Digital Sanskrit Buddhist Canon

द्वितीयो धारणी-मुख-परिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Dvitīyo dhāraṇī-mukha-parivartaḥ
द्वितीयो धारणी-मुख-परिवर्तः



अथ खलु रत्नवैरोचनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - “कथं भदन्त भगवन् पद्मायां लोकधातौ रात्रिंदिवं प्रज्ञायते?, कियद्रूपाश्च तत्र शब्दाः श्रूयन्ते?, कियद्रूपेण ते बोधिसत्त्वाश्चाशयेन समन्वागताः?, कतमेन वा विहरेण विहरन्ति?” भगवान् आह - “नित्यावभासिता कुलपुत्र पद्मा लोकधातुर्बुद्धाभया। तत्र यदा पुष्पाः संकुचन्ति, पक्षिणश्चाल्पशब्दा भवन्ति, भगवांश्च ते च बोधिसत्त्वा ध्यानैः क्रीडन्ति विमुक्तिप्रीतिसुखं प्रतिसंवेदयन्ति, तदा रात्रीति प्रज्ञायते। यदा पुनस्ते पुष्पा वातेनेरिता भवन्ति, शकुनाश्च मनोज्ञानि कूजन्ति, पुष्पवृष्टिश्चाभिप्रवर्षति, चतुर्दिशं परमसुगन्धा मनोज्ञा मृदुकाः सुखसंस्पर्शा वायवः प्रवायन्ति, भगवांश्च समाधेर्व्युत्थाय पद्मोत्तरो बोधिसत्त्वानां महासत्त्वानामतिक्रम्य श्रावकप्रत्येकबुद्धकथां बोधिसत्त्वपिटकं धर्मं देशयति, तेन च तत्र दिवसः प्रज्ञायते। अविरहिताश्च तत्र कुलपुत्र बोधिसत्त्वा महासत्त्वा बुद्धशब्देन धर्मशब्देन सङ्घशब्देन, वैशारद्यशब्देनानभिसंस्कारशब्देनानुत्पादशब्देनानिरोधशब्देन शान्तशब्देनोपशान्तशब्देन प्रशान्तशब्देन महामैत्रीशब्देन महाकरुणाशब्देनानुत्पत्तिकधर्मशब्देनाभिषेकभूमिप्रतिलाभशब्देन बुद्धबोधिसत्त्वशब्देनाविरहिता, नित्यं ते बोधिसत्त्वा एवंरूपं शब्दं शृण्वन्ति स्म। पुनरपरं कुलपुत्र ये बोधिसत्त्वा महासत्त्वाः पद्मायां लोकधातौ प्रत्याजाताः प्रत्याजायिष्यन्ति वा सर्वे ते द्वात्रिंशद्भिर्महापुरुषलक्षणैः समन्वागता योजनप्रभा ह्यविनिपातधर्माणो यावद्बोधिपर्यन्तात्। सर्वे ते बोधिसत्त्वा मैत्रचित्ताः स्निग्धचित्ता अकलुषचित्ता दान्तचित्ताः क्षमाचित्ताः समाहितचित्ताः प्रसन्नचित्ता अप्रतिहतचित्ताः शुद्धचित्ताः कल्याणचित्ता धर्मप्रीतिचित्ताः सर्वसत्त्वानां क्लेशप्रशमनचित्ताः पृथिवीसमचित्ता लौकिकायां कथायाम् अनभिरतचित्ता लोकोत्तरायां कथायां साभिरतचित्ताः सर्वकुशलधर्मपर्येष्टिचित्ता निरुपधौ सदाप्रयुक्तचित्ता व्याधिजरामरणेभ्यः प्रशान्तचित्ताः सर्वक्लेशदहनचित्ताः सर्वसंयोजनप्रशमनचित्ताः सर्वधर्मामन्यनचित्ताः, आशयबलिनः प्रयोगबलिनः प्रत्ययबलिनः प्रणिधानबलिनोऽसारभिन्नाच्चालनबलिनो निध्यप्तिबलिनः कुशलमूलबलिनः समाधानबलिनः श्रुतबलिनः शीलबलिनः त्यागबलिनः क्षान्तिबलिनो वीर्यबलिनो ध्यानबलिनः प्रज्ञाबलिनः शमथबलिनो विपश्यनाबलिनोऽभिज्ञाबलिनः स्मृतिबलिनो बोधिबलिनः सर्वमारविध्वंसनबलिनः सर्वमारबलप्रमर्दनबलिनः सर्वपरप्रवादिनां सहधर्मेण निग्रहबलिनः सर्वक्लेशप्रमर्दनबलिनः। ते च बोधिसत्त्वा ये पद्मायां लोकधातौ प्रत्याजाताः प्रत्याजायिष्यन्ति वा बहुबुद्धशतसहस्रकृताधिकारा हि अवरुप्तकुशलमूला; ये च तत्र पद्मायां लोकधातौ बुद्धक्षेत्रे बोधिसत्त्वाः प्रत्याजाताः प्रत्याजायिष्यन्ति वा ध्यानाहारास्ते बोधिसत्त्वा धर्माहारा गन्धाहारास्तद्यथापि नाम देवा ब्रह्मकायिका, न च तत्र कवडिकाहाराः प्रज्ञायन्ते। सर्वशश्च तत्राकुशलस्य नामापि नास्ति; सर्वशश्च तत्र मातृग्रामस्य नामापि नास्ति, प्रज्ञप्तिरपि नास्ति; सर्वशश्च तत्र दुःखशब्दो नास्ति; सर्वथा प्रियाप्रियशब्दो नास्ति, पेयालं न क्लेशशब्दो न परिग्रहो न चात्रान्धकारं न दुर्गन्धं न चित्तक्लमता न कायक्लमता न नरकतिर्यग्योनियमलोकशब्दः, अपायप्रज्ञप्तिरपि नास्ति, न कण्टकगहनपाषाणशर्करा न चाग्निर्न चन्द्रसूर्या न तारकारूपा न महासमुद्रा न सुमेरुचक्रवाडा न लोकान्तरिका न कालपर्वता न मीढपाषाणा न पांशुपर्वताः, न मेघवर्षशब्दो न कलुषवायुशब्दः, सर्वथापायशब्दो नास्ति, सर्वथाक्षणशब्दो नास्ति। अथ च पुनः पद्मा लोकधातुर्नित्यं बुद्धाभया बोधिसत्त्वाभया पुण्याभया रत्नाभया उदारेणावभासेन स्फुटा। सफलाश्चात्र नाम पक्षिणोमनोज्ञाः स्निग्धाः स्वकस्वकेन स्वरेण इन्द्रियबलबोध्यङ्गानि प्रव्याहरन्ति स्म”



