Digital Sanskrit Buddhist Canon

दान-विसर्गस् तृतीयः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Dāna-visargas tṛtīyaḥ

III दान-विसर्गस् तृतीयः



अथ खलु शान्तिमतिर् बोधिसत्त्वो महासत्त्वो भगवता स्वर्द्ध्याभिसंस्कारे प्रतिप्रस्रंभिते भगवन्तम् एतद् अवोचत्। "को भगवन् हेतुः कः प्रत्ययो यद् अन्येषां बुद्धानां भगवतां परिशुद्धा बुद्धक्षेत्रा अपगतकलुषा अपगतपञ्चकषाया नानागुणव्यूहा बुद्धक्षेत्राः, सर्वे चात्र बोधिसत्त्वा महासत्त्वा नानाविद्धगुणपरिपूर्णा नानासुखसमर्पिता, नापि श्रावकप्रत्येकबुद्धानां नामापि विद्यते, कुतः पुनर् उपपत्तिः ?। को भगवन् हेतुः कः प्रत्ययो यद् भगवान् पञ्चकषाये बुद्धक्षेत्र उपपन्नः, आयुःकषाये कल्पकषाये सत्त्वकषाये दृष्टिकषाये क्लेशकषाये वर्तमाने अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः, चतस्रश् च परिषदः त्रीणी यानान्य् आरभ्य धर्मं देशयति ?। कस्माद् भगवता परिशुद्धं बुद्धक्षेत्रं न परिगृहीतं अपगतपञ्चकषायं ?"।



भगवान् आह। "प्रणिधानवशेन कुलपुत्र बोधिसत्त्वाः परिशुद्धं बुद्धक्षेत्रं परिगृह्णन्ति, प्रणिधानवशेनापरिशुद्धं बुद्धक्षेत्रं परिगृह्णन्ति। महाकरुणासमन्वागतत्वात् कुलपुत्र बोधिसत्त्वा महासत्त्वा अपरिशुद्धं बुद्धक्षेत्रं परिगृहणन्ति। तत् कस्माद् धेतोस् ?, तथा मया प्रणिधानं कृतं येनाहम् एतर्ह्य् एवं प्रतिकष्टे पञ्चकषाये बुद्धक्षेत्र उपपन्नः। तच् चृणु साधु च सुष्ठु च मनसिकुरु भाषीष्ये ऽहं ते शान्तिमते"। "साधु भगवान्" निति शान्तिमतिर् बोधिसत्त्वो भगवतः प्रत्यश्रोषीत्॥



भगवांस् तान् इदम् अवोचत्। "भूतपूर्वं कुलपुत्रैकगङ्गानदीवालिकासमेषु असंख्येयेष्व् अतिक्रान्तेषु अस्मिन् बुद्धक्षेत्रे धारणो नाम महाकल्पो बभूव। तस्मिंश् च महाकल्पे बुद्धक्षेत्रे तस्यां चातुर्द्वीपिकायां अरणेमी नाम राजाभूच् चतुर्द्वीपकः चक्रवर्ती। तस्य खल्व् आरणेमिनः समुद्ररेणुर् नाम ब्राह्मणो ऽभूत् पुरोहितः।तस्य पुत्रो जातो द्वात्रिंशन्महापुरुषलक्षणैः समन्वागतः अशीतिभिर् अनुव्यञ्जनैर् विराजितः शतपुण्यलक्षणो व्यामप्रभः न्यग्रोधपरिमण्डलो ऽसेचनकदर्शनः। जातमात्रस्य च देवशतसहस्रैः पूजां कृत्वा समुद्रगर्भ इति नाम स्थापितं। सो ऽपरेण समयेन निष्क्रम्य केशश्मश्रूण्य् अवतार्य काषाणि वस्त्राण्य् आच्चाद्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः, रत्नगर्भो नाम तथागत उदपादि, धर्मचक्रप्रवर्तनेन स भगवान् भहुप्राणकोटीनयुतशतसहस्रां स्वर्गमोक्षफले प्रतिष्ठापितवान्। सो ऽपरेण समयेन बहुश्रावककोटीनयुतशतसहस्रैः परिवृतः पुरस्कृतो ग्रामनगरनिगम जनपदराष्ट्रराजधानीषु चर्यां चञ्चूर्यमाणो ऽनुपूर्वेणान्यतरं नगरं अनुप्राप्तो, यत्रासौ राजा चक्रवर्ती वसति। तत्र "बहिर् नगरस्य नातिदूरे जम्बूवनो नामोद्याने रत्नगर्भस् तथागतो ऽर्हन् सम्यक्संबुद्धो विहरति सार्धम् अनेकैः श्रावककोटीनयुतशतसहस्रैर्" इति अश्रोषीद्, राजारणेमी "रत्नगर्भस् तथागतो ऽर्हन् सम्यकसंबुद्धो ऽस्माकं विजितम् अनुप्राप्तो जम्बूवनोद्याने विहरति अनेकैः श्रावककोटीनयुतशतसहस्रैः सार्धं।यन् नूनम् अहं उपसंक्रामयेयम्, उपसंक्रम्य तं तथागतम् सत्कुर्यां गुरुकुर्यां मानयेयं"। अथारणेमी राजाराजर्द्ध्या महता च राजानुभावेनानेकैः प्राणिकोटीनयुताशतसहस्रैः परिवृतः पुरस्कृतो नगरान् निर्जगाम, येन जम्बूवनोद्यानं तेनोपजगामोपेत्य, यावद् एव यानस्य भूमिस् तावद् यानेन यात्वा पद्भ्याम् एवारामं प्राविशद्, येन रत्नगर्भस् तथागतस् तेनोपजगाम; उपेत्य रत्नगर्भस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा त्रिष्कृत्वः प्रदक्षिणीकृत्यैकान्ते न्यषीदद्, एकान्ते निषण्णं राजानम् अरणेमिनं रत्नगर्भस् तथागतो ऽर्हन् सम्यक्संबुद्धो धार्म्या कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति। अनेकपर्यायेण धार्म्या कथया संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा तूष्णीम् अभूत्।



अथ राजारणेमी उत्थायासनाद् एकांशं उत्तरासङ्गं कृत्वा पादयोर् निपत्य येन रत्नगर्भस् तथागतस् तेनाञ्जलिं प्रणम्य रत्नगर्भम् तथागतम् अर्हन्तं सम्यक्संबुद्धम् एतद् अवोचत्। "अधिवासयतु मे भगवान् इदम् त्रैमासं सार्धं भिक्षुसङ्घेन, अहं भगवन्तम् उपस्थास्य चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् भिक्षुसङ्घं च"। अधिवासयति कुलपुत्र रत्नगर्भस् तथागतो राज्ञो ऽरणेमिनः तूष्णीभावेन। अथ राजारणेमी रत्नगर्भस्य तथागतस्य तूष्णीभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसाभिवन्द्य त्रिष्कृत्वः प्रदक्षिणीकृत्वा भगवतो ऽन्तिकात् प्रकान्तः।



अथ राजारणेमी कोट्टराजानाहूयामात्यमहामात्रान् भटबलाग्रपौरजानपदान् पौरुषेयान् आमन्त्र्योवाच - "यन्नूनं ग्रामण्यो जानीयुर्मया रत्नगर्भस्तथागतोऽर्हन् सम्यक्संबुद्ध इमं त्रैमासं सर्वोपकरणैरुपनिमन्त्रितः सार्धं भिक्षुसङ्घेन। सोऽहं यो मे कश्चिद् उपभोगपरिभोग उपस्थानं परिचर्यान्तःपुरं च गौरवेण तत्सर्वं भगवतो निवेदयामि भिक्षुसङ्घस्य च। यद् अपि युष्माकं पौद्गलिकं उपभोगपरिभोगोपस्थानपरिचर्यान्तःपुरं गौरवेण तत्सर्वं भगवतो निर्यातयत भिक्षुसङ्घस्य च"। तैरपि निर्यातितं। गृहपतिरत्नमपि भद्रमुद्यानं सर्वं जाम्बूनदसुवर्णमयं कृत्वा, तस्मिन् नेवोद्याने भगवतोऽर्थाय कूटागारं मापयति सप्तरत्नमयं समन्ततः चतुर्दिशं चात्र सप्तरत्नमयानि द्वाराणि मापयति स्म। सर्वं चोद्यानं सप्तरत्नमयैर्वृक्षैरलङ्कृतं। ते च वृक्षा नानाप्रकारैर्वस्त्रैरलङ्चक्रे नानादुष्यैर्नानाच्छत्रैर्नानाविधैश्च मुक्ताहारैर्नानाप्रकारैश्चाभरणैर्नानारत्नमयैश्चाभरणैर्विविधैः सुगन्धैः, सर्वरत्नमयैश्च पुष्पफलैस्तान् वृक्षानलङ्कृतवान्। सर्वं च तदुद्यानमनेकविधैर्मणिभिरलङ्कृतमभूत्, नानापुष्पावकीर्णं, नानापट्टदुष्यप्रावरणप्रावारेभ्य आसनानि प्रज्ञप्तानि। तद् अपि चक्ररत्नं बहिः कूटागारस्य भगवत एवाभिमुखं पुरुषमात्रप्रमाणमुपर्यन्तरीक्षे स्थितं ज्वलति। हस्तिरत्नमपि सर्वश्वेतं सप्ताङ्गं सुप्रतिष्ठितं, भगवतः पृष्ठतः स्थित्वा भगवत उपरि रत्नवृक्षं धारयति। स च वृक्षोऽलङ्कृतः सप्तभी रत्नैर्नानाविधैश्च मुक्ताहारैर्विचित्रैश्चाभरणैर्नानाविधैश्च माल्यैर्नानारङ्गैश्च पट्टैर्नानाविधैश्च दुष्यैरुपरचितं, तस्य वृक्षस्य सप्तरत्नमयं छत्रं स्थापितमभूत्। या चारणेमिनो राज्ञोऽग्रमहिषी सा भगवतः पुरतः स्थिता, भगवन्तं गोशीर्षचन्दनोरगसारचन्दनचूर्णैश्चावकिरमाणा। यच्च राज्ञोऽरणेमिनो मणिरत्नमभूत् प्रभास्वरं, ततः स्वयमेव भगवतः पुरतः स्थापयां आस। ततस्तया मणिरत्नाभया सर्वं तदुद्यानं सततसमितमुदारेणावभासेन स्फुटं अभूत्, बुद्धाभयायं त्रिसाहस्रमहासाहस्रो लोकधातुः सर्वमिदं सततसमितं स्फुटमभूत्। एकैकस्य च श्रावकस्य गौशीर्षस्यैव चन्दनस्य पादपीठं स्थापितं, एकैकस्य च श्रावकस्य पृष्ठतः सर्वश्वेतो हस्तिनागः स्थापित उपर्येवंरूपमेव चक्ररत्नं पुरुषप्रमाणं स्थापितं यथा भगवतस्तथा, एकैकस्य च श्रावकस्याग्रतः सर्वालङ्कारविभूषिता कन्या स्थापिता गोशीर्षोरगसारचन्दनचूर्नैरवकिरति, एकैकस्य च श्रावकस्याग्रतो वैडूर्यमणिः स्थापितः। समन्ततश्चोद्यानस्याभ्यन्तरे नानाविधानि वाद्यानि वाद्यन्ते, बहिश्चोद्यानस्य समन्तेन परिणायकरत्नं विजहार सार्धं चतुरङ्गेण बलकायेन।



