौ च समादापितानि। तेन त्वं कुलपुत्राक्षोभ्यो नाम भवस्व। भविष्यसि त्वमक्षोभ्यो लोकस्य परिणायकः, गृह्ण त्वमक्षोभ्य बुद्धक्षेत्रगुणव्यूहानि यादृषान्याकाङ्क्षसि"।



अक्षोभ्य आह - "तादृशमहं भदन्त भगवन् बुद्धक्षेत्रगुणव्यूहमाकाङ्क्षामि यथा सर्वलोकस्वर्णभूर्भवेत्, समापाणितलोपमा दिव्यमणिरत्नव्यवकीर्णा अपगतशर्करकठल्ला अपगतशिलास्तंभपाषाणपर्वता मृदुका काचलिन्दिकसुखसंस्पर्षा, निक्षिप्ते पादतलेऽवनमेदुत्क्षिप्ते पादतले पुनरुन्नमेत्। न चात्र नरकतिर्यग्योनियमलोकप्रेतविषयां प्रज्ञायेयुः। न च तत्र बुद्धक्षेत्रे दुर्गन्धा भावा भवेयुः, दिव्यातिक्रान्तेन गन्धेन तद्बुद्धक्षेत्रं स्फुटं भवेत्, दिव्यैश्च मान्दारवमहामान्दारवैः पुष्पैस्तद्बुद्धक्षेत्रमाकीर्णं। न च तत्र सत्त्वानां जराव्याधिमरणं भवेत्, न च परस्परभयं न च परस्परविहेठा न च सत्त्वानामकालमरणं विप्रतिसारमरणं नासमाहितमरणं। बुद्धानुस्मृतिमनस्कारेण तत्र सत्त्वा भवेयुः। न च दुर्गतिषूपपद्येयुः, न पञ्चकषायेषु शून्येसु बुद्धक्षेत्रेषूपपद्येयुर्यावद्बोधिपरिनिर्वाणात् बुद्धदर्शनाविरहिता भवेयुर्धर्मश्रवणेन सङ्घोपस्थानेनाविरहिता। अल्परागाश्च तत्र सत्त्वा भवेयुरल्पद्वेषा अल्पमोहाः, सर्वे च तत्र दशकुशलां कर्मपथान् समादाय वर्तेयुः। न च तत्र बुद्धक्षेत्रे सत्त्वानां शील्पग्रहणं भवेत्, न नामनिमित्तं, न च तत्र सत्त्वानां मारावतारं मार्गेन। न च तत्र सत्त्वा दुर्वर्णा भवेयुः, न च तत्र सत्त्वा वैमात्र भवेयुः, यदुतार्यो वा दासो वा, अममा अपरिग्रहाश्च तत्र सत्त्वा भवेयुः। न च तत्र श्रावकानां बोधिसत्त्वानां वा शुक्लमोक्षणं भवेत्, अन्ततः स्वप्नान्तरगतानामपि; सर्वे च तत्र सत्त्वा धर्मकामा धर्मपर्येष्टिपरा भवेयुः। न च तत्र बुद्धक्षेत्र एकसत्त्वोऽपि विपरीतदृष्टिको भवेत् न चान्यतीर्थिको, न च तत्र सत्त्वानां कायक्लमता भवेत् चित्तक्लमता वा भवेत्; सर्वे च ते तत्र सत्त्वाः पञ्चाभिज्ञा भवेयुः। न च तत्र सत्त्वानां तृष्णा वा भुक्षा वा विहेठयेत्, यादृशं चाहारमाकाङ्क्षेयुः तादृशं रत्नभाजनेषु पुरतः प्रादुर्भवेत् यथा कामावचराणां देवानां। न चोच्चारप्रस्रावखेटसिङ्घाणमश्रु वा काये स्वेदो वा भवेत्, न च तत्र शीतं नोष्णं भवेत्, सुगन्धं रमणीयं भवेत्, मृदुसंस्पर्शाश्च वायवो वायुयुः। ते च तत्र देवमनुष्याणां गन्धकृत्यं कुर्वीरन्यदाकाङ्क्षेयुः यादृशमाकाङ्क्षेयुः, य एकः शीतलं वायुमाकाङ्क्षेत्, द्वितीय उष्ण, अपर उत्पलगन्धं वायुमाकाङ्क्षेयुः, अपर उरगसारचन्दनगन्धं वायुं, अपरे कालानुसारिगन्धं, अपरे तगरगन्धं, अपरेऽगरुगन्धं, अपरे सर्वेण सर्वं वायुनाकाङ्क्षेयुः, तेषां यथा चित्तोत्पादेनाक्षिप्तं तथा संपद्येत्। एवमपगतपञ्चकषाया लोकधातुर्भवेत्। तत्र च सत्त्वानां सप्तरत्नमयाः कूटागारा भवेयुः। तेषु च कूटागारेषु सप्तरत्नमयाः पर्यङ्काः स्त्रिताः तूलिकोपधानैर्मृदुकाचलिन्दिकसंस्पर्शाः प्रादुर्भवेयुर्यत्र मनुष्या विहरेयुः। समन्ततश्च कूटागारेषु पुष्करिणीपरिपूर्णाष्टाङ्गोपेतेनोदकेन प्रादुर्भवेत्, यत्र ते सत्त्वा उदकेनोदककार्यं कुर्युः। सुमनातालवृक्षाणां वा वृक्षावलीरलङ्कृता भवेयुः, नानापुष्पैर्नानाफलैर्नानागन्धैर्नानावस्त्रैर्नानाच्छत्रैर्नानामुक्तिकाहारैर्नानाभरणैस्ते वृक्षा अलङ्कृता भवेयुः। यथारूपा च तत्र सत्त्वा वस्त्राभरणं आकाङ्क्षेयुः ते तान् तेभ्यः कल्पवृक्षेभ्यो गृहीत्वा प्रावरेयुः, एवं पुष्पैर्यावदाभरणां गृहीत्वा बन्धेयुः। सप्तरत्नमयश्च मे बोधिवृक्षो भवेत्, योजनसहस्रमुच्चत्वेन योजनं स्कन्धपरिणाहेन योजनसहस्रं शाखापरिणाहेन। वायुसमीरितश्च ततो बोधिवृक्षाद्दिव्यातिक्रान्तः स्निग्धो मनोज्ञः पारमिता अभिज्ञेन्द्रियबलबोध्यङ्गशब्दो निश्चरेत्, ये च सत्त्वास्तं शब्दं शृणुयुस्ते विरागचित्ताः स्मृतिं प्रतिलभेयुः। सर्वगुणोपेतश्च तत्र बुद्धक्षेत्रे मातृग्रामो भवेत् तद्यथा तुषितदेवनिकायेऽप्सराः। न च तत्र मातृग्रामो दुर्गन्धो भवेत्, न द्विजिह्वे नेर्ष्यामात्सर्यपरिचिते। न च तत्र मनुष्या मातृग्रामेण सार्धं मैथुनकायसंसर्गमापद्येयुः। यस्य च तत्र पुरुषस्य सरागचित्तमुत्पद्येत, गत्वा मातृग्रामं सरागेन चित्तेन प्रेक्षते मुहूर्तेन पुरुषस्य रागः प्रशाम्येत, महतोद्वेगेन च प्रक्रमेत्, शुभविरजं च समाधिं प्रतिलभेत, तेन च समाधिना मारपाशेभ्यः परिमुच्येयुः, न च भूयो रक्तचित्तमुत्पादयेयुः। या च तत्र स्त्री पुरुषं सरागं निरीक्षेत गुर्विणी भवेत्, निरीक्षितमात्रेण चोभयो रागः प्रशमेत्। ये गर्भवासैर्दारकदारिका एवं कायचैतसिकं सुखं प्रतिसंवेदयेयुः, तद्यथा देवास्त्रयस्त्रिंशा नन्दन्ति प्रमोदन्ति कायचैतसिकं सुखं प्रतिसंवेदयन्ति। एवंरूपश्च तत्र बुद्धक्षेत्रे गर्भवासा दारकदारिकाः सप्तरात्रिंदिवसानि सुखं संवेदयेयुः। ताश्च स्त्रियो गर्भिण्यः एवंरूपं सुखं प्रतिसंवेदयेयुः, तद्यथा द्वितीयध्यानसंपन्नो भिक्षुः। न च ते सत्त्वा अशुचिना गर्भमलेन क्लिश्येयुः, सप्तमे च दिवसे परमसुगन्धेन परमेण च सुखोपधानेन समर्पिताः प्रत्याजायेयुः। न चैव सा स्त्री दुःखां प्रत्यनुभवेद्, उभौ च पुष्करिणीमवतरित्वा स्नात्वा च सा स्त्री एवंरूपां स्मृतिं प्रतिलभेत, यया विरागशुभं समाधिं प्रतिलभेत, तेन च समाधिना मारकर्मणा परिमुच्येत, सततसमाहिता भवेत्। यच्च पूर्वजन्मनि तथारूपं कर्मकृतमुपचितं भवेद्येन च बहुकल्पकोटीस्त्रीभावमनुभवितव्यं तेन समाधिनाभिनिर्वृतेन स्त्रीभावं च सर्वेण सर्वं परिक्षयं गच्छेद्, यावत् परिनिर्वाणं न भूयः स्त्रीभावं प्रतिलभेत्। येषां च सत्त्वानां तथारूपं कर्मकृतमुपचितं भवेत् यद् गणनातिक्रान्तान् कल्पान् नित्यगर्भवासेन प्रत्याजायेयुर्दुःखं प्रत्यनुभवितव्यं भवेत्, ते बोधिप्राप्तस्य मे नामधेयं शृणुयुः प्रसादं च प्रतिलभेयुस्ते ततश्च्यवित्वा मम बुद्धक्षेत्र उपपद्येयुर्गर्भवासेन च प्रत्याजायेयुस्तत्र सर्वेण सर्वं तत्कर्मपरिक्षयं गच्छेयुर्यावद्बोधिपर्यन्तेन न भूयस्ते सत्त्वा गर्भवासेन प्रत्याजायेयुर्ये सत्त्वा अवरुप्तकुशलमूलास्ते पद्मेषु प्रत्याजायेयुः, ये सत्त्वा अनवरुप्तकुशलमूलास्ते गर्भवासेन प्रत्याजायेयुः। कर्मपरिक्षयेन मम बुद्धक्षेत्रे मातृग्रामो वा गर्भवासो वा प्रज्ञायेत एकान्तसुखसमर्पितास्ते सत्त्वास्तत्र बुद्धक्षेत्रे भवेयुः। सुमनातालवृक्षैर्वायुसमीरितैरेवंरूपो रमणीयो निर्घोषो निश्चरेद्दुःखमनित्यमनात्मशून्यशब्दा निश्चरेयुः। तेन च शब्देन तत्र मनुष्या उल्कावतीं नाम समाधिं प्रतिलभेयुस्तेन च समाधिना ते सत्त्वाः शून्यतावभासां गम्भीरान् धर्मान् अवबुध्येयुः। न च तत्र बुद्धक्षेत्रे कामोपसंहितः शब्दो भवेत्। बोधिवृक्षमूलनिषण्णश्चाहं भदन्त भगवन् मुहूर्तेनानुत्तरां सम्यक्संबोधिं प्राप्नूयां। बोधिप्राप्तस्य च मे तत्र बुद्धक्षेत्रे न भूयश्चन्द्रसूर्याणां प्रभा प्रज्ञायेत, अन्यत्र कुसुमसंकोचनेन; एवंरूपां चाहं प्रभां प्रमुञ्चेयं येन दिव्येन चक्षुषाप्रमेयासंख्येयैरन्यैर्बुद्धक्षेत्रैस्तिष्ठतो बुद्धान् भगवतः पश्येयं। बोधिप्राप्तश्चाहमेवंरूपेण स्वरेण धर्मं देशयेयं येन स्वरेण त्रिसाहस्रमहासाहस्रं बुद्धक्षेत्रमापूरयेयं, ये च तत्र सत्त्वाः स्युः ते सर्वे बुद्धानुस्मृतिं प्रतिलभेयुस्ते येन येन गच्छेयुः चंक्रमेयुर्निषीदेयुर्वा परिवर्तेयुर्वा, ते सततसमितं मां पश्येयुर्यथारूपेषु धर्मेषु धर्मसंशया भवेयुः तेषां मम दर्शनमात्रेण व्यवलोकनमात्रेण च तेषां संशया विगच्छेयुः। बोधिप्राप्तस्य च मे ये सत्त्वा दशसु दिक्ष्वप्रमेयेष्वसंख्येयेषु बुद्धक्षेत्रेषु श्रावकयानिका वा प्रत्येकबुद्धयानिका वानुत्तरयानिका वा मम नामं वा वर्णं व शृणुयुः, ते ततश्च्यवित्वा मम बुद्धक्षेत्र उपपद्येयुः। ते तत्र मम धर्मं श्रुत्वा ये श्रावकयानिकास्तेऽष्टविमोक्षध्यायिनोऽर्हन्तो भवेयुः, ये च प्रत्येकबुद्धयानिकाः ते प्रत्येकां बोधिमभिगच्छेयुः, ये च तत्र बोधिसत्त्वा महायानिकास्ते मत् सकाशाद्धर्मं श्रुत्वा गम्भीरां समाधिक्षान्तिधारणीं च प्रतिलभेयुः, ते तत्रैवावैवर्तिका भवेयुरनुत्तरायां सम्यक्संबोधौ। अप्रमेयश्च मे श्रावकसङ्घो भवेद् यो न शक्यं केनचिद्गणयितुं अन्यत्र स्वयं तथागतेन। बोधिप्राप्तश्चाहं येन येन गच्छेयं यत्र यत्र च पादतलेन पृथिवीं स्पृशेयं तत्र तत्र सहस्रपत्राणि पद्मानि सुवर्णावभासानि प्रादुर्भवेयुः, ते च पद्माः शून्येषु बुद्धक्षेत्रेषु गत्वा मम वर्णशब्दं घोषं निश्चारयेयुः; ते च सत्त्वा मम नाम वर्णं यशश्च श्रुत्वा प्रीतिप्रसादप्रामोद्यमुत्पादयेयुः, ते प्रसादजाता मम बुद्धक्षेत्र उपपत्तिमाकाङ्क्षेयुः, तत्र च तानि कुशलमूलानि परिणामयेयुः, ते ततश्च्यवित्वा मम बुद्धक्षेत्र उपपद्येयुः। अपगतश्रमणमलश्च मे श्रावकसङ्घो भवेत्, अपगतश्रमणवाक्यापगतश्रमणकौटिल्यापगतश्रमणशाठ्या अपगतपर्षा भवेद्धर्मगुरुका न परिष्कारगुरुका न लाभसत्कारगुरुका, अनित्यदुःखानात्मशून्यताभिरता आरब्धवीर्या च सा पर्षद्भवेद्धर्मश्रवणा सङ्घप्राग्भारा। ये च तत्रावैवर्तिका बोधिसत्त्वा भवेयुस्तेऽनागतप्रविष्टाः स्मृतिं प्रतिलभेयुस्ते जातिव्यतिवृत्ता प्रज्ञापारमिताप्रतिसंयुक्तां कथां कथयेयुः, यावद्बोधिपर्यन्तेन ते धर्मा न संप्रमोषं गच्छेयुः। यावद्बोधिप्राप्तश्चाहं दशमहाकल्पसहस्राणि तिष्ठेयं, परिनिर्वृतस्य च मे कल्पसहस्रं सद्धर्मस्तिष्ठेत्"।



भगवान् आह - "साधु साधु सत्पुरुष, परिशुद्धं ते बुद्धक्षेत्रं परिगृहीतं। भविष्यसि त्वमक्षोभ्यानागतेऽध्वनि अतिक्रान्ते ह्येकस्मिन् गङ्गानदीवालिकासमेऽसंख्येयऽनुप्रविष्टे द्वितीये पुरस्तिमायां दिशि, अतः सहस्रिमे बुद्धक्षेत्रेऽभिरतिर्नाम लोकधातुर्भविष्यति, एवंरूपया गुणव्यूहया संपन्ना यथा त्वया प्रणिधानं कृतं। तत्र त्वं अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, एवमेवाक्षोभ्यो नाम भविष्यसि तथागतो यावद्बुद्धो भगवान्"।



अक्षोभ्य आह - "यदि मे भदन्त भगवन्नेवंरूपाशा परिपूर्येत तत्सर्वत्र लोकधातुषु सत्त्वाः स्कन्धधात्वायतनपरिगृहीता ये च सत्त्वाः सत्त्वसंग्रहेण संगृहीतास्ते सर्वे मैत्रचित्ता भवन्त्ववैरचित्ता अकलुषचित्तास्ते एवंरूपं कायसुखं संवेदयेयुः तद्यथापि नाम दशभूमिस्थितस्य बोधिसत्त्वस्य पद्मसमाधिं समापन्नस्य येनाशयप्रहाणविशुद्धिर्भवति, एवंरूपेण सत्त्वाः कायचैतसिकेन सुखेन समार्पिता भवन्तु। यदाहं भगवतः पञ्चमण्डलेन पादौ वन्देत तदा सर्वपृथिवी स्वर्णावभासा भवतु"। स च कुलपुत्र रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ वन्दति तदा च तस्मिन् समये सर्वसत्त्वा एवंरूपेण सुखेन समर्पिता यथा प्रणिधानं कृतं, तदा धरणी सर्वा स्वर्णावभासा दृश्यते।



रत्नगर्भस्तथागत आह -

"उत्तिष्ठ प्रवरमति अक्षोभ्य

चक्रसंस्थित करतल प्रवरचक्र।

स्थापिता बहुतृष्णा करुणचित्ते

भविष्यसि त्वं शुभमति जगति शास्ता"॥



अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणो दशमं राजपुत्रं हिमणिं नामामन्त्रयते स्म। पेयालं हिमणी राजपुत्र एवंरूपं प्रणिधानमकार्षीत् तद्यथाक्षोभ्येन कृतं। "यदि मे भदन्त भगवन् नेवंरूपाशा परिपूर्येत तत्सर्वसत्त्वा बुद्धालंबनमनस्कारं प्रतिलभन्तु। सर्वेषां चोरगसारचन्दनगन्धो हस्ते प्रादुर्भवतु, ते च सर्वे तं गन्धं बुद्धविग्रहेषु परिणामयन्तु"।



भगवान् आह - "साधु साधु कुलपुत्र, उदारं ते प्रणिधानं कृतं, यच्च त्वया सर्वसत्त्वा उरगसारचन्दनहस्ता स्थापिता बुद्धमनस्कारश्चाशयेनोत्पादितः, तेन त्वं कुलपुत्र गन्धहस्तिर्नाम भवस्व। भविष्यसि त्वं गन्धहस्तेऽतिक्रान्तानां गङ्गानदीवालिकासमानामसंख्येयानां अवशिष्टे द्वितीये नदीगङ्गावालिकासमेऽसंख्येयेऽक्षोभ्ये तथागतेऽर्हति सम्यक्संबुद्धे परिनिर्वृते सद्धर्मेऽन्तर्हिते सप्तमे द्विसे त्वं गन्धहस्ते तत्र लोकधातावनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, सुवर्णपुष्पो नाम भविष्यसि तथागतोऽर्हन् सम्यक्संबुद्धो यावद्बुद्धो भगवान्"।



गन्धहस्तिरप्याह - "यदि मे भदन्त भगवन्नेवंरूपाशा परिपूर्येत तद्यदाहं भगवतः पञ्चमण्डलेन पादौ वन्देयं तदा सर्वस्मिन्नारामे चम्पकपुष्पवर्षं प्रवर्षतु"। यदा खलु कुलपुत्र गन्धहस्तिर्बोधिसत्त्वो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ वन्दति तदा सर्वस्मिन्नारामे चम्पकपुष्पवर्षमभिप्रावर्षत्।



रत्नगर्भस्तथागत आह -

"उत्तिष्ठ प्रवरगुण सुगन्धचित्ता-

वर्षित इमि वरचम्पकपुष्पाः।

दर्शय शुभपथ वरप्रणीतं

स्थापय बहुजगमभये पारे"॥



अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मण एकादशमं राजपुत्रं सिंहं नामामन्त्रयामास। पेयालं, यथा गन्धहस्तिना प्रणिधानं कृतं, रत्नगर्भाय तथागताय रत्नमयं ध्वजं निर्यातितं।



रत्नगर्भस्तथागत आह - "साधु साधु सत्पुरुष, रत्नकेतुर्नाम भवस्व, भविष्यसि त्वं रत्नकेतोऽनागतेऽध्वनि अतिक्रान्ते गङ्गानदीवालिकासमेऽसंख्येयेऽवशिष्टे द्वितीये गङ्गानदीवालिकासमेऽसंख्येये तत्राभिरत्यां लोकधातौ परिनिर्वृते स्वर्णपुष्पे तथागते तस्य च सद्धर्मेऽन्तर्हिते त्रयाणां अन्तरकल्पानामत्ययेन तद्बुद्धक्षेत्रं जयसोमं नाम भविष्यति, तत्र त्वमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे नागविनर्दितेश्वरघोषो नाम भविष्यसि यावद्बुद्धो भगवान्। एवंरूपं ते बुद्धक्षेत्रं भविष्यति बुद्धक्षेत्रे गुणव्यूहेन यथाक्षोभ्यस्य तथागतस्य"।



रत्नकेतुराह - "यदि मे भदन्त भगवन्नेवंरूपाशा परिपूर्येत तद्यदाहं भगवतः पादौ वन्दे तदा सर्वसत्त्वा एवंरूपां स्मृतिं प्रतिलभेयुः, यथा बोधिसत्त्वा ये महाबोधिं संप्रस्थिताः सर्वसत्त्वानामर्थाय करुणायमानाः संबोधौ प्रस्थिता न निवर्तेयुः"। एवमेव कुलपुत्र रत्नकेतुर्बोधिसत्त्वो रत्नगर्भस्य तथागतस्य पादौ वन्दित्वा, एवमेव सत्त्वा एवंरूपां स्मृतिं प्रतिलब्धवन्तो यदुत करुणाचित्ताः सर्वसत्त्वाः स्थापिताः।



अथ खलु कुलपुत्र रत्नगर्भस्तथागतो रत्नकेतुं बोधिसत्त्वमाह -

"उत्तिष्ठ धैर्य सुमते परमरूप

सत्त्वहेतु सुदृढकृत प्रतिज्ञा।

स्थापयसि बहुजन विरजचित्ते

भविष्यसे नरवरो प्रवरबुद्धः"॥



एवं पेयालं, मार्दवपूर्वंगमैः पञ्चभि राजपुत्रशतैरेवंरूपं प्रणिधानं कृतं, कृत्वैवंरूपा बुद्धक्षेत्रगुणव्यूहाः परिगृहीता यथा गगनमुद्रेण बोधिसत्त्वेन प्रणिधानं कृतं, बुद्धक्षेत्रगुणव्यूहाश्च परिगृहीताः। सर्वे च रत्नगर्भेण तथागतेनानुत्तरायां सम्यक्संबोधौ व्याकृताः। "एवमेवैककालेऽन्योन्येषु लोकधातुष्वनुत्तरां सम्यक्संबोधिम् स्पृशिष्यथ"।



अपरे चत्वारः शता राजपुत्राणां यैरेवंरूपं बुद्धक्षेत्रं परिगृहीतं यथा वज्रच्छेदप्रज्ञावभासेन, तेऽपि सर्वे रत्नगर्भेण तथागतेन व्याकृता अनुत्तरायां सम्यक्संबोधौ अन्योन्येषु लोकधातुषु।



अपरैरेकोननवतिभी राजपुत्रैरेवंरूपं प्रणिधानं कृतं, एवंरूपं च बुद्धक्षेत्रं परिगृहीतं यथा समन्तभद्रेण।



सर्वैश्चतुरशीतिभिः कोट्टराजसहस्रैः पृथक्पृथग्विशिष्टं प्रणिधानं कृतं, पृथक्पृथश्च बुद्धक्षेत्रगुणव्यूहाः परिगृहीताः। सर्वे च रत्नगर्भेण तथागतेन व्याकृता अनुत्तरायां सम्यक्संबोधौ, अन्योन्येषु लोकधातुष्वेककाले बोधिं प्राप्स्यन्ति।



एवमेव त्रिभिः प्राणकोटिभिः पृथक्पृथक् प्रणिधानं कृतं, पृथक्पृथश्च बुद्धक्षेत्रगुणव्यूहाश्च परिगृहीताः। सर्वे च रत्नगर्भेण तथागतेन व्याकृतानुत्तरायां सम्यक्संबोधौ, "एवमेव यूयमप्येककालेऽन्योन्येषु लोकधातुष्वनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यध्वे"॥



अथ खलु कुलपुत्र समुद्ररेणोर्ब्राह्मणस्याशीतिपुत्रा रत्नगर्भस्य तथागतस्य भ्रातरः, तेषां ज्येष्ठः समुद्रेश्वरभुविर्नाम माणवः। अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणः समुद्रेश्वरभुविं माणवं आमन्त्रयामास। "प्रतिगृहाण त्वं माणव परिशुद्धां बुद्धक्षेत्रगुणव्यूहां"। समुद्रेश्वरभुविर्माणवाह - "त्वं तावत्तात प्रथमतरं सिंहनादं नदस्व"। समुद्ररेणुराह - " त्वं तावत् पुत्र प्रणिधानं कुरुष्व, पश्चादहं प्रणिधानं करिष्ये"। स आह - "किं तावत् परिशुद्धं बुद्धक्षेत्रं प्रतिगृह्णाम्युताहोस्विदपरिशुद्धं?"। अग्रपुरोहित आह - "ये महाकरुणासमन्वागता बोधिसत्त्वास्ते क्लिष्टं बुद्धक्षेत्रं परिगृह्णन्ति, क्लिष्टाशयां विपरीतदृष्टिकां सत्त्वान्वैनेयान् प्रतिगृह्णन्ति। यथा पुनस्त्वं माणव स्वं जानिषे"।



अथ खलु कुलपुत्र समुद्रेश्वरभुविर्माणवको येन रत्नगर्भस् तथागतस्तेनोपसमक्रामदुपसंक्रम्य रत्नगर्भस्य तथागतस्य पुरतः स्थित्वैवमाह - "एवमहं भदन्त भगवन्ननुत्तरां सम्यक्संबोधिमाकाङ्क्षामि, अशीतिवर्षसाहस्रिकायां प्रजायां प्रवरां बोधिं स्पृशेयं। यथैतर्हि भगवन् सत्त्वा मन्दरागा मन्दद्वेषा मन्दमोहा उद्विग्नाशयाः संसारे भयदोषदर्शिनस्तथा तत्र बुद्धक्षेत्रे सत्त्वा भवेयुः, यत्राहमभिसंबुद्धेयं, ते च ममान्तिके प्रव्रजेयुः, त्रिभिश्च यानैरहं सत्त्वानां धर्मं देशयेयं। यदि भदन्त भगवन्नेवंरूपा आशा परिपूर्येत तद् व्याकरोतु मां भगवाननुत्तरायां सम्यक्संबोधौ"।



रत्नगर्भस्तथागत आह - "भविष्यसि त्वं माणवानागतेऽध्वनि अतिक्रान्त एकगङ्गानदीवालिकासमेऽसंख्येयेऽनुप्रविष्टे द्वितीये गङ्गानदीवालिकासमेऽसंख्येये उत्पलसन्तीरणे कल्पे चातुर्द्वीपिका बलिष्ठा नाम भविष्यति, इमं बुद्धक्षेत्रमशीतिवर्षसाहस्रिकायां प्रजायां बोधिमभिप्रप्स्यसि, रत्नकूटो नाम तथागतो भविष्यसि यावद्बुद्धो भगवान्"।



स आह - "यदि मे भदन्त भगवन्नेवंरूपा आशा परिपूर्येत तदिह सर्वत्रारामे लोहितमुक्तिः प्रवर्षतु, सर्ववृक्षेभ्यश्च पञ्चाङ्गिकं तूर्यं निश्चरतु"। यदा च कुलपुत्र समुद्रेश्वरभुविर्माणवको रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ वन्दति तदा सर्वत्रारामे लोहितमुक्तिमयवर्षं प्रवर्षितं, सर्ववृक्षेभ्यश्च पञ्चाङ्गिकं तूर्यं निश्चरितं।



रत्नगर्भस्तथागत आह -

"उत्तिष्ठ स्थामवर अक्षयप्रज्ञाकोषा

सत्त्वानुकंपक हितेषिण मैत्रचित्ता।

अभिप्राय तुभ्य परिपूर्यतु शुद्ध

सत्त्वान अर्थकरु भेष्यसि बुद्ध लोके"॥



द्वितीयश्च ब्राह्मणस्य पुत्रः संभवो नाम, स एवं वदति यथा समुद्रेश्वरभुविः। रत्नगर्भस्तथागत आह - "त्वमपि माणवोत्पलसन्तीरणे कल्पोऽस्यां चातुर्द्वीपिकायां लोकधातौ बलिष्ठे बुद्धक्षेत्रे वर्धमानाशीतिवर्षसाहस्रिकायां प्रजायां वैरोचनकुसुमो नाम तथागतो भविष्यसि यावद्बुद्धो भगवान्"।



पेयालं, तृतीयस्त्वाह - "द्विवर्षसहस्रस्य ज्योतिगन्धो नाम भविष्यसि यावद्बुद्धो भगवान्"। व्याकरणं पेयालं, एवं सुमनस्तथागतः शैलराजा संवृतलोचनो ब्रह्मोत्तरो जम्बूच्छायः पूर्णमुत्तरो रत्नशैलः समुद्रगर्भो नारायणः शिखी कनकमुनिर्मुनीन्द्रः कौण्डिन्यः सिंहविक्रमो ज्ञानध्वजो बुद्धश्रवोऽपराजितो विकसितोज्जयो हितेषी प्रज्ञावभासो महेन्द्रः शान्तप्रज्ञाकरो नन्दो न्यग्रोधराजः कनकलोचनः सहितः सूर्यनन्दिः रत्नशिखी सुमेत्रो ब्रह्मः सुन्दो ब्रह्मर्षभः प्रणादो धर्मचन्द्रः अर्थदर्शी यशोनन्दी यशोत्तरः अभिरूपः सुगन्धश्चतुरः प्रवरलोचनः सुनिजस्तः सार्थव्रतः सुमनोरथो वरप्रज्ञः कनकध्वजः सुनेत्रो देवशुद्धः शुद्धोदनः सुदर्शनः विरूढध्वजो विरूपाक्षो ब्रह्मस्वरः श्रीसंभवः श्रीमहाविरजो मणिभद्रः मारीचिः शाक्यमुनिर्घोषेश्वरः सत्यसंभवः श्रेष्ठः संभवपुष्पः सुकुसुमः अक्षोभ्यः सूर्यगर्भो रतीश्वरो नागदन्तो वज्रप्रभासः कीर्तिराजा व्याघ्ररश्मिः सनेत्यज्ञानसंभवः गन्धस्वरः सालेन्द्रः नारायणगतः ज्योतिगर्भः। यस्तु तत्र कुलपुत्र सर्वपश्चिमकः पुरोहितपुत्रः विगतभ्यसंतापो नाम, स रत्नगर्भस्य तथागतस्य पुरुतः स्थित्वाह। "इमे भदन्त भगवन्नेकोनाशीतिर्माणवकाः सर्वे व्याकृता उत्पलसंतीरणे कल्पे वर्धमानद्वयेऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते। उत्पादयाम्यहं भगवन्ननुत्तरायां सम्यक्संबोधौ चित्तं, क्षीयमाणे भदन्त भगवन्नुत्पलसंतीरणे कल्पे सर्वपश्चिमकोऽहं वराग्रबोधिं स्पृशेयं। यान्तकं तेषामेकोनाशीतीनां बुद्धानामायुःप्रमाणं तान्तकं ममैकस्य बोधिप्राप्तस्य भवेत्। यान्तकाश्च तेषां वैनेया भवेयुस्तान्तका ममैकस्य भवेयुः, यथा च ते त्रिभिर्यानैर्धर्मं देशयेयुः, यथा च तेषां श्रावकसङ्घो भवेत्, तान्तको मम बोधिप्राप्तस्य एकश्रावकसङ्घो भवेत्। ये च तेषामेकोनाशीतीनां बुद्धानामुत्पन्नानां सत्त्वास्तस्मिन्नुत्पलसंतीरणे कल्पे मनुष्यलाभं प्रतिगृह्णीयुः, क्षीयमाणे कल्पेऽहमनुत्तरां सम्यक्संबोधिमभिसंबुद्धः सर्वांस्तान् सत्त्वांस्त्रिभिर्यानैर्नियतां व्यवस्थापयेयं। यदि मे भदन्त भगवन्नेवंरूपा आशा परिपूर्येत तद्व्याकुरुष्व मां भदन्त भगवन्ननुत्तरायां सम्यक्संबोधौ"।