अथ खलु रत्नवैरोचनो बोधिसत्त्वो भगवन्तमेतदवोचत् - “कियन्महती भगवन् सा पद्मा लोकधातुः?, कियच्चिरमसौ पद्मोत्तरस्तथागतस्तिष्ठति ध्रियते यापयति धर्मं च देशयति येनाद्यरात्रावनुत्तरा सम्यक्संबोधिरचिराभिसंबुद्धा?, कियच्चिरं च परिनिर्वृतस्य सद्धर्मः स्थास्यति?, कियच्चिरस्थायिनस्ते बोधिसत्त्वा ये पद्मायां लोकधातौ बुद्धक्षेत्रे प्रत्याजाताः प्रत्याजायिष्यन्ति वा?, किन् ते बोधिसत्त्वा विरहिता बुद्धदर्शनेन धर्मश्रवणेन सङ्घोपस्थानेन उताहोस्विन्नेति?, किं नाम चासीत्पूर्वे सा पद्मा लोकधातुः?, कियच्चिरेण वा तत्र जिनसूर्यास्तंगतः यस्यानन्तरेण पद्मोत्तरेन तथागतेनानुत्तरा सम्यक्संबोधिरभिसंबुद्धा?, किं प्रत्ययमप्येकत्या बुद्धविकुर्वाणान् बुद्धप्रातिहार्यान् पश्यन्ति ये दशसु दिक्ष्वन्येषु बुद्धक्षेत्रेषु बुद्धा भगवन्तः प्रातिहार्यान् कुर्वन्ति, एकत्या न पश्यन्ति?”।