अथ खलु कुलपुत्र राजारणेमी दिवसेदिवसे नगरान्निर्याति भगवन्तं दर्शनाय वन्दनाय पर्युपासनाय। तस्य यावद् यानस्य भूमिस्तावद् यानेन यात्वा यानाद् अवतीर्य पद्भ्यामेवोद्यानं प्राविशत्, प्रविश्य येन रत्नगर्भस्तथागतस्तेनोपजगामोपेत्य रत्नगर्भस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य पादौ शिरसाभिवन्द्य भगवन्तं त्रीन्वारान् प्रदक्षिणीकृत्वा, रत्नगर्भस्य तथागतस्य स्वयं हस्तशौचमदात्, स्वयं च प्रणीतेन प्रभूतेन खादनीयभोजनीयेन लेह्यपेयेन स्वहस्तं संतर्पयति संप्रवारयति, स्वहस्तं संतर्पयित्वा संप्रवारयित्वा भगवतं भुक्तवन्तं विदित्वा धौतहस्तमपनीतपात्रपाणिं स्वयमेव व्यजनमादाय भगवन्तं वीजयामास। एकैकस्य च श्रावकस्य राजपुत्रसहस्रं कोट्टराजसहस्रं चैवंरूपमुपस्थानं कृत्वा व्यजनं गृहीत्वा श्रावकान् वीजयति स्म। समनन्तरपर्यवसिते भक्षविसर्गेऽनेकानि प्राणिकोटीनयुतशतसहस्राण्यारामं प्रविष्टानि धर्मश्रवणाय। गगनतले चानेकैर्देवकोटीनयुतशतसहस्रैः पुष्पवृष्टिरभिवृष्टा दिव्यानि वाद्यानि अभिवादयन्ति, दिव्यानि च छत्राणि वासांसि आभरणानि च प्रलम्बयन्ति। नीलवाससं च यक्षाणां चत्वारिंशच्छतसहस्राणि ये चन्दनदीपात् गोशीर्षस्य चन्दनस्य काष्ठान्यानयन्ति, भगवतोऽर्थायाहारं प्रतिजाग्रति भिक्षुसङ्घस्य च। रात्रौ स्वयमेव राजारणेमी भगवतः पुरतो भिक्षुसङ्घस्य चानेकानि दीपकोटीनयुतशतसहस्राणि ज्वालयति। अथ कुलपुत्र राजारणेमी भगवतः पुरतः स्थित्वा एकां दीपस्थालिकां शिरस्युपस्थापयित्वा द्वावंशयोर्द्वौ पाण्योर्द्वौ चरणयोर्दीपस्थालीः, सर्वरात्रीर्भगवतः पुरतो दीपं ज्वालयमानो, भगवतोऽनुभावेनाक्लान्तकाय एवंरूपं कायसुखं प्रतिसंवेदयति स्म। तद्यथापि नाम तृतीयध्यानसमापन्नस्य भिक्षोरेवमक्लान्तकायः अक्लान्तचित्तो मासत्रयं भगवन्तमुपस्थितवान्। एवं सहस्रं राजापुत्राणां चतुरशीतिश्च कोट्टराजसहस्राणि अन्यानि च प्राणकोटीनयुतशतसहस्राणि, एकैकं श्रावकं राजकीयेनोपकरेणेन मासत्रयमेवंरूपेणोपस्थानेनोपस्थितवन्तः। यथा राजारणेमी रत्नगर्भन् तथागतमुपस्थितवान् तथाग्रमहिषी देवी मासत्रयं गन्धपुस्पैरुपस्थितवती। एवमन्यैरपि बहुकन्याकोटीनयुतशतसहस्रैरेकैकः श्रावको मासत्रयं पुष्पगन्धैरुपस्थितः।



अथ खलु कुलपुत्र राजारणेमी त्रयाणां मासानामत्ययेन चतुरशीतिं जाम्बूनदमयानि निष्कसहस्राणि भगवतो निर्यातयति। चक्ररत्नचक्रपूर्वंगमानि च सुवर्णमयानि चतुरशीतिश्चक्ररत्नसहस्राणि भगवतो निर्यातयति। हस्तिरत्नपूर्वंगमानि चतुरशीतिर्नागसहस्राणि सर्वश्वेतानि भगवतो निर्यातयति। अश्वरत्नपूर्वंगमानि चतुरशीतिरश्वसहस्राणि भगवतो निर्यातयति। मणिरत्नपूर्वंगमानि चतुरशीतिः सूर्यकान्तिमणिसहस्राणि भगवतो निर्यातयति स्म। गृहपतिरत्नपूर्वंगमानि चतुरशीतिराजपुत्रसहस्राणि भगवतो निर्यातयति स्म। उपस्थानाय परिणायकरत्नपूर्वंगमानि चतुरशीतिकोट्टराजसहस्राणि भगवत उपस्थानाय निर्यातयति स्म। अञ्चुरनगरपूर्वंगमानि चतुरशीतिनगरसहस्राणि भगवत उपजीव्यानि निर्यातयति भिक्षुसङ्घस्य च। चतुरशीतिरत्नमयानि कल्पवृक्षसहस्राणि चतुरशीतिरत्न‍राशिपुष्पसहस्राणि चतुरशीतिसप्तरत्नमयानि छत्रसहस्राणि चतुरशीत्युदाराणां राजार्हनां वस्त्राणां सहस्राणि चतुरशीतिसहस्राणि रत्नमयानां मालानां आभरणपीठशीर्षनयनकुण्डलसुवर्णसूत्रमुक्ताहारोपानहशय्यापादपीठभाजनभेरीवाद्यशङ्खघण्टाध्वजां भृङ्गारारामा दीपस्थालिका भगवतो निर्यातयति स्म। रत्नमयाः शकुना रत्नमयाश्च मृगाश्चतुरशीतिव्यजनसहस्राणि भगवतो निर्यातयति स्म। चतुरशीतिरसायनसहस्राणि रत्नगर्भस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य निर्यातयति स्म। एवं चाह, "अहं भगवन् बहुकृत्यो बहुकरणीयः, क्षमतु मे भगवान्, अस्माकमुपवनेऽभिरमतु, भगवान् अस्मिन्नुपवने रमतु नित्यं; पुनरप्यहं भगवन्तमुपसंक्रमिष्ये दर्शनाय वन्दनाय पर्युपासनाय च"। यच्च राज्ञोऽरणेमिनः पुत्रसहस्रं भगवतः पादयोर्निपत्य भगवन्तमेकैकमिदमवोचत् - "अधिवासयत्वस्माकमेकैकस्य त्रैमासं वयं भगवन्तमुपस्थास्यामः सर्वोपकरणैः सार्धं भिक्षुसङ्घेन"। अधिवासयति भगवांस्तस्य राजपुत्रसहस्रस्य तूष्णीभावेन। तेषां अधिवासितं भगवता विदित्वाथ राजारणेमी भगवतः पादौ शिरसाभिवन्द्य भिक्षुसङ्घं च त्रिस्कृत्वः प्रदक्षिणीकृत्य भगवन्तोऽन्तिकात् प्रकान्तः। अथ तेषां राजपुत्राणां ज्येष्ठोऽनिमिषो नामा भगवन्तं त्रैमासमेवंरूपेणोपस्थानेनोपस्तिष्ठति भिक्षुसङ्घं च, तद्यथा राजारणेमी तथैवमनिमिषप्रमुखं राजकुमारसहस्रं दिनेदिने भगवन्तं दर्शनायोपसंक्रामति भिक्षुसङ्घं च धर्मं च श्रोतुं।



अथ कुलपुत्र भगवतो रत्नगर्भस्य तथागतस्य पिता समुद्ररेणुर्नाम ब्राह्मणः, स सर्वं जम्बूद्वीपमन्वाहिण्ड्य स्त्रीपुरुषदारकदारिकाभ्यः पिण्डपातं याचते, स तं पिण्डपातं परिगृहीतस्तं सर्वं जम्बूद्वीपनिवासिलोकं त्रिशरणगमने प्रतिष्ठापयति, प्रतिष्ठापयित्वानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयति। तेनैवमन्वाहिण्डता न स कश्चिज्जम्बूद्वीपे मनुष्यभूतोऽस्ति यः समुद्ररेणुना ब्राह्मणेन पिण्डकेन न परिगृहीतो, यो वा न त्रिशरणगमने प्रतिष्ठापिताः, यस्य वानुत्तरायां सम्यक्सम्बोधौ चित्तं नोत्पादयति, यो वा नानुत्तरे ज्ञाने समादापितो न प्रतिष्ठापितः। बहुप्राणकोटीनयुतशतसहस्राणि त्रिशरणक्रियावस्तुषु स्थापितानि, एवमनुत्तरायां सम्यक्संबोधौ समादापितानि निवेशितानि प्रतिष्ठापितानि।



अनिमिषोऽपि राजकुमारो भगवन्तं मासत्रयमेवंरूपेणोपस्थानेनोपस्थितवान् सार्धं भिक्षुसङ्घेन यथा राज्ञारणेमिना, सोऽपि त्रयाणां मासानामत्ययेन चतुरशीतिश्चक्ररत्नसहस्राणि निर्यातयति सर्वसौवर्णानि नगराणि दिव्यानि च हस्त्यश्वमणिस्त्रीगृहपतिपरिणायकरत्नानि स्थापयित्वा चतुरशीतिहस्त्यश्वसहस्राणि, एवं सूर्यकान्तिमणिकन्याकुमारकल्पवृक्षपुष्पराशिच्छत्रवस्त्रमाल्याभरणरत्नपीठशीर्षनयनकुण्डलसुवर्णसूत्रमुक्ता-हारोपानहशय्यापादपीठभाजनभेरीवाद्यशङ्खपटहध्वजभृङ्गारामदीपस्थालिकादीनि नानारत्नमयाश्च शकुना नानामृगांश्च रत्नमयां रसायनांश्च; एकैकशश्चतुरशीतिसहस्राणि भगवतो निर्यातितवन्त एवं भिक्षुसङ्घस्य च।



अथ स राजकुमारो भगवन्तं क्षमापितवान् भिक्षुसङ्घं च, अनिमिषो राजकुमारो भगवन्तमेवंरूपेणोपस्थानेनोपस्थितवान् सार्धं भिक्षुसङ्घेन यथा राज्ञारणेमिना तथैव दक्षिणा दत्ता अनन्ता। एवमिन्द्रगणेन मासत्रयं भगवान् उपस्थितो विभवश्च परित्यक्तः, पेयालं, तथैवानङ्गणः, अभयः, अम्बरः, अशजः, मिद्धः, मिषः, मार्दवः, पङ्गगणः, माध्ववः, मानवो, मासंवो, माजवः, अरवः, आज्ञवः, मुखवः, अर्थबहुः, अलिन्द्रः, नेरवः, रेणजः, चन्द्रनेमी, सूर्यनेमी, इन्द्रनेमी, वज्रनेमी, क्षान्तिनेमी, स्थाननेमी, जवनेमी, रणेमी, राहुः, राहुबलः, राहुचित्रः, दामचित्रः, राजधानः, रागभ्रमः, रान्धवः, रक्षकः, कायः, शयमाः, यत्रवः, स्यजलः, यार्मथः, यध्वजः, यमानः, यस्यनः, नमज्योतिः, अरञ्जनध्वः, यावद् अरणेमिनो राज्ञः पुत्रसहस्रेण एकैकेन रत्नगर्भस्तथागतोऽर्हन् सम्यक्संबुद्धः सार्धमप्रमेयेन भिक्षुसङ्घेन, एवंरूपेण भगवत उपस्थानेनोपस्थितः चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर्मासत्रयं यथा ज्येष्ठेन राजपुत्रेण, तथैवैकैकश्चतुरशीतिः स्वर्णमयाश्चक्रसहस्राणि विस्तरेण यावच्चतुरशीतिरसायनसहस्राणि भगवतो निर्यातितानि भिक्षुसङ्घस्य च। एवंरूपेण महाप्रसादेन प्रणिधानं कृत्वा केचिद् देवत्वं केचिच्छक्रत्वं केचिन् मारत्वं केचिच्चक्रवर्तिराज्यं केचिन् महाभोगतां केचिच्छ्रावकयानं केचित् प्रत्येकबुद्धयानं प्रार्थयन्ति, अधिष्ठमानाश्च द्वौ वर्षशतौ पञ्चपञ्चाशच्च वर्षाणि भगवन्तं क्षमापयन्ति भिक्षुसङ्घं च। तत्काले समुद्ररेणुर्ब्राह्मनोऽग्रपुरोहितोऽभ्यागतोऽद्राक्षीत् तं भगवन्तं तै राजपुत्रैरुपस्थितं दृष्ट्वा सप्तवर्षाणि सर्वोपकरणैरुपनिमन्त्रयते, यदुत चीवरपिण्डपातशय्यासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसङ्घेन। अधिवासयति भगवान् पितुरग्रपुरोहितस्य तूष्णीभावेन। अथ समुद्ररेणुर्ब्राह्मण एवंरूपेण सर्वोपकरणसंपन्नेनोपस्थानेन भगवत उपस्थितः चीवरपिण्डपातशय्यासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसङ्घेन॥