अथ खलु कुलपुत्र रत्नगर्भस्तथागतो विगतभयसंतापस्य साधुकारमदात्। "साधु साधु सत्पुरुष, गणनातिक्रान्तानां सत्त्वानां कारुणिकहितकरश्चोत्पन्नो, भविष्यसि त्वं माणवकानागतेऽध्वन्यतिक्रान्त एकगङ्गानदीवालिकासमेऽसंख्येयेऽनुप्रविष्टे द्वितीये गङ्गानदीवालिकासमेऽसंख्येये तत्रोत्पलसंतीरणे कल्पे क्षीयमाणे सर्वपश्चिमकस्त्वमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, विगतरजसमुद्गताभ्युद्गतराजा नाम तथागतो भविष्यसि यावद्बुद्धो भगवान्। यथा च तेषामेकोनाशीतीनां बुद्धानामर्धकल्पमायुर्भविष्यति, एवं तवैवैकस्यायुरर्धकल्पं भविष्यति। यावत् सर्वे ते त्वत्प्रणिधानाः संपत्स्यन्ते यथा प्रणिधानं कृतं"।



स आह - "यदि मे भदन्त भगवन्नेवंरूपा आशा परिपुर्येत यदाहं भगवतः पञ्चमण्डलेन पादौ वन्दामि तदा सर्वत्रास्मिन् बुद्धक्षेत्रे नीलकुसुमाः प्रवर्षन्तु परमसुगन्धा, ये च सत्त्वास्तं गन्धमाघ्रायेयुः तेषां सर्वेषां धातवः प्रसन्ना अविरुद्धा भवेयुः, सर्वेषां च सर्वव्याध्यः प्रशाम्येयुः। यदा च कुलपुत्र विगतभयसंतापो माणवो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ वन्दति तदा सर्वत्र तस्मिन् बुद्धक्षेत्रे नीलकुसुमवृष्टिः प्रवर्षिता, ये च सत्त्वास्तं गन्धं घ्रातवन्तस्तेषां सर्वे धातवः समा अविरुद्धाः संस्थिताः, सर्वे च तत्र सत्त्वा अरोगा अल्पाबाधाश्च संवृत्ताः।



रत्नगर्भस्तथागत आह -

"उत्तिष्ठ करुणव्रतदान्तचित्ता

पूजयिष्यसि बहव लोकनाथान्।

छेत्स्यसि दृढां शठक्लेशबन्धनां

भविष्यसे शुभवरप्रज्ञकोशः"॥



तस्य च कुलपुत्र ब्राह्मणस्य त्रयः कोट्योऽन्तवासिनामारामद्वारे निषण्णास्ते आगतां सत्त्वांस्त्रिशरणगमने स्थापयन्ति, बोधाय च समादापयन्ति।



अथ खलु समुद्ररेणुर्ब्राह्मणस्तां शिष्यानामन्त्रयते स्म। "उत्पादयथ भो माणवका अनुत्तरायां सम्यक्संबोधौ चित्तं, गृह्णथ बुद्धक्षेत्रगुणां यादृशानाकाङ्क्षथ, कुरुत भगवतः सकाशे प्रणिधानं यादृशमेवाकाङ्क्षथ"।



तत्र ज्योतिक्षभको नाम माणवः, स आह - "कीदृशेन मार्गेण कीदृशेन संभारेण कीदृश्या चर्यया कीदृश्या संऋत्या बोधिर्लभ्यते?"। पुरोहित आह - "चत्वार इमे माणवका बोधिमार्गप्रतिपन्नेन बोधिसत्त्वेनाक्षयकोशाः समुदानयितव्याः। कतमे चत्वारः?" अक्षयः पुण्यसंभारः, अक्षयो ज्ञानसंभारः, अक्षयः प्रज्ञासंभारः, अक्षयः सर्वधर्नसमुदानयनसंभारः। ईदृशः कुलपुत्र मार्गः। उक्तं चैवं माणव तथागतेन संभारविशुद्धिसङ्ग्रहो नाम संसारोत्तरणधर्मद्वारं; दानसंभारं बोधिसत्त्वा ये परित्यजन्ति, स च वैनेयसत्त्वपरिपाचनाय संवर्तते; शीलसंभारो बोधिसत्त्वानां प्रणिधानपूर्यै संवर्तते; क्षान्तिसंभारो बोधिसत्त्वानां लक्षणानुव्यञ्जनपरिपूर्यै संवर्तते; वीर्यसंभारो बोधिसत्त्वानां सर्वकामकरणाय संवर्तते; ध्यानसंभारो बोधिसत्त्वानामाजानेयचित्ततायै संवर्तते; प्रज्ञासंभारो बोधिसत्त्वानां सर्वक्लेशपरिज्ञायै संवर्तते; श्रुतसंभारो बोधिसत्त्वानामसङ्गप्रतिभानतायै संवर्तते; पुण्यसंभारो बोधिसत्त्वानां सर्वसत्त्वोपजीव्यतायै संवर्तते; ज्ञानसंभारो बोधिसत्त्वानामसंशयज्ञानतायै संवर्तते: शमथसंभारो बोधिसत्त्वानां कर्मणचित्ततायै संवर्तते; विपश्यनासंभारो बोधिसत्त्वानां विगतकथंकथायै संवर्तते; मैत्रीसंभारो बोधिसत्त्वानामप्रतिहतचित्ततायै संवर्तते; करुणासंभारो बोधिसत्त्वानां वैनेयाखेदतायै संवर्तते; मुदितासंभारो बोधिसत्त्वानाम् धर्मारामरतिरमणतायै संवर्तते; उपेक्षासंभारो बोधिसत्त्वानामनुनयप्रतिघप्रहाणतायै संवर्तते; धर्मश्रवणसंभारो बोधिसत्त्वानां निवरणप्रहाणाय संवर्तते; नैष्क्रम्यसंभारो बोधिसत्त्वानां सर्वपरिग्रहावसरणतायै संवर्तते; अरण्यवाससंभारो बोधिसत्त्वानां कृतकुशलमूलकर्माविप्रणाशतायै संवर्तते; कुशलवृद्धिभावनतासंभारो बोधिसत्त्वानां सर्वकुशलतायै संवर्तते; स्मृतिसंभारो बोधिसत्त्वानां धारणीप्रतिलाभतायै संवर्तते; मतिसंभारो बोधिसत्त्वानां बोधिप्रभेदनतायै संवर्तते; धृतिसंभारो बोधिसत्त्वानामर्थगत्यनुबुध्यनतायै संवर्तते; स्मृत्युपस्थानसंभारो बोधिसत्त्वानां कायवेदनाचित्तधर्मप्रत्यवेक्षणतायै संवर्तते; सम्यक्प्रहाणसंभारो बोधिसत्त्वानां सर्वकुशलधर्मभावनापरिपूरणाय संवर्तते; ऋद्धिपादसंभारो बोधिसत्त्वानां कायचित्तलघुतायै संवर्तते; इन्द्रियसंभारो बोधिसत्त्वानां संवरपरिपूर्यै संवर्तते; बलसंभारो बोधिसत्त्वानां सर्वक्लेशावमर्दनतायै संवर्तते; बोध्यङ्गसंभारो बोधिसत्त्वानां धर्मस्वभावावबोधनतायै संवर्तते; षट्परायणीयसंभारो बोधिसत्त्वानां वैनेयसत्त्वपरिशोधनतायै संवर्तते। अयं माणवकाः संभारविशुद्धिमुखसंग्रहो नाम संसारोत्तरणधर्मद्वारं"। स आह - "दानसंभारो भगवता महाभोगमहापरिवारतायायुक्तः, शीलं स्वर्गोपपत्तये, श्रुतं महाप्रज्ञतायै; श्रद्धाजीवभावना भगवता स्वंसारोत्तरणार्थं निर्दिष्टा"। पुरोहिता आह - "ये माणवाः संसाराभिरता दानं ददन्ति, एवमेतद् यथोक्तं। ये माणवक कुलपुत्रा वा कुलदुहितरो वा बोधिमार्गप्रतिपन्नास्तैर्दानं दमचित्ततया दातव्यं, शीलं शमथचित्ततया रक्षितव्यं, श्रुतमकलुषचित्ततया पर्येषितव्यं, भावना महाकरुणाचित्ततायै भावयितव्या, परिशेषा धर्माः प्रज्ञाज्ञानोपायसंभारसमुदानयतायै पर्येष्टव्याः। अयं माणवका बोधिमार्गः। ईदृशेन संभारेण बोधिर्लभ्यत इति, ईदृशी भावना, ईदृशी स्मृतिः, ईदृशी माणवका बोधिमार्गचर्या; जनयत माणवका बोधौ छन्दं। शुद्धो माणवका बोधिमार्ग आशयेन प्रणिधानं कर्तव्यं परिपूर्यते; प्रसन्नो माणवका बोधिमार्ग आशयविशुद्ध्या; ऋजुका माणवका बोधिमार्ग अशठ्यविशुद्धिक्लेशप्रवाहणतया; योगक्षेमो माणवका बोधिमार्गः अनुत्तरनिर्वाणपर्यवसानः। कुरुत प्रणिधानं, गृह्णत बुद्धक्षेत्रगुणव्यूहं परिशुद्धमपरिशुद्धं वा यथाभिप्रेता"।



अथ खलु कुलपुत्र ज्योतिक्षभको माणवको रत्नगर्भस्य तथागतस्याग्रतो दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्याह। "उत्पादयाम्यहं भदन्त भगवन्ननुत्तरायां सम्यक्संबोधौ चित्तं। अस्मिं क्लिष्टे बुद्धक्षेत्रे मण्डरागाणां सत्त्वानां मण्डद्वेषाणां मण्डमोहानां अस्खलितालुडितचित्तानां अवैरचित्तानां ईर्ष्यामात्सर्यचित्तविवर्जितानां मिथ्यादृष्टिपरिवर्जितचित्तानां सम्यग्दृष्टिव्यवस्थितचित्तानां कुशलचित्तानां कुशलपर्येष्टिचित्तानां अपायपथविवर्जितचित्तानां त्रिःस्वर्गपथोद्युक्तचित्तानां त्रिभिः पुण्यक्रियावस्तुभिः समुदानीतकुशलमूलानां त्रिषु यानेषु प्रयुक्तचित्तानामनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं। यदि मे भदन्त भगवन्नेवंरूपा आशा परिपूर्येत तदा मे उभयोः पाण्योर्हस्तिनागाः प्रादुर्भवन्तु"। सहप्रव्याहृते वाक्ये भगवतोऽनुभावेन उभयोः पाण्योर्हस्तिनागाः प्रादुर्भूताः सर्वश्वेताः सप्ताङ्गसुप्रतिष्ठिताः। दृष्ट्वा आह - "गच्छत यूयं गगनतलं। सर्वावन्तमिदं बुद्धक्षेत्रमष्टाङ्गोपेतेन वर्षेण परमसुगन्धेन सर्वसत्त्वानितो बुद्धक्षेत्रात् प्रबोधयत। येषां सत्त्वानां काये ततो बिन्दु निपते ये वा गन्धमाजिघ्रेयुस्तेषां पञ्चनीवरणाः प्रहीयन्तु; तद्यथा कामच्छन्दनीवरणं प्रहीयतु, व्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सानीवरणं प्रहीयतु"। सहप्रव्याहृते वाक्ये नागा उपर्यन्तरीक्षे एवंरूपेण जवेन गच्छन्ति, तद्यथापि नाम बलवान् पुरुषः प्रसारितां बाहु संकोचयेत् संकोचितं बाहु प्रसारयेत्। एवमेव ते हस्तिनागाः कृतकार्या यथा पूर्वोक्तं विवर्त्तित्वा तस्याग्रतः स्थिताः।



अथ खलु कुलपुत्र ज्योतिक्षभो माणवकः परमप्रीतिमनाः; तं रत्नगर्भस्तथागत आह - "भविष्यसि त्वं कुलपुत्रानागतेऽध्वनि अनुप्रविष्टे द्वितीये गङ्गानदीवालिकासमेऽसंख्येये रत्नप्रभासे कल्पे रत्नसञ्चयं नाम बुद्धक्षेत्रं भविष्यति, अस्मिं चातुर्द्वीपिके रत्नच्छत्राभ्युद्गतरश्मिर्भविष्यसि तथागतो यावद्बुद्धो भगवान्"। अथ कुलपुत्र ज्योतिक्षभो बोधिसत्त्वो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ शिरसा निपपात।



रत्नगर्भस्तथागत आह -

"उत्तिष्ठ विगतरजा शुद्धसत्त्वा

व्याकृत बहुसत्त्वकोटीः सा।

भविष्यसि वरशुद्धमार्गः बोधये

भविष्यसि वरजिनः सत्त्वनायकः"॥



पेयालं, सहस्रो माणवकानां त्रयः कोट्यो माणवकानां यैरस्मिन् बुद्धक्षेत्रेऽनुत्तरायां सम्यक्संबोधौ प्रणिधानं कृतं; सर्वे च ते रत्नगर्भेण तथागतेन व्याकृताः, यावद्विपश्यी शिखी विश्वभुवः पश्चिमा बुद्धा बभूवुः। सर्वे माणवका व्याकृताः।



तत्र सहस्रवेदपाठकानां ब्राह्मणानां यस्तेषां ज्येष्ठः गुरुसंमतो वायुविष्णुर्नाम। स आह - "अहं पुनः पञ्चकषाये बुद्धक्षेत्रेऽनुत्तरां सम्यक्संबोधिं स्पृश्येयं। तीव्ररागानां तीव्रद्वेषाणां तीव्रमोहानां सत्त्वानां धर्मं देशयेयं"।



ज्योतिपालो नाम माणवकः। स आह - "किमर्थवशं समनुपश्यमानोऽयं भो उपाध्याय वायुविष्णुः पञ्चकषाये बुद्धक्षेत्रे प्रणिदधाति?"। पुरोहित आह - "सकलमहाकरुणासमन्वागतो बोधिसत्त्वः पञ्चकषाये बुद्धक्षेत्रे बोधिमनुप्राप्नोति; अत्राणानामपरायणानां क्लेशैरुपद्रुतानां दृष्टिव्यसनप्राप्तानां सत्त्वानामर्थकरो भवति; त्राणम् परायणं भवति; जन्मसमुद्राच्च सत्त्वान् उत्तारयति; सम्यग्दृष्ट्यां च सत्त्वान् प्रतिष्ठापयति; निर्वाणामृतरसेन सत्त्वान् संतर्पयति। इयं बोधिसत्त्वस्य महाकरुणा दृश्यत ये पञ्चकषाये बुद्धक्षेत्रे प्रणिदधन्ति"।



रत्नगर्भस्तथागत आह - "भविष्यसि त्वं वायुविष्णो अतिक्रान्तानामेकगङ्गानदीवालिकासमानामसंख्येयानामवशिष्टे द्वितीये गङ्गानदीवालिकासमेऽसंख्येये पुरस्तिमायां दिशायां बुद्धक्षेत्रपरमाणुरजःसमानि बुद्धक्षेत्राण्यतिक्रमित्वा तत्र कषायध्वज नाम लोकधातुर्भविष्यति। तत्र त्वं सत्पुरुषानुतरां सम्यक्संबोधिमभिसंभोत्स्यसे, शालेन्द्रराजो नाम तथागतो भविस्यसि यावद्बुद्धो भगवान्"। वायुविष्णुराह - "यदि मे भदन्त भगवन्नेवंरूपा आशा परिपूर्येत यदाहं भगवतः पञ्चमण्डलेन पादौ वन्दे तदा मे भगवान् छतपुण्यलक्षणालङ्कृतावुभौ चरणौ मूर्ध्नि स्थापयतु"।



यदा कुलपुत्र वायुविष्णुर्माणवो भगवतः पादयोः शिरसा निपपात तदा रत्नगर्भस्तथागतः उभौ चरणौ वायुविष्णोर्बोधिसत्त्वस्य मूर्ध्नि स्थापयित्वाह -



"उत्तिष्ठ करुणाशय तीक्ष्णप्रज्ञ

चराहि चर्या वरबोधिकारणात्।

छिन्दाहि धिरादृधक्लेशबन्धनं

भेष्यसि बुद्ध हितानुकम्पी"॥



अथ खलु कुलपुत्र ज्योतिपालो माणवको रत्नगर्भस्य तथागतस्य दक्षिणं जानुमण्डलं पृथ्व्यां प्रतिष्ठाप्याह - "उत्पादयाम्यहं भदन्त भगवन्ननुत्तरायां सम्यक्संबोधौ चित्तं। अस्मिन् बुद्धक्षेत्रे रागद्वेषमोहसभागचित्तानामव्यवस्थितकुशलाकुशलाशयानां सत्त्वानां चत्वारिंशद्वर्षसहस्रायुष्कायां प्रजायामनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं'। रत्नगर्भस्तथागत आह - 'अतिक्रान्तानां एकगङ्गानदीवालिकासमानामसंख्येयानां अवशिष्टे द्वितीये सहा नामायं लोकधातुर्भविष्यति। केन कारेणेन सहेत्युच्यते?' सहास्ते सत्त्वा रागस्य सहास्ते द्वेषस्य सहास्ते मोहस्य सहास्ते क्लेशबन्धनानां, तेन कारेणेन सा लोकधातुः सहेत्युच्यते। तत्र सहायां लोकधातौ भद्रको नाम भविष्यति महाकल्पः। केन कारणेनोच्यते भद्रक इति?। भद्रके महाकल्पे रागद्वेषमोहचरितानां सत्त्वानां सहस्रं महाकारुणिकानां बुद्धानां भगवतामुत्पत्स्यते। त्वमपि सत्पुरुषानुप्रविष्टे भद्रके महाकल्पे चत्वारिंशद्वर्षसाहस्रिकायां प्रजायां सर्वप्रथममनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, क्रकुत्सन्दो नाम भविष्यसि तथागतो यावद्बुद्धो भगवांस्त्रिभिर्यानैर्धर्मं देशयिष्यसि, गणनातिक्रान्तान् सत्त्वान् संसारनद्यामुह्यमानानुत्तारयिष्यसि, निर्वाणपारे च स्थापयिष्यसि'। अथ खलु कुलपुत्र ज्योतिपालो बोधिसत्त्वो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ शिरसा वन्दित्वैकान्तेऽतिक्रम्य तस्थौ।



अथ खलु कुलपुत्र द्वितीयस्तुम्बुरुर्नाम माणवको रत्नगर्भस्य तथागतस्य पुरतो निषण्णः। "भविष्याम्यहं भदन्त भगवन् क्रकुत्सन्दस्य तथागतस्यानुसंधौ त्रिंसद्वर्षसहस्रायुष्कायां प्रजायां बुद्धो लोके"। रत्नगर्भस्तथागत आह - "भविष्यसि त्वं माणवकातिक्रान्त एकगङ्गानदीवालिकासमेऽसंख्येयेऽवशिष्टे द्वितीये नदिगङ्गावालिकासमेऽसंख्येये सहे बुद्धक्षेत्रेऽनुप्रविष्टे भद्रकल्पे क्रकुत्सन्दस्य तथागतस्यानुसंधौ त्रिंशद्वर्षसाहस्रिकायां प्रजायां कनकमुनिर्नाम तथागतो भविष्यसि अर्हन् सम्यक्संबुद्धो विघुष्टशब्दो लोकस्य"। स भगवतः सकाशाद्व्याकरणं श्रुत्वा रत्नगर्भस्य तथागतस्य पादौ शिरसा वन्दित्वा प्रदक्षिणीकृत्वा रत्नगर्भस्य तथागतस्याभिमुखमास्थात्, पुष्पैर्भगवतः कायमवकिरमाणः प्रञ्जलिभूतो भगवन्तं गाथाभिस्तुष्ठाव।



"सुसहित सुमुदित सुमधुर वचना

अस्खलित अलुडित अकलुष विमला।

अभिशय अतियति अतिमति मतिमा

ऋषिवर ज्वल तुम मुनिवर वृषभी॥

बहु तुम गुणदद गुणशत भरिता

सुखकर मुनिवर नरमनु नमिता।

न हि अन्यु सत्त्व विद्यति त्वयि समु तृभवे

त्वयि अद्यि बहुसत्त्व बोधिमार्गि व्याकृता"॥



अथ खलु कुलपुत्र विश्वगुप्तो नाम माणवको रत्नगर्भस्य तथागतस्य पुरतः सप्तरत्नमयं पीठं स्थापयित्वा शतसहस्रमूल्येन प्रज्ञपनेन प्रज्ञप्य, तत्र पीठे सुवर्णपात्रं स्थापयित्वा सप्तरत्नपरिपूर्णसुवर्णमयं भृङ्गारं सप्तरत्नमया यष्टिर्बुद्धप्रमुखे भिक्षुसङ्घे नियोजितवान्। स आह - "भविष्याम्यहं भदन्त भगवन्ननागतेऽध्वन्यतिक्रान्त एकगङ्गानदीवालिकासमेऽसंख्येयेऽवशिष्टे द्वितीये तस्मिंश्च भद्रकल्पे तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नो हीयमाने आयुषि उत्पन्ने कलियुगनिमित्ते तीव्ररागद्वेषमोहमानेर्ष्यामात्सर्यपर्युत्थितानां सत्त्वानां मिथ्यादृष्ट्यकल्याणमित्रसन्निश्रितानां सत्त्वानामकुशलमूलपर्युत्थितचित्तानां कुशलमूलपरिहीणचित्तानां सम्यग्दृष्टिविवर्जितचित्तानां मिथ्याजीवाकुशलचित्तानां, परिनिर्वृते कनकमुनौ तथागते सद्धर्मेऽन्तर्हितेऽन्धे लोकेऽनायके विंशतिवर्षसहस्रिकायां प्रजायां अहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं"।



तस्य कुलपुत्र विश्वगुप्तस्य ब्राह्मणस्य रत्नगर्भस्तथागत आह - "साधु साधु ब्राह्मण महाविद्वान् ज्ञानसमन्वागतः, त्वं सत्पुरुषोत्पन्ने कलियुगनिमित्ते यावद्विंशतिवर्षसहस्रिकायां प्रजायामन्धे लोकेऽनायके प्रणिधानं कृतं। तेन त्वं सत्पुरुष विद्वगञ्जकरुणाश्रयो नाम भवस्व। भविष्यसि त्वं विद्वगञ्जकरुणाश्रयानागतेऽध्वन्यतिक्रान्तानामेकगङ्गानदीवालिकासमानामवशिष्टे द्वितीये सहायां लोकधातौ अनुप्रविष्टे भद्रके कल्पे विंशतिवर्षसहस्रिकायां प्रजायां काश्यपो नाम तथागतो भविष्यसि यावद्बुद्धो भगवान्"।



अथ खलु कुलपुत्र विद्वगञ्जकरुणाश्रयो बोधिसत्त्वो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ शिरसा वन्दित्वैकान्तेऽस्थात्, रत्नगर्भं तथागतं पुष्पमाल्यगन्धचूर्णैरवकिरति, आभिश्च गाथाभिरभिस्तवमानः।



"नरवर हितकर रतिकर जनक

स्मितमुख प्रमुदित सुमधुर वचना।

स्थानज्ञान कुशल हितकरा दशबलधर प्रवरा

ज्ञानध्यानविमोक्षपारमिता नमोऽस्तु ते सुगते॥



बहुचर्यचरित विकसितवदना

अतुलाय बोधिय व्याकृता।

त्वया बहुबोधिसत्त्वनयुता

वन्दाम ते नरवरा सुगता"। इति॥



अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणश्चतुर्थं विमलवैशायनं माणवकं संचोदयां आस। अथ खलु कुलपुत्र विमलवैशायनो माणवको रत्नगर्भस्य तथागतस्य पुरतः स्थित्वाह - "एवमेवाहमस्मिन् भद्रके कल्पे बोधिमाकाङ्क्षामि, न च केवलमेवंरूपं कलियुगे। यथा काश्यपस्य तथागतस्य परिनिर्वृतस्य दशवर्षसहस्रिकायां प्रजायां दानदमपरिक्षीणाशयानां सत्त्वानां सप्तधनविरहितानां अकल्याणमित्रे शास्तृसंज्ञाप्रतिपन्नचित्ता भवन्ति, अनर्थिकास्त्रिभिः पुण्यक्रियावस्तुभिर्भवन्ति, विरहितास्त्रिभिः सुचरितैरुद्युक्तास्त्रिषु दुष्चरितेषु क्लेशान्धकारव्याकुलचित्ता भवन्ति, अनर्थिकास्त्रिभिर्यानैर्न शक्यं तत्कालं केनचिद्बोधिचर्यां निष्पादयितुं। किं पुनर्वर्षसहस्रिकायां; यावत्ते सत्त्वा वर्षशतायुष्का भवन्ति, तत्कालं सत्त्वानां कुशलमूलस्य नास्ति नाम, किं पुनः कुशलमूलचर्या; तावत् पञ्चकषाये लोके हायमाना दशवर्षायुष्का भवन्ति, शस्त्रान्तरकल्पे प्रत्युपस्थिते तत्कालमहं देवेभ्योऽवतीर्य सत्त्वान् परित्रायेयं, अकुशलं रिञ्चित्वा कुशले नियोजयेयं, यावद्दशसु कुशलेषु कर्मपथेषु सत्त्वान् प्रतिष्ठापयेयं, क्लेशांश्च सत्त्वानां कुशलेभिः कर्मपथेभिः परिशोधयेयं, पञ्चकषायं च परिहायेयं। यावदशीतिवर्षसहस्रिकायां प्रजायां अहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं, मन्दरागद्वेषमोहानां अविद्येर्ष्यामत्सरिणां सत्त्वानां धर्मं देशयेयं, त्रिषु च यानेषु संनियोजयेयं। यदि मे भगवन्नेवंरूपा आशा परिपूर्येत व्याकरोतु मां भदन्त भगवन्ननुत्तरायां सम्यक्संबोधौ। यदाहं भदन्त भगवन्नेवंरूपं व्याकरणं न लप्स्यामि, न श्रावकभूमिं प्रार्थयामि न च प्रत्येकबुद्धभूमिं येन यानेन शीघ्रं संसाराद्विमुच्यामि"।



रत्नगर्भस्तथागत आह - "चत्वारीमानि ब्राह्मण बोधिसत्त्वानां कुशीदवस्तूनि; यैः कुशीदवस्तुभिः समन्वागता एकत्या बोधिसत्त्वा दीर्घसंसारलाभिनो दृष्टिप्रपाते संसारचारके दुःखान्यनुभवन्ति, न च क्षिप्रमनुत्तरां सम्यक्संबोधिमनुप्राप्नुवन्ति। कतमानि चत्वारि?। इहैकत्यो बोधिसत्त्वो हीनाचारो भवति, हीनसहायः, हीनपरित्यागः, हीनप्रणिधिः। कथं च बोधिसत्त्वो हीनाचारो भवति? इहैकत्यो दुःशीलो भवति, कायवाङ्मनसा चासंवृतचारी भवति, श्रावकप्रत्येकबुद्धयानिकैः सार्धं संसर्गचारी भवति, न च सर्वपरित्यागी न सर्वत्रपरित्यागी भवति, देवमनुष्यश्रीसुखाभिलाषी दानं ददाति, न चाध्याशयेन बुद्धक्षेत्रगुणव्युहान् प्रतिगृह्णाति वैनेयमनवेक्ष्य प्रणिधानं प्रतिगृह्णाति। एभिश्चतुर्भिर्धर्मैः समन्वागतः कुशीदो बोधिसत्त्वः चिरं संसारचारके दुःखमनुभवति, न च क्षिप्रमनुत्तरां सम्यक्संबोधिमनुप्राप्नोति।



चतुर्भिर्धर्मैः समन्वागतो बोधिसत्त्वः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्यते। कतमैश्चतुर्भिः? शीलवान् भवति कायवाङ्मनः संवृतचारी, महायानसंप्रस्थितैः सार्धं संसर्गचारी भवति, सर्वपरित्यागी सर्वत्रपरित्यागी सत्त्वानां दुःखपरिमोचनार्थं करुणाचित्तोत्पादं ददाति, अध्याशयेन बुद्धक्षेत्रगुणव्यूहान्वैनेयं अवेक्ष्य प्रणिधानं प्रतिगृह्णाति। एभिश्चतुर्भिर्धर्मैः समन्वागतो बोधिसत्त्वः क्षिप्रमनुत्तरां सम्यक्संसंबोधिमभिसंबुध्यते।



चत्वार इमे धर्मा बोधिसत्त्वमार्गस्योपस्तम्भकराः। कतमे चत्वारः?। पारमितास्वभियोगः, सत्त्वानां संग्रहवस्तूत्सर्गः, ब्रह्मविहाराभिनिष्पादनता, अभिज्ञाविक्रीडनाता। चतुर्भिर्धर्मैर्बोधिसत्त्वेनातृप्तविहारिणा भवितव्यं, दानातृप्ततया धर्मश्रवणातृप्ततया भावनातृप्ततया सत्त्वेभ्यः सङ्ग्रहवस्त्वतृप्ततया विहरतव्यं। चत्वार इमे बोधिसत्त्वेनाक्षया निधयः परिपूरयितव्याः। कतमे चत्वारः? श्रद्धा बोधिसत्त्वेनाक्षयो निधिः परिपूरयितव्यः, धर्मदेशना परिणामना दरिद्रसत्त्वपरिग्रहश्चाक्षयो निधिः परिपूरयितव्यः। चतस्र इमा बोधिसत्त्वपरिशुद्धिः। कतमाश्चतस्रः? नैरात्म्यतया शीलपरिशुद्धिः, निःसत्त्वतया समाधिपरिशुद्धिः, निर्जीवतया प्रज्ञापरिशुद्धिः, निष्पुद्गलतया विमुक्तिपरिशुद्धिः विमुक्तिज्ञानदर्शनतया च। चत्वारो धर्मा बोधिसत्त्वेन परिपूरयितव्याः, यैर्बोधिसत्त्वाः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ति, आकाशचक्रं प्रवर्तयन्ति, अचिन्त्यचक्रमतुल्यचक्रं अनभिलाप्यचक्रं नैर्याणिकचक्रं नैर्वेधिकचक्रं अप्रवृत्तिचक्रं प्रवर्तयन्ति।