भगवान् आह - “तद्यथापि नाम कुलपुत्र सुमेरुः पर्वतराजा, अष्टषष्ठियोजनसहस्राण्युद्वेधेन चतुरशीतियोजनसहस्राणि विस्तारेण। कश्चिद् एव पुरुष आगच्छेत् वीर्यवान् बलवान्, समाधिबलेन वा तं सुमेरुं पर्वतराजं सर्षपमात्रप्रमाणं भिन्द्यात्; गणनातिक्रान्तास्ते सर्षपा भवन्ति, न शक्यं ते सर्षपाः केनचिद् गणयितुं स्थाप्य सर्वज्ञज्ञानेन; यावन्तस्ते सर्षपफला भवन्ति तावन्तश्चातुर्द्वीपिका प्रमाणा। पद्मा बुद्धक्षेत्रमेवाकीर्णा बोधिसत्त्वैः तद्यथा सुखावती लोकधातुर्बोधिसत्त्वैराकीर्णा। पद्मोत्तरस्य कुलपुत्र तथागतस्यार्हतः सम्यक्संबुद्धस्य त्रिंशदन्तरकल्पान्यायुःप्रमाणं तिष्ठतो ध्रियतो यापयतो धर्मं च देशयतः। पद्मोत्तरस्य कुलपुत्र तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य दशान्तरकल्पान् सद्धर्मः स्थास्यति। तेषां च बोधिसत्त्वानां महासत्त्वानां ये पद्मायां लोकधातौ प्रत्याजाताः प्रत्याजायिष्यन्ति वा तेषां चत्वारिंशदन्तरकल्पायुःप्रमाणं।



पूर्वं च कुलपुत्र सा पद्मा लोकधातुश्चन्दना नाम बभूव, न त्वेवं परिशुद्धाभून्न त्वेवम् आकीर्णा शुद्धसत्त्वैर्बभूव यथैतर्हि पद्मा लोकधातुः। चन्दनायां कुलपुत्र लोकधातौ चन्द्रोत्तमो नामाभूत् तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्, स चापि विंशत्यन्तरकल्पान् धर्मं देशितवान्। परिनिर्वाणकालसमये चाप्येकत्या बोधिसत्त्वाः प्रणिधानवशितयान्यद्बुद्धक्षेत्रं संक्रान्ताः। ये चावशिष्टा बोधिसत्त्वास्तेषाम् एतदवोचन् - “अद्यरात्रौ मध्यमे यामे चन्द्रोत्तमस्तथागतोऽर्हन् सम्यक्संबुद्धः परिनिर्वास्यति, परिनिर्वृतस्य भगवतो दशान्तरकल्पान् सद्धर्मः स्थास्यति। कः सद्धर्मान्तर्धानस्यानन्तरमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते?”



तेन खलु पुनः समयेन गगनमुद्रो नाम बोधिसत्त्वः, स पूर्वप्रणिधानेन चन्द्रोत्तमेन तथागतेनार्हता सम्यक्संबुद्धेन व्याकृतः। “भविष्यसि त्वं कुलपुत्र मम परिनिर्वृतस्य दशाभ्यन्तरकल्पान् सद्धर्मः स्थास्यति। रात्र्याः प्रथमे यामे मम सद्धर्मोऽन्तरहास्यति, तत्रैव रात्र्याः पश्चिमे यामे त्वमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, पद्मोत्तरो नाम भविष्यसि तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसम्पन्नो यावद्बुद्धो भगवांस्”। तत्कालं ते बोधिसत्त्वा महासत्त्वा येन चन्द्रोत्तमस्तथागतोऽर्हन् सम्यक्संबुद्धो भगवांस्तेनोपजग्मुः, उपेत्य चन्द्रोत्तमस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य सर्वे ते बोधिसत्त्वाः समाधानबलेन नानाप्रकारैर्बोधिसत्त्वविकुर्वैश्चन्द्रोत्तमस्य तथागतस्य पूजां कृत्वा त्रिस्कृत्वश्च प्रदक्षिणीकृत्वा भगवन्तमेतदवोचन् - “इच्छामो वयम् भदन्त भगवन् निमे दशाभ्यन्तरकल्पा निरोधमवहितेन चित्तेनातिनामयितुं”।