अथ खलु कुलपुत्रापरेण समयेन समुद्ररेणोर्ब्राह्मणस्यैवं चेतसः परिवितर्क उदपादि। "मया तावद् बहुप्राणकोटिनयुतशतसहस्राणि अनुत्तरायां सम्यक्संबोधौ समादापितानि। न चाहमस्य राज्ञोऽरणेमिनः प्रणिधानं जाने, किम् अयं प्रार्थयति देवत्वं वा उत शक्रत्वं वा मारत्वं वा महाभोगतां वा श्रावकयानं वा प्रत्येकबुद्धयानं वानुत्तरां वा सम्यक्संबोधिम् आकाङ्क्षते। कच्चिद् अहम् अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः, अतीर्णान् सत्त्वांस्तारयेयं, अमुक्ताम्मोचयेयं जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः, अपरिनिर्वृतान् सत्त्वान् परिनिर्वापयेयं। कच्चित् स्वप्ने निवेदयतु देवो वा यक्षो वा नागो वा बुद्धो वा श्रावको वा ब्राह्मणो वा किन् तावद् राजा देवश्रियं काङ्क्षते उत मनुष्यश्रियं अथ श्रावकत्वमथ प्रत्येकबुद्धभूमिमथ वानुत्तरां सम्यक्संबोधिं"।



अथ कुलपुत्र समुद्ररेणुर्ब्राह्मणः अग्रपुरोहितः स्वप्ने तथारूपमवभासमद्राक्षीत्, येनावभासेन दशसु दिक्षु गङ्गानदीवालिकासमेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः पश्यति। ते च बुद्धा भगवन्तः तस्य ब्राह्मणस्य पद्मानि स्वर्णपत्राणि रूप्यदण्डानि वैडूर्यकर्णिकानि अश्मगर्भकेशराणि प्रेषयन्ति। सर्वेषु च तेषु पद्मेषु सूर्यमण्डलं दृश्यते। सूर्यमण्डलस्योपरि सप्तरत्नमयं छत्रं संस्थितं। एकैकस्माच्च सूर्यमण्डलात् षष्टिरश्मिकोट्यो निश्चेरुस्ता रश्मयः सर्वास्तस्य ब्राह्मणस्य वक्त्रे प्रविशन्ति। सहस्रयोजनप्रमाणमात्मभावं समनुपश्यति परिशुद्धं तद्यथा परिशुद्धमादर्शमण्डलं। स्वकायस्य च कुक्षौ षष्टिबोधिसत्त्वकोटीनयुतशतसहस्राणि पद्मेषु पर्यङ्कोपविष्टां ध्यायमानां पश्यति। तानपि सूर्यविग्रहानात्मनः शिरसि मालान् पश्यति। छत्रं चोपरि चाकाशे यावद् ब्रह्मलोकपर्यन्ते स्थितं पश्यति। नानापद्मानि सामन्तके स्थितानि पश्यति। तेभ्यश्च पद्मेभ्यो दिव्यान्यतिक्रान्तमानुषाणि तूर्याणि निश्चरन्ति शृणोति च। तत्र च राजानमारणेमिनं पश्यति, रुधिरम्रक्षितेन कायेन धावन्तं सूकरमुखेन विविधान् बहुप्राणिनो भक्षयन्ते, भक्षयित्वा चैरण्डवृक्षमूले निषण्णं। विविधाश्च प्राणिनः समागम्य तं राजानं भक्षयन्ति यावद् अस्थिशङ्कलावशेषं कृत्वा छोरयन्ति। एवं पुनः पुनस्तथैव प्रादुर्भवन्तं सूकरमुखं रुधिरम्रक्षितेन कायेन बहुविधान् प्राणिनो भक्षयित्वा एरण्डमूले निषण्णं, विविधैः प्राणिभिः खाद्यमानमस्थिशङ्कलावशिष्टं कृत्वा छोरितं। पुनरपरं राजपुत्रान् पश्यति सूकरमुखेनापरे गजमुखेनापरे महिषमुखेनापरे सिंहमुखेनापरे वृकमुखेनापरे शृगालमुखेनापरे श्वमुखेनापरे मर्कटमुखेन पश्यति, शोणिताभ्युक्षितगात्राननेकविधान् प्राणिनो भक्षयित्वा एरण्डवृक्षमूले निषण्णान् विविधैः प्राणिभिर्भक्ष्यमाणान् अस्थिशङ्कलावशिष्टानुत्सृष्टान्। पुनरपि तेनैव कायेन स्थितान् तथैव प्राणिनो भक्षयतः पश्यति। अन्यांश्च राजपुत्रान् पश्यति महिषरथाभिरूढान् सुमनापुष्पाभ्यलङ्कृतान् कुपथेन दक्षिणाभिमुखान् गच्छतः। शक्रब्रह्मलोकपालाश्चागत्वा ब्राह्मणस्य कथयन्ति। "इमानि ब्राह्मण पद्मानि भागं कुरु, भागं कृत्वा ततः प्रथमं राज्ञः संविभागमेकं पद्ममनुप्रयच्छ, तत एषामपि राजपुत्राणामेकैकं पद्मं दद, अवशिष्टानि कोट्टराज्ञां प्रयच्छ, अपरां जनस्य"। श्रुत्वा ब्राह्मण प्राह। "यथाज्ञापयन्ति देवाः"।



अथ स ब्राह्मणः पद्मानि भाजयमान एव प्रतिबुद्धः, संविचिन्तयमान उत्थायासनात् पुनर्विचिन्तयति, "हीनप्रणिधिरयं राजा चक्रवर्ती संसारसुखाभिरतो हीना वास्याधिमुक्तिः सार्धमेकत्यै राजपुत्रैरेकत्याः पुना राजपुत्राः श्रावकयानमाकाङ्क्षन्ति ये मया महिषरथाभिरूढा दृष्टाः सुमनापुष्पैरलङ्कृता दक्षिणाभिमुखा गच्छन्ति। यच्च मया सर्वसत्त्वार्थं महायज्ञस्यारम्भं कृतं। यच्च मयाधत्रियां वर्षशतां जम्बूद्वीपमन्वाहिण्ड्य सर्वसत्त्वा अनुत्तरायां सम्यक्संबोधौ यावत् प्रतिष्ठापिटाः। तद् एवं मया सर्वजम्बूद्वीपे गतानेकानि प्राणकोटीनयुतशतसहस्राणि त्रिषु पुण्यक्रियावस्तुषु समादापितानि निवेशितानि प्रतिष्ठापितानि। तस्यैतन्निमित्तं येन मया स्वप्ने महावभासो दृष्टः दशसु दिक्षु बुद्धा भगवन्तो दृष्टाः। यच्च मया सर्वं जम्बूद्वीपमन्वाहिण्ड्य स्त्रीपुरुषदारकदारिकाभ्यः पिण्डपातं याचयित्वा बहुप्राणकोटीनयुतशतसहस्राणि त्रिशरणक्रियावस्तुषु स्थापितानि विनीतानि निवेशितानि प्रतिष्ठापितानि। यच्च मया तथागतोऽर्हन् सम्यक्संबुद्धः सप्तवर्षाण्युपनिमन्त्रितः सर्वोपकरणैः सार्धं भिक्षुसङ्घेन, तेन मम दशभ्यो दिग्भ्यः अन्येभ्यो बुद्धक्षेत्रेभ्यः बुद्धैर्भगवद्भिः पद्मान्यनुप्रेषितानि। यच्च मयानुत्तरायां सम्यक्संबोधौ प्रणिधानं कृतं, तेन ते बुद्धा सप्तरत्नमयानि छत्राणि विसर्जयन्ति। यत्पुनर्मया तेषु पद्मेषु सूर्यविग्रहा दृष्टा, यच्च रश्मयो मुखे प्रविशमाना दृष्टाः, यच्चासौ महान् आत्मभावो दृष्टः, यच्च सूर्यविग्रहमाला दृष्टा, यच्च कुक्षौ बोधिसत्त्वकोटीनयुतशतसहस्राणि पद्मेषु पर्यङ्कनिषण्णानि ध्यायमानानि, इमा एवंरूपाः स्वप्ना दृष्टाः, यच्च मे शक्रब्रह्मलोकपाल दृष्टा आज्ञापयन्तीमानि पद्मानि भागं कुरु, यच्च मया तानि पद्मानि भागं कृत्वा दत्तानि। यन्न्वहम् इमाः स्वप्ना बुद्धाय भगवत आख्यास्ये, किंहेतुकाः किंप्रत्यया मयैवंरूपाः स्वप्ना दृष्टा, यन्न्वहं तथागतं पृच्छेयं"।