भविष्यसि त्वं विमलवैशायनानागतेऽध्वन्यतिक्रान्त एकगङ्गानदीवालिकासमेऽसंख्येयेऽचिरप्रविष्टे भद्रके कल्पे प्रशान्ते पञ्चकषाये काले वर्धमाने आयुषि अशीतिवर्षसहस्रिकायां प्रजायामनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, मैत्रेयो नाम भविष्यसि तथागतो यावद्बुद्धो भगवान्"।



अथ विमलवैशायनो ब्राह्मणो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादाभिवन्दनं कृत्वैकान्ते स्थित्वा पुष्पमाल्यचुर्णैर्भगवतः पूजोद्युक्तो गाथाभिरभिष्टौति।



"भव नाथ ललाटविशाला रुचिरोर्णा हिमवर्णा

कनकगिरिकूटा सदृशास्तु मनाथा।

कस्ते न नयु मुनि वृषभा लोकप्रदीपा गुणशतभरिता कालोऽयं मे उक्तं भवहि बुद्धजगे"॥



सर्वे समुद्ररेणुना ब्राह्मणेन पुरोहितेन सहस्रं वेदपाठकानां बोधौ समादापितां। यथा क्रकुत्सन्दः कनकमुनिः काश्यपो मैत्रेयो व्याकृत एवं सिंहः प्रद्योतः यावद्द्विरूनं सहस्रं वेदपाठकानां माणवकानां सर्वेऽस्मिन् भद्रके कल्पेऽनुत्तरायां सम्यक्संबोधौ प्रणिधानं कृतवन्तः, सर्वे रत्नगर्भेण तथागतेनास्मिन्नेव भद्रके कल्पेऽनुत्तरायां सम्यक्संबोधौ व्यवस्थापिताः।



यस्तेषां सर्वकन्यसः पुरोहितेन संचोदितः। "किं भो महाबलवेगधारी दीर्घं निरीक्षसे?। उत्पादयस्व सत्त्वेषु महाकरुणां"। इमाभिश्च गाथाभिर्विज्ञापयति।



"ये सत्त्वा जराव्याधिमृत्युभिर्भया

तृष्णा नदी पतिता।

प्रक्षिप्ता भवचारके प्रतिभयं

स्कन्धे निविष्टा नराः।

पीत्वा क्लेशविषं परस्परवधं

दुःखार्णवे संस्थिता।

मोहे अन्धे प्रणष्टमार्गे

अशुभसंसारयन्त्रे भ्रमन्।

दुःखेन जालितभूत सर्वत्रिभवेय

मिथ्याय दृष्टि स्थिताः।

सर्वप्राण भ्रमन्ति पञ्चगति-

भिश्चक्रं यथा वर्तते।

धर्मा चक्षु विहीन पञ्चगति-

भिरत्राण सत्त्वान् स्मरी।

भावे प्रज्ञ जहित्वा कङ्क्षविमति

बोधाय चन्दं जने।

तृष्णाशोकनुदो भवाहि जगतो

सत्त्वान बन्धुर्भवा।

क्लेशबन्धनमोक्षणार्थं जगतो

बोधाय चित्तं नमे।

धर्मचक्षुर्विहीन मोहविगत-

मार्गं च श्रेष्ट दद।

संसारभवचारकेषु ज्वलितां

धर्मरसेन तर्पया।

त्वं शीघ्रं उपसंक्रम्य हितकर-

पादा निपत्यं मुने।

सर्वा भो प्रणिधि प्रशस्त्र सुदृढ

बुद्धो भव नायकः।

सत्त्वश्वासकरो भवाहि जगतः

सत्त्वार्णवा उद्धरे।

मोक्षमार्गप्रणीत इन्द्रियबल-

बोध्यङ्गदाता भवेत्।

धर्मवर्षमुत्सृज धर्मजलदं

सत्त्वान दुःखं शमेत्"॥



स च कुलपुत्र महाबलवेगधारी माणवक आह -



"नाहं भो उपाध्याय संसाराभिरामां श्रीमाकाङ्क्षामि, न च पुनः श्रावकप्रत्येकबुद्धयानाभिलाशी; अनुत्तरयानमाकाङ्क्षामि। मुहूर्तं भो उपाध्याय प्रतीक्षाहि, शृणुष्व यथाहं सिंहनादं नदामि"॥



अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणस्ततोऽभिनिष्क्रम्य स्वकां पञ्चब्राह्मणदारकानुपस्थायकानामन्त्रयित्वोवाच - "भो दारका उत्पादयतानुत्तरायां सम्यक्संबोधौ चित्तं"। तेऽप्याहुः। "नास्माकं किञ्चिद् अस्ति यद् वयं बुद्धप्रमुखस्य भिक्षुसङ्घस्य निर्यातयामः। कथं च वयमनवरुप्तकुशलमूला बोधिचित्तमुत्पादयामः?"



अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणोऽग्रपुरोहितः प्रथमः करभुजो नामोपस्थायकः तस्य सप्तरत्नमयं कर्णविभूषणं दत्वा, द्वितीयः स्थालभुजो नामोपस्थायकः तस्य द्वितीयं सप्तरत्नमयं कर्णवेठकं दत्वा, तृतीयः जलभुजो नामोपस्थायकस्तस्य सप्तरत्नमयं पीठं ददाति, चेतुर्थः वेगभुजो नामोपस्थायकस्तस्य सप्तरत्नमयं दण्डं ददाति, पञ्चमः सारभुजो नामोपस्थायकस्तस्य सर्वसौवर्णभृङ्गारं दत्वोवाच। "गच्छत यूयं माणवका इमानि वस्तूनि बुद्धप्रमुखस्य भिक्षुसङ्घस्य निर्यातयित्वानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयथ"।



अथ ते पञ्चोपस्थायका गत्वा भगवत्सकाशं तानि वस्तुनि यथा निक्षिप्तानि बुद्धप्रमुखस्य भिक्षुसङ्घस्य निर्यातयित्वैवमाहुः। "व्याकरोत्वस्माकं भगवाननुत्तरायां सम्यक्संबोधौ, तस्मिंश्च भद्रके कल्पे वयेमनुत्तरां सम्यक्संबोधिमभिसंबुध्यमहि"। पेयालं, व्याकृताः कुलपुत्र रत्नगर्भेण तथागतेन करभुजो माणवको बोधाय भद्रकल्पे दृढस्वरो नाम भविष्यति तथागतः, स्थालभुजस्तदन्तरे सुखेन्द्रियमतिर्नाम भविष्यति तथागतः, तस्यानन्तरे जलभुजः सार्थवादिर्नाम भविष्यति तथागतः, तस्यानुसंधेः वेगभुजः प्रियप्रसन्नो नाम भविष्यति तथागतः, तस्यानुसंधेः सारभुजो नाम माणवको हरिपत्रचूडो नाम भविष्यति तथागतः।



समनन्तरव्याकृतास्ते पञ्चभद्रकल्पिका माणवकाः पुरोहितः पुनरपि महाबलवेगधारिणमाह - "महाबलवेगधारी गृह्णाहि बुद्धक्षेत्रगुणव्यूहान्, करोहि प्रणिधानं भगवतः सकाशाद्यादृशमाकाङ्क्षसि, निमन्त्रयाहि सर्वसत्त्वान् धर्मरसेन, चराहि च दृढवीर्येण स्वकं बोधिचारिकां। मा भूयो दीर्घं निरीक्षस्व"। बाहुना च गृहीत्वा भगवतोऽन्तिकमुपनीतः।



स च कुलपुत्र महाबलवेगधारी माणवको भगवतः पुरतो निषण्णश्चाह - "कियद्बहवो भगवन्ननागतेऽध्वनि मुनिभास्करा अस्मिन् भद्रकल्पे उदयन्ति?" रत्नगर्भस्तथागत आह - "तस्मिन् माणवक भद्रके कल्पे चतुरुत्तरं सहस्रं मुनिभास्कराणां उदयः। माणवक आह - "यावत्तेषां भदन्त भगवन् भद्रके महाकल्पे निर्वृतानां जिनसूर्याणां पश्चिमको सारभुजो नाम माणवकोऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते हरिपत्रचूडो नाम भविष्यति तथागत, तावच्चिरमहं बोधिसत्त्वचारिकां चरिष्यामि विविधव्रततपचर्यादानदमसंयमश्रुतवीर्यक्षान्तिसौरत्यपुण्यप्रज्ञासंभारं समुदानयमानः। सर्वेषां च भद्रकल्पिकानामचिराभिसंबुद्धानां प्रथमं पिण्डपातं दद्यां; परिनिर्वृतानां च शरीरपूजां कुर्यां; तेषां च सद्धर्मधारको भवेयं। शीलविरहितान् सत्त्वान् शीलसंपदि समादापयेयं निवेशयेयं प्रतिष्ठापयेयं; दृष्टिविरहितान् सङ्कटप्राप्तान् सत्त्वान् सम्यक्दृष्ट्यां समादापयेयं निवेशयेयं प्रतिष्ठापयेयं; एवमाशयविरहितान् सम्यगाशये प्रतिष्ठापयेयं; एवमाचारविरहितानाचारे प्रतिष्ठापयेयं; नानाविधानां सत्त्वानां कुशलचर्यां निदर्शयेयं। तेषां च बुद्धानां भगवतामचिरास्ताङ्गते सद्धर्मे पुनरहं सद्धर्मनेत्री सद्धर्मपरिग्रहं सद्धर्मस्योत्पादं सद्धर्मप्रदीपं लोके ज्वालयेयं। शस्त्रान्तरकल्पकालसमये सत्त्वान् प्राणातिपातवैरमण्यां प्रतिष्ठापयेयं यावत् सम्यग्दृष्ट्यां; दशाकुशलकर्मपथेभ्यः सत्त्वान् कुमार्गादुद्धृत्य सम्यक्पथे स्थापयेयं; दुष्चरितान्धकारं च नाशयेयं; सुचरितालोकं च निदर्शयेयं; कल्पकषायं यावच्चायुर्दृष्टिक्लेशकषायं च लोके नाशयेयं। दुर्भिक्षान्तरकल्पकालसमयेऽहं सत्त्वां दानपारमितायां नियोजयेयं यावत् प्रज्ञापारमितायां समादापयेयं निवेशयेयं; षट्पारमितास्वहं सत्त्वान् नियोजयमानः सर्वदुर्भिक्षान्धकारकलिकलुषरणवैरविग्रहविवादं शमयेयं; सत्त्वानां सन्ततौ क्लेशानलं शमयेयं। रोगान्तरकल्पकालसमये चाहं सत्त्वां षट्पारायणीयेषु समादापयेयं; चतुर्षु सङ्ग्रहवस्तुषु नियोजयेयं प्रतिष्ठापयेयं; रोगान्धकारं च सत्त्वानां विध्वंसयेयं, यावत् सत्त्वानां सन्ततौ क्लेशं प्रशमयेयं। सर्वे सहे बुद्धक्षेत्रे भद्रकल्पे सत्त्वानेवंरूपैर्व्यसनैः परिमोचयेयं। यदा चतुरुत्तरं सहस्रं बुद्धा भगवन्तो भद्रके महाकल्पे उत्पन्ना निर्वृताश्च भवेयुः, सर्वेण सर्वं च सद्धर्मनेत्री अन्तर्हिता भवेत्, ततः पश्चादहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं। यावांश्चतुरुत्तरसहस्राणां भद्रकल्पिकानां बुद्धानां भगवतामायुर्भवेत् तान्तकम् मम बोधिप्राप्तस्य दीर्घमायुर्भवेत्; यावांश्च तेषां श्रावकसङ्घो भवेत् तावान् ममैकस्य श्रावकसङ्घः स्यात्; यावतश्च ते कल्पैश्चतुरुत्तरं बुद्धसहस्रं सत्त्वान् विनियेत् तावतः सत्त्वान् अहं विनयेयं। ये च तेषां बुद्धानां भगवतां श्रावकशिक्षायां स्खलेयुर्दृष्टिप्रपाते वा प्रपतेयुर्बुद्धानां भगवतां सकाशेऽगौरवचित्ताः प्रदुष्टचित्ता भवेयुः, धर्मे सङ्घे च स्खलितचित्ता भवेयुः, रागचित्ता आर्यापवादाः आनन्तर्यकाराश्च भवेयुर्बोधिप्राप्तश्चाहं सर्वान् संसारपङ्कादुद्धरेयं, अभयपुरे च निर्वाणनगरे प्रावेशयेयं। यावन् मम परिनिर्वृतस्य सद्धर्मक्षयो न भवेत् तावद् भद्रकमहाकल्पेऽक्षयो भवेयं; निष्ठिते मम सद्धर्मे निष्ठिते भद्रकल्पे, ये मम धातवो जन्मशरीरः तेऽप्रमेयासंख्येयास्तथागतविग्रहाः संतिष्ठेरन् द्वात्रिंशद्भिर्महापुरुषलक्षणैः समलङ्कृतगात्राः, एकैकं लक्षणमशीतिभिरनुव्यञ्जनैः समलङ्कृतं भवेत्। ते च तथागतविग्रहा दशसु दिक्ष्वप्रमेयेभ्योऽसंख्येयेभ्यः शून्येभ्यो बुद्धक्षेत्रेभ्यो गत्वा एकैको बुद्धविग्रहोऽप्रमेयासंख्येयां त्रिभिर्यानैः सत्त्वान् समादापयेत् निवेशयेत् प्रतिष्ठापयेद्; यत्र बुद्धक्षेत्रेऽन्तरकल्पे न नाशो भवेत् तत्र तथागतविग्रहः सत्त्वान् परित्रायेद्यथा पूर्वोक्तं तथा पश्चाच्चिन्तामणिः प्रादुर्भवेत्; येशु बुद्धक्षेत्रेषु सत्त्वा रत्नविरहिता भवेयुः तेषु बुद्धक्षेत्रेषु गत्वा रत्नवृष्टिः प्रवर्षान्निधयश्च संदर्शयेयुः; येषु च बुद्धक्षेत्रेषु सत्त्वाः कुशलक्रियाविरहिता भवेयुः व्याधिभीः क्लिष्टास्तेषु बुद्धक्षेत्रेसु गोशीर्षोरगसारकालानुसारी गन्धवृष्टिः प्रवर्षेयुः, सा च गन्धवृष्टिः सत्त्वानां क्लेशव्याधीर्दृष्टिव्याधीः कायव्याधीश्च प्रशमयेत्; ततस्ते सत्त्वाः पुण्यक्रियावस्तुष्वभियुक्ता भवेयुः स्वर्गपरायणा भवेयुः। एवंरूपमहं भदन्त भगवन् बोधिचारिकां चरमाणः सत्त्वान् परित्रायेयं। बोधिप्राप्तश्चाहमेवंरूपं बुद्धकार्यं कुर्यां; परिनिर्वृतश्चाहमेवानन्तापर्यन्तेभ्यो बुद्धक्षेत्रेभ्यः सत्त्वान् परित्रायेयं। यदि मे भदन्त भगवन्नैवंरूपा आशा परिपूर्येता न च सत्त्वानां भैषज्यभूतो भवेयं, विसंवादिता मे बुद्धा भगवन्तो भवेयुर्ये दशसु दिक्ष्वनतापर्यन्तेषु लोकधातुषु तिष्ठन्ति ध्रियन्ति यापयन्ति सत्त्वानां धर्मं देशयन्ति, मा मे भगवान् व्याकुर्यादनुत्तरायां सम्यक्संबोधौ। येऽपि ते संप्रतिपन्नां भगवन् बहुप्राणकोट्योऽनुत्तरायां सम्यक्संबोधौ व्याकृताः सत्त्वास्तान् अहं बुद्धान् भगवतो विराधयेयं, मा चाराधयेयं, मा च मे भूयो बोधिहेतोः संसारे संसारमाणस्य बुद्धशब्दो धर्मशब्दः सङ्घशब्दः कुशलशब्दः कुशलकर्मक्रियाशब्दः श्रोत्रपथेषु निपतेत्, नित्यमहमवीचिपर्यापन्नो भवेयं, यदि मे भगवन्नैवंरूपा आशा परिपुर्येत"।



अथ रत्नगर्भस्तथागतो महाबलवेगधारिणो माणवकस्य साधुकारमदात्। "साधु साधु सत्पुरुष, भविष्यसि त्वं सत्पुरुष सत्त्वानां भैषज्यभूतः दुःखेभ्यश्च परिमोचकस्तेन त्वं सत्पुरुष भैषज्यराजज्योतिर्विमलो नाम भवस्व। भविष्यसि त्वं भैषज्यराजज्योतिर्विमलानागतेऽध्वन्येकस्मिन् गङ्गानदीवालिकासमेऽसंख्येयेऽतिक्रान्तेऽनुप्रविष्टे द्वितीये गङ्गानदीवालिकासमेऽसंख्येये भद्रके कल्पे चतुरुत्तरस्य बुद्धसहस्रस्याचिराभिसंबुद्धानां पिण्डपातं दास्यसि यावद्यथा स्वयं प्रणिधानं कृतं, निर्वृतस्य च हरिपत्रचूडभद्रस्य तथागतस्य सद्धर्मेऽन्तर्हितेऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, रोचश्च नाम तथागतो भविष्यसि यावद्बुद्धो भगवान्। अर्धकल्पं च ते आयुर्भविष्यति, यावच्च तस्य चतुरुत्तरस्य बुद्धसहस्रस्य भद्रकल्पिकानां श्रावकसङ्घो भविष्यति तावच्च तवैकस्य श्रावकसङ्घो भविष्यति, तावतश्च सत्त्वान् विनयिष्यसि। परिनिर्वृतस्य च सद्धर्मान्तर्धानं भद्रकस्य महाकल्पस्य कल्पक्षयो न भविष्यति; एतावन्तश्च बुद्धविग्रहा भविष्यन्ति, यावच्छून्येषु बुद्धक्षेत्रेषु गन्धवृष्टिः सत्त्वानां क्लेशव्याधिर्दृष्टिव्याधीः कायव्याधीश्च शमयिष्यति, त्रिषु चैव पुण्यक्रियावस्तुषु सत्त्वान् प्रतिष्ठापयिष्यन्ति स्वर्गपरायणांश्च"।



अथ खलु कुलपुत्र भैषज्यराजज्योतिर्विमलो बोधिसत्त्व आह - "यदि मे भदन्त भगवन्नेवंरूपा आशा परिपूर्येत तथा मे भगवान् सतपुण्यलक्षणालङ्कृतेन पाणिना मूर्धानां स्पर्शतु"। अथ खलु कुलपुत्र रत्नगर्भस्तथागतः शतपुण्यलक्षणालङ्कृतेन पाणिना भैषज्यराजज्योतिर्विमलस्य बोधिसत्त्वस्य मूर्धानं परिमार्जयित्वा तस्थौ। अथ खलु कुलपुत्र भैषज्यराजज्योतिर्विमलो बोधिसत्त्वस्तुष्ट उदग्र आत्तमनाः प्रमुदितचित्तो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ शिरसा वन्दितवैकान्तेऽतिक्रम्य स्थितं। समुद्ररेणुर्ब्राह्मणो दिव्येन कौशिकवस्त्रेणाच्छादयित्वोवाच। "साधु साधु सत्पुरुष, शोभनं प्रणिधानं कृतं। न भूयस्त्वया ममोपस्थानं कर्तव्यं। यथा सुखमेव विहरस्व"॥

अथ खलु कुलपुत्र समुद्ररेणोर्ब्राह्मणस्यैतदभवत् - "मया बहवः प्राणकोटीनयुतशतसहस्राण्यनुत्तरायां सम्यक्संबोधौ समादापितानि, यथेदं सर्वावन्तं पर्षदं पश्यामि सर्वैश्चेमैर्महासत्त्वैरुदारोदाराणि प्रणिधानानि कृतानि प्रसन्नानि च बुद्धक्षेत्राणि परिगृहीतानि स्थापयित्वा वायुविष्णुनान्यैर्बोधिसत्त्वैः कलियुगं परिवर्जितं। मयापि कलियुगकाले वर्तमाने सत्त्वा धर्मरसेन तर्पयितव्या, दृधश्च व्यवसायः कर्तव्यः। तथारूपेण च मया प्रणिधानेन सिंहनादो नदितव्यः। यथेयं सर्वा बोधिसत्त्वपर्षदाश्चर्यप्राप्ता भवेत्, सर्वावती चेयं पर्षा सदेवगन्धर्वमाणुषासुरश्च लोकोऽयं मां प्राञ्जलीभूतो नमस्येत पूजां च कुर्याद्। अयं च मे बुद्धो भगवान् साधुकारमनुप्रयच्छेत् व्याकुर्यात्, तथा ये च दशसु दिक्षु बुद्धा भगवन्तः तिष्ठन्ति यापयन्ति सत्त्वानां धर्मं देशयन्ति तेऽपि बुद्धा भगवन्तो मम सिंहनादं नदतः साधुकारं प्रदद्युः, व्याकुर्युश्चानुतरायां सम्यक्संबोधौ, दूतांश्च प्रेषयेयुर्यत् सर्वावतीयं पर्षत् शृणुयात् तांश्च दूतान् पश्येत्। येऽपि च तस्यां पश्चात्काले महाकरुणासमन्वागता बोधिसत्त्वास्तेऽप्येवंरूपं क्लिष्टं बुद्धक्षेत्रं महाकलियुगकाले बोधिं प्रणिधानेन प्रतिगृह्णीयुर्धर्मदुर्भिक्षकान्तारे क्लेशौघैरुह्यमानान् सत्त्वान् परित्रायेयुः, बुद्धकार्यं च कुर्युः, सत्त्वानां धर्मं देशयेयुः। यावत् परिनिर्वृतस्यापि मेऽचिन्त्याः कल्पकोटीनयुतशतसहस्रातिक्रान्ते दशसु दिक्ष्वतुल्येभ्योऽपरिमाणेभ्यश्च बुद्धक्षेत्रेभ्योऽपरिमाणा बुद्धा भगवन्तो मम परिनिर्वृतस्य वर्णं भाषेरन्, यशश्च घोषं च चारयेयुः, बोधिसत्त्वानां चाग्रतो मम प्रणिधाननेत्रीमुद्भावयेयुः। ते च बोधिसत्त्वा मम करुणापरिभाविताधिष्टानं प्रणिधानं श्रुत्वा परमाश्चर्यप्राप्ता भवेयुः, तेऽपि सत्त्वेभ्यो महाकरुणां सर्जयेयुः; ततश्च ते एवंरूपं एव प्रणिधानं प्रतिगृह्णीयुर्यथाहमेतर्हि प्रतिगृह्णामि, तेऽप्येवंरूपे क्लिष्टे बुद्धक्षेत्रे बोधिमभिसंबुध्येयुः। चतुर्भिरोघैः सत्त्वान् प्रत्युह्यमानानुत्तारयेयुः, त्रिभिश्च यानैर्विनयेयुः, यावन्निर्वाणपथे स्थापयेयुः"।



एवंरूपं कुलपुत्र समुद्ररेणुर्ब्राह्मणो अग्रपुरोहितो महाकरुणापरिभावं प्रणिधानं सर्जयित्वा, एकांशं चीवरं प्रावृत्य येन रत्नगर्भस्तथागतस्तेनोपसंक्रामति स्म। तेन खलु पुनः समयेन बहुदेवकोटीनियुतशतसहस्राणि गगनतले दिव्यानि तूर्यकोटीनियुतशतसहस्राणि वाद्यन्ति पुष्पवृष्टिश्च प्रवर्षिता, एककण्ठेन चोदाहरन्ति। "साधु साधु सत्पुरुष, उपसंक्रम त्वं भगवतः सकाशं। गृह्ण त्वं प्रवरप्रणिधानं। क्लेशव्याकुले लोके प्रशमयिष्यसि दुःखस्कन्धं सत्त्वानां ज्ञानतोयेन प्रशमयिष्यसि"। सर्वावती सा पर्षत्प्राञ्जलीभूता अभिमुखा एककण्ठेन वदति। "साधु साधु सत्पुरुष, प्रवरपण्डितास्माकं हितकर कुरुष्व दृढप्रणिधानं प्रवरबुद्धिमयं शृणोमः"। पुरोहितश्चोपसंक्रामति यदा च निक्षिप्तं पुरोहितेन भगवतः सकाशे जानुमण्डलं, तावच्चायं त्रिसाहस्रमहासाहस्रो लोकधातुः सर्वावतीदं संतरणं बुद्धक्षेत्रं कंपति प्रकंपति चलति प्रचलति क्षुभ्यति प्रक्षुभ्यति वेधति प्रवेधति, अघट्टितानि तूर्यानि प्रवाद्यन्ति; ये च मृगपक्षिणस्ते सर्वे मनोज्ञं स्निग्धं च शब्दमुदीरयन्ति, वृक्षाश्च पुष्पाणि प्रमुञ्चन्ति। ये केचिदस्मिंस्त्रिसाहस्रमहासाहस्रे लोकधातौ पृथिवीं निश्रित्य भूताः प्रतिवसन्ति ये बोधौ समादापिता ये न च समादापिताः, स्थापयित्वा नैरायिकां यामलौकिकां च, सर्वे हितचित्ताः कल्याणचित्ता अवैरचित्ता अकलुषचित्ता मैत्रिचित्ता आश्चर्यचित्ता बभूवुः। ये सत्त्वाः स्वर्गचरास्ते खे स्था एवं परमप्रीतिमनसः, पुष्पैर्माल्यैर्गन्धैर्वाद्यै रत्नच्छत्रैर्ध्वजैः पताकाभिर्वस्त्रदुष्यैः स्निग्धमनोज्ञं शब्दं ब्राह्मणस्य प्रणिधानं श्रवणायोद्युक्ताः पूजाकर्मणे। चैवं यावदकनिष्ठभवनपर्यन्ता देवा जम्बूद्वीपं अवतीर्य गगनतले स्थित्वा दिव्यैर्गन्धैर्यावद्दुष्यैर्ब्राह्मणस्य प्रणिधानं श्रवणार्थमुद्युक्ताः पूजाकर्मणे।



ब्राह्मणश्चाञ्जलिं प्रगृह्याभिर्गाथाभी रत्नगर्भं तथागतमभितुष्टाव।



"ध्यानेभिर्विक्रीडसि ब्रह्मरिवा

रूपेण प्रभावसि शक्ररिवा।

धनधान्य प्रयच्छसि राजरिवा

रतनाग्रवरो मुनिश्रेष्ठिरिवा।

गिरि सौम्य विनर्दसि सिंहरिवा

न च कंपसे दृढमेरुरिवा।

न च क्षोभ्यसे उदधीषरिवा

गुणदोषवही समुद्रवारिरिवा।

मल सर्व प्रवाहसि तोयुरिवा

दहि क्लेश्वनं मुनिरग्निरिवा।

न च सज्जसे क्वचिद्वायुरिवा

मुनि तत्त्वे निदर्शक देवुरिवा।

मुनि धर्म प्रवर्षसि नागुरिवा

जग सर्वं तर्पयसि वृष्टिरिवा।

अन्यतीर्थं प्रमर्दसि सिंहरिवा

गुणगन्ध प्रमुञ्चसि पुष्परिवा।

मधुरगिर भाषसि ब्रह्मरिवा

जग दुःखप्रमुञ्चक वैद्यरिवा।

समचित्तमुपस्थिहि मातरिवा

जग नित्यानुगृह्णसि मित्ररिवा।

किर मान अरी दृढ वज्ररिवा

छिन्दि तृष्णलता मुनिशत्रुरिवा।

जग तारयसे नदितारुरिवा

दहि ज्ञानतृणां मुनिनागरिवा।

ददि शीतप्रभा मुनिचन्द्ररिवा

नर पद्म विबोधयि सूर्यरिवा।

चतुरग्रफलान् दधि वृक्षरिवा

रिषिसङ्घवृतो मुनिपक्षिरिवा।

जिनबुद्ध विषाल समुद्ररिवा

समचित्त जगे तृणकाष्ठरिवा।

शून्यधर्म निरीक्षसि स्वप्नरिवा

समलोकानुवर्तसि वारिरिवा।

मुनि बोधिय व्याकृत सत्त्व त्वया

वरलक्षणधारि सुकारुणिका।

त्वयि सत्त्व विनीत अनन्तबहू

मम व्याकरि बोधिय अग्रवरे।

वरप्रज्ञा महारिषि सत्यरुचेः

मम व्याकरि बोधिय छिन्दि मतीं।

भवि बुद्ध जगे कलिक्लेशरणिः

स्थपि सत्त्वशतांशि विशान्तपथे"॥



यदा कुलपुत्र समुद्ररेणुर्ब्राह्मणोऽग्रपुरोहितो रत्नगर्भं तथागतमाभिर्गाथाभिः स्तुत्वा तस्थौ, तावदेव सा सर्वावती पर्षा सदेवगन्धर्वमाणुषा साधुकारमदात्॥



पुरोहित आह - "मया भदन्त भगवन् बहुप्राणकोट्योऽनुत्तरायां सम्यक्संबोधौ समादापितास्तैश्च स्वकस्वकोदारोदाराणि बुद्धक्षेत्राणि परिगृहीतानि परिशुद्धाशयावरुप्तकुशलमूलाः सुविनीताः सत्त्वा वैनेयाः परिगृहीताः। इमे च ज्योतिपालपूर्वंगमानां चतुरुत्तरसहस्रं वेदपाठकाणं ये तथागतेन भद्रकल्पिका व्याकृताः, तेऽपि सत्पुरुषा रागद्वेषमोहमानचरितांस्त्रिभिर्यानैर्विनयन्ति; तदपि तैस्तीव्रक्लेशावरणकलियुगकषायाः परिवर्जितास्तैरुत्सृष्टा आनन्तर्यकारकाः सद्धर्मप्रतिक्षेपकाः आर्यापवादका मिथ्यादृष्टय आर्यसप्तधनविरहिता अमातृज्ञा अपितृज्ञा अश्रामण्या अब्राह्मण्या अकृत्यकारका अपुण्यकराः परलोकभयादर्शिनो विपरीततत्त्वबोधिनोऽनाथकास्त्रिषु सुचरितेषु, तथा देवमानुषिकाभिः श्रीसंपत्तिभिरुद्युक्ताः त्रिषु दुश्चरितेषु संप्रतिपन्नाः दशसु कुशलेषु कर्मपथेषु विरहिताः सर्वकल्याणमित्रै रिञ्चिताः सर्वपण्डितैः प्रक्षिप्ता भवचारकेऽनुश्रोतमुह्यन्तः क्षारनद्यां सीदन्तः संसारपङ्कैर्मोहान्धकाराविरहिता निर्मुक्ताः सर्वकुशलक्रियायां सर्वे शून्येषु बुद्धक्षेत्रेषूज्झिताः सकुशलमूलसमवधानगताः कुमार्गविहन्यन्तो महासङ्कटप्राप्तास्तस्मिन् काले सहे बुद्धक्षेत्रे दशवर्षायुष्का भद्रकल्पे मनुष्या भविष्यन्ति, सर्व इमे सत्पुरुषैः पण्डितैरुत्सृष्टा उज्झिताः। तत्कालं भवावर्तके संसारचक्रेऽत्राणा अशरणा अपरायणा दुःखभाजनभूताः सत्त्वास्तां परिवर्जयित्वा स्वकस्वका बुद्धक्षेत्राः प्रधानप्रधानाः परिगृहीताः, सुविनीताश्च परिशुद्धाशयाः अवरुप्तकुशलमूलाः आरब्धवीर्या बहुबुद्धकृताधिकारा वैनेयाः परिगृहीताः। न एवं, भदन्त भगवन्?" रत्नगर्भस्तथागत आह - "एवं, ब्राह्मण, यथाभिप्रायाः सत्त्वाः प्रणिधानं कुर्वन्ति बुद्धक्षेत्रगुणव्यूहाश्च परिगृहीतास्तत्रैव च मया व्याकृताः"। ब्राह्मणः प्राह - "ममापि भदन्त भगवन् हृदयं कंपति तद्यथापि किंशुकपत्रं परमदीनमानसोऽहं सर्वशरीरं च मे आयासितं, यदि मे भदन्त भगवन् सत्त्वाः करुणास्पदभूता बोधिसत्त्वैस्तत्कालमुत्सृष्टा महाकलियुगान्धकारप्रक्षिप्ताः सर्वपरिवर्जिताः।