तत्र खलु कुलपुत्र चन्द्रोत्तमस्तथागतोऽर्हन् सम्यक्संबुद्धो गगनमुद्रं बोधिसत्त्वम् महासत्त्वमामन्त्र्यैतदवोचत् - “उद्गृह्ण त्वं कुलपुत्रेमं सर्वज्ञाताकारधारणीमुखप्रवेशं सर्वातीतानागतैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैर्यौवराज्याभिषिक्तानां बोधिसत्त्वानां देशितं, ये चैतर्हि दशसु दिक्षु सर्वलोकधातुषु बुद्धा भगवन्तस्तिष्ठन्ति ध्रियन्ते यापयन्ति तेऽपि बुद्धो भगवन्तो यौवराज्याभिषिक्तानां बोधिसत्त्वानां देशयन्ति, येऽपि ते भविष्यन्त्यनागतेऽध्वनि बुद्धा भगवन्तस्तेऽपि यौवराज्याभिषिक्तानां बोधिसत्त्वानामिमं सर्वज्ञताकारधारणीमुखप्रवेशं देशयिष्यन्ति। तद्यथा;



जलिजलिनि महाजलिनि फुत्के बुत्के सम्मदे महासम्मदे देवां अटि चटि टके ठरठक्के अमिमकसि हिलिचिलितिलि रुरुके महारुरुके जये दुर्जये जयमति शान्ते शान्तनिर्घोषणि अमूले अले अमूलपरिछिन्ने मारसैन्य वित्रासने मुक्ते मुक्तपरिशुद्धे अभीते भयमोचने भारद्रोहरणा दान्त विद्याविद्या वरुत्तमे, निग्रहं परवादिनां धर्मवादिनामनुग्रहं आरक्षा धर्मवादिनां चतुर्णां स्मृत्युपस्थानानाम् अधिमुक्तिपदप्रकाशनपदमिदं।



बुद्धकाशये अमम निमम अवेवि अर्थे अर्थनि स्तीरणे लोकाधिमुक्ते सन्दध परिभावने, चतुर्णामार्यवंशानां अधिमुक्तिपदप्रकाशनपदा।



भाषीथे भाषणे धारे धारयति गुप्ते शुभे शुभप्रदे तत्फले अग्रफलेऽनिष्फले निलह समुक्त अमुक्त निर्मुक्ते अत्रवित विमुक्तवति विलफल अयुक्त इविति दिविति रतितुल तुलमं अहिंसाम इतिताव अत्वानत्वान सर्वलोक अनक लिविन्ध अभूसरे हतमत्ते वेशाग्रवते अफल कफल, त्रयाणाम् आरक्षितानां अधिमुक्तिपदमिदं।



जडतः अनिहरववतव्यो इदं फलं नियोमफलं समुदानाय विभुष पश्य सामन्त्र अनुमन्तो अकुमन्तो छेदावने मन्त्रस्ता दशबल विग्रहस्था इसुस्थित सुनिखम तीक्ष्णमति आलोको अतितृष्णा अदिमति, प्रत्युत्पन्नबुद्धपूर्वप्रहारे चतुर्णां सम्यक्प्रहाणानां अधिमुक्तिपदप्रकाशनपदमिदं।



अन्ये मन्ये मने ममने विरे विरते शमे शमिता विशान्ते मुक्ते निरक्षमे समे समसमे क्षये अक्षये अजिति शान्ते समिष्ठे धारणी आलोकावभासे रत्नव्रते रश्म्यवते ज्ञानवते मेरुवते क्षयनिदर्शने लोकप्रदीपनिदर्शने, चतुर्णां प्रतिसंविदामधिमुक्तिपदप्रकाशनपदमिदं।



चक्ष आभासनिदर्शने ज्ञानालोकनिदर्शनं च प्रभासने सर्वेन्द्रिय भूमातिक्रन्ते सर्वसर्वे वमां सर्वे प्राथवा क्षयं करे गोकाह वदने लोकानुदर्शन विभू, चतुर्णां ऋद्धिपादानाम् अधिमुक्तिपदप्रकाशनपदमिदम्।