अथ समुद्ररेणुर्ब्राह्मणः तस्या एव रात्र्या अत्ययेन भोजनं सज्जीकृत्वा काल्यते एव येन भगवांस्तेनोपजगाम, उपेत्य स्वयमेव भगवतो हस्तशौचमुपनामयति भिक्षुसङ्घस्य च। हस्तशौचमुपनीय प्रभूतेन खादनीयेन भोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति, संतर्पयित्वा संप्रवारयित्वा भिक्षुसङ्घमनेकपर्यायेन संतर्प्य संप्रवार्य भगवन्तं विदित्वा भिक्षुसङ्घं च धौतहस्तमपनीतपात्रं नीचमासनं गृहीत्वा भगवतः पुरतो निषण्णो धर्मश्रवणाय। अथ राजारणेमी तत्रैवाभ्यागतः सार्धं पुत्रसहस्रेणानेकैश्च प्राणिसहस्रैः परिवृतः पुरस्कृतः, स यावद् यानस्य भूमिस्तावद् यानेन यात्वा यानाद् अवतीर्य पद्भ्यामेवारामं प्राविक्षत्, प्रविश्य च येन भगवांस्तेनोपजगामोपेत्य भगवतः पादौ शिरसा वन्दित्वा भिक्षुसङ्घस्य च भगवतः पुरतः निषण्णो धर्मश्रवणाय। अथ समुद्ररेणुर्ब्राह्मणो यथादृष्टां स्वप्नां भगवतो निवेदयति। भगवान् आह - "यत्त्वं ब्राह्मणाद्राक्षीत् महान्तमवभासं येनावभासेन गङ्गानदीवालिकासमेषु बुद्धक्षेत्रेषु बुद्धा भगवन्तो दृष्टा तव पद्मानि विसर्जयन्ति, तेषु च पद्मेषु सूर्यविग्रहा दृष्टा रश्मयः प्रमुञ्चमानास्ते च रश्मयस्तव मुखे प्रविशन्ति। यत्त्वया ब्राह्मण अधत्रिकायां वर्षशतां जम्बुद्वीपमाहिण्डता, तेन त्वया गणनातिक्रान्ताः सत्त्वास्त्रिषु पुण्यक्रियावस्तुषु निवेशिताः प्रतिष्ठापिताश्च, गणनातिक्रान्ताश्च सत्त्वा अनुत्तरायां सम्यक्संबोधौ समादापिता निवेशिताः प्रतिष्ठापिताः। यच्च त्वया सर्वसत्त्वार्थं महायज्ञस्यारम्भः कृतस्तेन त्वं ब्राह्मण बुद्धा भगवन्तो व्याकरिष्यन्त्यनुत्तरायां सम्यक्संबोधौ, ये दशसु दिक्षु गङ्गानदीवालिकासमेषु लोकधातुषु तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, यैश्च तव पद्मानि विसर्जितानि सुवर्णपत्राणि रूप्यदण्डानि वैडूर्यकर्णिकानि अस्मगर्भकेशराणि, तेषु च सर्वेषु पद्मेषु सूर्यविग्रहा दृश्यन्ते। इदं तस्य स्वप्नस्य पूर्वनिमित्तं। यत्त्वं ब्राह्मणाद्राक्षीत् स्वप्ने ये दशौसु दिक्षु गङ्गानदीवालिकासमेषु लोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति धर्मं च देशयन्ति, तैर्बुद्धैर्भगवद्भिः सप्तरत्नमयानि छत्राणि विसर्जितानि, यानि छत्राणि चोपरि चाकाशे यावद् ब्रह्मलोकपर्यन्तं संतिष्ठन्ति। यस्यां एव रात्रौ त्वं ब्राह्मणानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे तस्यां एव रात्रौ दशसु दिक्षु गङ्गानदीवालिकासमेषु लोकधातुषूदारः कीर्तिशब्दश्लोकोऽभ्युद्गच्छते, उपरि च यावद् ब्रह्मलोकपर्यन्तं कृत्वा न शक्यन्ते तव मूर्धानं व्यवलोकयितुं ब्रह्मादिभिर्देवलोकैरपि। इदं तस्य स्वप्नस्य पूर्वनिमित्तं। यत्त्वं ब्राह्मणाद्राक्षित् महान्तमात्मभावं यावद् ब्रह्मलोकं यच्च सूर्यमण्डलानां माला शीरसि बद्धा, तद्ये त्वया गणनातिक्रान्ताः सत्त्वाः समादापिता अनुत्तरायां सम्यक्संबोधौ, ते च तवाभिसंबुद्धबोधेर्ब्राह्मण बुद्धक्षेत्रपरमाणुरजःसमेषु लोकधातुषु देशसु दिक्षु स्थिता अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते। सर्वे ये त्वया बोधौ समादापिता ते तवाभीक्ष्णं वर्णं उदाहरिष्यन्ति, "अनेन तथागतेनार्हता सम्यक्संबुद्धेन वयं प्रथममनुत्तरायां सम्यक्संबोधौ समादापिता, येनास्मैतर्ह्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धा, एष चास्माकं कल्याणमित्रं"। ते बुद्धा भगवन्तो बोधिसत्त्वान् विसर्जयिष्यन्ति तव पूजाकर्मणे, ततस्ते बोधिसत्त्वा महासत्त्वा विविधैर्बोधिसत्त्वविकुर्वितैस्तव पूजां कृत्वा, तत्र तव सकाशाद्धर्मं श्रुत्वा नानाविधाः समाधिर्धारणीः क्षान्तिश्च प्रतिलप्स्यन्ते। ते बोधिसत्त्वा महासत्त्वाः स्वकस्वकेषु बुद्धक्षेत्रेषु गत्वा तव वर्णं उच्चारयिष्यन्ति घोषमनुश्रावयिष्यन्ति। इदं ब्राह्मण तस्य स्वप्नस्य पूर्वनिमित्तं। यत्त्वया ब्राह्मण स्वप्ने दृष्टा बोधिसत्त्वकोटीनयुतशतसहस्राणि तानि तव कुक्षौ प्रविश्य पद्मेषु पर्यङ्कोपविष्टा ध्यायन्ति, अभिसंबुद्धबोधिश्च त्वं ब्राह्मण बहुप्राणकोटीनयुतशतसहस्राणि यान्यनुत्तरायां सम्यक्संबोधौ समादापयिष्यसि अवैवर्तिकानि स्थापयिष्यस्यनुत्तरायां सम्यक्संबोधौ। ते तव परिनिर्वृतस्य ब्राह्मणानुत्तरेण परिनिर्वाणेन बुद्धक्षेत्रपरमाणुरजःसमेषु कल्पेषु पश्चाद्दशासु दिक्ष्वन्येषु बुद्धक्षेत्रेषु ते बुद्धा भगवन्तो धर्मेण राज्यं कारयन्तस्तव वर्णं भाषिष्यन्ति। "एवम् असंख्येयेषु कल्पेष्वतिक्रान्तेषु एवंनामा तथागतो अभूद् अर्हन् सम्यक्संबुद्धः, तेन तथागतेनार्हता सम्यक्संबुद्धेन वयमनुत्तरायां सम्यक्संबोद्धौ समादापिता विनीता निवेशिताः प्रतिष्ठापिता अवैवर्तिकाश्च स्थापिता, येन वयमेतर्ह्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः, धर्मराज्यं च प्रतिलब्धाः"। इदं ब्राह्मण तस्य स्वप्नस्य पूर्वनिमित्तं। यत्त्वं ब्राह्मण स्वप्ने दृष्टवान् सूकरमुखेन यावच्छ्वमुखेन रुधिरम्रक्षितेन गात्रेणानेकविधां प्राणिनो भक्षयित्वा हीन एरण्डमूले निषण्णास्तेऽप्यन्ये विविधैः प्राणिभिर्भक्ष्यन्ते यावदस्थिशङ्कलावशेषा उत्सृज्यन्ते, पुनरप्याप्यायितकाया रुधिराभ्यक्तेन कायेन यावच्छ्वमुखेन बहुविधां प्राणिनो भक्षयित्वा पुनर्हीनस्यैरण्डवृक्षस्य मूले निषण्णा विविधैश्च प्राणिभिः खाद्यन्ते। ते त्वया मोहपुरुषास्त्रिविधे पुण्यक्रियावस्तुनि समादापिता प्रातिष्ठापिता दाने यमे संयमे च, ते देवेषु च्यवनदुःखमभिलषन्ति, मनुष्येषु जराव्याधिमरणाप्रियसंप्रयोगप्रियविनाभावदुःखां प्रेतेषु क्षुत्पिपासदुःखं तिर्यक्ष्वन्योन्यभक्षणदुःखं नारकेषु दाहच्छेदवधबन्धननानाविधकारणादिदुःखमभिलषन्ति। त्रिविधे च पुण्यक्रियावस्तुनि प्रतिष्ठापिता देवेषु देवराज्यमभिलषन्ति मनुष्येषु चैकद्वीपैश्वर्यमाकाङ्क्षन्ते। तेषां तत्र सर्वसत्त्वाः परिभोगं गच्छन्ति, तेऽपि च सर्वसत्त्वानामाहारपरिभोगं गच्छन्ति। एवं ते मोहपुरुषाः सर्वे त्वया त्रिविधे पुण्यक्रियावस्तुनि प्रतिष्ठापितास्तवोपासका भविष्यन्ति। इदं ब्राह्मण तस्य स्वप्नस्य पूर्वनिमित्तं। यत्त्वं ब्राह्मण स्वप्नमद्राक्षीत् अपरे मनुष्या महिषरथाभिरूधाः सुमनामालालाङ्कृतशिरसः अपथेन दक्षिणाभिमुखं गच्छन्ति, तेऽपि त्वया ब्राह्मण कुलपुत्राः त्रिषु पुण्यक्रियावस्तुषु प्रतिष्ठापिताः केवलमात्मदमनार्थं आत्मशमनार्थं श्रावकयानसंप्रस्थिताः, तेषां श्रावकयानसंप्रस्थितानां ब्राह्मण पुद्गलानामिदं पुर्वनिमित्तं"॥



अथ खलु कुलपुत्र ब्राह्मणः समुद्ररेणू राजानमारणेमिनमेतदवोचत् - "दुर्लभं महाराज मनुष्यत्वं, दुर्लभा क्षणसंपत्, दुर्लभमुदुम्बरपुष्पसदृशानां तथागतानामर्हतां सम्यक्संबुद्धानां प्रादुर्भावो लोके, दुर्लभः कुशलधर्मे छन्दः, दुर्लभं सम्यक्प्रणिधानं। दुःखोत्पत्तिभूतं महाराज देवराजत्वं, दुःखोत्पत्तिभूतं महाराज मनुष्येषु चैकद्वीपैश्वर्यराजत्वं, दुःखोत्पत्तिभूतं द्विस्त्रिश्चातुर्द्वीपिकराजत्वं। चिरं महाराज संसारदुःखमनुभवितव्यं। अनवस्थिता महाराज वायुवेगचपला देवमनुष्यसंपत्तयो, दकचन्द्रोपमा बालाः पञ्चभिः कामगुणैरतृप्ता विषयेषु मत्ता देवमाणुषां श्रियमभिलषन्ति। ते बालाः पुनः पुनर्नरकेषु कारणादुःखमनुभवन्ति तिर्यक्षु संमोहदुःखं प्रेतेषु क्षुत्पिपासादुःखं मनुष्येषु प्रियविप्रयोगदुःखं देवेषु च्यवनदुःखं पुनर्गर्भवासदुःखं परस्परशीर्षप्रपातनदुःखं अन्योन्यभक्षणदुःखं, एवं भ्रममाणा बाला दुःखमनुभवन्ति। तत्कस्माद्धेतोः ?, कल्याणमित्रविरहिताः सम्यक्प्रणिधानं न कुर्वन्ति न व्यायमन्ति अप्राप्तस्य प्राप्तयेऽनधिगतस्याधिगमायासाक्षात्कृतस्य साक्षात्क्रियायै। एवं मूर्खा बालाः खिद्यन्ते बोधिचित्तेन यत्र सर्वदुःखक्षयो भवति, संसारेण च न खिद्यन्ते नोद्विजन्ति यत्र पुनः पुनर्दुःखोत्पत्तिर्भवति। परीक्षस्व महाराज यथा संसारः सर्वदुःखानां भाजनभूतः। तस्मात्तर्हि त्वं महाराज कृताधिकारो भगवतः शासनेऽवरोपितकुशलमूलस्त्रिषु रत्नेषु लब्धप्रसादः, भगवतो दत्तदानो महाभोगतायै रक्षितशीलः स्वर्गोपपत्तिप्रतिलाभाय श्रुतो भगवतोऽन्तिकाद्धर्मं प्रज्ञामहाधर्मप्रतिलाभाय ते संपत्स्यन्ते। यष्टयज्ञस्त्वं महाराज उत्पादायनुत्तरायां सम्यक्संबोधौ चित्तं"। आह, "अलं ब्राह्मण, नाहं ब्राह्मणानुत्तरां सम्यक्संबोधिमभिलषामि संसाराभिरतः, यन्महाब्राह्मण मया दानं दत्तं शीलं रक्षितं धर्मः श्रुतः। दुर्लभा हि ब्राह्मणानुत्तरा सम्यक्संबोधिः"।