अहमपि भदन्त भगवन्ननागतेऽध्वनि अतिक्रान्ते एकगङ्गानदीवालिकासमेऽसंख्येयेऽवशिष्टे द्वितीये गङ्गानदीवालिकासमेऽसंख्येये तस्मिंश्च भद्रके महाकल्पे दशवर्षशतायुष्कायां प्रजायां कालं प्रतीक्षमाणास्तावच्चिरमहं संसारे न परिखिद्येयं बोधिचारिकां चरमाण, उत्सहायि चाहं समाधानबलेन चिरपाचनयान्वैनेयान् प्रतिगृह्णामि, षट्पारमिताश्चरमाणो वैनेयान् प्रतिगृह्णामि। श्रुतं च मया भगवतः सकाशाद् "वस्तुनिमित्तं परित्यागेयं दानपारमिता"। तथारूपमहं दानपारमितां चरिष्यामि यथा जन्मान्तरेष्वप्रमेयाः सत्त्वा याचनका आगमिष्यन्ति तेषां तथारूपां परित्यागं परित्यजेयं, तद्यथान्नपानखाद्यभोज्यपेयलेह्यवस्त्रशय्यासनाश्रयप्रतिश्रयमाल्यगन्धविलेपनग्लानप्रत्ययभैषज्यदानं छत्रध्वजपताकाधनधान्यहस्त्यश्वरथसुवर्णरूप्यहिरण्यमणिमुक्तावैडूर्यशङ्खशिलाप्रवाडरजतजातरूपदक्षिणावर्तसर्वामहमेवं परित्यागं परमप्रासादकारुण्यमानसः सत्त्वानां दत्वाफलाभिकाङ्क्षी सत्त्वपरिपाचनार्थं वैनेयसत्त्वानुग्रहार्थं त्यागसंभारं परित्यजेयं। ये च पुनः सत्त्वा अतित्यागयाचनका आगत्वा याचयेरन् तद्यथा दासदासीग्रामनगरराज्यभार्यापुत्रदुहितृहस्तपरित्यागपादपरित्यागकर्णनासानयनजिह्वाचर्मरुधिरास्थिकायजीवितशिरःपरित्यागं, एवंरूपाः परित्यागाः परमप्रसन्नः कारुण्यमानसः अफलाभिकाङ्क्षी सत्त्वानां दानं दद्यां वैनेयानुकंपार्थं। तथारूपायामहं दानपारमितायां चरिष्यामि, यन्न कदाचित् पूर्वं केनचित् सत्त्वेन एवंरूपाः परित्यागाः परित्यक्ताः स्युर्न च पुनः पश्चात् कश्चिद् बोधिसत्त्वः अनुत्तरायां सम्यक्संबोधौ चारिकां चरमाणः एवंरूपाः परित्यागाः परित्याजेत्। यदहं तेषु जन्मान्तरेषु अप्रमेयासंख्येयेषु कल्पकोटीनयुतशतसहस्रेष्वनुत्तरायां सम्यक्संबोधौ चारिकां चरमाणः दानपारमितायां चरेयं। यदहं महाकरुणासमन्वागतानां पश्चिमकानां बोधिसत्त्वानां परित्यागनेत्रीगुणान् स्थापयेयं। "या प्रशमा रणिक्लेशानामियं शीलपारमिता"। तथाहमनुत्तरायां सम्यक्संबोधौ चारिकां चरमाणो विविधशीलव्रतनिरन्तरदुष्करचारिकां चरेयं, यथा पूर्वोक्तं। "या विषयेष्वक्षण्यनता आत्मप्रत्यवेक्षणा इयं क्षान्तिपारमिता"। तथारूपमहं क्षान्तिं भावयमानो, यथा पूर्वोक्तं। "या विवेकता सर्वसंस्कृता भावना उद्युज्यना सर्वासंस्कृतशान्तमनुत्तरचर्यया अविवर्तना इयं वीर्यपारमिता"। "या सर्वसंस्कारेषु विपर्यासप्रहाणाय शून्यता समुदाचारः इयं ध्यानपारमिता"। "या प्रकृत्यनुत्पत्तिकधर्मक्षान्तिरियं प्रज्ञापारमिता"। या अप्रमेयासंख्येयेषु कल्पकोटीनयुतशतसहस्रेषु दृढोत्साहबलवेगचर्या, यथा पूर्वोक्तं, न कश्चिद् बोधिसत्त्वोऽनुत्तरायां सम्यक्संबोधौ चारिकां चरमाणः एवं दृढोत्साहबलवेगेन प्रज्ञापारमितायां चीर्णः स्यां, न च पुनः पश्चात् कश्चिद् बोधिसत्त्वोऽनुत्तरायां सम्यक्संबोधौ चारिकां चरमाणः एवं दृढोत्साहबलवेगेन प्रज्ञापारमितायां चरेत्, तथाहं चरेयं; पश्चिमकानां बोधिसत्त्वानां महाकरुणासमन्वागतानां नेत्रीगुणं स्थापयेयं।



प्रथमचित्तोत्पादेनाहं पश्चिमकानां बोधिसत्त्वानां महाकरुणां निवर्तयेयं, यावदनुत्तरपरिनिर्वाणेन बोधिसत्त्वाश्चाश्चर्यप्राप्ता भवेयुरित्यर्थमहं त्यागस्यामन्यनता चरेयं, शीलानिश्रयता क्षान्त्यामन्यनता वीर्येऽनायूहनता ध्यानेष्वप्रतिष्ठितता प्रज्ञायामद्वयतां चरेयं। अफलाकाङ्क्षी आर्यसप्तधनविरहितानां सत्त्वानां सर्वशून्यबुद्धक्षेत्रोज्झितानामानन्तर्यकारकानां सद्धर्मप्रतिक्षेपकानामार्यापर्वादकानां मिथ्यादृष्टिकानामकुशलमूलसमवधानसङ्कटप्राप्तानां कुमार्गे विहन्यमानानां सत्त्वानामर्थायाहं पारमितास्तीव्रबलवेगोत्साहेन चरेयं। एकैकस्य सत्त्वस्यार्थे चाहं कुशलमूलबीजसंतत्याः प्रतिष्ठापनार्थं दशमहाकल्पान् अवीचिनरके दुःखां वेदनामुत्सहेयं, एवं तिर्यक्प्रेतेषु यक्षदरिद्रेषु मनुष्यदरिद्रेषु दुःखां वेदनामुत्सहेयं। यथा चैकसत्त्वस्य सन्तत्यां कुशलमूलबीजं प्रतिष्ठापयेयं तथा सर्वसत्त्वानां एवंरूपां रिक्तमुष्टिसदृशसन्तानां वैनेयां प्रतिगृह्णीयं। यावत् कल्पपर्यन्तेनाहमनार्थको दिव्यसुखोपपत्तिभिः, स्थापयित्वा एकजातिप्रतिबद्धतुषितभवनकालापरिक्षीचरमभविको बोध्यभिसंबोधनार्थं; तावच्चिरमहं संसारे बुद्धक्षेत्रपरमाणुरजःसमान् बुद्धान् भगवतः पर्युपासित्वा एकैकस्य च बुद्धस्याहं बुद्धक्षेत्रपरमाणुरजःसमां विविधां पूजां कुर्यां, एकैकस्य च बुद्धस्य सकाशाद्बुद्धक्षेत्रपरमाणुरजःसमान् गुणान् अधिगच्छेयं, बुद्धक्षेत्रपरमाणुरजःसमांश्च सत्त्वान् बोधौ समादापयेयं। एवं प्रत्येकबुद्धयानिकानामेवं श्रावकयानिकानां यथाभिप्रायांश्च सत्त्वान् तथाहं समादापयेयं। असति बुद्धोत्पादे लोक ऋषिव्रतेनाहं सत्त्वां दशकुशलकर्मपथेषु नियोजयेयं समाधावभिज्ञासु च नियोजयेयं, दृष्टिव्यसनमहेश्वरभक्तां महेश्वररूपेणाहं सत्त्वान् कुशलेषु नियोजयेयं, नारायणभक्तांश्चन्द्रसूर्यभक्तां यावद्ब्रह्मभक्तान् ब्रह्मरूपेणाहं सत्त्वान् कुशलधर्मेषु नियोजयेयं। एवं गरुडरूपेण गरुडपक्षिणः कुशलचर्यासु नियोजयेयं, यावच्छक्र‍रूपेण। बुभूक्षितान् सत्त्वान् स्वमांसरुधिरेण संतर्पयेयं, व्यसनगतांश्च सत्त्वां स्वकेन कायेन जीवितेन च परित्रायेयं।



तावच्चिरमहं भदन्त भगवन् दग्धसन्तानानां कुशलमूलपरिहीनानामर्थायातिबलवेगेन चारिकां चरं, तावच्चिरं चाहं संसारे सत्त्वहेतोर्विविधचण्डघोरदारुणां दुःखां प्रतिच्छेयं: यावदतिक्रान्तानेकगङ्गानदीवालिकासमानामसंख्येयानां निर्गतानाम् अवशिष्टे द्वितीये गङ्गानदीवाकासमेऽसंख्येयेऽनुप्रविष्टे भद्रके महाकल्पे यदा ज्योतिपालो माणवकोऽनुत्तरां सम्यक्संबोधिमभिसंबुध्यति क्रकुत्सन्दो नाम तथागतो भविष्यति तदाहं तस्मिन् समये आर्येण प्रज्ञाचक्षुषा दशसु दिक्षु सहस्रबुद्धक्षेत्रपरमाणुरजःसमासु लोकधातुषु प्रवर्तितधार्मिकं धर्मचक्रं तिष्ठतो यापयतो बुद्धान् भगवतः पश्येयं। ये मया दग्धसन्ताना अकुशलमूलसमाधानाः सप्तधनविरहिताः सर्वैः शून्यैर्बुद्धक्षेत्रैरुज्झिता आनन्तर्यकारकाः सद्धर्मप्रतिक्षेपका आर्यापवादका यावत्कुमार्गे विहन्यन्तः मया सङ्कटप्राप्ताः प्रथममनुत्तरायां सम्यक्संबोधौ समादापिता निवेशिताः प्रतिष्ठापिताः। मया ते सत्त्वाः प्रथमं दानपारमितायां समादापिता यावत्प्रज्ञापारमितायां निवेशिताः स्युर्मया च तेषां सत्त्वानां तत्कुशलमूलबीजमनुत्तरे निर्वाणे प्रक्षिप्तं स्यात्, अपायेभ्यश्च परिमोचिताः स्युः, प्रज्ञापुण्यसंभारे च नियोजिताः स्युस्तिष्ठन्तो यापयन्तस्तेषु च बुद्धक्षेत्रेसु बुद्धेषु भगवतसूपनीताः स्युर्यदानुत्तरायां सम्यक्संबोधौ व्याकरणप्रतिलब्धा भवेयुः, समाधिधारणीक्षान्तिप्रतिलब्धाश्च स्युर्भूम्यवक्रान्ताश्च स्युर्मया च ते सत्त्वा बुद्धक्षेत्रगुणव्यूहा प्रणिधानं समादापिताः शिक्षापिताश्च स्युर्यथारूपं च ते बुद्धक्षेत्रगुणव्यूहां प्रतिगृह्णेयुस्ते च तान् अहं तस्मिन् समयेऽनुप्रविष्टे भद्रकल्पे क्रकुत्सन्दे जिनसूर्य उद्गते दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः तिष्ठतो यापयतः सत्त्वानां धर्मं देशयतः पश्येयं; तदाहं क्रकुत्सन्दस्य तथागतस्यार्हतः सम्यक्संबुद्धस्याचिराभिसंबुद्धस्य सकाशमुपसंक्रमेयं, उपसंक्रम्य विविधां पूजां कुर्यां, प्रश्नं च पृच्छेयं, प्रव्रजेयं, शीलश्रुतसमाधावभियुज्येयं, अग्रधर्मदेशकश्च भवेयं। ये च तस्मिन् समये दग्धसन्तानाः सत्त्वा अकुशलमूलसमवधानगता दृष्टिमार्गसंप्रतिपन्ना आनन्तर्यकारकाः कुमार्गविहन्यमानास्तेषां महासङ्कटप्राप्तानां सत्त्वानां धर्मं देशयेयं, तांश्चाहं वैनेयां प्रतिगृह्णीयां। अस्तांगते जिनसूर्ये तदाहमनाभोगेन बुद्धकार्यं कुर्यां यावद्वर्षशतायुष्कायां प्रजायां त्रिषु पुण्यक्रियावस्तुषु सत्त्वान्नियोजयेयं। तस्मिंश्च कालेऽतिक्रान्ते देवलोकं गत्वा देवानां धर्मं देशयेयं, वैनेयांश्च प्रतिगृह्णीयां, यावद्विंशतिवर्षशतं सत्त्वानामायुर्भविष्यति। सत्त्वा ऐश्वर्यकुलरूपमदमत्ता मत्सरिणो भविष्यन्ति। पञ्चकषायान्धकारप्रक्षिप्ताः सत्त्वाः तीव्ररागास्तीव्रद्वेषास्तीव्रमोहास्तिव्रमानास्तीव्रपापेर्ष्यामत्सरिणोऽधर्मरागरक्ता अधर्मभोगपर्येष्टिनो मिथ्यादृष्टयो विपरीतदर्शना आर्यसप्तधनविरहिता अमातृज्ञा अपितृज्ञा अश्रामण्या अब्राह्मण्या अकृत्यकरा अपुण्यकरा अपरलोकभयदर्शिनोऽनभियुक्तास्त्रिषु पुण्यक्रियावस्तुषु अनर्थिकास्त्रिभिर्यानैरनभियुक्तास्त्रिषु सुचरितेषु अभियुक्तास्त्रिषु दुश्चरितेषु अनभियुक्ता दशसु कुशलेषु कर्मपथेषु अभियुक्ता दशस्वकुशलेषु कर्मपथेषु चतुर्विपर्यासोपहताश्चतुर्विपत्तिसंस्थानाश्चतुर्मारवशगताश्चतुर्भिरोघैरुह्यमानाः पञ्चनीवरणवशगताः सत्त्वा भविष्यन्ति। षडिन्द्रियमदमत्ता अष्टमिथ्यात्वप्रतिपन्नाः कामसङ्कटप्राप्ता अनुशयसमुत्थापका अनर्थिका देवमनुष्यश्रीसंपत्तिभिर्विपरीतदृष्टिकाः कुमार्गे विहन्यमाना आनन्तर्यकारकाः सद्धर्मप्रतिक्षेपका आर्यापवादकाः सर्वकुशलमूलपरिहीणा ध्वाङ्क्षामुखरा अकृतज्ञा मुष्टस्मृतयः कुशलजुगुप्सका दुःप्रज्ञा अल्पश्रुता दुःशीलाः कुहका मत्सरिणः परस्पराभाषका अन्योन्यागौरवाः कुशीदा विकलेन्द्रिया दुर्बलाश्चीवरविरहिता अकल्याणमित्रसंगृहीता गर्भाशयस्मृतिप्रणष्टा विविधरोगपहताः क्लिष्टा दुर्वर्णा अवहोटिमका अह्रीका अनपत्राप्याः परस्परभीता एकपूर्वभक्तेन बहुकायवाचा मनसा दुश्चरितं समाचरन्ति ते प्रशंसितशाश्वतदृष्टिकाः सत्त्वा भविष्यन्ति। पञ्चस्कन्धाभिनिविष्टचित्ताः पञ्चकामगुणागृद्धचित्ता दुष्टचित्ता व्यापन्नचित्ता वैरचित्ता विहिंसाचित्ताः कलुषचित्ता रुक्षचित्ताः क्षुभितचित्ता अदान्तचित्ता अहितचित्ता उद्धतचित्ता अधर्माभिनिविष्टचित्ता अनवस्थितचित्ताः परस्परसारम्भचित्ताः परस्परवधकचित्ता धर्मविवर्जितचित्ता अविपक्वचित्ता धर्मेषु सारम्भचित्ता अकुशल उत्पादितचित्ताः शान्तनिर्वाणापर्येष्टिचित्ता अदक्षिणियचित्ताः सर्वसंयोजनबन्धनसमुदाननचित्ता व्याधिजरामरणासंप्रत्ययचित्ताः सर्वसंयोजनाधिष्ठितचित्ताः सर्वनीवरणपरिग्रहचित्ता धर्मध्वजप्रपातनचित्ता दृष्टिध्वजोच्छ्रयणचित्ताः परस्परावर्णचित्ता अन्योन्यभक्षणचित्ताः परस्परपीडनैश्वर्यचित्त द्वेषसमुद्ग्रहणचित्ता अन्योन्याघातचित्ताः कामेभ्योऽतृप्तचित्ताः सर्वपरिग्रहमात्सर्यचित्ता अकृतज्ञचित्ताः परदाराक्रमणचित्ता व्यापादविहिंसनचित्ता अप्रणिधानचित्ताः सत्त्वास्तत्काले भविष्यन्ति। इमे चात्र शब्दाः परस्परान्तिकाच्छृण्वन्ति, नरकशब्दस्तिर्यग्योनिशब्दो यमलोकशब्दो व्याधिशब्दो जराशब्दो मरणशब्दो वधकशब्दोऽक्षणशब्दो नित्यारिशब्दो हडिनिगडबन्धनचारकशब्दो दण्डपीडनाशब्दोऽवर्णक्रोशनपरिभाषणाशब्दः संधिच्छेदनशब्दो गणच्छेदनशब्दश्चौर्यशब्दः परचक्रशब्दो दुर्भिक्षशब्दः काममिथ्याचारशब्दो मृषावादशब्द उत्पातशब्दः पैशुन्यशब्दः परुषशब्दः संभिन्नप्रलापशब्द ईर्ष्यामात्सर्यशब्द आग्रहपरिग्रहशब्दोऽहङ्कारममकारशब्दः प्रियाप्रियशब्द इष्टानिष्टशब्दः प्रियविप्रयोगशब्दः क्रयविक्रयशब्दोऽन्योन्यदासविहेठनाशब्दो गर्भवासशब्दो दुर्गन्धशब्दः शीतशब्द उष्णशब्दो जिघत्सापिपासाशब्दः श्रान्तक्लान्तवेदनाशब्दः कृषिकर्मान्तशब्दो विविधकर्मशिल्पपरिखिन्नशब्दो विविधरोगोपहतशब्दः, इमांश्च ते सत्त्वाः परस्परस्यान्तिकाच्छृण्वन्ति। एवंरूपैः परिहीणकुशलमूलैः परिहीणकल्याणमित्रैर्दुष्टचित्तैः सत्त्वैस्तस्मिन् काले सहालोकधातुराकीर्णा भविष्यति। उज्झिताश्च ते सत्त्वा भविष्यन्ति सर्वज्ञैः शून्यैर्बुद्धक्षेत्रैर्यथान्नपानदमसंयमकुशलकर्मक्रियाकुशलसमवधाना आर्याष्टाङ्गेन मार्गेण विरहितास्तमस्तमःपरायणाः प्रगाढकर्मप्रत्ययेन ते सत्त्वास्तस्मिन् समये भद्रकल्पे विंशोत्तरवर्षशतायुष्केषु प्रत्याजायिष्यन्ति। तेषां सत्त्वानां कर्मप्रत्ययेन सहबुद्धक्षेत्रं हीनं भविष्यति, सर्वैरवरुप्तकुशलमूलैः सत्त्वैः परिवर्जितं, सलवणा च पृथिवी भविष्यति, पाषाणशर्करपांशुशीला पर्वतोत्कूला च धरणी भविष्यति, परुषदंशमशकाशीविषचण्डमृगपक्षिभिराकीर्णा भविष्यति, विषमकालकलुषा वायवो वास्यन्ति, विषमकालविरसलवणविमिश्रा अशनिवर्षा पतिष्यन्ति; तथारूपाः पृथिव्यां शष्पौषधितृणवृक्षा पत्रपुष्पफला धान्यरसाः सत्त्वानामन्नपानभोगपरिभोगविषमाः कलुषपरुषरुक्षविषसंसृष्टा भविष्यन्ति। ते सत्त्वाः परिभक्त्या भूयस्या मात्रया रुक्षा दुष्टाश्चण्डा रौद्राः परुषाः कदर्याः परिभाषका अन्योन्यागौरवा भीतेन चित्तेनाघातचित्ता वधकचित्ता भविष्यन्ति, मांसभोजनरुधिराहारा मृगचर्मप्रावरणाः प्रहरणाधिष्ठानाः प्राणिवधोद्युक्ता रूपकुलवंशैश्वर्यशास्त्रलिप्यश्वारोहणधनुर्ग्रहायुधपरिवारा मात्सर्यदर्पिता भविष्यन्ति; विविधलूहतपव्रताभियुक्ता भविष्यन्ति लोकाः।



तत्कालमहं तुषितभवनादवतीर्य विशिष्टे चक्रवर्तिकुलवंशे ईश्वरे राजकुले अग्रमहिष्याः कुक्षौ वैनेयसत्त्वकुशलमूलपरिपाचनार्थं गर्भवासमुपगृह्णीयां; सर्वावन्तं तस्मिन् समये सहे बुद्धक्षेत्रे उदारेणावभासेन स्फुरेयं, ऊर्ध्वं यावदकनिष्ठभवनपर्यन्तोऽहं हेष्ठं यावत् काञ्चनचक्रपर्यन्तमुदारेणावभासेन स्फुरेयं। ये च तस्मिन् समये सत्त्वा सहे बुद्धक्षेत्रे प्रत्याजाता नरकेषु वा तिर्यग्योनौ वा यमलोके वा देवमनुष्ये वा ते सर्वे तमवभासं पश्येयुः स्पृशेयुः संजानेयुः; तेषां संसारे विमृशतां दुःखोद्विग्नानां निर्वाणाभिलाषमन्तशः क्लेशशमचित्तान्युत्पादयेयुः। इदं प्रथममग्रमार्गबीजमवरोपयेयं; यदाहं सर्वधर्मनयविपश्चितं सर्वसमाधिनिर्देशमेकधर्ममुखमपरान्तकल्पनिर्देशेन समाहितचित्तो दशमासां मातुः कुक्षौ निवसेयं; यावांश्चाहं प्राप्ते बुद्धत्वे सत्त्वां परिखिन्नां संसारे परिमोचयेयं। ते सत्त्वा मातुः कुक्षिगतं दशमासां मणिगर्भसंदर्शनसमाहितचित्तं पर्यङ्केन निषण्णं पश्येयुः। निर्गते च दशमासे सर्वपुण्यसंचयेनाहं समाधिना सर्वावन्तं सहबुद्धक्षेत्रं षड्विकारं धरणीं चालयेयं, ऊर्ध्वं यावदकनिष्ठभवनपर्यन्तं हेष्टिमेन च यावत् काञ्चनचक्रपर्यन्तं षड्विकारेण चालयेयं। ये च तस्मिन् समये सहे बुद्धक्षेत्रे सत्त्वाः प्रत्याजाता नरकेषु वा यावन् मनुष्येषु वा तान् प्रबोधयेयं।



यदाहं मातुर्दक्षिणे कुक्षावभिनिष्क्रमेयं, पुनरपि च सर्वावन्तं सहं बुद्धक्षेत्रमुदारेणावभासेन अफुरेयं; तदापि तस्मिन् समये सर्वान् सहे बुद्धक्षेत्रे सत्त्वान् संचोदयेयं, अनवरुप्तकुशलमूलानां सत्त्वानां सन्ताने निर्वाणबीजं प्रक्षिपेयं, अवरोपितनिर्वाणबीजसन्ततीनां सत्त्वानां समाध्यङ्कुरमवरोपयेयं। यदा चाहं चरणतलेन धरणीं स्पृशेयं सर्वावती तस्मिन् समये सहे बुद्धक्षेत्रे षड्विकारं धरणीं चालयेयं प्रकंपयेयं क्षोभयेयं यावत् काञ्चनचक्रपर्यन्तेन; तदाहं तस्मिन् समये सत्त्वान् जलनिश्रितां क्षितिनिश्रितां खनिश्रितां चतुर्योनिपर्यापन्नां पञ्चगतिसंनिश्रितां तान् सर्वान् अहं प्रतिबोधयेयं, येषां सन्ताने सत्त्वानामनुत्पन्नं समाधानाङ्कुरं रोपयेयं, दृढसमाधानाङ्कुरां त्रिभिर्यानैरवैवर्तिकां स्थापयेयं। सहजातमात्रस्य च मे यावदेव तस्मिन् सहे बुद्धक्षेत्रे महाब्रह्माणो वा मारा वा शक्रा वा चन्द्रा वा सूर्या वा लोकपाला वा महानागराजा वासुरेन्द्रा वा औपपादुका वा महर्द्धिका वा यक्षराक्षसनागासुरा वा सर्वे मम पूजाकर्मणे उपसंक्रामेयुः। सहजातमात्रश्चाहं सप्तपदानि प्रक्रामेयं। सर्वपुण्यसमुच्चयेनाहं समाधिना तथारूपं धर्मं देशयेयं यत्तत्सर्वावती सा पर्षत्त्रिभिर्यानैः प्रसादं प्रतिलंभयेत्। ये च तत्र पर्षदि सत्त्वाः श्रावकयानिका भवेयुस्ते चरमभविका मम वैनेया भविका; ये च तत्र सत्त्वाः प्रत्येकबुद्धयानिका भवेयुस्ते वैरोचनकुसुमां क्षान्तिं प्रतिलभेयुः; ये च तत्र सत्त्वा अनुत्तरमहायानिका भवेयुस्ते सर्वे वज्रधरसमुद्रसंकोपितं समाधिं प्रतिलभेरन्, तेन च समाधिना तिस्रा भूमीः समतिक्रामेयुः। यदहं स्नापनमिच्छेयं ये च तत्र महानागराजानो विशिष्टतरा भवेयुः ते मां स्नापयेयुः; ये च सत्त्वा मां स्नापयमानं पश्येयुस्ते सर्वे त्रिभिर्यानैरेवंरूपान् गुणानधिगच्छेयुः यथा प्रोक्तं। ये च मां सत्त्वा रथमभिरोहन्तं समनुपश्येयुर्विस्तरेण कुमारक्रीडविविधशिल्पस्थानकर्मस्थानासनानि च ददर्श शिक्षापनयोग्यं स्त्र्यगारे पञ्च कामगुणरतिक्रीडार्धरात्रावुद्विग्ननिष्क्रमणालङ्कारविभूषणच्छोरणं लोहितवस्त्राभीक्ष्णं काषायवस्त्रपर्येषणबोधिवृक्षोपसंक्रमणं, ये च सत्त्वा मामुपसंक्रामन्तं पश्येयुः, तेषां चाहं सत्त्वानां सर्वपुण्यसमुच्चयेन समाधिना तथारूपं धर्मं देशयेयं यथा ते सत्त्वास्त्रिभिर्यानैस्तीव्रच्छन्दा उद्युज्येयुः। ये च तत्र सत्त्वाः प्रत्येकबुद्धयानिकास्ते सर्वे वैरोचनकुसुमां क्षान्तिं प्रतिलभेयुः; यैश्च महायानबीजं प्रक्षिप्तं भवेत् ते सर्वे वज्रधरसमुद्रसंकोपितं समाधिं प्रतिलभेयुस्तेन च समाधिना तिस्रो भूमिरतिक्रामेयुः। स्वयं चाहं तृणसंस्तरणं गृह्णीयां बोधिवृक्षमूलवज्रासने प्रज्ञपयेयं निषीदेयं पर्यङ्कमाबध्वा ऋजुकेन कायेन; तथारूपमहमास्फानकं ध्यानं ध्यायेयं, आश्वासप्रश्वासा व्युपशमेयं; एकवारं दिवसेन ध्यानाद्व्युत्तिष्ठेयं, व्युत्थाय चाहमर्धतिलकफलमाहारमाहरेयं, अर्धं प्रतिग्राहकस्यानुप्रयच्छेयं। तावच्चिरं चाहमेवंरूपां दुष्करचारिकां चरेयं, यावदकनिष्ठभवनपर्यन्तेन सर्वे देवा ये सहे बुद्धक्षेत्रे पर्यापन्नास्त उपसंक्रामेयुर्मम च पूजां कुर्वाणाः, सर्वे मे साक्षिणः स्युर्दुष्करचर्यायां। यैश्च तत्र श्रावकयाने बीजमवरुप्तं स्यात्तेषां भदन्त भगवन् क्लेशव्युपशमाय सन्ताने भवेयं, चरमभविकाश्च मम वैनेया भवेयुः; ये प्रत्येकबुद्धयानिका यावद्यथा पूर्वोक्तं। एवं नागयक्षासुरगरुडकिन्नरमहोरगप्रेतपिशाचकुम्भाण्डाः पञ्चाभिज्ञा ऋषय उपसंक्रामेयुर्मम पूजाकर्मणे, सर्वे च मे साक्षिणो भवेयुर्दुष्करचर्यायां; ये च श्रावकयानिका यावद्यथा पूर्वोक्तं। ये च तत्र चातुर्द्वीपिकायामन्यतीर्थिका लूहतपो व्रतदुष्करचारिकां चरन्ति, तेषां चामानुषा आरोचयेयुः। "न यूयं दुष्करकारका, यथास्मिन् प्रदेशे चरमभविको बोधिसत्त्वो दुष्करचारिकां चरति, तथारूपं ध्यायति हृदये मनस्कारं बध्नाति प्रश्रब्धकायसंस्कारः प्रश्रब्धवाक्संस्कारः प्रशान्ताश्चास्य प्रश्वासाश्वासाः; दिनेदिने चैकां वेलां ध्यानाद्व्युत्थित्वार्धतिलकफलमाहारमाहरति। सा दुष्करचर्या महर्द्धिका सा महाफला महाविस्तारा, न चिरेणासौ अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते। सचेन्न श्रद्धध्वं गच्छत स्वयं पश्यत"। ते च तां दुष्करचर्यामुत्सृज्य मम दुष्करचर्यां दृष्ट्वा येषां श्रावकयानसन्तानबीजाङ्कुरं प्रतिष्ठितं स्यात्, यावद् यथा पूर्वोक्तं। ये मनुष्यराजा वा भट्टा वा नैगमजानपदा गृहस्थप्रव्रजिता गृहागारसंपन्नास्तेऽपि मम दुष्करचर्यामुपसंक्रामेयुर्यावच्छ्रावकयानिका यथा पूर्वोक्तं। यश्च मातृग्रामो मम दर्शनयोपसंक्रमेत्, स तस्य पश्चिमको मातृग्रामप्रतिलाभो भवेद् इति, ये श्रावकयानिका यथा पूर्वोक्तं। ये मृगपक्षिणो दुष्करं चरमाणं निषण्णं पश्येयुस्स तेषां पश्चिमकस्तिर्यग्योनिप्रतिलाभो भवेद् इति; यैश्च मृगपक्षिभिः श्रावकयाने बीजान्यवरोपितानि तेनैकजातिप्रतिबद्धा मम चैव वैनेया भवेयुर्ये प्रत्येकबुद्धयाना यावद् यथा पूर्वोक्तं। एवंविधाः क्षुद्रकास्तिर्यग्योनिका वक्तव्या, एवं प्रेता वक्तव्यास्तावच्चिरं चाहमेवंरूपां दुष्करचर्यां चरेयं एकपर्यङ्केन यावद् बहुसत्त्वकोटीनयुतशतसहस्राणि दुष्करचर्यायां साक्षिभूता भवेयुः आश्चर्यप्राप्ताश्च, तेषां च सन्तानेऽप्रमेयासंख्येयानां मोक्षबीजां प्ररोपयेयं। तथारूपामहं दुष्करचर्यां चरेयं यथा न पूर्वं केनचित् सत्त्वसंख्यातेन अन्यतीर्थिकेन वा श्रावकयानिकेन वा प्रत्येकबुद्धयानिकेन वा अनुत्तरमहायानिकेन वा एवं दुष्करचर्याचीर्णपूर्वः स्यात्; न च पुनः पश्चात् कश्चित् सत्त्वसंख्यातश्चरेत् अन्यतीर्थिका वा एवंरूपां दुष्करचारिकां शक्तांश्चरन्तु यथाहं चरेयं। अप्राप्तायामनुत्तरायां सम्यक्संबोधौ तदाहं पुरुषकारं कुर्यां सबलकायं मारं पराजयेयं, सावशेषकर्मफलं चाधिष्ठिहेयं, क्लेशमारं जिनेयं, अनुत्तरां च सम्यक्संबोधिमभिसंबुध्येयं। तदहमेकसत्त्वस्य सन्तानेऽर्हत्वं प्रतिष्ठापयेयं, तथा द्वितीयस्य तथा तृतीयस्य तथा चतुर्थस्य धर्मं देशयेयं, सन्ताने चार्हत्वं प्रतिष्ठापयेयं। एकैकस्य सत्त्वस्यार्थमहं शतसहस्रशः प्रातिहार्याणि दर्शयेयं, तस्य च सन्ताने सम्यग्दृष्टिं प्रतिष्ठापयेयं, बहुनि च धर्मार्थव्यञ्जनसहस्राणि भाषयेयं, यथा शक्त्या च फले प्रतिष्ठापयेयं। वज्रमयांश्च सत्त्वानां सन्ताने क्लेशपर्वतां ज्ञानवज्रेण भिन्द्यां त्रियानेन व्यवस्थानेन धर्मं देशयेयं। एकसत्त्वस्यार्थायाहं बहुयोजनशतानि पद्भ्यां गच्छेयं धर्मदेशनार्थमभयपदे प्रतिष्ठापनार्थं। अप्रतिषेधश्च मे शासने भवेत् प्रव्रज्यायाः, दुर्बलस्य मुष्टस्मृतेः विभ्रान्तचित्तस्य मुखरप्रगल्भचित्तस्य प्रदुष्टचित्तस्य दुःप्रज्ञचित्तस्य बहुक्लेशाकुलचित्तस्य मातृग्रामस्य मम शासने प्रव्रज्योपसंपद्भवेत्। चतस्रश्च मे पर्षाः स्युर्भिक्षुभिक्षुण्युपासकोपसिकाः। बहुजनप्रभूतं मे शासनं भवेत् देवानां सत्यदर्शनं यक्षाणां नागानामसुराणामार्याष्टाङ्गसमन्वागत उपोषधवासः, यावत्तिर्यग्योनिगतानामपि ब्रह्मचर्यावासो भवेत्।