अचले बुद्धे दृहप्रचले सत्त्वे गृह्न सिद्धि कंपति निसिद्ध स्महिद्धे परेकसिरे सोमे चण्डे दत्वे अचले अचले अपरे विचिवले निपरे प्रचचले प्रसरे अनयन् प्रभ्यासे कंकमे प्रभाविनि समे निजसे ग्रक्रमे नयुते, इन्द्रियाणां बलानाम् अधिमुक्तिपदप्रकाशनपदमिदं।



पुष्पे सुपुष्पे द्रुमपरिहारे अभयरुचिरे चेकरत्के अक्षयमस्तु निनिले ममले पञ्चशिशिरे लोकस्य विज्ञाने नयसंगृहीते च युक्ते सुच्चेन्देन, सप्तानां बोध्यङ्गानां अधिमुक्तिपदप्रकाशनपदमिदं।



चक्रवज्रे मैत्र समापदे क्रान्ते केते करुण रुदीक्षयि प्रीतिरूपे क्षमसंपन्ने अरके वरते खरो खरे अमूले मूले साधने, चतुर्णां वैशारद्यानाम् अधिमुक्तिपदप्रकाशनपदमिदं।



वर्त्ते चक्रे चक्रधरे वरचक्रे वरे प्ररे हिले हिले धरे आरूपावते हुहुरे यथा जिभंग निंबरे यथाग्ने यथापरं चरिनिशे यथा भयरिरिशि सत्यनिर्हार जरचविल वीर्यनिर्हार चुरे मार्गनिर्हार समाधिनिर्हार प्रज्ञानिर्हार विमुक्तिनिर्हार विमुक्तिज्ञानदर्शननिर्हार नक्षत्रनिर्हार चन्द्रनिर्हार सूर्यनिर्हार पदाश्चतुरुत्तरतथागतेन अद्भुतं निरद्भुतं संबुद्धं अबुद्ध इहबुद्धं तत्रबुद्धं निहंगमपरे अलह दलह पण्डरे पण्डरे तत्रान्तलु मांगघरणि पूटनि संपूटनि गतप्रंगमनुनिरुव नाशनि नाशबन्धनि चिच्छिनि चिच्छिद्र मयोव हिदिंगमा वरे मरे हनने भरं भरे भिन्दे भिरे भिरे रुषरे शरणे दरने प्रवर्त्ते वरणाडये विद्रन्वुमा वरखुमा ब्रह्मचारिण इन्द्रवनि धिधिरायनि महेश्वरललनि ममसुमे अलमिनि एकाक्षरचि वंचनि चरस्ति आभिचण्डाल सूरे सर्वसुरा आवरसुरा पुनकनितां पण्डितां आयिनकण्डि जभामे गन्धरे अत्र रुनिमकरे भिरोहिणी सिद्धमत्ते विलोकमते, बुद्धाधिष्ठिते धारणीमुखे दशानां बलानाम् अधिमुक्तिप्रकाशनपदमिदं”॥