द्विरपि समुद्ररेणुर्ब्राह्मणो राजानमाह - "शुद्धो महाराज बोधिमार्गः। आशयेन प्रणिधानं कर्तव्यं। परिपूर्याभिप्रसन्नः स मार्गोऽध्याशयेन विशुद्धः। ऋजुः स मार्गः अशठः। शुद्धः स मार्गः क्लेशप्रवाहकत्वात्। विपुलोऽसौ मार्गः अनावर्णत्वात्। समवसरणः स मार्गः चिन्तनाय। निर्भयः स मार्गः सर्वपापाकरणतया। सुमृदुः स मार्गः दानपारमितया। शीतलः स मार्गः शीलपारमितया। निराश्रयः स मार्गः क्षान्तिपारमितया। अधिष्ठानाश्रयः स मार्गः वीर्यपारमितया। अनाविलः स मार्गः ध्यानपारमितया। सुविदितः स मार्गः प्रज्ञापारमितया। सुप्रसन्नः स मार्गो महामैत्र्या। स्वभावज्ञानानुगतः स मार्गः महाकरुणया। सदानन्दितः स मार्गः महामुदितया। अक्लिष्टः स मार्गः उपेक्षया। अपगतकण्टकः स मार्गः कामव्यापादविहिंसावितर्कैः। क्षेमंगमनः स मार्गोऽप्रतिहतचित्ततया। धूर्तविरहितः स मार्गः रूपशब्दगन्धरसस्पर्शविदितत्वात्। निहतमारप्रत्यर्थिकः स मार्गः धात्वायतनसुविमृष्टत्वात्। सुप्रबोधः स मार्गः अविद्यान्धकारनिरावरणत्वात्। दृढवीर्यसत्त्वचित्तगमनः स मार्गः अपगतश्रावकप्रत्येकबुद्धमनसिकारत्वात्। उत्सोढः स मार्गः सर्वतथागताधिष्ठितत्वात्। महारत्ननिष्पादकः स मार्गः सर्वज्ञतारत्नानुकूलत्वात्। सदाप्रकाशितः स मार्गः असङ्गज्ञानस्य भगवतः। कुशलमूलदेशकानुचीर्णः स मार्गः सर्वतथागतानुगृहीतत्वात्। दुष्टक्लेशानुकूलविगतः स मार्गः अनुनयप्रतिघप्रहीणत्वात्। निहतरजः स मार्गः व्यापादखिलक्रोधापगतत्वात्। सुगतिगमनीयः स मार्गः सर्वाकुशलविरहितत्वात्। क्षेमंगमो महाराज संबोधिमार्गः निर्वाणपर्यवसानः। उत्पादय महाराज बोधिचित्तं"। राजा प्राह - "अयं ब्राह्मण तथागतः अशीतिवर्षसाहस्रिकायां प्रजायां लोक उत्पन्नो, न शक्यं तथागतेन सर्वेऽपायः शमयितुं। ये सत्त्वा अवरुप्तकुशलमूलस्ते सत्त्वाः फले स्थिताः, केचित् समाधिधारणीक्षान्तिषु निष्पन्नाः, उत्कृष्टकुशलमूलास्तु ये सत्त्वास्ते बोधौ अवैवर्त्याः संवृत्ताः, केचिदवरुप्तकुशलमूलाः देवमनुष्यश्रियमनुभवन्ति। स्वकस्वकैः सत्त्वाः कुशलाकुशलैः कर्मभिर्भ्रमन्ति। कतमे सत्त्वा भगवता विनीताः सदेकसत्त्वस्यापि दुःखं न प्रशान्तं, क्षेत्रभूतः केवलं भगवत आश्रयः, नानवरुप्तकुशलमूलानां सत्त्वानां दुःखमोचनं करोति। उत्पादयाम्यहं बोधिचित्तं। बोधिसत्त्वचर्यां चरंस्तेनाहं महाज्ञानसमुच्छ्रयेण अचिन्त्येनोदारेण धर्ममुखप्रवेशेन सत्त्वान् विनयेयं बुद्धकार्यं च कुर्यां। न केवलमस्मिं क्लिष्टे बुद्धक्षेत्रे बोधाय चित्तं परिणामयेयं। यद्यहं तादृशं बुद्धक्षेत्रं लभेयमुत्पादयेयमहं बोधिचित्तं, तदाहं बोधिसत्त्वचर्यां चरिष्यामि यदाहमनुत्तरां सम्यक्संबोधिं च स्पृशेयं, सर्वं च तत्र बुद्धक्षेत्रे सत्त्वानां दुःखं प्रशमयेयं"।



अथ खलु कुलपुत्र रत्नगर्भस्तथागतोऽर्हन् सम्यक्संबुद्धस्तादृशमृद्ध्यभिसंस्कारमभिसंस्कृतवान् तदादर्शव्यूहं नाम समाधिं समापन्नः। तथा समाहितेन भगवता आदर्शव्यूहे समाधौ तथारूपावभासः प्रादुर्भूतः, येनावभासेन दशसु दिक्ष्वेकैकस्यां दिशि सहस्रबुद्धक्षेत्रपरमाणुरजःसमा लोकधातवः सर्वगुणव्यूहा दृष्यन्ते; केषुचिद् बुद्धा भगवन्तः परिनिर्वृताः, केषुचित् परिनिर्वाणाय संस्थिताः; यत्र च बोधिसत्त्वा महासत्त्वा बोधिवृक्षमूले निषण्णा मारं पराजयन्ति, यत्र चाचिराभिसंबुद्धा धर्मचक्रं प्रवर्तयन्ति, यत्र चाचिरप्रवृत्तधर्मचक्रं धर्मं देशयन्ति, यत्र च बुद्धानां बोधिसत्त्वानां स्फुटां बुद्धक्षेत्रां, यत्र श्रावकप्रत्येकबुद्धानामुत्पादो नास्ति, यत्र च श्रावकप्रत्येकबुद्धा उत्पद्यन्ते, यत्र च शून्यं बुद्धक्षेत्रं बुद्धेभ्यो बोधिसत्त्वेभ्यः श्रावकप्रत्येकबुद्धेभ्यः; क्वचित् क्लिष्टं बुद्धक्षेत्रं पञ्चकषायं, क्वचित् परिशुद्धमपगतपञ्चकषायं, क्वचिदुत्कृष्टाः सत्त्वाः, क्वचिद्धीनाः, क्वचिद्दीर्घायुष्काः, क्वचिदल्पायुष्काः; कानिचिद्बुद्धक्षेत्रान्यग्निना संवर्तन्ते, कानिचिदुदकेन, कानिचिद्वायुना; क्वचिद्विवर्तन्ते, क्वचिद्विवृत्तास्तिष्ठन्ति; ते सर्व उदारेणावभासेन स्फुटाः संदृश्यन्ते। सर्वावती सा पर्षत्तां दृष्ट्वा बुद्धक्षेत्रे गुणव्यूहान्, समुद्ररेणुर्ब्राह्मणः पुना राजानमेतदवोचत् - "पश्य महाराजैतान् बुद्धक्षेत्रगुणव्यूहान्, उत्पादय महाराजनुत्तरायां सम्यक्संबोधौ चित्तं, गृहाण महाराज बुद्धक्षेत्रं यादृशमाकाङ्क्षसि"।



अथारणेमी राजा येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - "केन भगवन् कर्मणा बोधिसत्त्वो महासत्त्वः परिशुद्धं बुद्धक्षेत्रं परिगृह्णाति, केन कर्मणापरिशुद्धं; उत्कृष्टाः सत्त्वाः केन कर्मणा, यावद्दीर्घायुष्काः सत्त्वा विस्तरः"। भगवान् आह - "प्रणिधानवशेन महाराज बोधिसत्त्वो महासत्त्वः परिशुद्धं बुद्धक्षेत्रं परिगृह्णाति अपगतपञ्चकषायं, प्रणिधानेनापरिशुद्धं"। राजा प्राह - "अहं भदन्त भगवन् नगरं प्रविश्यैकाग्रे निषद्य प्रणिधानं चिन्तयिष्यामि, तथारूपं मे बुद्धक्षेत्रमपगतपञ्चकषायं रोचते तत्रेमा सुभवचर्या परिणामयिष्यामि"। भगवान् आह - "यस्येदानीं महाराज कालं मन्यसे"। अथ खलु कुलपुत्र राजारणेमी भगवतः पादौ शिरसा वन्दित्वा भिक्षुसङ्घं च त्रिष्कृत्वः प्रदक्षिणीकृत्य भगवतोऽन्तिकात् प्रकान्तः। नगरं प्रविश्य स्वके गृह एकाग्रः प्रतिसंलीनो निषण्णः, बुद्धक्षेत्रप्रणिधानं व्यूहं चिन्तयति।



अथ खलु समुद्ररेणुर्ब्राह्मणः ज्येष्ठं राजपुत्रमनिमिषमामन्त्रयति। "उत्पादय त्वमनिमिषानुत्तरायां सम्यक्संबोधौ चित्तं। यच्च त्वया त्रिभिः पुण्यक्रियावस्तुभिः शुभं चरता पुण्यमार्जितं तत्सर्वमनुत्तरयां सम्यक्संबोधौ परिणामया"। स प्राह - "अहमप्युपाध्याय स्वगृहं गत्वैकाकी रहोगतो निषद्य बुद्धक्षेत्रगुणव्यूहांश्चिन्तयिष्यामि। यदि बोधाय चित्तमुत्पत्स्यते, पुनरागम्य भगवतः सकाशं बोधिचित्तं परिणामयिष्यामि"। अतः सोऽपि राजपुत्रो भगवतः पादौ शिरसाभिवन्द्य भिक्षुसङ्घस्य च त्रिष्कृत्वः प्रदक्षिणीकृत्वा भगवतोऽन्तिकात् प्रकान्तः, स्वकं निवेशनं गत्वा एकाकी रहोगतो निषद्य बुद्धक्षेत्रगुणव्यूहं चिन्तयति। अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणोऽग्रपुरोहितो द्वितीयं राजपुत्रं निमन्त्रयित्वोवाच, "उत्पादय त्वं कुमार बोधिचित्तं", विस्तरेण पेयालं यावत्, सर्वराजपुत्रसहस्रं बोधौ समादापयति, चतुरशीतिः कोट्टराजसहस्राणि, अन्यानि च नवतिः कोट्यः सत्त्वानां बोधौ समादापयति। तेऽपि सर्व एवमाहुः, "वयमपि स्वस्वगृहं गत्वैकाकिनो निषद्य बुद्धक्षेत्रगुणव्यूहं चिन्तयिष्यामः"। एवमुक्त्वा सर्व एव स्वगृहाणि गत्वैकाकिनो निषण्णाः सप्तवर्षाणि बुद्धक्षेत्रगुणव्यूहप्रणिधानानि चिन्तयन्ति॥



अथ खलु कुलपुत्र समुद्ररेणोर्ब्राह्मणस्यैवं अपरेण समयेन चेतसः परिवितर्क उदापादि। "मया खल्वनुत्तरायां सम्यक्संबोधौ बहुप्राणकोटीनयुतशतसहस्राणि समादापितानि। अयं च मया बुद्धो भगवान् सप्तवर्षाणि सर्वोपकर्णैरुपनिमन्त्रितः सार्धमपरिमितेन भिक्षुसङ्घेन। यदि च ममानुत्तरायां सम्यक्संबोधौ आशा परिपूर्यते तथा चायं प्रणिधानं संपद्यते यद् अहं देवासुरगन्धर्वयक्षराक्षसकुम्भाण्डान् अस्मिन् महायज्ञे समादापयामि"।