बोधिप्राप्तस्य च मे भदन्त भगवन् ये सत्त्वा मम प्रदुष्टचित्ता वधकचित्ताः शस्त्रेण वाग्निना वा शक्त्या व विविधेन वा प्रहरणेनोपसंक्रामेयुः, रुक्षैः परुषैर्वचनैराक्रोशेयुः परिभाषेयुर्दिग्विदिक्षु वायशःशब्दं चारेयुः, विषसंसृष्टं वाहारपानमुपनामयेयुः; एवंरूपां कर्मफलानपरिक्षीणानधिष्ठिहित्वानुत्तरां सम्यक्संबोधिमभिसंबुध्येयं। यथा बोधिप्राप्तस्य मे सत्त्वाः पूर्वं वैरेण वधकोपकरणप्रयोगेन परुषवचनविविधप्रहरणविषान्नपानसंसृष्टेनोपसंक्रामेयुः रुधिरं च मे उत्पादयेयुः, तेषां सत्त्वानामहं शीलश्रुतसमाधिमहाकरुणाभावितेन ब्रह्मस्वरघोषदुन्दुभिनर्दितेन स्वरेण तथारूपं धर्मं देशयेयं, यत्तेषां चित्तानि प्रसादयेयं कुशले च नियोजयेयं; यथा ते सत्त्वाः कर्मावरणं देशयेयुः, आपत्यां संवरमापद्येयुः, न च तेषां सत्त्वानां स्वर्गे मोक्षफले वैराग्ये आश्रवक्षये वा आवरणकर्म भवेद् इति, मम चात्रापरिक्षीणकर्मफलक्षीणव्यन्तीकृतं भवेत्।



बोधिप्राप्तस्य च मे भदन्त भगवन् यावन्तो मम रोमकूपा भवेयुस्तावन्तो दिवसं बुद्धविग्रहान्निर्मिणुयां द्वात्रिंशद्भिर्महापुरुषलक्षणैः समलङ्कृतानशीतिभिरनुव्यञ्जनैस्तांश्चाहं बुद्धविग्रहान् शून्येषु बुद्धक्षेत्रेषु प्रेषयेयं, अशून्येषु च प्रेषयेयं, पञ्चकषायेषु बुद्धक्षेत्रेषु प्रेषयेयं। ये चापि तेषु बुद्धक्षेत्रेष्वानन्तर्यकारकाः सत्त्वा भवेयुः सद्धर्मप्रतिक्षेपकाः आर्यापवादका यावदकुशलमूलसमवधानकाः, येऽपि तत्र सत्त्वाः श्रावकयानसंप्रस्थिताः प्रत्येकबुद्धयानसंप्रस्थिता महायानसंप्रस्थिताः शिक्षायां कल्माषकारिणः छिद्रचारिणः मूलापत्तिमापन्नाः दग्धसन्तानाः शुभमार्गप्रणष्टाः संसाराटवीसंप्रस्थिताः कुमार्गविहन्यमाना महासङ्कटप्राप्ताः, तथारूपाः सत्त्वाः सत्त्वकोटीनयुतशतसहस्रादेको बुद्धविग्रह एकदिवसे सत्त्वानां धर्मं देशयेत्। ये सत्त्वा महेश्वरभक्तिकास्तेषां सत्त्वानां महेश्वररूपेण धर्मं देशयेयं। सहे च बुद्धक्षेत्रे मम वर्णं भाषयेयुस्तत्र च सत्त्वानां प्रणिधानमुद्योजयेयं। ते च सत्त्वा मम वर्णं श्रुत्वा ममैव बुद्धक्षेत्रे प्रणिधानं कुर्वीरन्, उपपत्तिं चाकाङ्क्षेयुः। याद्यहं भदन्त भगवन् तेषां सत्त्वानां मरणकालसमये पुरतः न तिष्ठेयं धर्मं न देशयेयं चित्तं न संप्रसादयेयं, मा चाहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं। यदि मे सत्त्वाः कालं कृत्वा दुर्गतीषूपपद्येयुर्न च मम बुद्धक्षेत्रे मनुष्यप्रतिलाभं लभेयुः, सर्वे मम धर्मा संमोषं गच्छेयुर्मा च मे प्रतिभायेयुर्मा चाहं शक्यं सकलं बुद्धकार्यं निष्पादयितुं। ये सत्त्वा नारायणभक्तिका यावत्ते सत्त्वाः कालं कृत्वा दुर्गतिं प्रपतेयुस्तन्मा चाहं शक्यं सकलं बुद्धकार्यं निष्पादयितुं।



बोधिप्राप्तस्य च मे सर्वबुद्धक्षेत्रेषु सत्त्वा आनन्तर्यकारका यावत् कुमार्गे विहन्यमाना महासङ्कटप्राप्ताः सत्त्वाः कालं कृत्वा मम बुद्धक्षेत्र उपपद्येरन्, इदं तेषां निमित्तं पांशुवर्णास्ते सत्त्वा भविष्यन्ति, पिशाचमुखी मुष्टस्मृतयो दुर्गन्धा दुःशीला अल्पायुष्का विविधरोगोपहता विविधपरिष्कारपरिहीणाश्च ते सत्त्वा भविष्यन्ति; तेषाम् सत्त्वानामर्थेऽहं यावत्तस्मिन् समये सहे लोकधातौ चातुर्द्वीपिका भवेयुः, सर्वत्र च चातुर्द्वीपिकायां संतुषितभवनावतरणं मातुर्गर्भे चाहं जातुमुपदर्शयेयं, विस्तरेण कुमारक्रीडाशिल्पकर्मस्थानदुष्करचर्यामारधर्षणबोध्यभिसंबुध्यनधर्मचक्रप्रवर्तनं, सर्वत्र च चातुर्द्वीपिकासु सकलं बुद्धकार्यमुपदर्शयेयं, परिनिर्वाणं यावच्छरीरविभागमुपदर्शयेयं।



बोधिप्राप्तश्चाहं एकपदव्याहरेण धर्मं देशयेयं। ये सत्त्वाः श्रावकयानिकास्ते श्रावकयानकथापिटकं धर्मं देशितमाजानीयुः; ये सत्त्वाः प्रत्येकबुद्धवैनेयास्ते प्रत्येकबुद्धयानकथाधर्मं देशितमाजानीयुर्ये सत्त्वा अनुत्तरमहायानिकास्तेऽनुत्तरमहायानकथाधर्मं देशितमाजानीयुः। ये सत्त्वाः संभारविरहितास्ते दानकथाधर्मं देशितमाजानीयुर्ये सत्त्वाः पुण्यविरहिताः सुखस्वर्गाभिलाषिनास्ते शीलकथाधर्मं देशितमाजानीयुः; ये परस्परभीतकलुषचित्ताः प्रदुष्टचित्तास्ते मैत्र्याव्याहारकथाधर्मं देशितमाजानीयुः; प्राणातिपातिकाः करुणाधर्मं देशितमाजानीयुः; य ईर्ष्यामात्सर्याभिभूतास्ते मुदिताव्याहारकथाधर्मं देशितमाजानीयुः; ये रूपारूप्यमदमत्तचित्तास्ते उपेक्षाव्याहारकथाधर्मं देशितमाजानीयुः। ये कामरागमदमत्तचित्ता अशुभव्याहारेण धर्मं देशितमाजानीयुः; ये च सत्त्वा महायानिकौद्धत्यव्याकुलचित्तोपगतास्ते आनापानस्मृतिव्याहारेण धर्मं देशितमाजानीयुः; ये दुःप्रज्ञा वा प्रदीपप्रतीत्यसमुत्पादव्याहारेण धर्मं देशितमाजानीयुः; येऽल्पश्रुतवादिनस्तेऽसंप्रमोषश्रुतधारणीविप्रणाशव्याहारेण धर्मं देशितमाजानीयुः; कुदृष्टिसङ्कटप्राप्ताः शून्यताव्याहारेण धर्मं देशितमाजानीयुः; वितर्कसमुदाचारोपहता अनिमित्तव्याहारेण धर्मं देशितामाजानीयुरप्रणिहितापरिशुद्धोपहता अप्रणिहितव्याहारेण धर्मं देशितमाजानीयुः; आशयापरिशूद्धाः परिशुद्धाशयव्याहारेण धर्मं देशितमाजानीयुः; व्यवकीर्णसमुदाचारोपहता बोधिचित्तासंप्रमोषव्याहारेण धर्मं देशितमाजानीयुः; क्षमप्रयोगोष्मोपहता अकृत्रिमव्याहारेण धर्मं देशितमाजानीयुः; अध्याशयप्रश्रब्धोपहता अनिश्रितव्याहारेण धर्मं देशितमाजानीयुः; क्लिष्टचित्ताः पेयालं कल्पचित्तव्याहारेण; कुशलसंप्रमोषचित्ता वैरोचनव्याहारेण; मारकर्मोद्युक्ताः शून्यताव्याहारेण; परवधे संप्रतिपन्ना अभ्युद्गतव्याहारेण; विविधक्लेशोपहतचित्ता विगतव्याहारेण; विषममार्गसंप्रतिपन्ना आवर्तव्याहारेण; महायानकौतुहलचित्ता विवर्तव्याहारेण; संसारोद्विग्नानां बोधिसत्त्वानां रतिव्याहारेण; कुशलभूमिज्ञानवगता अमूढव्याहारेण; परस्परासंतुष्टकुशलमूलानां श्रुतव्याहारेण; परस्परासमचित्तानामप्रतिहतरश्मिव्याहारेण; विषमकर्मसंप्रतिपन्नानां क्रियावतारणव्याहारेण; पर्षद्भयोपगतानां सिंहकेतुव्याहारेण; चतुर्माराभिभूतचित्तानां शूरव्याहारेण; बुद्धक्षेत्रानवभासगतानां सत्त्वानां प्रभाव्यूहव्याहारेण; अनुनयप्रतिघानां शैलोच्चयव्याहारेण; बुद्धधर्मालोकनाभिभूतानां ध्वजाग्रकेयूरव्याहारेण; महाप्रज्ञाविरहितानामुल्कापातव्याहारेण; मोहान्धकारगतानां भास्करप्रदीपव्याहारेण; क्षयानिरुक्तिप्रयुक्तानां गुणाकरव्याहारेण; फेनपिण्डोपमात्माभिकाङ्क्षिणां नारायणव्याहारेण; चलाचलबुद्धीनां सारानुगतव्याहारेण; अवलोकितमूर्धानां मेरुध्वजव्याहारेण; पूर्वप्रतिज्ञोत्सृष्टानां सारवतिव्याहारेण; च्युताभिज्ञानां वज्रपदव्याहारेण; बोधिमण्डाभिकाङ्क्षिणां वज्रमण्डव्याहारेण; सर्वधर्मजुगुप्सितानां वज्रोपमव्याहारेण; सत्त्वचरितमप्रजानतां चारित्रवतिव्याहारेण; इन्द्रियपरापरानभिज्ञानां प्रज्ञाप्रदीपव्याहारेण; परस्पररुतमप्रजानतां रुतप्रवेशव्याहारेण; धर्मकायमप्रतिलब्धानां सद्धर्मकायविभावनव्याहारेण; तथागतदर्शनविरहितानामनिमिषव्याहारेण; सर्वालंबनविगोपितानामरण्यव्याहारेण; धर्मचक्रप्रवर्तनाभिकाङ्क्षिणां चक्रविमलव्याहारेण; अहेतुविद्यासंप्रस्थितानां विद्याप्रतीत्यानुलोमव्याहारेण; एकबुद्धक्षेत्रशाश्वतदृष्टीनां सुकृतविचयव्याहारेण; लक्षणानुव्यञ्जनानवरुप्तबीजानामलङ्कारवतिव्याहारेण; वाचारुतप्रभेदासमर्थानां निर्हारवतिव्याहारेण; सर्वज्ञज्ञानाभिकाङ्क्षिणां धर्मधात्वविकोपनव्याहारेण; प्रत्युत्पन्नावर्तनधर्माणां दृढव्याहारेण; धर्मधातुमप्रजानतां अभिज्ञाव्याहारेण; प्रज्ञोत्सृष्टानामच्युतव्याहारेण; मार्गविगोपितानामविकारव्याहारेण; आकाशसमज्ञानाभिकाङ्क्षिणां निष्किञ्चनव्याहारेण; पारमितापरिपूर्णानां परिशुद्धप्रतिष्ठाव्याहारेण; अपरिपूर्णासंग्रहवस्तूनां सुसंगृहीतव्याहारेण; ब्रह्मविहारविमार्गितानां समप्रयोगव्याहारेण; बोधिपक्षरत्नापरिपूर्णानामव्यवस्थितनिर्याणव्याहारेण; सुभाषितज्ञानां प्रमुष्टचित्तानां सागरमुद्रव्याहारेण; अनुत्पत्तिकधर्मक्षान्तिकौतूहलचित्तानां निश्चितव्याहारेण; यथाश्रुतधर्मप्रमुष्टचित्तानामसंप्रमोषव्याहारेण; परस्परसुभाषितासंतुष्टानां वितिमिरव्याहारेण; त्रिरत्नाप्रतिलब्धप्रसादानां पुण्योत्सदव्याहारेण; धर्ममुखप्रवर्षणासंतुष्टानां धर्ममेघव्याहारेण; त्रिरत्नोच्छेददृष्टीनां रत्नव्यूहव्याहारेण; ज्ञानार्दितकर्माभियुक्तानामनुपमव्याहारेण; सर्वसंयोजनबन्धनगतानां गगनमुखव्याहारेण; सर्वधर्मानन्यचित्तानां ज्ञानमुद्रव्याहारेण; तथागतगुणापरिपूर्णानां लोकविद्यासंमुखीभावव्याहारेण; पूर्वबुद्धासुकृताधिकारिणां विनिश्चितप्रातिहार्यव्याहारेण; एकधर्ममुखापरान्तककल्पानिर्दिष्टानां सर्वधर्मनयव्याहारेण; सर्वसुत्रान्ताविनिश्चितानां धर्मस्वभावसमताविनिश्चितव्याहारेण; षट्पारायणीयधर्मपरिवर्जितानां सर्वधर्मनयव्याहारेण; विमोक्षचित्ताशयानभियुक्तानां विक्रिडिताभिज्ञाव्याहारेण; तथागतगुह्यानुप्रवेशविमर्शितानां अपरप्रणेयव्याहारेण; बोधिसत्त्वचर्यानभियुक्तानां ज्ञानागमव्याहारेण; ज्ञातिकामसंदर्शिकानां सर्वत्रानुगतव्याहारेण; सावशेषबोधिसत्त्वचारिकानामभिषेकव्याहारेण; दशतथागतबलापरिपूर्णानामनवमर्दव्याहारेण; चतुर्वैशारद्याप्रतिलब्धानामपर्यादीनवव्याहारेण; आवेणिकबुद्धधर्माप्रतिलब्धानामसंहार्यव्याहारेण; अमोघश्रवणदर्शनानां प्रणिधानव्याहारेण; सर्वबुद्धधर्मसंमुखानुबोधाय श्रोताविलानां विमलसमुद्रव्याहारेण; सावशेषसर्वज्ञज्ञानानां सुविबुद्धव्याहारेण; अप्राप्तसर्वतथागतकार्याभिप्रायानामपर्यन्तनिष्ठाव्याहारेण धर्मं देशितमाजानीयुरिति। ये बोधिसत्त्वा अशठा अमायाविनो ऋजुका ऋजुक जातीयाश्च तेषां चतुरशीतिधर्ममुखसहस्राणि चतुरशीतिसमाधिमुखसहस्राणि पञ्चसप्ततिधारणीमुखसहस्राणि अप्रमेयासंख्येयानां महायानसंप्रस्थितानां एकपदव्याहारेण इमे गुणाः सन्ताने प्रतिष्ठापयेयं; येन बोधिसत्त्वा महासत्त्वा महासंनाहसंनद्धा भवेयुः; अचिन्त्यप्रणिधानविशेषाभ्युद्गता भवेयुरचिन्त्यज्ञानदर्शनबोधिसद्गुणालङ्कृता भवेयुः, तद्यथा कायालङ्कृता लक्षणानुव्यञ्जनैः, वागलङ्कृता भवेयुर्यथाभिप्रायाः, सत्त्वाः सुभाषितेन संतोषयेयुः, श्रुतालङ्कृताः समाध्यवचनतया, स्मृत्यालङ्कृता धारण्यसंप्रमोषतया, मनोऽलङ्कृता निर्वृत्यालङ्कृताः कुगत्यवबुध्यनतया, आशयालङ्कृता दृढप्रतिज्ञातया, प्रयोगालङ्कृताः प्रतिज्ञोत्तारणतया, अध्याशयालङ्कृता भूम्या भूमिसंक्रमणतया, दानालङ्कृताः सर्ववस्तुपरित्यागतया, शीलालङ्कृताः सुश्रुतावितविमलतया, क्षान्त्यलङ्कृताः सर्वसत्त्वाप्रतिहतचित्ततया, वीर्यालङ्कृताः सर्वसंभारोपचिततया, ध्यानालङ्कृताः सर्वसमापत्तिविक्रीडिताभिज्ञा भवेयुः, प्रज्ञालङ्कृताः क्लेशवासनपरिज्ञाविनो, मैत्र्यालङ्कृताः सर्वसत्त्वस्य त्रायानुगताः, करुणालङ्कृताः सर्वसत्त्वापरित्यागस्थिता, मुदितालङ्कृताः सर्वधर्माकथंकथाप्राप्ता, उपेक्षालङ्कृता उन्नामावनामद्वयविगताः, अभिज्ञालङ्कृताः सर्वविक्रीडिताभिज्ञाः, पुण्यालङ्कृता अक्षयभोगरत्नपाणिताप्रतिलब्धा, ज्ञानालङ्कृताः सर्वसत्त्वचित्तचरिताभिज्ञा, बुद्ध्यालङ्कृताः सर्वसत्त्वकौशल्यधर्मविबोधयितारः, आलोकालङ्कृताः प्रज्ञाचक्षुरालोकं प्रतिलभेयुः, प्रतिसंविदलङ्कृता अर्थधर्मनिरुक्तिप्रतिभानप्रतिसंवित्प्रतिलब्धा भवेयुर्वैशारद्यालङ्कृताः सर्वमारपरप्रवादिनभिभूता, गुणालङ्कृता बुद्धानां गुणानुप्राप्ता, धर्मालङ्कृताः सततसमितमसङ्गप्रतिभानेन सत्त्वानां धर्मं देशयेयुः, आलोकालङ्कृताः सर्वबुद्धधर्मावभासगताः, प्रभालङ्कृताः सर्वबुद्धक्षेत्रावभासगता, आदर्शनप्रातिहार्यालङ्कृता अक्षुणव्याकरणा, अनुशासनीप्रातिहार्यालङ्कृता यथावदनुशासनीप्रदायका, ऋद्धिप्रातिहार्यालङ्कृताश्चतुरृद्धिपादपरमपारमिताप्राप्ताः, सर्वतथागताधिष्ठानालङ्कृतास्तथागतगुह्यानुप्रविष्टा, धर्मैश्वर्यालङ्कृता अपराधीनज्ञानप्रतिलब्धाः, सर्वकुशलधर्मप्रतिपत्तिसारालङ्कृता यथावादितथाकारिसर्वतोऽनवमर्दिता भवेयुरिति। अप्रमाणासंख्येयानां महायानसंप्रस्थितानां सत्त्वानामेकपदव्याहारेणाहं महता कुशलविशोधनसंनिचयेन संतर्पयेयं। ततस्ते बोधिसत्त्वा महासत्त्वाः सर्वधर्मेष्वपरप्रत्ययज्ञानं प्रतिलभेयुः, महता च धर्मावभासेन समन्वागता भवेयुः, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्येयुरिति।



येऽपि ते भदन्त भगवन् सत्त्वा भवेयुरन्येषु लोकधातुष्वानन्तर्यकारका यावन्मूलापत्तिसापराधिका दग्धसन्तानाः श्रावकयानिका वा प्रत्येकबुद्धयानिका वा अनुत्तरमहायानिका वा प्रणिधानवशेन मम बुद्धक्षेत्रे प्रत्याजायेयुः। अकुशलमूलसमवधाना रुक्षाः पापेच्छाः क्रूरखटुङ्कसन्ताना विपरीतबुद्धय आगृहीतसन्तानाः तेषां चाहं चतुरशीतिश्चित्तरुतसहस्रां देशयेयुः, यावत् कुशीदचित्तानां सत्त्वानामहं चतुरशीतिधर्मस्कन्धसहस्राणि विस्तरेण देशयेयं। ये च तत्र सत्त्वा अनुत्तरमहायानिका भवेयुः तेषां चाहं विस्तरेण षट्पारमिताधर्मं देशयेयं, दानपारमितां विस्तरेण देशयेयं यावत्प्रज्ञापारमितां विस्तरेण देशयेयं। ये च पुनस्तत्र सत्त्वाः श्रावकयानिका वा प्रत्येकबुद्धयानिका वा भवेयुः, अनवरुप्तकुशलमूला भवेयुः, शास्ताराभिकाङ्क्षिणः, तांश्चाहं त्रिशरणगमनेन व्यवस्थापयेयं, पश्चात् पारमितासु नियोजयेयं; विहिंसारतानां प्रानातिपातवैरमण्यां व्यवस्थापयेयं; विषमलोभाभिभूतानामदत्तादानवैरमण्यां व्यवस्थापयेयं; अधर्मरागरक्तां काममिथ्याचारवैरमण्यां व्यवस्थापयेयं; परस्परपरुषवचनभाषिणो मृषावादवैरमण्यां व्यवस्थापयेयं; उन्मत्ताभिरतान् सुरामैरेयमद्यप्रमादवैरमण्यां व्यवस्थापयेयं। येषां च सत्त्वानां सर्वपञ्चदोषा भवेयुस्तां पञ्चदोषवैरमण्योपासकसंवरे व्यवस्थापयेयं। ये सत्त्वा अनभिरताः कुशलेषु धर्मेषु तांश्चाहं रात्रिंदिवसमष्टाङ्गे शीले प्रतिष्ठापयेयं। ये सत्त्वाः परीत्तकुशलमूलाभिरतचित्तास्तांश्चाप्यहं स्वाख्याते धर्मविनये उपश्लेषयेयं, प्रव्रज्यासंवरे दशशिक्षापदे ब्रह्मचर्ये स्थापयेयं। ये सत्त्वाः कुशलान् धर्मान् पर्येष्टुकामास्तानप्यहं कुशलेषु धर्मेषु समादाप्य सकले ब्रह्मचर्यवासे प्रतिष्ठापयेयं। एवंरूपानामानन्तर्यकारकानां यावद् आगृहीतसन्तानानां सत्त्वानामर्थे चाहं बहुविविधनानार्थपदव्यञ्जनप्रातिहार्यैर्धर्मं देशयेयं, अनित्यदुःखानात्मशून्यस्कन्धधात्वायतनानि दर्शयेयं, कुशले क्षेमे शिवे शान्तेऽभयपुरे निर्वाणे प्रतिष्ठापयेयं। एवमहं चतुर्णां पर्षदां भिक्षुभिक्षुण्युपासकोपासिकानां धर्मं देशयेयं; ये च वादार्थिनो भवेयुस्तेषां अहं धर्मवादशास्त्रं प्रकाशयेयं; ये च नाभिरताः कुशलेषु धर्मेषु तेषां चाहं वैयावृत्यकर्माणि निर्दिशेयम्, स्वाध्यायाभिरतानामेकांशेन शून्यतां ध्यानविमुक्तिगामिनां निर्देशयेयं। एकैकस्य सत्त्वस्यार्थायाहं बहुयोजनशतसहस्राणि प्रद्भ्यां गच्छेयं, बहुविविधनानाप्रकारार्थपदव्यञ्जनोपायप्रातिहार्यैरखेदमुत्सहेयं, यावन्निर्वाणे स्थापयेयं; यावत् समाधानबलेनाहं पञ्चमभागमायुःसंस्काराणामवसृजेयं, परिनिर्वाणकालसमये चाहं स्वयमेव स्वशरीरसर्षपफलप्रमाणमात्रं भिन्देयं, सत्त्वानां कारुण्यार्थे चाहं पश्चात् परिनिर्वापयेयं; परिनिर्वृतस्य च मे वर्षसहस्रं सद्धर्मस्तिष्ठेत्, पञ्चपुनर्वर्षशतानि सद्धर्मप्रतिरूपकस्तिष्ठेत्।