अथ कुलपुत्र समुद्ररेणुर्ब्राह्मणः पुरोहितो वैश्रवणमाकाङ्क्षते दर्शनाय। अथ खलु वैश्रवणो महाराजानेकैर्यक्षशतसहस्रैः परिवृतः पुरस्कृतो येन समुद्ररेणुर्ब्राह्मणस्तेनोपजगामोपेत्य समुद्ररेणोर्ब्राह्मणस्याग्रतः स्थित्वैतदवोचत् - "किं ब्राह्मण मत्तो ह्याकाङ्क्षसे ?" ब्राह्मणः प्राह - "को भवान् ?" वैश्रावणः प्राह - "श्रुतं त्वया ब्राह्मणास्ति वैश्रवणो नाम यक्षाधिपतिः। सो अहं; ब्राह्मण किम् आज्ञापयसि किं करवाणि?"। ब्राह्मणः प्राह। "शृणु यक्षाधिपतेऽहं भगवत्पूजां करिष्ये, त्वमत्रौत्सुक्यमापद्यस्व"। स प्राह - "तथास्तु यथा त्वं ब्राह्मणाकाङ्क्षसे"। "तेन हि त्वं महाराज याक्षान् अस्माकं वचनेनानुत्तरायां सम्यक्संबोधौ समादापय। एवं च पुनः समादापय, सचेद्यूयं यक्षा अनुत्तरायां सम्यक्संबोधावर्थिका गच्छत, यूयं पारात् समुद्रस्य गोशीर्षं उरगसारचन्दनमानयन्तु, अपरे भगवतोऽर्थे गन्धमपरे विविधां पुष्पान्, येनाहं दिवसेदिवसे भगवतः पूजां करिष्यामि"। "एवमस्तु ब्राह्मण", वैश्रवणो महाराजा तस्य ब्राह्मणस्य प्रतिश्रुत्य तत्रैवान्तर्हितः भेरीमाहत्य यक्षराक्षसां सन्निपात्यैतदवोचत् - "यत् खलु मार्षा जानीयुः, अयं जम्बुद्वीपे समुद्ररेणुर्नाम ब्राह्मणो राज्ञोऽरणेमिनोऽग्रपुरोहितः, तं रत्नगर्भं तथागतमर्हन्तं सम्यक्संबुद्धं सार्धं भिक्षुसङ्घेन सप्तवर्षाणि सर्वोपकरणैरुपस्थास्यति। तद्युष्माभिस्तत् कुशलमनुमोदितव्यं, तेन च यूयं कुशलमूलेनानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयता"। तेन खलु पुनः समयेन बहुयक्षराक्षसकोटीनयुतशतसहस्राणि अञ्जलिं कृत्वोचुः। "यः समुद्ररेणोर्ब्राह्मणस्य पुण्याभिस्यन्दः कुशलाभिष्यन्दो रत्नगर्भं तथागतमर्हन्तं सम्यक्संबुद्धं सप्तवर्षाणि सर्वोपकरणैरुपतिष्ठति सार्धमपरिमितेन भिक्षुसङ्घेन, तत्सर्वं वयं पुण्यस्कन्धमनुमोदामस्तेन च कुशलमूलेनानुत्तरां सम्यक्संबोधिमभिसंबुद्ध्येमहि"। वैश्रवणो महाराजः प्राह - "शृण्वन्तु भवन्तः, यः कश्चिद् युष्माकं कुशलमूलेनार्थिकः पुण्यार्थी स सप्तवर्षान् पारात् समुद्रस्य गोशीर्षोरगसारचन्दनमानयतु, येन समुद्ररेणुर्ब्राह्मणो भगवतो भिक्षुसङ्घस्य चाहारं सज्जीकुर्यात्"। ततो द्वानवतियक्षसहस्राणि एककण्ठेनोदाहृतवन्तः। "वयं मार्षा इमान् सप्तवर्षान् गोशीर्षमुरगसारचन्दनमानयिष्यामो, येन समुद्ररेणुर्ब्राह्मणो भगवतोऽर्थायाहारं सज्जीकरिष्यति भिक्षुसङ्घस्य च"। षट्चत्वारिंशद्यक्षसहस्राणि कथयन्ति। "वयं गन्धमानयिष्यामः"। द्वापञ्चाशद्यक्षसहस्राणि कथयन्ति। "वयं विचित्रान् पुष्पान् आनयिष्यामः"। विंशद्यक्षसहस्राणि कथयन्ति।"वयं विविधरसायनानामोजां गृह्नीमो भगवतोऽर्थाय भिक्षुसङ्घस्य च, यदन्नपानसज्जीकृतं भविष्यति तत्रौजां प्रक्षेप्स्यामः"। सप्ततिर्यक्षसहस्राणि कथयन्ति। "वयं मार्षा भगवतोऽर्थायाहारं सज्जीकरिष्यामो भिक्षुसङ्घस्य च"।



अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणो विरुढकस्य महाराजस्याकाङ्क्षति दर्शनं। ततो विरूढको महाराजा येन समुद्ररेणुर्ब्राह्मणस्तेनोपजगामोपेत्य यावद् अनेककुम्भाण्डकोटीनयुतशतसहस्राणि अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयन्ति। एवं विरूपाक्षो धृतराष्ट्रो बहुनागगन्धर्वकोटीनयुतशतसहस्राण्यनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयन्ति। अथ खलु द्वितीयिकायाश्चातुर्द्वीपिकाया लोकपाला बुद्धानुभावेनागताः समुद्ररेणोर्ब्राह्मणस्य सकाशत्, तान् अपि ब्राह्मणः समादापयति। तेऽपि गत्वा स्वकं स्वकं पर्षदमनुत्तरायां सम्यक्संबोधौ समादापयन्ति, यावत् त्रिसाहस्रमहासाहस्रात् कोटीशतं वैश्रवणानाम् सपर्षत्कानामनुत्तरायां सम्यक्संबोधौ समादापयन्ति, कोटीशतं वीरूढकानाम् कोटिशतं विरूपाक्षाणां कोटिशतं धृतराष्ट्राणां सपार्षद्यानामनुत्तरायां सम्यक्संबोधौ समादापयन्ति।



अथ खलु कुलपुत्र समुद्ररेणोर्ब्राह्मणस्यैतद् अभवत्। "यद्यहमनुत्तरां सम्यक्संबोधिमभिसंबुद्ध्येयं आशा च समृध्येत यदि च मे प्रणिधिः समृध्येत, विरूढकानां तदहं कारयेयं कारं, अस्मिन् महायज्ञे तत् सत्त्वानां संविभजेयं, अनुत्तरायां सम्यक्संबोधौ समादापयेयं। सचेदहमनेन पुण्येनानुत्तरां सम्यक्संबोधिमभिसंबुद्ध्येयञ्छक्रो ममाद्य देवानामिन्द्रो दर्शनायोपसंक्रामतु, सुयमो देवपुत्रः संतुषितो देवपुत्रः सुनिर्मितो देवपुत्रः परनिर्मितवशवर्ती च देवपुत्रः दर्शनायोपसंक्रामतु"। सहचित्तोत्पादादेव कुलपुत्र समुद्ररेणोर्ब्राह्मणस्य शक्रो देवानामिन्द्रो दर्शनायोपसंक्रान्तः, सुयामश्च देवपुत्रः संतुषितश्च देवपुत्रः सुनिर्मितश्च देवपुत्रः परनिर्मितवशवर्ती च देवपुत्रः तं ब्राह्मणं दर्शनायोपसंक्रान्तः। तां समुद्ररेणुर्ब्राह्मणः पृच्छति। "के भदन्तः?" पञ्चदेवराजानः स्वकस्वका नामगोत्राण्यनुश्रावयन्ति। एवं चाहुः। "किं भोः ब्राह्मणास्माकमाज्ञापयसि?। कान्यस्माभिरस्मिन् महायज्ञे उपकरणान्युपस्थापयितव्यानि ?" ब्राह्मणः प्राह। "यानि युष्माकं देवलोके सर्वविशिष्टानि रत्नमयानि कूटागाराणि रत्नवृक्षा वा कल्पवृक्षा वा गन्धवृक्षा वा पुष्पवृक्षा वा फलवृक्षा दिव्यानि चीवराणि दिव्यासनानि दिव्यानि प्रज्ञपनानि दिव्यानि रत्नभाजनानि दिव्यान्यलङ्कारच्छत्रध्वजपताकाभरणानि दिव्यानि च वाद्यानि तैर्वस्तुभिः सर्वजम्बूद्वीपमलङ्कुरुत भगवतोऽर्थाय भिक्षुसङ्घस्य च"। "एवम् अस्तु मार्षास्ते" पञ्चदेवराजानो ब्राह्मणस्य प्रतिश्रुत्य ब्राह्मणस्यान्तिकात् प्राकान्ता देवलोकं गता गत्वा वेटकं देवपुत्रमावेटुकं देवपुत्रं रोहिणं देवपुत्रं कोरभनन्दं देवपुत्रमामन्त्रयित्वैवमाहुः।" गच्छत यूयं मार्षा जम्बूद्वीपमवतीर्य जम्बूवनं उद्यानमेवंविधेनालङ्कारविशेषेनैवंविधैरासनैः संस्ततैरलङ्कुरुत यथैवायं देवलोकोऽलङ्कृतः। एवंविधमेव भगवतोऽर्थाय रत्नमयं कूटागारं कारयत यादृशोऽयं रत्ननिर्यूहः कूटागार ईदृशं मार्षा कूटागारं कारयत"। ते पञ्चदेवपुत्रा देवराज्ञः प्रतिश्रुत्य जम्बूद्वीपमवतीर्य एकरात्र्या सर्वं जम्बूवनमुद्यानमेवंरूपेणालङ्कारेण रत्नवृक्षैर्यावद्ध्वजैरलङ्कृतं। एवंरूपः कूटागारो भगवतोऽर्थाय कृतस्तद्यथा शक्रस्य देवानामिन्द्रस्य रत्ननिर्यूहः कूटागारः सर्वाकारपरिनिष्ठितं कृत्स्नं च जम्बूवनं दिव्येनालङ्कारेणालङ्कृत्य देवराजानां संक्रम्यारोचयन्ति। "यत् खलु मार्षा जानीयुर्यथैवायं देवलोकः स्वभ्यलङ्कृतः तथैव जम्बूवनोद्यानं दिव्यैरलङ्कारविशेषैः स्वलङ्कृतं सर्वाकारपरिनिष्ठितं, एवंरूपश्च सर्वरत्नमयः कूटागारो भगवतोऽर्थाय कृतः तद्यथा शक्रस्य देवानामिन्द्रस्य रत्ननिर्यूहः कूटागारः। न हि मार्षा देवलोकस्य जम्बुद्वीपे च जम्बूवनस्योद्यानस्य किंचिदप्यस्ति नानाकरणं"। अथ ते पञ्चदेवराजानः शक्रसुयामसंतुषिताः सुनिर्मितपरनिर्मितवशवर्ती जम्बूद्वीपमवतीर्य समुद्ररेणुं ब्राह्मणमुपसंक्रम्यैवमाहुः। "अलङ्कृतं ब्राह्मण भगवतोऽर्थाय भिक्षुसङ्घस्य च जम्बूवनं। किमस्माभिर्भूयः करणीयं ?"। एवमुक्ते समुद्ररेणुर्ब्राह्मणः पञ्चदेवपुतानेतदवोचत् - "यूयं खलु पञ्चदेवराजानः पृथग्देवनिकाये राज्यं कारयत तत्र युष्माकं वशो वर्तते, गच्छत राजानः स्वकस्वकां देवपर्षदां, सन्निपातयत जम्बूद्वीपे, भगवन्तं दर्शनायोपसंक्रामत वन्दनाय पर्युपासनाय भिक्सुसङ्घं च, भगवतश्चान्तिकाद्धर्मं शृण्वत"। अथ ते पञ्चदेवराजानः स्वकस्वकेषु स्थानान्तरेषु गत्वा शक्रो देवानामिन्द्रो देवांस्त्रयस्त्रिंशान् सन्निपात्यैवमाहुः - "युत् खलु मार्षा जानीयुर्जम्बुद्वीपेऽरणेमिनो राज्ञः समुद्ररेणुर्नाम ब्राह्मणः अग्रपुरोहितः, स रत्नगर्भं तथागतं सप्तवर्षाणि सर्वोपकरणैरुपनिमन्त्र्य प्रतिमानयति सार्धमपरिमितेन भिक्षुसङ्घेन। अस्माभिश्च भगवतोऽर्थाय भिक्षुसङ्घस्य च सर्व आरामोऽलङ्कृतः, तद्यूयं कुशलमूलमनुमोद्यानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयत समुद्ररेणोर्ब्राह्मणस्य समादापनया"। तेन खलु पुनः समयेन बहवस्त्रयस्त्रिंशद्देवकोटीनयुतशतसहस्रा अञ्जलिं प्रगृह्य वाचमुदीरयन्ति। "अनुमोदामो मार्षा एवं पुण्यस्कन्धं तया चानुमोदनया यत्पुण्यमस्माकं स्यात्तत्सर्वं अनुत्तरायां सम्यक्संबोधौ परिणामयामः"। सुयामो देवपुत्रो यामान् देवान् सन्निपात्य विस्तरेण पेयालं तुषितनिर्माणरतिदेवपुत्रः परनिर्मितो देवपुत्रः परनिर्मितवशवर्तिनो देवान् सन्निपात्य यावद् बहूनि देवपुत्रकोटीनयुतशतसहस्राण्यञ्जलिं प्रगृह्य वाचं भाषन्ते स्म। "अनुमोदामो वयं मार्षा यत् कुशलमूलं तस्माच्च कुशलमूलत्यत्पुण्यं तत्सर्वमनुत्तरायां सम्यक्संबोधौ परिणामयामः। तेन हि मार्षा गच्छामो जम्बुद्वीपमवतरामः भगवतो दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च भिक्षुसङ्घं च"। ते पञ्चदेवराजानो रात्रावेकैको देवराज्ञः स्त्रीपुरुषदारकदारिकाभिर्बहुप्राणकोटीनयुतशतसहस्रैः सार्धं जम्बुद्वीपमवतीर्य भगवतः पादौ शिरसाभिवन्द्य भिक्षुसङ्घं च भगवतोऽन्तिकाद् धर्मं शृण्वन्ति। देवा गगनतलस्था भगवन्तं दिव्यैः कुसुमोत्पलपद्मकुमुदपुण्डरीकसुमनावार्षिकातिमुक्तकचम्पकमान्दारवमहामान्दारवपुष्पवृष्ट्यावकिरन्ति, दिव्यानि च वाद्यानि प्रवादयन्ति।