ये च सत्त्वा मम परिनिर्वृतस्य शरीरेषु पूजौत्सुक्यमापद्येयू रत्नैर्यावद्वाद्यैरन्तश एकबुद्धनामैकवन्दना एकप्रदक्षिनीकरणेन एकाञ्जलिकर्मणा एकपुष्पेण पूजां कुर्वीरन्, सर्वे तेऽवैवर्तिका भवेयुर्यथाभिप्रायास्त्रिभिर्यानैः। ये च सत्त्वा मम परिनिर्वृतस्य शासनेऽन्तश एकशिक्षापदमपि गृह्णीयुर्यथोक्तं समादाय वर्तेयुर्यावच्चतुष्पदगाथां पर्यवाप्नुयुर्वाचयेयुः, परेषां च देशयेयुः, येऽपि शृणुयुश्चित्तं वा प्रसादयेयुर्धर्मभाणकस्य वा पूजां कुर्युरन्तश एकपुष्पेणापि एकवन्दनेनापि, सर्वे तेऽवैवर्तिका भवेयुस्त्रिभिर्यानैर्यथाभिप्राया; यावत् सद्धर्मेऽन्तर्हिते सद्धर्मोल्कायां निर्वापितायां धर्मध्वजे पतिते ते च मम जन्मशरीरमवतरेयुर्यावत् काञ्चनचक्रे तिष्ठेयुर्यस्मिन् काले सहे बुद्धक्षेत्रे रत्नदुर्भिक्षं भवेत् तस्मिन् समये केतुमतिर्नाम मणिवैडुर्यमयं अग्निनिर्भासं तिष्ठेत्। तच्च ततोऽभ्युद्गम्योर्द्ध्वं यावदकनिष्ठभवने स्थित्वा विविधां पुष्पवृष्टिं प्रवर्षेत्, मान्दारवमहामान्दारवपारिजातकमञ्जुषकमहामञ्जुषकरोचमहारोचमानपूर्णाचन्द्रविमलाशतपत्रसहस्रपत्र-शतसहस्रपत्रसमन्तप्रभासमन्तगन्धासुरुचिरसदाफलाहृदयनयनाभिरम्याज्योतिप्रभाज्योतिरसानन्तवर्णानन्तगन्धानन्तप्रभानां एवंरूपानां पुष्पवर्षं अभिप्रवर्षेत्। ततश्च पुष्पवर्षाद्विविधा शब्दा निश्चरेयुस्तद्यथा बुद्धशब्दो धर्मशब्दः सङ्घशब्द उपासकसंवरशब्द आर्याष्टाङ्गसमन्वागतोपोषधोपवासशब्दो दशप्रव्रज्याशिक्षापदसंवरशब्दो दानशब्दः शीलशब्दः सकलब्रह्मचर्यपरिपूर्णोपसंपदाशब्दो वैयावृत्तिशब्दोऽध्ययनशब्दः प्रतिसंलयनशब्दः योनिशोमनसिकारशब्दोऽशुभशब्दो आनापानस्मृतिशब्दो नैवसंज्ञानासंज्ञायतनशब्द आकिञ्चन्यायतनशब्दो विज्ञानानन्त्यायतनशब्द आकाशानन्त्यायतनशब्दोऽभिभवायतनशब्दः कृत्स्नायतनशब्दः शमथविपश्यनाशब्दः शून्यताप्रणिहितशब्दोऽनिमित्तशब्दः प्रतीत्यसमुत्पादशब्दः सकलश्रावकपिटकशब्दश्च निश्चरेत्, सकलप्रत्येकबुद्धयानपिटकशब्दो निश्चरेत्, सकलमहायानकथाषट्पारमिताशब्दः ते पुष्पा अवकिरेयुः। सर्वे च रूपावचरा देवाः शृणुयुः स्वकस्वकानि पूर्वकृतानि कुशलमूलान्यनुस्मरेयुः, सर्वकुशलेषु धर्मेषु महासत्त्वा अजुगुप्सनीयास्ते ततोऽवतरेयुः सर्वे सहे लोकधातौ मनुष्यां दशकुशलेषु कर्मपथेषु नियोजयेयुः प्रतिष्ठापयेयुः। एवमेव सर्वे कामावचरा देवाः शृणुयुस्तेषां च तृष्णासंयोजनरतिक्रीडासौमनस्याभिरतांश्चित्तचैतसिकां सर्वान् प्रश्रम्भयेयुः, ते सर्वे स्वकानि पूर्वकृतानि कुशलमूलान्यनुस्मरेयुः, ते च देवलोकादवतीर्य सर्वे सहे लोकधातौ मनुष्यां दशकुशलेषु कर्मपथेषु समादापयेयुः प्रतिष्ठापयेयुः। ते च पुष्पा आकाशे विविधा रत्नाः प्रादुर्भवेयुः, तद्यथा भदन्त भगवन् रूप्यहिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवाडरजतजातरूपाश्मगर्भदक्षिणावर्ताः, सर्वे सहे बुद्धक्षेत्रे एवंरूपां रत्नवृष्टिं अभिप्रवर्षेयुः। सर्वे च सहे बुद्धक्षेत्रे कलिकलहविवाददुर्भिक्षरोगपरचक्रपरुषवाग्रुक्षविषं सर्वेण सर्वं प्रशमेयुः, क्षेमारोग्या अकलहाबन्धनविग्रहाः सुभिक्षाः सर्वे सहे बुद्धक्षेत्रे संस्थिहेयुः। यानि च सत्त्वानि तानि रत्नानि पश्येयुः स्पृश्येयुः उपभोगकर्म वा कुर्वीरन् ते सर्वे त्रिभिर्यानैरवैवर्त्या भवेयुस्ते च पुनरधो यावत् काञ्चनचक्रे स्थिहेयुरेवमेव भदन्त भगवन् शस्त्रान्तरकल्पकाले समये पुनस्त इन्द्रनीलमणिरत्नाः संस्थिहेयुरूर्ध्वं यावदकनिष्ठभवनपर्यन्ते, स्थित्वा विविधां पुष्पवृष्टिमभिप्रवर्षेयुः, तद्यथा मान्दारवमहामान्दारवपारियात्रा यावदेवानन्तप्रभास्तस्माच्च पुष्पवर्षाद्विविधा मनोज्ञाः शब्दा निश्चरेयुस्तद्यथा बुद्धशब्दो धर्मशब्दः सङ्घशब्दो यावत्पूर्वोक्तं। ते पुनः शरीरा अधो यावत् काञ्चनचक्रे स्थिहेयुः। एवं तस्मिं समये दुर्भिक्षान्तरकल्पकाले पुनस्ते शरीरा ऊर्ध्वमुद्गच्छेयुर्यावदकनिष्ठभवनपर्यन्तं पुष्पवृष्टिर्यावत् पूर्वोक्तं। यावद् रोगान्तरकल्पं यथा पूर्वोक्तं। यथा भद्रके महाकल्पे मम परिनिर्वृतस्य शरीरास्तृकार्यं कुर्युः, गणनातिक्रान्तान्वैनेयां त्रिभिर्यानैरवैवर्तिकान् स्थापयेयं। एवं पञ्चबुद्धक्षेत्रपरमाणुरजःसमैर्महाकल्पे वर्तमानैर्मम शरीराः सत्त्वान् विनेयुस्त्रिभिर्यानैरवैवर्तिकां स्थापयेयुः; यदा पश्चात् सहस्रगङ्गानदीवालिकासमैरसंख्येयैरतिक्रान्तैर्दशसु दिक्ष्वप्रमेयैरसंख्येयैरन्योन्येभ्यो लोकधातुभ्यस्ते बुद्धा भगवन्त उत्पद्येयुर्ये मया बोधिसत्त्वभूतेनानुत्तरायां सम्यक्संबोधौ चर्यां चरता प्रथममनुत्तरायां सम्यक्संबोधौ समादापिताः स्युः प्रतिष्ठापिता, मया च षट्पारमितासु समादापिता निवेशिताः प्रतिष्ठापिताः स्युः।



बोधिप्राप्तश्चाहमपि सत्त्वाननुत्तरायां सम्यक्संबोधौ समादापयेयं निवेशयेयं प्रतिष्ठापयेयं, ये च पुनः परिनिर्वृतस्य शरीरविकुर्वणेनापि सत्त्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयेयुस्तेऽपि पश्चात् सहस्रगङ्गानदीवालिकासमैरसंख्येयैर्वर्तमानैरसंख्येयैरतिक्रान्तैर्दशसु दिक्ष्वप्रमेयेष्वसंख्येयेषु लोकधातुषु बोधिसत्त्वा महासत्त्वा अनुत्तरां सम्यक्संबोधिमभिसंबुद्धा मम वर्णं भाष्ययेयुः श्रावयेयुर्घोषं चोदीरयेयु"र्यच्चिरं भद्रको नाम कल्पो बभूव, तस्मिंश्च भद्रके महाकल्पेऽनुप्रविष्टे चतुर्थे जिनभास्कर एवंनामा तथागतो बभूव, येन वयं प्रथममनुत्तरायां सम्यक्संबोधौ समादापिता निवेशिताः प्रतिष्ठापिताः, दग्धसन्ताना अकुशलसमवधानगता आनन्तर्यकारका यावन्मिथ्यादृष्टिकास्तेन वयं षट्पारमितासु समादापिता निवेशिताः प्रतिष्ठापिताः। येन वयमेतर्हि सर्वज्ञाः सर्वाकारधार्मिकं धर्मचक्रं प्रवर्तयामः, निर्वर्ते तु गतिचक्रे बहुसत्त्वकोटीनयुतशतसहस्रान् स्वर्गे मोक्षफले च प्रतिष्ठापयामः स्युः"। ये च सत्त्वा बोध्यर्थिकास्तेषां तथागतानां सकाशे मम वर्णकीर्तियशश्च शृणुयुस्ते तं तथागतं पृच्छेयुः, "कमर्थवशं सम्पश्यमानः स भगवांस्तथागत एवं पञ्चकषाये कलियुगे वर्तमानेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः?" ते च तथागतास्तेषां बोध्यर्थिकानां कुलपुत्राणां कुलदुहितॄणां वा इमं मम महाकरुणासमन्वागतं प्रथमचित्तोत्पादं बुद्धक्षेत्रगुणव्यूहं प्रणिधानपूर्वयोगं च भाषेयुस्ते च बोध्यर्थिकाः कुलपुत्राः कुलदुहितरो वा आश्चर्यप्राप्ता भवेयुस्तेऽप्युदाराधिमुक्तिका भवेयुस्तेऽप्येवंरूपां महाकरुणां सत्त्वेषूत्पादयेयुरेवंरूपं च प्रणिधानं कुर्वीरन्, एवंरूपे तीव्रपञ्चकषाये क्लेशकषाये कलियुगे बुद्धक्षेत्रे आनन्तर्यकारकां यावदकुशलसमवधानां वैनेयां प्रतिगृह्णीयुस्ते च बुद्धा भगवन्तस्तान् महाकरुणासमन्वागतां बोध्यर्थिकां कुलपुत्रान् वा कुलदुहितॄन् वा एवंरूपेण व्याकरेणन व्याकुर्युर्यथाभिप्रायां तैः कुलपुत्रैः कुलदुहितृभिर्वा तीव्रपञ्चकषाये क्लेशे कलियुगे प्रणिधानं कृतं। अपरे बुद्धा भगवन्तो मम शरीरविवर्तनेभिः पूर्वयोगैः सत्त्वानां बोध्यर्थिकानां कुलपुत्राणां कुलदुहितॄणां वा विस्तरेण भाषयेयुः, "एवं चिरमेवंनामा जिनसूर्यो बभूव; परिनिर्वृतस्य शरीरेभिरेवं चिरमेवंरूपणां दुःखितानां सत्त्वानामर्थाय एवंरूपाणि विविधानि प्रातिहार्याणि विविधा च नानाप्रकारा विकुर्वणाकृतास्तस्य शरीरविकुर्वणाभिर्वयं प्रथममनुत्तरायां सम्यक्संबोधौ संचोदिताः, अनुत्तरायां सम्यक्संबोधौ वयं कुशलमूलसमवधानान् प्रथमचित्तोत्पादादिदं पारमितासु चोद्योगः कृतः, यावद्यथा पूर्वोक्तं विस्तरेण"।



अथ खलु समुद्ररेणुर्ब्राह्मणोऽग्रपुरोहितो रत्नगर्भस्य तथागतस्य पुरतः सदेवगन्धर्वमानुषिकायाः प्रजायाः इमां महाकरुणासमन्वागतां पञ्चशतानि प्रणिधानानि कृतवान्, स एवमाह - "यदि मे भदन्त भगवन्नेवंरूपा आशा परिपूर्येत तथा चाहमनागतेऽध्वनि भदरके कल्पे तीव्रक्लेषे रणकषाये कलियुगे वर्तमाणेऽन्धलोकेऽनायकेऽपरिणायके दृष्टिव्यसनान्धकारप्रक्षिप्ते लोके आनन्तर्यकारकानां यावत् पूर्वोक्तं; यदि चाहं शक्तः सकलमेवं बुद्धकार्यं निष्पादयितुं यथा च मे प्रणिधानं कृतं, न च विसरामि बोधौ प्रणिधानं, न चान्यक्षेत्रे कुशलमूलं परिणामयामि; एवमेव भदन्त भगवन् व्यवसायं। न च पुनरहं अनेन कुशलमुलेन प्रत्येकबुद्धयानं प्रार्थयामि, न च श्रावकयानं प्रार्थयामि, न देवमनुष्यलोके राजत्वं प्रार्थयामि, न देवमनुष्यलोके ऐश्वर्यं प्रार्थयामि, न पञ्चकामगुणपरिभोगार्थं, न देवोपपत्तिं प्रार्थयामि, न गन्धर्वासुरयक्षराक्षसनागगरूडोपपत्तिं प्राथयामि, न चात्र कुशलमूलं परिणामयामि। यच्च भगवान् एवमाह - "दानं महाभोगतायै संवर्तते, शीलं स्वर्गोपपत्तये श्रुतं महाप्रज्ञतायै भावना विसंयोगाय"। उक्तं चैतत्पुनर्भगवता, "ऋध्यति आशयोऽभिप्रायः कुशलमूलपरिणामना पुण्यवतः सत्त्वस्य"। यच्च मया भदन्त भगवन् दानमयं वा शीलमयं वा श्रुतमयं वा भावनामयं वा पुण्यमार्जितं स्यात्। यदि नैवंरूपा आशा परिपूर्येत यथा मे प्रणिधानं कृतं तदहं तत्सर्वं कुशलमूलं नैरयिकानां सत्त्वानां परिणामयामि; ये सत्त्वाः प्रचण्डमण्डघोरेऽवीचौ नरके दुःखान्यनुभवन्ति ते चानेन कुशलमूलेन ततो व्युत्तिष्ठन्तु, इह च बुद्धक्षेत्रे मनुष्यप्रतिलाभं प्रतिलभन्तु, तथागतप्रवेदितं च धर्मविनयमारागयेयुः, अग्रत्वे च परिनिर्वायेयुः। यच्च तेषां सत्त्वानामपरिक्षीणकर्मफलं स्यात्तदहमेतर्हि कालं कृत्वाविचौ महानरके उपपद्येयं; बुद्धक्षेत्रपरमाणुरजःसमाध्यगमणीयाश्च मे कायाः प्रादुर्भवेयुः। एकैकश्च मे कायः सुमेरुपर्वतराजप्रमाणो महान् संभवेत्; एकैकश्च मे काय एवंरूपाः सुदुःखा वेदना जानीयाद्यथैतर्हि एष एकः शरीरः सुदुःखां वेदनां संजानाति; एकैकश्च मे आत्मभावो बुद्धक्षेत्रपरमाणुरजःसमां तीव्रां चण्डां खरां नैरयिकां कारणां अनुभवेयुर्ये चैतर्हि बुद्धक्षेत्रपरमाणुरजःसमेषु दशसु दिक्ष्वन्येषु लोकधातुषु सत्त्वा आनन्तर्यकारका यावदवीचिपरायणानि कर्माणि समुदानीतानि स्युर्यच्च यावद्बुद्धक्षेत्रपरमाणुरजःसमेषु महाकल्पेष्वतिक्रान्तेषु दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमेष्वन्येषु बुद्धक्षेत्रेषु गत्वानन्तर्यकर्माणि क्षिपेयुः समुत्थापयेयुर्वा, सर्वेषां अर्थायाहं तत्कर्मावीचौ महानरके स्थितोऽनुभवेयं, मा च मे सत्त्वा नरकेषूपपद्येयुः, सर्वे च ते सत्त्वा बुद्धा भगवन्त आरागयेयुः, संसाराच्चोत्तारयेयुः, निर्वाणनगरं प्रवेशयेयुः; तदाहमेतच्चिरेण नरकात् परिमुच्येयं। यावद्दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमेष्वन्येषु बुद्धक्षेत्रेषु सत्त्वैस्तथारूपं कर्मसमुत्थापितं आक्षिप्तं नियतवेदनीयं प्रतापने नरके उपपद्यितव्यं, यावद्यथा पूर्वोक्तं। एवं सन्तापने महारौरवे सङ्घाते कालसूत्रे संजीवने, एवं नानाविधा तिर्यग्योनिर्वाच्याः, एवं यमलोके वक्तव्यः, एवं यक्षदारिद्रे वक्तव्यं, एवं कुम्भाण्डपिशाचासुरगरुडा वाच्याः। यदा बुद्धक्षेत्रपरमाणुरजःसमेषु दशसु दिक्ष्वन्येषु लोकधातुषु सत्त्वैरेवंरूपं कर्माक्षिप्तं स्यात्, ये च मनुष्यान्धबधिरा अजिह्वाका अहस्तका अपादकाः स्मृतिप्रमुष्टचित्तैरुत्पाद्यितव्यं अशुचिभक्षयितव्यं, पेयालं यथा पूर्वोक्तं। पुनरेवमहमवीचौ महानरके उपपद्येयं; यावच्चिरं संसारे धात्वायतनस्कन्धं प्रतिगृह्णीयुस्तावच्चिरमहं एवंरूपां विविधे नरकतिर्यक्प्रेतेषु यक्षासुरराक्षसेषु यावन् मनुष्यदुःखोपपत्तिभिरेवं दुःखमनुभवेयं, यथा पूर्वोक्तं; यदि मे एवंरूपा अनुत्तरायां सम्यक्संबोधौ आशा न परिपूर्येत।



अथ खलु च पुनर्मे एवंरूपानुत्तरायां सम्यक्संबोधौ आशा परिपूर्येत यावत् पूर्वोक्तं, साक्षीभूता मे बुद्धा भगवन्तो भवन्तु। ये दशसु दिक्ष्वप्रमेयासंख्येयेषु अन्येषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति यापयन्ति धर्मं च देशयन्ति ते मम बुद्धा भगवन्तः साक्षीभूता भविष्यन्ति, ज्ञानभूता भविष्यन्ति। व्याकरोतु मे भदन्त भगवन्ननुत्तरायां सम्यक्संबोधौ, भद्रके कल्पे भवेयमहं विंशोत्तरवर्षशतायुष्कायां प्रजायां तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसम्पन्नो यावद्बुद्धो भगवान्; शक्तोऽहमेवंरूपं बुद्धकार्यमभिनिष्पादयितुं या मे प्रतिज्ञा कृताः"।



अथ तावदेव सर्वावती पर्षा सदेवगन्धर्वमानुषासुरश्च लोकः क्षितिगगनस्थिताः, स्थापयित्वा तथागतं ते सर्वेऽश्रूणि प्रवर्तयमानाः पञ्चमण्डलेन पादौ वन्दित्वाहुः। "साधु साधु महाकारुणिक, गंभीरा ते स्मृतिर्गंभीरेषु सत्त्वेषु महाकरुणोत्पन्ना, गंभीरं च महाप्रणिधानं कृतं। तदाध्याशयेन सर्वसत्त्वा महाकरुणया संच्छादिताय भूयसानन्तर्यकारका यावदकुशलमूलसमवधानगता वैनेयाः प्रतिगृहीता; एतेन प्रणिधानेन ज्ञायते यथा त्वं प्रथमचित्तोत्पादेनानुत्तरायां सम्यक्संबोधौ सत्त्वानां भैषज्यभूतस्त्राणं परायणं; सत्त्वानां दुःखप्रमोचनार्थं प्रणिधानं कृतं तथा ते आशा परिपूर्यतु व्याकरोतु च भगवाननुत्तरायां सम्यक्संबोधौ"।

स्वयं च राजा अमृतशुद्धः प्ररुदमानो ब्राह्मणस्य पञ्चमण्डलेन पादौ वन्दित्वाह।



"अहो परमगम्भीर

सुखेषु त्वमनास्रितः।

सत्त्वेषु त्वं दयापन्नः

अस्माकं त्वं निदर्शकः"॥



पेयालं, अवलोकितेश्वर आह -

"सत्त्वेषु सक्तेषु भवानसक्त

अतीन्द्रियार्थेषु अतीन्द्रियाश्च।

करोषि चैश्वर्यमिहेन्द्रियाणां

भाषिष्यसे धारणि ज्ञानकोशं"॥



पेयालं, महास्थामप्राप्तस्त्वाह -

"बहुकोटीसहस्रसत्त्वानां

कुशलार्थं समागताः।

रुदन्ते त्वयि कारुण्य

महापरमदुष्करं"॥



मञ्जुश्रीर्बोधिसत्त्व आह -

"दृढवीर्यसमाधान

वरप्रज्ञाविचक्षण।

त्वमस्मान् अर्हसे पूजां

माल्यगन्धविलेपनैः"॥



गगनमुद्रो बोधिसत्त्व आह -

"एवं दत्तं त्वया दानं

सत्त्वेभ्यो महती कृपा।

क्षीणकालेऽस्मिं त्वं

नाथ भेष्यसे वरलक्षणः"॥



वज्रच्छेदप्रज्ञावभासो बोधिसत्त्वोऽप्येवमाह -

"यथाकाशं सुविस्तीर्णम्

एवं त्वं करुणाश्रयः।

त्वया सत्त्वेभ्योऽयं पन्था

बोधिचर्या प्रदर्शितः"॥



वेगवैरोचनो बोधिसत्त्व आह -

"न चान्ये कृपा सत्त्वेषु

स्थापयित्वा तथागतं।

यस्त्वं सर्वगुणोपेतो

वरप्रज्ञाविचक्षणः"॥



सिंहगन्धस्त्वाह -

"अनागते य अध्वाने

भद्रके क्लेशमारके।

यशः कीर्तिं त्वमाप्नोषि

सत्त्व मोचयि दुःखितान्"॥



समन्तभद्रो बोधिसत्त्व आह -

"जन्मकान्तार उद्युक्ता

मिथ्यामाश्रय सङ्कटा।

गृहीता दग्धसन्ताना

मांसरुधिरभोजना”॥



अक्षोभ्य आह -

“अविद्याण्डकप्रक्षिप्ता

क्लेशपङ्के समुत्थिताः।

गृहीता दग्धसन्ताना

आनन्तर्यकारकाः"॥



गन्धहस्तोऽप्याह -



"त्वमनागतभयं दृष्ट्वा

यथा आदर्शमण्डले।

गृहीता दग्धसन्तानाः

सद्धर्मप्रतिक्षेपकाः"॥



रत्नकेतुरप्याह -

"ज्ञानशीलसमाधानः

कृपाकरुणभूषितः।

गृहीता दग्धसन्ताना

आर्याणामपवादकाः"॥



विगतभयसंताप आह -

"त्वं दुःखं दृष्ट्वा

सत्त्वानां त्र्यपायगतिमध्वनि।

गृहीता दग्धसन्तानाः

तुच्छमुष्टित्वयाश्रिताः"॥



उत्पलहस्तोऽप्याह -

"कृपाज्ञानेन वीर्येण

पर्षा त्वयि मर्दिता।

गृहीता दग्धसन्ताना

जन्मामरणपीडिताः"॥



ज्ञानकीर्तिराह -

"बहुरोगोपहता

क्लेशवायुसमीरिताः।

शमेसि ज्ञानतोयेन

मारबलं प्रमर्दसि"॥



धरणीमुद्रोऽप्याह -

"न वीर्यं दृढमस्माभिः

क्षीणे क्लेशविमोक्षणे।

यथा त्वं शूरसूर्येव

क्लेशजालं प्रमर्दसि"॥



उत्पलचन्द्रोऽप्याह।

"दृढवीर्यसमुत्साह

यथा गुणकृपाश्रयः।

मोचेसि त्वं त्रयं लोक्यं

प्रबद्धं भवबन्धनैः"॥



विमलेन्द्र आह -

"महाकारुणि निर्दिष्ट

बोधिसत्त्वान गोचरः।

वयं हि त्वां नमस्यामः

कृपाहेतुसमुत्थितः"॥



बलवेगधार्यप्याह -

"क्लेशयोगे कलियुगे

या बोधिस्त्वया समाश्रिता।

छिन्द क्लेशे समूलांस्त्वं

सिध्यते प्रणिधिर्दृढा"॥



ज्योतिपालोऽप्याह -

"ज्ञानकोशसमं तुल्यं

कृता प्रणिधि निर्मला।

वर्तसे बोधिचर्याय

सत्त्वौषधिस्तवाश्रयः"॥



बलसन्दर्शनो बोधिसत्त्वो महासत्त्वः प्ररुदमानो ब्राह्मणस्य पञ्चमण्डलेन पादौ वन्दित्वाञ्जलिं प्रगृहीतवानाह -



"अहो ज्ञानोल्क सत्त्वेभ्यः

क्लेशरोगविशाटनी।

कृपालु प्रज्वालिता ते

सत्त्वान् मोचेसि दुःखितान्"॥



सर्वावती च कुलपुत्र सा पर्षा सदेवगन्धर्वमाणुषा ब्राह्मणस्य पञ्चमण्डलेन पादौ वन्दित्वा कृताञ्जलिः स्थित्वा विचित्राभिरन्वयपदयुक्ताभिर्गाथाभिसभिस्तवित्वा तस्थौ॥



यदा च कुलपुत्र समुद्ररेणुर्ब्राह्मणो रत्नगर्भस्य तथागतस्याग्रतो दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठापयति। अथ तावदेव महापृथिविचालः प्रादुर्भूतः समन्ताच्च दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमेषु बुद्धक्षेत्रेषु पृथिवी चलति प्रचलति संप्रचलति क्षुभति प्रक्षुभति संप्रक्षुभति वेधति प्रवेधति संप्रवेधति रणति प्ररणति संप्ररणति। पुनरपि महान् अवभासः प्रादुर्भूता, विविधा च पुष्पवृष्टिः प्रवर्षितास्तद्यथा मान्दारवमहामान्दारवं यावदनन्तप्रभा एवंरूपा पुष्पवृष्टिः प्रवर्षितवती। यद्दशसु दिशासु बुद्धक्षेत्रपरमाणुरजःसमेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ति यापयन्ति परिशुद्धेषु बुद्धक्षेत्रेषु अपरिशुद्धेषु वा सत्त्वानां धर्मं देशयन्ति। ये च तत्र बोधिसत्त्वा महासत्त्वास्तेषां बुद्धानां भगवतामन्तिके निषण्णा धर्मश्रवणाय ते बोधिसत्त्वा महासत्त्वास्तं पृथिवीचालं दृष्ट्वा पुनस्ते बोधिसत्त्वास्तां बुद्धां भगवतः परिपृच्छन्ति। "को भगवन् हेतुः कः प्रत्ययो महतः पृथिवीचालस्य लोके प्रादुर्भावाय, महत्याश्च पुष्पवृष्टेरभिप्रवर्षतु?"।



तेन खलु पुनः समयेन पूर्वस्यां दिशि इतो बुद्धक्षेत्रादेकगङ्गानदीवालिकासमानि बुद्धक्षेत्राण्यतिक्रम्य रत्नविचया नाम लोकधातुस्तत्र रत्नविचये बुद्धक्षेत्रे रत्नचन्द्रो नाम तथागतोऽर्हन् सम्यक्संबुद्धो भगवांस्तिष्ठति यापयति अप्रमेयेभ्योऽसंख्येयेभ्यो बोधिसत्त्वेभ्यः पुरस्कृतः परिवृतो धर्मं देशयति स्म यदुत बुद्धक्षेत्रे महायानकथा। तत्र बुद्धक्षेत्रे रत्नकेतुर्नाम बोधिसत्त्वो महासत्त्वाश्चन्द्रकेतुश्च; तौ द्वौ बोधिसत्त्वौ येन रत्नचन्द्रस्तथागतस्तेनाञ्जलिं प्रणम्य रत्नचन्द्रं तथागतमेतदवोचतां - "को भदन्त भगवन् हेतुः कः प्रत्ययो महतः पृथिवीचालस्य लोके प्रादुर्भावाय, महत्याश्च पुष्पवृष्टेः प्रवर्षणतायै?"। रत्नचन्द्रस्तथागत आह - "अस्ति कुलपुत्र पश्चिमायां दिशीतो बुद्धक्षेत्रादेकगङ्गानदीवालिकासमान् बुद्धक्षेत्रानतिक्रम्य तत्र सन्तीरणो नाम लोकधातुः। तत्र सन्तीरणे बुद्धक्षेत्रे रत्नगर्भस्तथागतो यावद्बुद्धो भगवांस्तिष्ठति यापयति बहुबोधिसत्त्वकोटिर्व्याकरोत्यनुत्तरायां सम्यक्संबोधौ बोधिसत्त्वविषयसंदर्शनप्रणिधानव्यूहसमाधिविषयधारणीमुखव्यूहं धर्मपर्यायं भाषमाण; एकश्चात्र महाकारुणिको बोधिसत्त्वो महासत्त्वस्तेनैवंरूपं प्रणिधानं कृतं महाकरुणापरिभाविता वाग्भाषिता अनुत्तरायां सम्यक्संबोधौ व्याकरणनिर्देशं बोधिसत्त्वानां तथारूपा प्रणिधाना उद्भाषिता यद्बहुभिः प्राणकोटिभिर्बोधौ प्रणिधानं कृतं, बुद्धक्षेत्रगुणव्यूहाश्च परिगृहीता वैनेयसत्त्वाश्च परिगृहीताः, सर्वतश्च स एको महाकरुणासमन्वागतो महाबोधिसत्त्वो यः सर्वावतीं तां पर्षदमभिभूय क्लिष्टं पञ्चकषायं क्लेशरणिकलियुगं बुद्धक्षेत्रं सर्व आनन्तर्यकारका यावदकुशलमूलसमवधानगता दग्धसन्ताना वैनेयाः परिगृहीताः; सर्वावती च सा पर्षत् सदेवगन्धर्वमाणुषासुरश्च लोकस्तं रत्नगर्भं तथागतमपहाय तस्य महाकारुणिकस्य पश्चिमकस्य पूजायोद्युक्ताः पञ्चमण्डलेन च वन्दित्वा प्राञ्जलीभूताः स्थितास्तस्य वर्णं भाषते। स च महासत्त्वस्तस्य भगवतो रत्नगर्भस्य तथागतस्य पुरतो निषण्णो व्याकरणं शृण्वानः। यदा च स महासत्त्वस्तस्य भगवतः पुरतो दक्षिणं जानुमण्डलं पृथिव्यां निक्षिप्तवांस्तदा स भगवांस्तथारूपं स्मितं प्रादुरकार्षिद्यथा दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमा लोकधातवश्चलिताः पुष्पवर्षं चाभिप्रवर्षितं। सर्वत्र च तेषु बुद्धक्षेत्रेषु ते बोधिसत्त्वा महासत्त्वाः प्रबोधनार्थं महाकरुणाबोधिसत्त्वप्रणिधानचर्यानिदर्शनार्थं बोधिसत्त्वानां च महासत्त्वानां बुद्धक्षेत्रपरमाणुरजःसमेभ्यो दिग्भ्यो बुद्धक्षेत्रेभ्यः सन्निपतनार्थं बोधिसत्त्वानां च महासत्त्वानां समाधानमुखनिर्देशचर्यावैशारद्यधर्मपर्यायां भाषणार्थं तेन तथागतेन एवंरूपाणि प्रातिहार्याणि दर्शितानि"।



तौ च कुलपुत्र द्वौ बोधिसत्त्वौ तं रत्नचन्द्रं तथागतं परिपृच्छते स्म। कियच्चिरोत्पादितं भदन्त भगवांस्तेन महाकारुणिकेन बोधिसत्त्वेन महासत्त्वेन बोधिचित्तं?; कियच्चिरं बोधिचारिकां चीर्णवान्, येन पञ्चकषाये लोके तीव्रक्लेशरणे कलियुगे वर्तमाने कालः परिगृहीत आनन्तर्यकारका यावदकुशलमूलसमवधानगता दग्धसन्तानाः सत्त्वा वैनेयाः परिगृहीताः?"। रत्नचन्द्रस्तथागत आह - "सांप्रतं कुलपुत्र तेन महाकारुणिकेन प्रथमचित्तमुत्पादितं अनुत्तरायां सम्यक्संबोधौ। गच्छत कुलपुत्र यूयं तत् सन्तीरणं बुद्धक्षेत्रं तस्य रत्नगर्भस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय। तं च समाधानमुखनिर्देशं चर्यावैशारद्यधर्मपर्यायं श्रोष्यथ। तं च महाकारुणिकं बोधिसत्त्वं महासत्त्वं मद्वचनान् पृच्छथ; एवं च वदथ, "रत्नचन्द्रस्तथागतस्त्वां सत्पुरुषं पृच्छति। इदं च चन्द्ररोचविमलं पुष्पं प्रेषितवान्, साधुकारश्चानुप्रदत्त। एवं च प्रथमचित्तोत्पादेन त्वं सत्पुरुष महाकारुणिकव्याहारेण दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमासु लोकधातुषु बुद्धक्षेत्राणि शब्देनापूरितानि, तेन त्वया सर्वत्र महाकारुणिक नाम प्रतिलब्धं। तेन त्वं सत्पुरुष साधु भूयः पश्चिमकानां महाकारुणिकानां बोधिसत्त्वानां महासत्त्वानां महाकरुणाव्याहारेण प्रणिधाननेत्रीध्वजमुच्छ्रयणं। तेन त्वं सत्पुरुष भूयो बुद्धक्षेत्रपरमाणुरजःसमान् अनागतानसंख्येयान् कल्पान् बुद्धक्षेत्रपरमाणुरजःसमान् दशदिशि लोकधातुषु यशःकीर्तिशब्देनापूरय। येन त्वया बह्वसंख्येयसत्त्वकोटीनयुतशतसहस्राण्यनुत्तरायां सम्यक्संबोधौ समादापितानि निवेशितानि प्रतिष्ठापितानि भगवतः सकाशमुपनीतानि, अवैवर्तिकानि स्थापितान्यनुत्तरायां सम्यक्संबोधौ। भविष्यन्ति केचित्तत्र प्रणिधानेन बुद्धक्षेत्रगुणव्यूहां परिगृहीष्यन्ति, ये पश्चाद् व्याकरणं लप्स्यन्ते, ये त्वया बोधौ समादापिताः सर्वे ते पश्चाद् यावद् बुद्धक्षेत्रपरमाणुरजःसमासंख्येयकल्पैर्दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमेषु अन्येषु लोकधातुषु बुद्धत्वं प्राप्य धर्मचक्रं प्रवर्तयित्वा त्वां आरभ्य वर्णं भाषिष्यन्ते। अनेन तृतीयेन कारणेन ते साधु सत्पुरुष"।