पुनरपरं कुलपुत्र समुद्ररेणोर्ब्राह्मणस्य एवं चेतसि चेतःपरिवितर्क उदपादि। "यदि ममानुत्तरायां सम्यक्संबोधौ आशा परिपूर्यते, तदयं मम प्रणिधिः संपद्यते यदिदमसुरां बोधौ समादापयेयं"। सहचित्तोत्पादेन कुलपुत्र पञ्चासुरेन्द्रो येनासौ ब्राह्मणस्तेनोपसंक्रान्ता, उपसंक्रम्य यावद्बह्वसुरकोटीनयुतशतसहस्राणि ब्राह्मणस्य वचनेन सस्त्रीपुरुषदारकदारिका अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयन्ति, भगवतश्च सकाशमुपगम्य धर्मं शृण्वन्ति, विस्तरेण पेयालं। एवं स ब्राह्मणो मारमाकाङ्क्षते। तेन खलु पुनः समयेन पूर्णो नाम मार आगत्य यावदनेकैर्मारकोटीनयुतशतसहस्रैर्मारकायिकैर्देवपुत्रसिः सस्त्रीपुरुषदारकदारिकैरनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि यावदुपसंक्रान्ता धर्मश्रवणाय।



अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणः केतपुरिं नाम महाब्रह्माणमाकाङ्क्षते उपसंक्रमणाय। यावद्ब्राह्मणस्य सकाशात् प्रतिश्रुत्य ब्रह्मलोकात्, यावद् बहुप्राणिकोटीनियुतशतसहस्राणि अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयन्ति, ततश्चावतरन्ति भगवन्तं दर्शनाय वन्दनाय पर्युपासनाय भिक्षुसङ्घस्य च, भगवतश्चान्तिकाद्धर्माश्रवणाय। अथ खलु कुलपुत्र समुद्ररेणुर्ब्राह्मणो द्वितीयायां चातुर्द्वीपिकायां शक्रमाकाङ्क्षते सुयामं संतुषितं सुनिर्मितं परनिर्मितवशवर्तिनं च देवपुत्रमाकाङ्क्षते दर्शनाय। तेऽपि पञ्चदेवराजानो भगवतोऽनुभावेन ब्राह्मणस्य सकाशमुपसंक्रान्तस्तान् ब्राह्मणः समनुशिष्टवान्। तेऽपि स्वकानि भवनानि गत्वा स्वकां पर्षदं ब्राह्मणहस्तेन समादापयन्ति। एवं बहुभिस्त्रयस्त्रिंशद्देवनियुतशतसहस्रैरनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि सस्त्रीपुरुषदारकदारिकैस्ते च सहशक्रेणेमां चातुर्द्वीपिकामागता भगवन्तं दर्शनाय वन्दनाय पर्युपासनाय भिक्षुसङ्घं च, भगवतश्चान्तिकाद्धर्मं श्रोतुं। एवं सुयामः संतुषितः सुनिर्मितः परनिर्मितवशवर्ती देवपुत्रः यावत् परनिर्मितवशवर्तिकान् देवान् बोधाय समादापयित्वा बहुभिः परनिर्मितवशवर्तिदेवकोटीनियुतशतसहस्रैः सस्त्रीपुरुषदारकदारिकैरनुत्तरायां सम्यक्संबोधौ कृतचित्तोत्पादैश्चातुर्द्वीपिकामागता भगवन्तं दर्शनाय वन्दनाय पर्युपासनाय भिक्षुसङ्घं च, भगवतश्चान्तिकाद्धर्मं श्रोतुं। एवं द्वितीयायां चातुर्द्वीपिकायां असुरेन्द्रा मारा ब्रह्माणः, एवं तृतीयायां चातुर्द्वीपिकायां चतुर्थ्यां पञ्चम्यां शक्रसुयामसंतुषितनिर्माणपरनिर्मितासुरेन्द्र मारा ब्रह्माणः बुद्धानुभावेनेमां चातुर्द्वीपिकां आगताः सपरिषट्का यावन् ते धर्मश्रवणाय। एवं यावत्त्रिसाहस्रमहासाहस्राद्बुद्धक्षेत्रात् कोटीशतं शक्राणां कोटिशतं सुयामानां कोटीशतं संतुषितानां कोटीशतं निर्माणरतीनां कोटीशतं परनिर्मितवशवर्तीनां देवपुत्राणां, कोटीशतमसुरेन्द्राणां कोटीशतं माराणां कोटीशतं महाब्रह्मणां एकैको महाब्रह्मानेकैः कोटीनियुतशतसहस्रैर्ब्रह्मकायिकानां देवानामनुत्तरायां सम्यक्संबोधौ कृतचित्तोत्पादानां परिवृतः पुरस्कृतो भगवदनुभावेनेमां चातुर्द्वीपिकामागतो भगवतो दर्शनायोपसंक्रमणाय वन्दनाय पर्युपासनाय भिक्षुसङ्घं च भगवतश्चान्तिकाद्धर्मं श्रोतुं। तदा च त्रिसाहस्रमहासाहस्रयां लोकधातौ नास्ति स काश्चित् पृथिवीप्रदेशो यो न स्फुटोऽभूत्॥



अथ खलु कुलपुत्र समुद्ररेणोर्ब्राह्मणस्यैतदभवत्। "यदि ममानुत्तरायां सम्यक्संबोधावाशापरिपूरिर्भवति तद्यथैवं कोटीशतं वैश्रवणानां यावत् कोटीशतं महाब्रह्मणां मामनुवर्तन्ति तथैवं मे भगवान् अनुवर्तते। यदेवंरूपं महाप्रातिहार्यं कुर्यात् यावत्त्रिसाहस्रमहासाहस्रे लोकधातौ मनुष्याः तिर्याञ्चो यामलोकिका नैरयिकास्तेषां सर्वेषां दुःखावेदना प्रशाम्येत सुखावेदनोत्पद्येत, तेषां चैकैककस्याग्रतो बुद्धनिर्मितं तिष्ठेत् यस्तां सत्त्वान् अनुत्तरायां सम्यक्संबोधौ समादापयेत्"। अथ खलु कुलपुत्र रत्नगर्भस्तथागतोऽर्हन् सम्यक्संबुद्धः समुद्ररेणोर्ब्राह्मणस्य चेतसा चित्तमाज्ञाय तस्यां वेलायां प्रतापं नाम समाधिं समापन्नः। यथा समाहितेन चित्तेन भगवान् प्रतापे समाधौ भगवतः कायादैकैकस्माद् रोमकूपाद् गणनासमतिक्रान्ता रश्मय उद्गतास्तैश्च रश्मिभिरयं त्रिसाहस्रमहासाहस्रो लोकधातुः स्फुटोऽभुत्। स तत्र केचिद् रश्मयो नरकं गत्वा शीतनरकोपपन्नानां सत्त्वानामुष्णा वायवो वान्ति, ये उष्णनरकोपपन्नाः सत्त्वास्तेषां शीतला वायवो वान्ति येन तेषां नैरयिकानां सत्त्वानां सर्वं क्षुत्तर्षश्रमदुःखं प्रशाम्यति सुखावेदनोत्पद्यते। एकैकस्य च नैरयिकस्य निर्मितो बुद्धविग्रहोऽग्रतस्तिष्ठति द्वात्रिंशद्भिर्महापुरुषलक्षणैरलङ्कृतगात्रः अशीतिभिरनुव्यञ्जनैः समलङ्कृतशरीरः। अथ तेषां नैरयिकानां सुखसमर्पितानामेतदभूत्। "किं प्रत्ययमस्माकं दुःखप्रशान्तं सुखं च प्रादुर्भूतं ?"। ते तं भगवन्तं पश्यन्ति द्वात्रिंशद्भिर्महापुरुषलक्षणैरलङ्कृतं अशीत्यनुव्यञ्जनविराजितगात्रं। ते तं दृष्ट्वैवमाहुः। "अस्य महाकारुणिकस्य महात्मनोऽनुभावेन वयमेवं सुखिनः संवृत्ताः"। ते प्रीतिसौमनस्यजातः प्रसन्नमनसो भगवन्तं प्रेक्षन्ते। तेषां भगवानाह - "साधु यूयं सत्त्वा नमो बुद्धायेति वाचं भाषतां, अनुत्तरायां च सम्यक्संबोधौ चित्तमुत्पादयत। एवं युष्माकं दुःखावेदना न भूय उत्पद्यते, नित्यं च सुखाया वेदनाया लाभिनो भविष्यथ"। त एवं आहुः। "नमो बुद्धायोत्पादयामो वयमनुत्तरायां सम्यक्संबोधौ चित्तं, तच्चास्माकं कुशलमूलं कर्मावरणाक्षयाय संवर्ततु"। ततश्च केचित् च्युत्वा मनुष्याणां सभागतायामुपपद्यन्ते। ये नैरयिकाः सत्त्वा अग्निना दह्यन्ते तेषां ते रश्मयः शीतलान् वायून् प्रमुञ्चन्ति, ते तैः स्पृष्टाः प्रशान्तक्षुत्तर्षाश्चादुःखा भवन्ति, यावत् केचित् ततश्च्यावित्वा मनुष्याणां सभागतायां उपपद्यन्ते। एवं तिर्यग्योनिर्वक्तव्या एवं यावन् मनुष्या वक्तव्याः। सा च प्रभा प्रतिनिवृत्या भगवन्तं त्रिष्कृत्वः प्रदक्षिणीकृत्वा भगवत उष्णीषेऽन्तर्हिता, दृष्ट्वा च गणनातिक्रान्ता देवमनुष्या यक्षराक्षसनागासुरा अवैवर्तिकाः स्थापिता अनुत्तरायां सम्यक्संबोधौ, गणनातिक्रान्तश्च सत्त्वाः समाधिक्षान्तिधारणी प्रतिलब्धवन्तः। यैर्जम्बूद्वीपकैर्मनुष्यैः श्रुतमञ्जुरे नगरे राजधान्यां जम्बूवनोद्यानं भगवतोऽर्थाय भिक्षुसङ्घस्य च देवैर्दिव्यैरलङ्कारविभूषणैरलङ्कृतं। "यन्नूनं वयं गत्वा पश्येमः, तत्र च रत्नगर्भं तथागतं पश्येम भिक्षुसङ्घं च। तत्र गत्वा भगवतः सकाशाद् धर्मं शृणुयामः"। तेन खलु पुनः समयेन दिवसेदिवसेऽनेकानि देवमनुष्येभ्यः स्त्रीपुरुषदारकदारिकाकोटीनियुतशतसहस्राणि मञ्जुरकं नगरमागच्छन्ति भगवतो दर्शनायोपसंक्रमणाय पर्युपासनाय भिक्षुसङ्घं च, तं चोद्यानां दिदृक्षवः। तस्य चोद्यानस्य विंशद्द्वारसहस्राणि सप्तरत्नमयान्यभूवन्। एकैकस्मिन्नुद्यानद्वारे पञ्चपञ्चशतानि रत्नपीठानां प्रज्ञप्तानि, तेषु च पञ्चपञ्चमाणवकशतान्युपविष्टानि, ये ते सत्त्वा गतास्तमुद्यानं प्रविशन्ति तांस्ते माणवका बुद्धसारणं गमयन्ति धर्मशरणं गमयन्ति सङ्घशरणं गमयन्ति, अनुत्तरायां सम्यक्संबोधौ समादापयन्ति चित्तं चोत्पादयन्ति, आसनस्था ये दूरस्थायिनः पश्चात्तमुद्यानं प्रविशन्ति भगवन्तं दर्शनाय वन्दनाय पर्युपासनाय भिक्षुसङ्घस्य च दर्शनाय।



एवं समुद्ररेणुमा ब्राह्मणेनाग्रपुरोहितेन तानि सप्तवर्षाणि गणनातिक्रान्ता देवा अनुत्तरायां सम्यक्संबोधौ समादापिता विनीता निवेषिताः प्रतिष्ठापिता, गणनातिक्रान्ता नागाः असुरा यक्षराक्षसाः कुम्भाण्डा गन्धर्वाः प्रेताः पिशाचा नैरयिका गणनातिक्रान्ताः अनुत्तरायां सम्यक्संबोधौ समादापिता विनीता निवेशिताः प्रतिष्ठापिताः, यावत् तिर्यग्योनिगता इति। स तेषां सप्तानां वर्षाणामत्ययेन समुद्ररेणुर्ब्राह्मणश्चतुरशीतिश्चक्रसहस्राणि स्थापयित्वा दिव्यं चक्ररत्नं, चतुरशीतिहस्तिसहस्राणि सप्तरत्नालङ्कारविभूषितानि स्थापयित्वा हस्तिरत्नं, यावच्चतुरशीतिरथसहस्राणि निर्यातयति। तेषां सप्तानां वर्षाणां अत्ययेन राज्ञोऽरणेमिनः न रागच्छन्द उत्पद्यते, न द्वेषच्छन्दः न मोहच्छन्दः न राजच्छन्दः न धनच्छन्दः न पुत्रच्छन्दः न देवीच्छन्दः नाहारच्छन्दः न पानच्छन्दः न वस्त्रच्छन्दः न गन्धच्छन्दः न यानच्छन्दः न निद्रच्छन्दः नात्मच्छन्दः, न परच्छन्दं कृतवान्। सप्तवर्षाणि न पार्श्वं निक्षिप्तवान्। न चास्य रात्रिसंज्ञा उत्पन्ना, न दिवससंज्ञा उत्पन्ना, न रूपसंज्ञां न शब्दसंज्ञां न रससंज्ञां न गन्धसंज्ञां न स्पर्शासंज्ञां उत्पादितवान्। तैश्च सप्तभिर्वर्षैः कायश्रमो नोत्पन्नः, नित्यं सततसमितं दशसु दिक्षु एकैकस्यां दिशि सहस्रं बुद्धक्षेत्रं परमाणुरजःसमेषु लोकधातुषु बुद्धक्षेत्रगुणव्यूहां पश्यति। न च सुमेरुश्चक्षुषोऽवभासमागच्छति, नान्ये पर्वताः न चक्रवाडमहाचक्रवाडाः न लोकान्तरिका न चन्द्रादित्यौ न दिव्यानि विमानानि चक्षुषोऽवभासं आगच्छन्ति। यथा तां बुद्धक्षेत्रं परिशुद्धां पश्यति, तथैव परिशुद्धबुद्धक्षेत्रगुणव्यूहान् पश्यन् प्रणिधानं चिन्तयति। यथारणेमी राजा ईदृशेन सुखगुणविहारेण सप्तवर्षाणि विहरति, ईदृशान् बुद्धक्षेत्रगुणव्युहान् पश्यति, परिशुद्धबुद्धक्षेत्रगुणव्यूहं प्रणिधानं चिन्तयन्निषण्णः, एवमनिमिषो ज्येष्ठो राजपुत्रः, निमुः, इन्द्रगणः, एवं तद्राज्ञः सर्वं पुत्रसहस्तं च चतुरशीतिकोट्टराजसहस्राणि अपराणि च द्वानवतिप्राणकोट्यः सर्वाण्येवमेव सप्तवर्षाणि एकाकिनो रहोगताः प्रतिसंलीनाः, दशसु दिक्ष्वैकैकस्यां दिशि सहस्रबुद्धक्षेत्रपरमाणुरजःसमान् लोकधातून् पश्यन्ति। न च तेषां सप्तानां वर्षाणां अन्तरेण रागच्छन्द उत्पन्नो न द्वेषच्छन्दो न मोहच्छन्दः, यावत् न तेषां श्रमस्थानमुत्पन्नमभूत्। सततसमितं च दशसु दिक्ष्वैकैकस्यां दिशि सहस्रबुद्धक्षेत्रपरमाणुरजःसमान् बुद्धक्षेत्रगुणव्यूहान् पश्यन्ति। न च तेषां सुमेरुश्चक्षुसोऽवभासमागच्छति, न चान्ये पर्वता यावन्न दिव्यानि विमानानि चक्षुषोऽवभासमागच्छन्ति। यथैव ते बुद्धक्षेत्रगुणव्यूहाः दृष्टाः तथैव परिशुद्धबुद्धक्षेत्रगुणव्यूहप्रणिधानं चिन्तयन्ति। सर्व एवमीदृशेन गुणविहारेण सप्तवर्षान् विहरन्ति। केचित् परिशुद्धबुद्धक्षेत्रगुणव्यूहां चिन्तयन्ति, केचिद् अपरिशुद्धबुद्धक्षेत्रगुणव्यूहं चिन्तयन्ति॥



अथ खलु समुद्ररेणुर्ब्राह्मणस्तानि सप्तवर्षाणि निर्गतानि निष्ठितानि विदित्वा सप्तरत्नं निर्यातयति। येन रत्नगर्भस्तथागतोऽर्हन् सम्यक्संबुद्धः तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - "मया भदन्त भगवन् राजारणेमी अनुतरायां सम्यक्संबोधौ समादापितः, स गृहं गत्वैकाकी रहोगतः प्रतिसंलीनो निषण्णः, न चात्र कस्यचिन् मनुष्यस्य प्रवेशो दीयते। एवं तत्सहस्रं राजपुत्राणां अनुत्तरायां सम्यक्संबोधौ समादापितं। एवमेव प्रतिप्रति स्वगृहाणि गत्वा एकाकिनः प्रतिसंलयननिषण्णं, न चात्र कस्यचित् प्रवेशो दीयते। एवं यावच्चतुरशीतिः कोट्टराजसहस्राणि एवमपरे द्वानवतिः प्राणकोट्योऽनुत्तरायां सम्यक्संबोधौ समादापिताः निवेशिताः प्रतिष्ठापिताः, सर्वे स्वकस्वकानि गृहाणि गत्वा ह्येकाकिनो रहसि गता निषद्य प्रतिसंलीना, न चात्र कस्यचित् प्रवेशो दीयते। भगवांश्चैनां समन्वाहरतु यावद् राजारणेमी तस्मात् प्रतिसंलयनाद् व्युत्थायेहागच्छेत्; तेऽपि सर्व इहगच्छेयुः ये मया सर्वे बोधौ समादापिताः अचलां च बुद्धिमनुगृह्णेयुरनुत्तरायां सम्यक्संबोधौ, भगवतश्चान्तिकाद्व्याकरणं प्राप्नुयुर्गोत्रं च नाम च बुद्धक्षेत्रं च प्रतिगृह्णीयुः"।



अथ खलु कुलपुत्र रत्नगर्भस्तथागतोऽर्हन् सम्यक्संबुद्धो निर्हारपतिं नाम समाधिं समापन्नः। यथा समापन्नस्य मुखान्नीलपीतलोहितावदातमञ्जिष्ठास्फटिकवर्णा अर्चिषो निश्चरन्ति। यां निशृत्य तेषां प्रतिसंलीनानां विहरतामग्रतो ब्रह्मनिर्मितः स्थित एवमाह। "उत्तिष्ठत मार्षा भगवन्तं दर्शनायोपसंक्रमत वन्दनाय पर्युपासनाय भिक्षुसङ्घं च, परिसमाप्ता मार्षा समुद्ररेणोर्ब्राह्मणस्य सप्तवार्षिको यज्ञः। भगवान् पुनरन्येन चर्यां प्रक्रमिष्यति"। ततस्ते सर्वे रश्मिभिः संचोदिताः, उत्थाय राजानमरणेमिनं चोदयन्ति। स तैः संचोदितो व्युत्थितः प्रस्थितश्च, प्रस्थितस्य च तस्य राज्ञो देवता गगनतले भेरीमृदंगपटहादीन् वाद्यानि प्रवादयन्ति।



अथ खलु राजारणेमी रथाभिरूढः तेन पुत्रसहस्रेण चतुरशीतिभिश्च कोट्टराजसहस्रैर्द्वानवतिभिश्च प्राणकोटिभिः परिवृतो नगरान्निर्याति भगवतोऽन्तिकं भगवन्तं दर्शनाय वन्दनाय पर्युपासनाय। स यावद् यानस्य भूमिस्तावद्यानेन यात्वा यानाद् अवतरति, यानाद् अवतीर्य पद्भ्यामेव जम्बूवनं प्रविवेश, प्रविश्य च येन भगवांस्तेनोपजगाम, उपेत्य भगवतः पादौ शीरसाभिवन्द्य भिक्षुसङ्घस्य चैकान्ते न्यषीदत् सार्धम् अनेकैः प्राणकोटिभिः। अथ समुद्ररेणुर्ब्राह्मणो राजानमरणेमिनं प्राह - "अनुमोदतु महाराजेमं यच्च त्वया मास्त्रयं भगवतः उपस्थानं कृतं सर्वोपकरणैः अपरिमितस्य भिक्षुसङ्घस्य च नानाविचित्राणि च रत्नानि निर्यातितानि चतुरशीतिश्च नगरसहस्राणि, तदेवानुमोदनासहगतं पुण्यस्कन्धं यच्च परित्यागसहगतं पुण्यस्कन्धं सर्वं परिणामयानुत्तरायां सम्यक्संबोधौ"। एवं तद् राज्ञः पुत्रसहस्रं समादापयति तथैव चतुरशीतिः कोट्टराजसहस्राणि अपराश्च बहुप्राणकोट्यः, तेनानुमोदनासहगतेन पुण्यस्कन्धेनानुत्तरायां सम्यक्संबोधौ समादापिताः प्रतिष्ठापिताः। एवं चाह - "अनुमोदत यूयमिह दक्षिणां निर्यातयत"। कथयति च।



"दानेनाहमनेन नेन्द्रभवनं

न ब्रह्मलोके फलं।

काङ्क्षामि द्रुतवायुवेगचपलां

न त्वेव राज्यश्रियं॥

दानस्यास्य फलं तु भक्तिमहतो

यन् मे ह तेनाप्नुयां।

चित्तैश्वर्यकरिं हि बोधिमतुलां

सत्त्वांश्च सन्तारये"॥



इति श्रीकरुणापुण्डरीके दानविसर्गस्तृतीयः॥ ३॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project