तेन खलु पुनः समयेन द्वानवतिबोधिसत्त्वकोट्य एककण्ठेन वदन्ति। "वयमपि भदन्त भगवन् सन्तीरणं बुद्धक्षेत्रं गच्छेमः तस्य रत्नगर्भस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकं दर्शनाय वन्दनाय पर्युपासनाय, तं च सत्पुरुषं दर्शनाय वन्दनाय, यस्य तथागतेन त्रिभिरङ्गैः साधुकारः प्रेषित, इमं च चन्द्ररोचविमलं पुष्पं प्रेषितं"। स च कुलपुत्र रत्नचन्द्रस्तथागत आह - "गच्छत कुलपुत्रा यस्यैतर्हि कालं मन्यध्वे, तत्र च रत्नगर्भस्य तथागतस्य सकाशात् समाधानमुखनिर्देशं चर्यावैशारद्यधर्मपर्यायं श्रोष्यध्वे"।



अथ तौ द्वौ कुलपुत्रौ रत्नकेतुश्चन्द्रकेतुश्च रत्नचन्द्रस्य तथागतस्य सकाशाच्चन्द्ररोचविमलं पुष्पं गृहीत्वा सार्धं द्वानवतिभिर्बोधिसत्त्वकोटीभी रत्नविचयायां लोकधातौ संप्रस्थितौ। तद्यथापि नाम विद्युता एवमेव ततो बोधिसत्त्वपर्षाद् रत्नविचये बुद्धक्षेत्रेऽन्तर्हितौ, इह संतीरणे बुद्धक्षेत्रे जम्बूवनोद्याने च स्थितौ। येन रत्नगर्भस्तथागतस्तेनोपसंक्रामे तं उपेत्य रत्नगर्भस्य तथागतस्य पादौ शिरसा वन्दित्वा विविधाभिर्बोधिसत्त्वविकुर्वणाभिः पूजां कृत्वा रत्नगर्भस्य तथागतस्याग्रतो ब्राह्मणं दृष्ट्वा सर्वावतीं च बोधिसत्त्वपर्षां प्राञ्जलीभूतां वर्णं भाषमाणां तयोर्बोधिसत्त्वयोरेतदभवद्। "अयं स महाकरुणासमन्वागतो यस्य रत्नचन्द्रेण तथागतेनेमे चन्द्ररोचविमलाः पुष्पाः प्रेषिताः"। अथ तौ द्वौ बोधिसत्त्वौ भगवतः सकाशात् परिवर्तित्वा ब्राह्मणस्य पुष्पं उपनामयित्वा एतदवोचतां - "इमं ते सत्पुरुष रत्नचन्द्रेण तथागतेन चन्द्ररोचविमलं पुष्पं प्रेषितं, साधुकारश्च ते सत्पुरुषः प्रेषितः; यावद्यथोक्तं पूर्वं। पेयालं, अप्रमेयासंख्येयेभ्यः पूर्वायां दिशायां बुद्धक्षेत्रेभ्यो बोधिसत्त्वा महासत्त्वाः सन्तीरणं बुद्धक्षेत्रं संप्राप्ताः, चन्द्ररोचविमलपुष्पां गृहीत्वा ब्राह्मणस्य पुष्पाः प्रेषिताः, त्रिभिश्चाङ्गैः साधुकारः प्रेषितो; यथा पूर्वोक्तं।



एवं दक्षिणायां दिशायामितो बुद्धक्षेत्रात् सप्तनवतिबुद्धक्षेत्रकोटीनयुतशतसहस्रानतिक्रमित्वा तत्र निर्यूहविजृंभितो नाम लोकधातुस्तत्र निर्यूहविजृंभिते बुद्धक्षेत्रे सिंहविजृंभितेश्वरराजा नाम तथागतोऽर्हन् सम्यक्संबुद्धस्तिष्ठति यापयति शुद्धानां बोधिसत्त्वानां महासत्त्वानां शुद्धां महायानकथां धर्मं देशयति स्म। तस्मिंश्च पर्षदि द्वौ बोधिसत्त्वौ महासत्त्वौ, एको ज्ञानवज्रकेतुर्नाम द्वितीयः सिंहवज्रकेतुस्तौ द्वौ बोधिसत्त्वौ सिंहविजृंभितेश्वरराजं तथागतं परिपृच्छतः स्म - "को भदन्त भगवन् हेतुः कः प्रत्ययो महतः पृथिवीचालस्य लोके प्रादुर्भावाय महतश्च पुष्पवर्षस्य?"; यावद् यथा पूर्वोक्तं। पेयालं, यावद् अप्रमेयासंख्येया दक्षिणस्यां दिश्यन्येभ्यो बुद्धक्षेत्रेभ्योऽप्रमेयासंख्येया बोधिसत्त्वकोटीनयुतशतसहस्राः संतीरणं बुद्धक्षेत्रमनुप्राप्ताः, यावद् यथा पूर्वोक्तं।



तेन खलु पुनः समयेन पश्चिमायां दिशीतो बुद्धक्षेत्रादेकोननवतिबुद्धक्षेत्रकोटीनयुतशतसहस्रबुद्धक्षेत्रानतिक्रमित्वा तत्र जयावतिर्नाम बुद्धक्षेत्रं, तत्र जितेन्द्रियविशालनेत्रो नाम तथागतस्तिष्ठति यापयति, चतुर्णां पर्षदां त्रिभिर्यानैर्धर्मं देशयति स्म। तत्र भद्रवैरोचनो नाम बोधिसत्त्वो महासत्त्वः सिंहविजृंभितकायश्च नाम द्वितीयो बोधिसत्त्वो महासत्त्वस्तौ द्वौ सत्पुरुषौ जितेन्द्रियविशालनेत्रं तथागतमेतमर्थं परिपृच्छतः - "कुतोऽयं महापृथिवीचालप्रादुर्भावो, महातश्च पुष्पवृष्टिप्रवर्षणस्य?"; यावद् यथा पूर्वोक्तं।



तेन खलु पुनः समयेनोत्तरस्यां दिशीतो बुद्धक्षेत्राद्बुद्धक्षेत्रकोटीनयुतशतसहस्राण्यतिक्रम्य तत्र जम्बुर्नाम लोकधातुस्तत्र लोकेश्वरराज नाम तथागतो यावद्बुद्धो भगवान् शुद्धानां महायानसंप्रस्थितानां बोधिसत्त्वानां शुद्धां महायानकथां धर्मं देशयति स्म। तत्र द्वौ बोधिसत्त्वौ, एकोऽचलस्थावरो नाम द्वितीयः प्रज्ञाधरो नाम, तौ लोकेश्वरराजं तथागतं परिपृच्छतः स्म - "को भदन्त भगवन् हेतुः कः प्रत्ययो महतः पृथिवीचालस्य लोके प्रादुर्भावस्य, महत्याश्च पुस्पवृष्टेर्[?"];यावद् यथा पूर्वोक्तं।



तेन खलु पुनः समयेनाधो दिशीतो बुद्धक्षेत्रादष्टानवतिबुद्धक्षेत्रनयुतानतिक्रम्य तत्र विगततमोऽन्धकारा नाम लोकधातुस्तत्र विगतभयपर्युत्थानघोषो नाम तथागतस्तिष्ठति यापयति, चतुर्णां पर्षदां त्रिभिर्यानैर्धर्मं देशयति स्म। तत्र बुद्धक्षेत्रे द्वौ बोधिसत्त्वौ महासत्त्वावेकोऽरजवैरोचनो नाम द्वितीयः स्वर्गवैरोचनो नाम, यावद्यथा पूर्वोक्तं।



तेन खलु पुनः समयेनोपरिष्ठायां दिशीतो बुद्धक्षेत्राद्द्वे शतसहस्रे बुद्धक्षेत्राणामतिक्रमित्वा तत्र संकुसुमिता नाम लोकधातुस्तत्र संकुसुमिते बुद्धक्षेत्रे प्रस्फुलितकुसुमवैरोचनो नाम तथागत यावद् बुद्धो भगवांस्तिष्ठति यापयति, चतुर्णां पर्षदां त्रिभिर्यानैर्धर्मं देशयति स्म। तत्र बुद्धक्षेत्रे द्वौ बोधिसत्त्वौ महासत्त्वौ प्रतिवसत, एकः स्वविषयसंकोपितविषयो नाम द्वितीयो धारणीसंप्रहर्षणविकोपितो नाम बोधिसत्त्वस्तौ द्वौ सत्पुरुषौ प्रस्फुलितकुसुमवैरोचनं तथागतं पृष्टवन्तौ। "को भदन्त भगवन् हेतुः कः प्रत्ययो महतः पृथिवीचालस्य लोके प्रादुर्भावाय महत्याश्च पुष्पवृष्टेः?"। प्रस्फुलितकुसुमवैरोचनस्तथागत आह - "अस्ति कुलपुत्राधो दिशीतो बुद्धक्षेत्रात् द्वे शतसहस्रे बुद्धक्षेत्राणामतिक्रम्य तत्र संतीरणो नाम लोकधातुस्तत्र रत्नगर्भो नाम तथागतो यावद्बुद्धो भगवांस्तिष्ठति धर्मं च देशयति स्म। बहुसत्त्वकोट्यो व्याकरोत्यनुत्तरायां सम्यक्संबोधौ बोधिसत्त्वविषयक्षेत्रसन्दर्शनप्रणिधानविषयव्यूहसमाधिविषयधारणीमुखनिर्यूहं धर्मपर्यायं भाषमाण ; एकश्च तत्र महाकारुणिको बोधिसत्त्वो महासत्त्वः स एवंरूपं प्रणिधानं कृतवान्, महाकरुणापरिभाविता वाचा भाषिता, अनुत्तरायां सम्यक्संबोधौ व्याकरणनिर्देशं बोधिसत्त्वानां महासत्त्वानां, यथारूपा प्रणिधाननेत्र्युद्भाविता यथा बहुबोधिसत्त्वकोटीभिर्बुद्धक्षेत्रप्रणिधानं कृतं, बुद्धक्षेत्रगुणव्यूहा वैनेयसत्त्वाश्च परिगृहीताः; स चैको महाकरुणासमन्वागतो बोधिसत्त्वः सर्वावतिं पर्षदमभिभूय क्लिष्टं पञ्चकषायं क्लेशारणिकलियुगं बुद्धक्षेत्रं परिगृहीतं, सर्वे चानन्तर्यकारका यावद् अकुशलमूलसमवधानगता दग्धसंताना वैनेयाः परिगृहीताः। सर्वावतीर्च सा पर्षा सदेवगन्धर्वासुरमानुषश्च लोको रत्नगर्भस्य तथागतस्य पूजामपहाय तस्य महाकारुणिकस्य पूजाकर्मणे उद्युक्ताः पञ्चमण्डलेन वन्दित्वा प्राञ्जलिभूताः स्थित्वा वर्णं भाषन्ते स्म। स च महासत्त्वो रत्नगर्भस्य तथागतस्य पुरतो निषण्णो व्याकरणं शृण्वानः। यदा च तेन महासत्त्वेन तस्य भगवतः पुरतो दक्षिणं जानुमण्डलं पृथिव्यां निक्षिप्तं तदा तेन भगवता तथारूपं स्मितं प्राविष्कृतं, यदा दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमेषु लोकधातुषु महापृथिवी षड्विकारं चलिता प्रचलिता संप्रचलिता कंपिता यावत् पुष्पवृष्टिः प्रवर्षिता। सर्वेभ्यश्च तेभ्यो बुद्धक्षेत्रेभ्यो बोधिसत्त्वा महासत्त्वाः प्रबोधनार्थं, महाकारुण्या बोधिसत्त्वप्रणिधानचर्या निदर्शनार्थं, बोधिसत्त्वा महासत्त्वा बुद्धक्षेत्रपरमाणुरजःसमेभ्यो लोकधातुभ्यो दशभ्यो दिग्भ्यस्तत्र बुद्धक्षेत्रे सन्निपतनार्थं, बोधिसत्त्वानां च महासत्त्वानां समाधानमुखनिर्देशचर्यावैशारद्यं धर्मपर्यायं भाषणार्थं तेन तथागतेनैवंरूपाणि प्रातिहार्याणि दर्शितानि"।



तौ च कुलपुत्र द्वौ बोधिसत्त्वौ महासत्त्वौ स्वविषयसंकोपितविषयश्च धारणीसंप्रहर्षणविकोपितश्च तं प्रस्फुलितकुसुमवैरोचनं तथागतं परिपृच्छतः स्म। "कियच्चिरोत्पादितं भदन्त भगवंस्तेन महाकारुणिकेन बोधिसत्त्वेन महासत्त्वेन बोधाय चित्तं?; कियच्चिरं वा स महाकारुणिको बोधिसत्त्वो महासत्त्वो बोधिचारिकां चीर्णं, येन पञ्चकषाये लोके तीव्रक्लेशरणिके कलियुगे वर्तमाने कालः परिगृहीत आनन्तर्यकारका यावद् अकुशलमूलसमवधानगता दग्धसंताना वैनेयाः परिगृहीताः?"। प्रस्फुलितकुसुमवैरोचनस्तथागत आह - "संप्रति कुलपुत्र तेन महाकारुणिकेन प्रथममनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितं। गच्छत कुलपुत्रा यूयं सन्तीरणं लोकधातुं तस्य रत्नगर्भस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय तं च समाधानमुखनिर्देशं चर्यावैशारद्यं धर्मपर्यायं श्रवणाय। तं च महाकारुणिकं बोधिसत्त्वं महासत्त्वं मम वचनेन पृच्छथ एवं च वक्तव्यः; प्रस्फुलितकुसुमवैरोचनस्तथागत्स्त्वां सत्पुरुष पृच्छते चन्द्ररोचविमलं पुष्पं प्रेषितं साधुकारश्चानुप्रदत्तः। एवं च त्वया सत्पुरुष प्रथमचित्तोत्पादेन महाकरुणाव्याहारेण दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमा लोकधातवः शब्देनापूरिताः, महाकरुणाशब्दश्च प्रतिलब्धस्तेन त्वं सत्पुरुष साधु भूयः, पश्चिमकानां महाकरुणामहायानसंप्रस्थितानां बोधिसत्त्वानां महासत्त्वानां महाकरुणाव्याहारेण प्रणिधाननेत्रीध्वजामुच्छ्रेपयसि; तेन त्वं सत्पुरुष साधु भूयस्त्वं सत्पुरुष बुद्धक्षेत्रपरमाणुरजःसमानागता असंख्येयकल्पबुद्धक्षेत्रपरमाणुरजःसमा दशदिश लोकधातवो यशःकीर्तिशब्देनापूरितास्तेन त्वं सत्पुरुष बह्वसंख्येयसत्त्वकोटीनयुतशतसहस्रा अनुत्तरायां सम्यक्संबोधौ समादापिता निवेशिताः प्रतिष्ठापिता, भगवतः सकाशमुपनीता, अवैवर्तिकाश्च स्थापिता अनुत्तरायां सम्यक्संबोधौ। कैश्चित्तत्रैव भगवतः सकाशे प्रणिधानेन बुद्धक्षेत्रगुणव्यूहाः परिगृहीता वैनेयाः सत्त्वाः स्वकरुणारश्मिभिराच्छादिता; ये त्वयानुत्तरायां सम्यक्संबोधौ समादापिता न च व्याकरणप्रतिलब्धं, तेऽपि पश्चाद्व्याकरणं प्रतिलप्स्यन्ते, सर्वे ते पश्चाद्यावद्बुद्धक्षेत्रपरमाणुरजःसमैरसंख्येयैः कल्पैर्दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमेष्वन्येषु लोकधातुषु बुद्धत्वं प्राप्य धार्मिकं धर्मचक्रं प्रवर्तयित्वा त्वामेवारभ्य वर्णं भाषिष्यन्ति। एतेन तृतीयेन कारणेन त्वं सत्पुरुष साधु"।



तेन खलु पुनः समयेन बहुबोधिसत्त्वकोट्य एवमूचुर्["]वयमपि भदन्त भगवंस्तत्र संतीरणे बुद्धक्षेत्रे गच्छेम, तस्य रत्नगर्भस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय, तं च सत्पुरुषं दर्शनाय वन्दनाय पर्युपासनाय, यस्य तथागतेन त्रिभिरङ्गैः साधुकारोऽनुप्रेषित, इमे च चन्द्ररोचविमलाः पुष्पाः प्रेषिताः"। स च कुलपुत्र प्रस्फुलितकुसुमवैरोचनस्तथागतस्तानाह - "गच्छत यूयं कुलपुत्रा यस्यैतर्हि कालं मन्यध्वे। तत्र यूयं कुलपुत्रा रत्नगर्भस्य तथागतस्य सकाशात् समवधानमुखनिर्देशचर्यावैशारद्यं धर्मपर्यायं श्रोष्यथ"।



अथ खलु कुलपुत्र तौ द्वौ बोधिसत्त्वौ स्वविषयसंकोपितविषयश्च धारणीसंप्रहर्षणविकोपितश्च तस्य प्रस्फुलितकुसुमवैरोचनस्य तथागतस्य सकाशाच्चन्द्ररोचविमलां पुष्पां गृहीत्वा बहुबोधिसत्त्वकोटीभिः सार्धं संकुसुमिताद्बुद्धक्षेत्रात् प्रस्थापिता इह बुद्धक्षेत्र एकक्षणेन संप्राप्ता जम्बूवनोद्याने तस्थुर्येन च रत्नगर्भस्तथागतस्तेनोपसंक्रान्तः। तेन खलु पुनःसमयेन सर्वावन्तं संतीरणं बुद्धक्षेत्रं एवंरूपं परिपूर्णं महायानिकैर्बोधिसत्त्वैः प्रत्येकबुद्धयानिकैः श्रावकयानिकैः कुलपुत्रैर्देवैर्यावन् महोरगैस्तद्यथापि नाम इक्षुवनं वा नडवनं वा तिलवनं वा शालिवनं वा संपन्नं स्फुटं भवेत्। एवमेव तस्मिन् समये संतीरणं बुद्धक्षेत्रं परिपूर्णं स्फुटं महायानिकैः कुलपुत्रैर्यावन् महोरगैस्ते च बोधिसत्त्वा रत्नगर्भस्य तथागतस्य पादौ शिरसा वन्दित्वा विविधसमाधानबलेन बोधिसत्त्वविकुर्वणेन पूजां कृत्वा रत्नगर्भस्य तथागतस्य पुरतः ब्राह्मणं दृष्ट्वा सर्वावत्यश्च ताः पर्षाः प्राञ्जलिभूताः स्थित्वा वर्णं भाषमाणाः। तेषां बोधिसत्त्वानामेतदभवत् - "अयं महाकारुणिको बोधिसत्त्वो महासत्त्वो यस्य प्रस्फुलितकुसुमवैरोचनेन तथागतेन इमे चन्द्ररोचविमलाः पुष्पा विसर्जितास्["।]ते च बोधिसत्त्वा भगवतः सकाशात् परावृत्य तस्य ब्राह्मणस्य ते चन्द्ररोचविमलाः पुष्पा उपनामयित्वाहुः। "इमे ते सत्पुरुष प्रस्फुलितकुसुमवैरोचनेन तथागतेन चन्द्ररोचविमलाः पुष्पाः प्रेषिताः, साधुकारश्च ते सत्पुरुषानुप्रदत्तः"। यावत्पूर्वोक्तं त्रिभिरङ्गैः साधुकारं निवेदितमिति। यानि च तानि पुष्पाणि शून्येषु बुद्धक्षेत्रेषु प्रवर्षितानि, विविधश्च कुशलशब्दैस्तावद्बुद्धक्षेत्राण्यापूरितानि; तद्यथा बुद्धशब्देन धर्मशब्देन सङ्घशब्देनावभासशब्देन पारमिताशब्देन बलशब्देन वैशारद्यशब्देन अभिज्ञाशब्देनानभिसंस्कारशब्देनानुत्पादशब्देनानिरोधशब्देन शान्तशब्देनोपशान्तशब्देन प्रशान्तशब्देन महामैत्रीशब्देन महाकरुणाशब्देन। यद्दशसु दिशासु तेषु शून्येषु बुद्धक्षेत्रेषु तेनावभासेनावभासितास्तत्र ये केचित् सत्त्वा मनुष्या वामनुष्यास्ते सर्वे ये केचित् सत्त्वा यमसदृशाः केचिदुदकसदृशाः केचिच्छिखरसदृशाः केचिद्ब्रह्मसदृशाः केचिच्छक्रसदृशाः केचित् पुष्पसदृशाः केचिद्गरुडसदृशाः केचित् सिंहसदृशाः केचित् सूर्यसदृशाः केचिच्चन्द्रसदृशाः केचित् तारकसदृशाः केचिद्गृध्रसदृशाः शृगालकायाः संदृश्यन्ते; यथारूपेण कुशलपक्षमनस्कारेण ते सत्त्वाः सन्निषण्णा धर्मश्रवणाय, तथारूपेण कायेन संदृश्यन्ते। तथारूपाश्च कुलपुत्र तत्र सत्त्वाः स्वकं कायं पश्यन्ति; तथारूपाश्च ते सत्त्वा रत्नगर्भस्य तथागतस्य कायं समनुपश्यन्ति। स च कुलपुत्र समुद्ररेणुर्ब्राह्मणोऽग्रपुरोहितो रत्नगर्भं तथागतं पुरतः सहस्रपत्रे सप्तरत्नमयपद्मकेशरे निषण्णं समनुपश्यति। सर्वे चात्र कुलपुत्र सत्त्वा निषण्णा वा स्थित्वा वा क्षितौ वा अम्बरे वा एकैकः सत्त्वो रत्नगर्भं तथागतमेवं पश्यन्ति; "अग्रतो रत्नगर्भस्तथागतो निषण्णोऽहं" सर्वचेतसा समन्वाहरन्ति, "मामेकमारभ्य धर्मं देशयति"।



स च कुलपुत्र रत्नगर्भस्तथागतोऽर्हन् सम्यक्संबुद्धः समुद्ररेणोर्ब्राह्मणस्य साधुकारमनुप्रदत्तः। "साधु साधु महाकारुणिक महाब्राह्मण, गणनातिक्रान्तानां सत्त्वानां त्वं असि कारुणिकहितकरः प्रभासकरो लोके संदृश्यसे। तद्यथापि नाम ब्राह्मण संपन्नं पुष्पक्षेत्रं नानावर्णं नानागन्धं नानास्पर्शं नानापत्रं नानादण्डं नानामूलं नानाभैषज्योपकरणस्थानं। केचिदत्र पुष्पा योजनशतं प्रमाणेन वर्णेन गन्धेन तपन्ति विरोचन्ति, केचिद्द्वियोजनशतं केचित्त्रियोजनशतं, पेयालं, केचिदत्र पुष्पा यावत् सर्वचातुर्द्वीपिकां लोकधातुं वर्णेन गन्धेन तपन्ति विरोचन्ति। ये च तत्र सत्त्वाश्चक्षुर्हीनास्ते पुष्पगन्धं घ्रात्वा चक्षुंसि प्रतिलभन्ते, बधिराः श्रोत्राणि प्रतिलभन्ते, यावत् सर्वाङ्गविहीनाः सर्वाङ्गानि प्रतिलभन्ते। ये च तत्र सत्त्वाश्चतुरुत्तररोगशतोपद्रुतास्ते तं गन्धं घ्रात्वा सर्वरोगेभ्यः परिमुच्येयुः। ये च तत्र सत्त्वा मत्तोन्मत्तपरमत्ताः सुप्तचित्ता विक्षिप्तचित्ताः स्मृतिप्रणष्टास्तेषां पुष्पाणां गन्धमाघ्रात्वा सर्वे स्मृतिं प्रतिलभेयुः। एवं च तत्र मध्ये पुष्पक्षेत्रे पुण्डरीकमुत्पन्नं, दृढसारं वज्रमयं वैदूर्यदण्डं शतकोमलं कनकपत्रमश्मगर्भकिंशुकं लोहितमुक्तिकेशरं, चतुरशीतिर्योजनसहस्राण्युच्चत्वेन योजनशतसहस्रं विस्तारेण। तच्च पुण्डरीकं दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमाल्लोकधातुं वर्णेन गन्धेन स्फुरित्वा विरोचते। ये च ब्राह्मण तेषु दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमेषु लोकधातुषु सत्त्वा धातुविरुद्धाः काया व्याध्युपहता अङ्गविहीना वा मत्तप्रमत्तोन्मत्ताः सुप्तस्मृतिप्रणष्टा विक्षिप्तचित्तास्तेषां सत्त्वानां तस्य पुण्डरीकस्यावभासं दृष्ट्वा गन्धं घ्रात्वा सर्वव्याधयः प्रशमं गच्छेयुः स्मृतिं च प्रतिलभेयुः। ये च तत्र बुद्धक्षेत्रेषु सत्त्वा मृता अचिरकालगता अविक्षिप्तशरीरास्तेषां कुणपेभ्यः तस्य पुण्डरीकस्य रश्मयो निपतित्वा गन्धेन वा स्पृष्ट्वा पुनस्ते कुणपा जीवितेन्द्रियं प्रतिलभेयुः, पुनश्चोत्तिष्ठेयुर्मित्रसालोहितांश्च दृष्ट्वा ते सर्वे उद्यानं प्रविश्य पञ्चभिः कामगुणैः समर्पिताः समङ्गीभूता विहरेयुस्ये च पुनस्ततश्च्यवेयुस्तेषु द्वे ब्रह्मविहार उपपद्येयुः, ये च तत्र चिरस्थायिनो भवेयुरपरीत्तायुष्का, न च तत्र च्यूत्वा अन्यत्रोपपद्येयुः। यथा ब्राह्मणास्तं पुष्पक्षेत्रमेवमयं महायानसन्निपातो द्रष्टव्यः। यथा सूर्योद्गमनकाले प्रत्युपस्थिते ते पुष्पा विसरिता प्रस्फुलिता भवन्ति तपन्ति विरोचन्ति केचिद्योजनशतमुच्चत्वेन केचिद् यावद् योजनसहस्रमुच्चत्वेन, बहुनां सत्त्वानां विविधरोगाः प्रशमन्ति, एवमेव सत्पुरुषाः तथागतो बुद्धसूर्यो लोक उदपादि। यथा ते पुष्पाः सूर्योदितस्य अस्य रश्मिभिर्विकसिता भासन्ति तपन्ति विरोचन्ति, विविधरोगोपहतानां सत्त्वानां रोगोपशमो भवति। एवमेवाहं सत्पुरुष लोक उत्पन्नः सत्त्वां कारुण्यरश्मिभिः छादयित्वा विकसित्वा भूयः सत्त्वांस्त्रिषु पुण्यक्रियावस्तुषु नियोजयामि, त्वयाप्यप्रमेयासंख्येयाः सत्त्वा अनुत्तरायां सम्यक्संबोधौ समादापिता निवेषिताः प्रतिष्ठापिता मम च सकाशमुपनीतास्तैश्च सत्त्वैर्मम सकाशे स्वकस्वकानि प्रणिधानानि कृतानि बुद्धक्षेत्राणि च परिगृहीतानि, केचित् परिशुद्धा बुद्धक्षेत्राः परिगृहीताः केचिदपरिशुद्धाः, तथा चैवं मया व्याकृताः। यैः सत्पुरुषैर्मम सकाशात् परिशुद्धा बुद्धक्षेत्राः परिगृहीतास्तैः शुद्धाशयाः सुविनेया अवरुप्तकुशलमूला वैनेयाः सत्त्वाः परिगृहीता, न ते बोधिसत्त्वा महासत्त्वा उच्यन्ते, न च तेषां महापुरुषकार्यं, न च तेषां महाकरुणाचित्तचैतसिकेषु प्रवर्तते, न च ते बोधिसत्त्वाः सर्वसत्त्वानां करुणार्थायानुत्तरां सम्यक्संबोधिं पर्येषन्ते। येऽपि ते परिशुद्धं बुद्धक्षेत्रं परिगृह्णन्ति, उत्सृष्टकृपास्ते बोधिसत्त्वा; ये श्रावकप्रत्येकबुद्धयानिकैः परिवर्जितं बुद्धक्षेत्रमाकाङ्क्षन्ति, न च ते बोधिसत्त्वाः कुशलज्ञानाशयभूता। येषामेवं प्रणिधानं कृतं यथा वयं श्रावकप्रत्येकबुद्धवर्जिता अकुशलमूलसमवधानगतैर्मातृग्रामैर्विवर्जिते नरकतिर्यग्योनियमलोकविवर्जिते बुद्धक्षेत्रेऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येयुर्महायानसंप्रस्थितानां बोधिसत्त्वानां श्रावकप्रत्येकबुद्धपरिवर्जितां शुद्धां महायानकथां धर्मं देशयेयं, बोधिप्राप्तश्चाहं दीर्घायुष्को भवेयं चिरस्थायी, बहूनि कल्पानि शूद्धाशयानां सुविनीतानां कुशलमूलसमवधानगतानां धर्मं देशयेयं। तेन ते बोधिसत्त्वा न कुशलज्ञानाशयसंभूता, न महासत्त्वा इत्युच्यते।



स च कुलपुत्र रत्नगर्भस्तथागतो बाहुं प्रसारयित्वा पञ्चभिरङ्गुलीभिर्नानावर्णा अनेकवर्णा अनेकशतसहस्रवर्णा रश्मयः प्रामुञ्चन्, ते गत्वा रश्मयोऽप्रमेयासंख्येया पुरिमायां दिशीतो बुद्धक्षेत्रान् अवभासयित्वा, तत्राङ्गुष्ठा नाम लोकधातुः, तत्राङ्गुष्ठायां लोकधातौ दशवर्षायुष्का मनुष्या दुर्वर्णा द्रोहोडिमका अकुशलमूलसमवधानगता अङ्गुष्ठमात्रमुच्चत्वेन। तत्र ज्योतीरसो नाम तथागतोऽर्हन् सम्यक्संबुद्धः। स च कलियुगप्रमाणानां मनुष्याणां हस्तप्रमाणेन हस्तमेकं तथागत ऊर्ध्वत्वेन हस्तश्च; अङ्गुष्ठप्रमाणानां पुरुषानां प्रमाणेन सप्ताङ्गुष्ठानि। स च तथागतस्तिष्ठति ध्रियति यापयति चतुर्णां पर्षदां त्रिभिर्यानैर्धर्मं देशयति।



अथ खलु कुलपुत्र तच्च बुद्धक्षेत्रं तांश्च मनुष्यांस्तं च तथागतं सर्वावती च सा पर्षाद्राक्षीत्। रत्नगर्भस्तथागतोऽर्हन् सम्यक्संबुद्ध आह - "अनेन ज्योतीरसेन तथागतेनाप्रमेयासंख्येयैः कल्पैरतिक्रान्तैः प्रथमचित्तमुत्पादितमनुत्तरायां सम्यक्संबोधौ रत्नच्छत्राभ्युद्गतावभासस्य तथागतस्याग्रतो, बहुप्राणकोटीनयुतान्यनुत्तरायां सम्यक्संबोधौ समादापितानि निवेशितानि प्रतिष्ठापितानि; यथाभिप्रायां सत्त्वैस्तस्य तथागतस्य पुरतः प्रणिधानं कृतं, केचिद्बुद्धक्षेत्रगुणव्यूहाः परिगृहीताः परिशुद्धाः केचिदपरिशुद्धाः पञ्चकषायाः परिगृहीताः। तत्र च तेन महासत्त्वेनाहं समादापितो निवेशितश्चानुत्तरायां सम्यक्सबोधौ। तत्र च मया रत्नच्छत्राभ्युद्गतावभासस्य तथागतस्य पुरतोऽनुत्तरायां सम्यक्संबोधौ पञ्चकषाये बुद्धक्षेत्रगुणव्यूहप्रणिधानं कृतं। स च मे तथागतः साधुकारमदासीत् व्याकृतश्चाहमनुत्तरायां सम्यक्संबोधौ। योऽसावस्माकं बोधाय समादायकः कल्याणमित्रोऽतीव सत्पुरुषस्तीव्रपञ्चकषाये कलियुगे वर्तमाने काले प्रतिक्लिष्टं बुद्धक्षेत्रं परिगृहीतं, आनन्तर्यकारका यावदकुशलमूलसमवधानगता दग्धसन्तानाः संसाराटवीकान्तारसङ्कटप्राप्ता वैनेयसत्त्व प्रणिधानः परिगृहीतस्तस्य सत्पुरुषस्य दशसु दिक्ष्वप्रमेयासंख्येयेभ्योऽन्योन्यलोकधातुभ्यस्तिष्ठन्तो यापयन्तो बुद्धा भगवन्तः साधुकारं प्रदत्तवन्तः प्रेषितवन्तो, महाकरुणावैरोचनसौम्यो नाम कृतं। स च महाकरुणावैरोचनसौम्यो बोधिसत्त्वो महासत्त्वोऽस्माकं कल्याणमित्रो हितकर एतर्ह्यचिराभिसंबुद्धोऽङ्गुष्ठवत्यां लोकधातौ अङ्गुष्ठप्रमाणानां पुरुषाणां मध्ये, तेषां एवाङ्गुष्ठप्रमाणानां पुरुषाणां हस्तप्रमाणेन हस्तप्रमाणकः स तथागतो दशवर्षायुष्कायां प्रजायां धार्मिकं धर्मचक्रं प्रवर्तितवान्; तस्यापि बोधिप्राप्तस्य दशसु दिक्ष्वप्रमेयासंख्येयेभ्यो लोकधातुभ्यस्तिष्ठद्भिर्यापयद्भिस्तैस्तैर्बुद्धैर्भगवद्भिर्दूताः प्रेषिताः पूजनार्थाय, ये तेन प्रथममनुत्तरायां सम्यक्संबोधौ समादापिता निवेशिताः प्रतिष्ठापिताः। ये तेन प्रथमं दानपारमितायां यावत् प्रज्ञापारमितायां समादापिता निवेशिताः प्रतिष्ठापितास्तैर्बुद्धैर्भगवद्भिः पूर्वकृतज्ञतामनुस्मरणमाणैस्तस्य तथागतस्य पुष्पाः प्रेषिताः। पश्य ब्राह्मण यथा ते बुद्धा भगवतः सर्वेषु बुद्धक्षेत्रेषु दीर्घेणायुषा परिशुद्धाशयानां सुखविहारिणां सत्त्वानां बुद्धकार्यं कुर्वन्ति; स च ज्योतीरसस्तथागत एवं प्रतिक्रुष्टे पञ्चकषाये बुद्धक्षेत्रे बुद्धत्वं प्राप्तवान्, आनन्तर्यकारकानां यावदकुशलमूलसमवधानगतानां सत्त्वानामेवाल्पकेनायुषा बह्वतिरेकं बुद्धकार्यं करोति, अनुज्झित्वा श्रावकां प्रत्येकबुद्धांश्च धर्मं देशयरि। एवमेव त्वया सत्पुरुष सर्वामिमां बोधिसत्त्वपर्षामभिभूय विशिष्टतरं प्रणिधानं कृतं, प्रतिक्रुष्टे बुद्धक्षेत्रे पञ्चकषाये वर्तमाने आनन्तर्यकारका यावदकुशलमूलसमवधानगता वैनेयाः सत्त्वाः परिगृहीताः। ये च ते महासत्त्वा यैः परिशुद्धा बुद्धक्षेत्राः परिगृहीता नरकतिर्यग्योनिपरिवर्जिताः श्रावकप्रत्येकबुद्धपरिवर्जिताः शुद्धाशयाः सुविनीता अवरुप्तकुशलमूलाः सत्त्वा वैनेयाः परिगृहीता इमे सत्त्वाः पुष्पोपमा उच्यन्ते, न ते महासत्त्वाः पुण्डरीकोपमा ये सुविनीतानामवरुप्तकुशलमूलानां मध्ये बुद्धकार्यं करिष्यन्ति।



चत्वारि ब्राह्मण बोधित्त्वानां कुशीदवस्तूनि। कतमानि चत्वारि ? परिशुद्धबुद्धक्षेत्रप्रणिधानं, परिशुद्धाशयानां सत्त्वानां बुद्धकार्यप्रणिधानं, श्रावकप्रत्येकबुद्धयानकथा बोधिप्राप्तस्य देशनाप्रणिधानं, बोधिप्राप्तस्य दीर्घायुष्कताप्रणिधानं। इमानि चत्वारि बोधिसत्त्वानां कुशीदवस्तूनि। येन बोधिसत्त्वाः पुष्पोपमा इत्युच्यन्ते, न पुण्डरीकोपमा न महासत्त्वा इत्युच्यन्ते। तद्यथापि नाम ब्राह्मण इमान् महाबोधिसत्त्वपर्षां स्थापयित्वा वायुविष्णुना येनापरिशुद्धं बुद्धक्षेत्रं परिगृहीतं क्लेशाकुलाः सत्त्वा वैनेयाः परिगृहीता एकत्यो भद्रकल्पिकाः कुलपुत्राः।



चत्वारीमानि बोधिसत्त्वानां महासत्त्वानामारब्धवीर्यवस्तूनि। कतमानि चत्वारि? अपरिशुद्धबुद्धक्षेत्रप्रणिधानं, अपरिशुद्धाशयानां सत्त्वानां बुद्धकार्यप्रणिधानं, बोधिप्राप्तस्य श्रावकप्रत्येकबुद्धयानकथादेशनप्रणिधानं, मध्यमाया प्रतिपदा बोधिप्राप्तस्य नातिदीर्घतानाल्पायुष्कताप्रणिधानं। इमानि चत्वारि बोधिसत्त्वानां महासत्त्वानामारब्धवीर्यवस्तूनि। येन ते बोधिसत्त्वाः पुण्डरीकोपमा इत्युच्यन्ते, न पुष्पोपमास्ते बोधिसत्त्वा महासत्त्वा इत्युच्यन्ते। तद्यथापि त्वं ब्राह्मणैतर्हि अप्रमेयानामसंख्येयानां बोधिसत्त्वानां मध्ये कुशलव्याकरणक्षेत्रं तथागतस्याग्रतः करुणापुण्डरीकमुत्पन्नं प्रणिधानविशेषेण। यदा त्वया आनन्तर्यकारका यावदकुशलमूलसमवधानगता वैनेयाः परिगृहीतास्तीव्रं पञ्चकषायं बुद्धक्षेत्रं परिगृहीतं। महाकरुणाव्याहारेण त्वं सत्पुरुष दशसु दिक्षु बुद्धक्षेत्रपरमाणुरजःसमैर्बुद्धैर्भगवद्भिः साधुकारो दत्तो, दूताश्च प्रेषिता, महाकारुणिकश्च ते नाम कृतं, सर्वा चेयं पर्षत्तवैव पूजाकर्मणे उद्युक्ताः।



भविष्यसि त्वं महाकारुणिकानागतेऽध्वन्यतिक्रान्तानामेकगङ्गानदीवालिकासमानामसंख्येयानां कल्पानां परीत्तावशिष्टे द्वितीये गङ्गानदीवालिकासमेऽसंख्येये, तस्मिनेव सहे बुद्धक्षेत्रे भद्रके कल्पे विंशोत्तरवर्षशतायुष्कायां प्रजायां, जरामरणाद्यधिके बुद्धक्षेत्रेऽन्धलोकेऽनायकेऽकुशलमूलसमवधानगते कुमार्गे विहन्यमानानां महासङ्कटप्राप्तानां सत्त्वानामानन्तर्यकारकानामार्यापवादकानां सद्धर्मप्रतिक्षेपकानां मूलापत्तिसमापन्नानां यावद्यथा पूर्वोक्तं, आकीर्णे लोके तथागतो भविष्यसि विद्याचरणसंपन्नो यावद्बुद्धो भगवान्; विवर्तितगतिचक्रः प्रवर्तितधर्मचक्रः विवर्तितवशवर्तिमारक्लेशमारश्च अनन्तापर्यन्तानि दशसु दिक्षु बुद्धक्षेत्राणि शब्देनापूरयित्वा, महाश्रावकसन्निपातश्च ते भविष्यन्ति यदुतार्धत्रयोदशैर्भिक्षुशतैः; अनुपूर्वेण पञ्चचत्वारिंशतिभिर्वर्षैरेवंरूपं सकलं बुद्धकार्यं परिपूरयिष्यसि, यथा प्रणिधानं कृतं। यथा तस्मिन् समयेऽयं राजामृतशुद्धोऽमितायुर्नामाप्रमेयैः कल्पैः सकलं बुद्धकार्यं करिष्यति, एवमेव त्वं महाकारुणिक तत्र सहे बुद्धक्षेत्रे भद्रके महाकल्पे विंशोत्तरवर्षशतायां प्रजायां पञ्चचत्वारिंशतिभिर्वर्षैरेवंरूपं सकलं महाबुद्धकार्यं करिष्यसि, शाक्यमुनिर्नाम तथागतो भविष्यसि। परिनिर्वृतस्य च ते सत्पुरुषानुत्तरपरिनिर्वाणेनाधिकं वर्षसहस्रं सद्धर्मः स्थास्यते। सद्धर्मे चान्तर्हिते तव सत्पुरुष तेऽपि धातवः जन्मशरीरे एवंरूपं बुद्धकार्यं करिष्यन्ति, यथा स्वयं प्रणिधानं कृतं, एवं चिरं सत्त्वान् विनयिष्यसि, यथा पूर्वोक्तं"॥



तत्काले कैतपुरे ब्राह्मण आसीत्, स एवमाह - "तेषु तेष्वप्रमेयेष्वसंख्येयेषु कल्पेषु तव सत्पुरुष बोधिचारिकां चरमाणस्याहं नित्योपस्थायक उपकरणमैत्र्यानुकूलः सहायको भूत्वा त्वामुपस्थिहेयं; चरमभविकस्याहं तव पिता भवेयं। बोधिप्राप्तस्य च ते सत्पुरुष अग्रदानपतिर्भवेयं; त्वं च मां व्याकुर्या अनुत्तरायां सम्यक्संबोधौ"। अपरा च तत्र विनीतबुद्धिर्नाम समुद्रदेवता, साप्याह - "तेषु तेषु यावच्चरमभविकस्याहं जनेत्री माता भवेयं। बोधिप्राप्तश्च त्वं महाकारुणिक मां व्याकुर्या अनुत्तरायां सम्यक्संबोधौ"। वरुणचारित्रनक्षत्रा देवता, साप्याह - "तेषु तेषु यावच्चरमभविकस्याहं क्षीरधात्री माता भवेयं। बोधिप्राप्तश्च मां व्याकुर्या अनुत्तरायां सम्यक्संबोधौ"। सनेमो नाम शक्रः, अपरस्तु पारचिन्ती नाम शक्रः, ते उभयेऽप्याहतुः। "वयमपि भो महाकारुणिक तेषु तेषु यावद्; बोधिप्राप्तस्य च ते वयं श्रावकयुगप्रज्ञावन्तो ऋद्धिमन्तश्च भवेमः"। अपरश्चारित्रचरणसुदर्शयूथिको नाम शक्रः, स एवमाह - "अहं ते महाकारुणिक तेषु तेषु यावच्चरमभविकस्य पुत्रो भवेयं"। अपरा शिखरदेवता सौरभ्याकिंशुका नाम, साप्याह - "अहं ते महाकारुणिक तासु तासु जातिषु भार्या भवेयं। बोधिप्राप्तश्च त्वं सत्पुरुष मां व्याकुर्या अनुत्तरायां सम्यक्संबोधौ"। कदुश्चरो नामासुरेन्द्रः, सोऽप्याह - "अहं ते महाकारुणिका तेषु तेष्वप्रमेयासंख्येयेषु कल्पेषु सत्पुरुष बोधिचारिकां चरमाणस्याहमुपकरणमैत्र्यानुकुलः सहायो दासत्वेनोपस्थिहेयं, चरमभविकस्याहं ते उपस्थायको भवेयं। बोधिप्राप्तस्य च ते सत्पुरुष धार्मिकं धर्मचक्रं प्रवर्तनेऽध्ययेयं, अहं च ते धर्मदेशनां प्रथमां सफलां कुर्यां, धर्मरसं च पिवेयं, अमृतं चौषधिं गच्छेयं, यावत् सर्वक्लेशप्रहाणादर्हत्वं प्राप्नुयां"। पेयालं, गङ्गानदीवालिकासमाश्च तत्र देवनागासुरा महाकारुणिकस्यानुप्रवृत्तिचर्याय प्रणिधानं कृतवन्तो वैनेयमुपन्यस्ता। एकश्च तत्र संज्ञाविकरणभीष्मो नामाजीविकः, स आह - "अहं ते भो महाब्राह्मण बहूपकरणसहायको भविष्यामि। नित्यमहं तेऽप्रमेयेषु कल्पेषु सफलचारिकोपजीवीज्ञातिको भवेयं; नित्यं च त्वत्सकाशमुपसंक्रमेयं वस्तुयाचनार्थं शय्यासनवाहनहस्त्यश्वरथग्रामनिगमनगरकुलपुत्रदुहितृमांसरुधिरचर्मास्थिहस्तपादजिह्वाकर्णनासनयनशीर्षाणि च याचेयं। एवंरूपोऽहं तव महाब्राह्मण दानपारमितासहायको भवेयं, यावत्प्रज्ञापारमितासहायको भवेयं। एवंरूपोऽहं महाब्राह्मण बोधिचारिकां चरमाणस्य तव षट्सु पारमितासु सहायको भवेयं; यावत्त्वं बोधिं प्राप्नुया अहं च ते श्रावकस्थानमासादयेयं, अशीतिधर्मस्कन्धसहस्राण्युद्गृह्णीयां पृष्ठश्च धर्मदेशको भवेयं। त्वं च मां व्याकुर्या अनुत्तरायां सम्यक्संबोधौ"। श्रुत्वा च कुलपुत्र महाकारुणिको ब्राह्मणो रत्नगर्भस्य तथागतस्य पञ्चमण्डलेन पादौ शिरसा वन्दित्वा, तं संज्ञाविकरणभीष्माजीविकं शब्दापयित्वाह - "साधु साधु सत्पुरुष यस्त्वं मम सहायको भविष्यसि अनुत्तरचर्याय, यावच्च त्वं ममाप्रमेयासंख्येयजन्मान्तरनयुतसहस्रेषूपसंक्रमेर्वस्तुयाचनार्थाय। तदाहं प्रसन्नचित्तो दद्यां, मा च त्वमपुण्यभागी भवेः"।



भूयश्च कुलपुत्र महाकारुणिको बोधिसत्त्वो महासत्त्वो रत्नगर्भस्य तथागतस्य पुरत आह - "सचेन्मे भदन्त भगवंस्तेषु तेष्वप्रमेयेष्वसंख्येयेषु कल्पकोटीनयुतशतसहस्रेष्वनुत्तरायां सम्यक्संबोधौ चारिकां चरमाणस्य ये मम पुरतो याचनकाः स्थित्वान्नं याचन्ति मृदुवचनेन वा पुरुषवचनेन वा उल्लङ्घनवचनेन वा स्पष्टवचनेन वा याचेयुः; सचेदहं भदन्त भगवन् याचनकस्यान्तिके एकचित्तक्षणमपि रोषं उत्पादयेयं। अप्रसादं वोत्पादयेयं दानस्य वा फलविपाकं काङ्क्षमाणो दानं दद्यां, विसंवादिता मे भवेयुः येऽप्रमेयासंख्येयेषु दशसु दिक्ष्वन्येषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ति यापयन्ति धर्मं च देशयन्ति, मा चाहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं। सचेदहं भदन्त भगवन् याचनकस्य प्रसन्नचित्तो दानं दद्यां, तदपि दानप्रतिग्राहकस्य श्रद्धादेयविनिपातनं, माकुशलैर्धर्मैरन्तरायकरं भवेत्; अन्तशो वालाग्रकोटीप्रमाणमात्रमपि विसंवादिता मे बुद्धा भगवन्तो भवेयुः। यदीदं प्रतिग्राहकस्य वालाग्रकोटीप्रमाणमात्रमपि कुशलेषु धर्मेष्वन्तरायं कुर्युः, अहमप्यवीचिपरायणो भवेयं। यथान्नस्य तथा वस्त्रस्य। यावद् ये मम याचनकाः शीर्षं याचेयुः, मृदुवचनेन वा परुषवचनेन वा उल्लङ्घ्यवचनेन वा स्पष्टवचनेन वा शीर्षं याचयेरन्; सचेदहं भदन्त भगवन् याचनकस्यान्तिके एकचित्तक्षणमपि रोषमुत्पादयेयं, अप्रसादचित्तमुत्पादयेयं, दानफलविपाकमाकाङ्क्षं शीर्षं परित्यजेयं, विसंवादिता मे बुद्धा भगवन्तो भवेयुः; यावदहमप्यवीचिपरायणो भवेयं। यथा दानमेवं शीलं यावत्प्रज्ञा परित्यागो वाच्यः"।



स च कुलपुत्र रत्नगर्भस्तथागतो महाकारुणिकस्य बोधिसत्त्वस्य महासत्त्वस्य साधुकारमदासीत्। "साधु साधु सत्पुरुष, महाकरुणाप्रतिष्ठितेन मनसा त्वया सत्पुरुषेमं प्रणिधानं कृतं"। सा च कुलपुत्र सर्वावती पर्षा सदेवगन्धर्वमानुषासुरश्च लोकः प्राञ्जलीभूतः स्थित्वा साधुकारं प्रादासीत्। "साधु साधु सत्पुरुष, महाकरुणाप्रतिष्ठितेन मनसा त्वया सत्पुरुष प्रणिधानं कृतम्। त्वमपि सत्त्वां षट्परायणीयधर्मैः संतर्पयिष्यसि"। स च कुलपुत्र यथा संज्ञाविकारभीष्माजीविको बोधिसत्त्वो दानप्रतिग्राहिकया प्रणिधानं कृतवान्, एवमेव चतुरशीतिभिः प्राणिसहस्रैः प्रणिधानं कृतं। स च कुलपुत्र महाकारुणिको बोधिसत्त्वो महासत्त्वस्तान्येवंरूपाणि प्रणिधानानि चतुरशीतीनां प्राणिसहस्राणां सकाशाच्छ्रुत्वा संज्ञाविकारभीष्मेण प्रणिधानं कृतं। अथ महाकारुणिकः परमप्रीतिसौमनस्यजातः प्राञ्जलीभूतः स्थित्वा सर्वावतीं पर्षां व्यवलोक्य परमप्रीतमना आह। "अहो आश्चर्यं, भविष्याम्यहं धर्मदुर्भिक्षक्षीणकाले महाक्लेशरणे कलियुगे पञ्चकषाये वर्तमाने लोकेऽनायके सार्थवाहोऽवभासकरः प्रदीपकरः अत्राणानामन्धानां मार्गनिदर्शकः। यत्र हि नामाहं प्रथमचित्तोत्पादेनैवमेवंरूपामनुत्तरायां बोधिचर्यायां सहायकाः प्रतिलब्धा ये मम जन्मान्तरेषु शीर्षप्रतिग्राहका भविष्यन्ति नयनकर्णनासाजिह्वाहस्तपादचर्मास्थिरुधिरं यावदन्नस्य प्रतिग्राहका भविष्यन्ति"।



पुनरपि कुलपुत्र महाकारुणिको बोधिसत्त्वो महासत्त्वो रत्नगर्भस्य तथागतस्य पुरतो निषण्ण आह - "ये च मम भदन्त भगवन् तेषु तेष्वप्रमेयासंख्येयेषु कल्पकोटीनयुतशतसहस्रेषु जन्मान्तरेषु याचनका उपसंक्रामेयुर्यदि वान्नं यदि वा पानं यावच्छिरः प्रतिगृह्णीयुरन्तशो वालाग्रकोटीप्रमानमात्रमपि मम हस्तदानं प्रतिगृह्णीयुर्यावद्बोधिपर्यन्तेन। सचेदहमनुत्तरां सम्यक्संबोधिमभिसंबुध्य न तां सत्त्वां संसारात् परिमोचयेयं, न च पुनर्व्याकुर्यां छ्रावकयानेन वा प्रत्येकबुद्धयानेन वा महायानेन वा, विसंवादिता मे बुद्धा भगवन्तो भवेयुः य एतर्हि दशसु दिक्षु, यावन्, मा चाहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं"।



पुनरपि कुलपुत्र रत्नगर्भस्तथागतो महाकारुणिकस्य बोधिसत्त्वस्य महासत्त्वस्य साधुकारं प्रादासीत्। "साधु साधु सत्पुरुष, एवंरूपं ते सत्पुरुष बोधिचारिकाप्रणिधानं, यथा मेरुशिखरिंधरेण तथागतेन पूर्वं प्रथमचित्तोत्पादेन लोकेश्वरज्योतिषस्तथागतस्य पुरतः एवंरूपया बोधिसत्त्वचर्यया प्रणिधानं कृतं एवंरूपा बोधिसत्त्वचारिका चीर्णा यथा प्रणिधानं कृतं। गङ्गानदीवालिकासमा महाकल्पा अतिक्रान्ता यथा तेन सत्पुरुषेण पुरिमायां दिशीतो कोटीशतसहस्रबुद्धक्षेत्रे ज्वालप्रतिसंख्यायां लोकधातौ वर्षशतायुष्कायामनुत्तरां सम्यक्संबोधिमभिसंबुद्धो, ज्ञानकुसुमविरजसमुच्छ्रयबोधीश्वरो नाम बभूव तथागतोऽर्हन् सम्यक्संबुद्धो भगवान्, पञ्चचत्वारिंशद्वर्षाणि बुद्धकार्यं कृत्वानुपधिशेषे निर्वाणधातौ प्रविष्टः। तस्य खलु महाकारुणिक ज्ञानकुसुमविरजसमुच्छ्रयबोधीश्वरस्य तथागतस्य परिनिर्वृतस्य वर्षसहस्रं सद्धर्मनेत्री अस्थासीत्; सद्धर्मस्यान्तर्हितस्य वर्षसहस्रं पुनः सद्धर्मप्रतिरूपकमस्थासीत्। ये खलु महाकारुणिक ज्ञानकुसुमविरजसमुच्छ्रयबोधीश्वरस्य तथागतस्य परिनिर्वृतस्य सद्धर्मनेत्र्यवस्थितायां सद्धर्मप्रतिरूपका वा भिक्षुर्भिक्षुणी वा दुःशीलपापधर्मा विषमसमुदाचाराः स्तौपिकवस्तुग्राहकालज्जिका वा धर्मपूजाच्छेदालज्जसंसृष्टा वा चतुर्दिशसङ्घस्य वा संमुखीभूतसङ्घस्य वा चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारं वा छिन्नं पौद्गलिकपरिग्रहे यावदात्मना परिभुक्तं गृहस्थानां वा दत्तं; तेन खलु महाकारुणिक ज्ञानकुसुमविरजसमुच्छ्रयबोधीश्वरेण तथागतेन सर्वेऽनुपूर्वेण व्याकृतस्त्रिभिर्यानैः। ये केचिन् महाकारुणिक तस्य भगवतः शासने रक्तकाषायप्रावृताः सर्वे ते अवैवर्तिका व्याकृतास्त्रिभिर्यानैः; येऽपि केचिन् मूलापत्तिसमापन्ना भिक्षुभिक्षुण्युपासकोपासिका वा पूर्वमेव ते तेन तथागतेन शास्तृसंज्ञाकुशलमूलविपाकेन त्रिभिर्यानैरवैवर्तिका व्याकृताः"।



पुनरपरं कुलपुत्र स महाकारुणिको बोधिसत्त्वो महासत्त्वो रत्नगर्भस्य तथागतस्य पुरत आह - "एषैव मे भदन्त भगवन् प्रणिधिर्यावदेवाहमनुत्तरायां बोधिचर्यायां चरमाणो यान् सत्त्वानहं दानपारमितायां नियोजयेयं समादापयेयं प्रतिष्ठापयेयं यावत् प्रज्ञापारमितायामन्तशो वालाग्रकोटीप्रमाणमात्रमपि कुशलमूले नियोजयेयं; यावद्बोधिपर्यन्तेन चर्यां चरमाणो न तान् सत्त्वांस्त्रिभिर्यानैरवैवर्तिकभूमौ स्थापयेयमन्तश एकसत्त्वमपि, विसंवादिता मे बुद्धा भगवन्तो भवेयुः ये दशसु दिक्ष्वप्रमेयासंख्येयेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, मा चाहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं। अनुत्तरज्ञानप्रतिलब्धश्चाहं भदन्त भगवन् ये मे सत्त्वाः शासने रक्तकाषायप्रावृता भवेयुः; यदि वा मूलापत्तिमापन्नाः स्युर्यदि वा दृष्टिव्यसनं संप्रतिपन्नाः स्युर्यदि वा त्रिषु रत्नेषु स्खलिताः सापराधा भवेयुर्भिक्षुभिक्षुण्युपासकोपासिका य एकक्षणमपि मम सकाशे शास्तृसंज्ञां वा गौरवचित्तं वोत्पादयेयुर्धर्मे वा सङ्घे वा गौरवचित्तमुत्पादयेयुः; सचेदहं भदन्त भगवंस्तान् सत्त्वांस्त्रिभिर्यानैरवैवर्तिकां न व्याकुर्यामन्तश एकसत्त्वमपि रिंचेयुर्विसंवादिता मे बुद्धा भगवन्तो भवेयुर्यावन् मा चाहमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयं। बोधिप्राप्तस्य च मे भदन्त भगवन् देवमनुष्यसत्कृतं गुरुकृतं मानितं पूजितं रक्तकाषायचीवरं भवेत्। सहदर्शनेन सत्त्वाः काषायकण्ठास्त्रिभिर्यानैरवैवर्तिका भवेयुर्ये सत्त्वाः क्षुत्तर्षपीडिता अन्नपानविरहिता यक्षदारिद्रा वान्तशः यामलौकिकाः सत्त्वा ये काषायमभिलषेयुरन्तशश्चतुरङ्गुलमपि, सर्वे तेऽन्नपानसंपन्ना भवेयुः परिपूर्णाभिप्रायाः। ये सत्त्वाः परस्परविरुद्धवैरबहुलाः परस्परयुद्धसंग्रामगता वा देवा वा यक्षा वा राक्षसा वा नागा वा असुरा वा गरुडा वा किन्नरा वा महोरगा वा कुंभाण्डा वा पिशाचा वा मनुष्या वा संग्रामगताः काषायमनुस्मरेयुः, ते सत्त्वाः करुणाचित्ता मृदुचित्ता अवैरचित्ताः कर्मण्यचित्ता भवेयुर्ये सत्त्वाः संग्रामे वा विवादे वा युद्धे वा कलहे वा काषायखण्डकं रक्षार्थं पूजनार्थं गौरवार्थं हरेयुस्ते सत्त्वाः सदा अपराजिता भवेयुरस्खलिता अविहेठिता भवेयुः, स्वस्तिना ततः संग्रामाद्वा युद्धाद्वा कलहाद्वा विवादाद्वा परिमुच्येयुः। यदि मे भदन्त भगवन्नेभिः पञ्चभिरार्यगुणै रक्तं काषायं न समन्वागतं भवेत्, विसंवादिता मे बुद्धा भगवन्तो भवेयुर्ये दशसु दिक्षु, यावन्, मा चाहं शक्तः सकलं बुद्धकार्यं परिनिष्पादयितुं, धर्मा मे संमोषं गच्छेयुर्मा चाहं शक्तः अन्यतीर्थिकां परिगृहीतुं। ये च भदन्त भगवन् ममाभिसंबुद्धस्य यावत् परिनिर्वृतस्य वा नमस्कारं करिष्यन्ति, "नमः शाक्यमुनये तथागताये"-ति वाचं भाषिष्यन्ते, तेषां सर्वकर्मावरणक्षयो भविष्यति, अन्ते चानुत्तरेण बुद्धपरिनिर्वाणेन परिनिर्वास्यन्ति"-ति।



स च पुनः कुलपुत्र रत्नगर्भस्तथागतो दक्षिणं बाहुं प्रसारयित्वा करतलेन महाकारुणिकस्य बोधिसत्त्वस्य शिरः परिमार्जयित्वाह - "साधु साधु सत्पुरुष, कल्याणं ते प्रणिधानं भद्रकप्रतिविमर्श; एवमेव ते सत्पुरुष पञ्चभिरार्यगुणै रक्तकाषायं सत्त्वानामुपजीव्यं भविष्यति"।



स भो पुनः कुलपुत्र महाकारुणिको बोधिसत्त्वो महासत्त्वस्तेन व्याकरेणेन साधुकारप्रामोद्य प्रसादेन तथागतपुण्यदीर्घाङ्गुलिपरिच्छादितेन दक्षिणेन मृदुतरुणकरतलसंस्पर्शेण कुमारभूतः संवृतो विंशद्वर्षसदृशो जातिप्रमाणेन।



पुनरपि कुलपुत्र सर्वावती सा पर्षा सदेवगन्धर्वमानुषा प्राञ्जलिभूता तस्थौ, महाकारुणिकस्य पूजाकर्मणे उद्युक्ताः पुष्पैर्वाद्यैर्महाकारुणिकस्य बोधिसत्त्वस्य महासत्त्वस्य पूजां कृत्वा विचित्रवर्णैः श्लोकैस्तुष्टाव॥



इति श्रीकरुणापुण्डरीके महायानसूत्रे बोधिसत्त्वव्याकरणपरिवर्तश्चतुर्थः॥४॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project