समनन्तरारब्धे खलु पुनर्भगवता अस्मिन् सर्वज्ञताकारधारणीमुखप्रवेशे अथ तावदियं त्रिसाहस्रमहासाहस्रलोकधातुः षड्विकारं कंपिता प्रकंपिता संप्रकंपिता चलिता प्रचलिता संप्रचलिता क्षुभिता प्रक्षुभिता संप्रक्षुभिता गर्जिता प्रगर्जिता संप्रगर्जिता, उन्नमति प्रणमति संप्रणमति। तथारूपश्चावभासः प्रादुर्भूतः यद्दशसु दिक्षु गणनासमतिक्रान्ता गङ्गानदीवालिकासमा लोकधातवः उदारेणावभासेन स्फुटा बभूव। नैव तस्मिन् समये सुमेरुचक्रवाडमहाचक्रवाडः चक्षुष आभासमागच्छन्ति। दशसु दिक्षु गणनासमातिक्रान्ता लोकधातवः समापाणितलजाता संदृश्यन्ते। येऽपि ते बोधिसत्त्वा महासत्त्वा दशसु दिक्षु गणनासमतिक्रान्तासु लोकधातुषु प्रतिवसन्ति, ये समाधिधारणीक्षान्तिप्रतिलब्धाः, ते तथागतबलेन स्वकस्वकेषु बुद्धक्षेत्रेष्वन्तर्हिता इमां सहां लोकधातुमागत्वा गृध्रकूटे पर्वते भगवतः सकाशम् उपसंक्रान्ता, उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा नानाप्रकारैर्विविधैर्बोधिसत्त्वविकुर्वितैर्भगवतः पूजां कृत्वा तत्रैव निषेदुः सर्वज्ञताकारधारणीमुखप्रवेशश्रवणार्थं। गणनासमतिक्रान्ताश्च देवनागयक्षासुरकुम्भाण्डपिशाचा येन गृध्रकूटः पर्वतो येन च भगवांस्तेनोपजग्मुः, उपेत्य भगवतः पादौ शिरोभिरभिवन्द्य, एकान्ते निषेदुरिमं च सर्वज्ञताकारधारणीमुखप्रवेशं श्रवणार्थां। ये चात्र बोधिसत्त्वा महासत्त्वाः सन्निपतितास्ते सर्वे पद्मां बुद्धक्षेत्रं पश्यन्ति स्म, पद्मोत्तरं च तथागतमर्हन्तं सम्यक्संबुद्धं महता बोधिसत्त्वगणेन परिवृतं। समनन्तरोदाहृतस्य चास्य भगवता सर्वज्ञताकारधारणीमुखप्रवेशस्य द्वासप्तभिर्गङ्गानदीवालिकासमैर्बोधिसत्त्वैर्महासत्त्वैरियं धारणी प्रतिलब्धा, धारणीप्रतिलब्धाश्च ते बोधिसत्त्वा दशसु दिक्षु गणनासमतिक्रान्तान् लोकधातुस्थान् बुद्धान् भगवतः पश्यन्ति स्म, सर्वांश्च बुद्धक्षेत्रगुणव्यूहान् पश्यन्ति स्म। आश्चर्यप्राप्तास्ते समाधिबलेन बोधिसत्त्वविकुर्वितेन च बुद्धपूजां कृत्वा तस्थुः।



भगवांस्तान् एवम् आह - “इमं कुलपुत्र सर्वज्ञताकारधारणीमुखप्रवेशं बोधिसत्त्वो महासत्त्वो भावयमानश्चतुरशीतिधारणीमुखशतसहस्राणि प्रतिलभते, द्वासप्ततिश्च धारणीमुखसहस्राणि प्रतिलभते, षष्टिं च समाधिमुखसहस्राणि प्रतिलभते। इमां च धारणीं प्रतिलब्धो बोधिसत्त्वो महासत्त्वो महामैत्रीं प्रतिलभते महाकरुणां प्रतिलभते। केवलमस्य समाधेः प्रतिलाभाय बोधिसत्त्वो महासत्त्वः सप्तत्रिंशद्बोधिपक्षान् धर्मान् अवबुध्यते सर्वज्ञज्ञानं च प्रतिलभते। इह च सकलबुद्धधर्माणां परिग्रहः। इमां च धारणीं स्वभावेन बुद्ध्वा बुद्धा भगवन्तः सत्त्वानां धर्मां देशयन्ति, न चातिक्षिप्रं परिनिर्वायन्ति।



पश्यत कुलपुत्रास्याः सर्वज्ञताकारधारणीमुखप्रवेशाया धारण्या अनुभावेनायं महतः पृथिवीचालस्य प्रादुर्भूतः, महांश्चाभासो येनावभासेनानन्तापर्यन्ता बुद्धक्षेत्रा उदारेणावभासेन स्फुटा, येनावभासेनानन्तापर्यन्तेभ्यो बुद्धक्षेत्रेभ्य इमेऽनन्तापर्यन्ता बोधिसत्त्वा अभ्यागताः, इमं सर्वज्ञताकारधारणीमुखप्रवेशं श्रवणार्थं। ये चेह सहायां लोकधातावनन्तापर्यन्ता देवाः कामावचरा रूपावचरा नागा यक्षासुरमनुष्यामनुष्या वा इमां सर्वज्ञताकारधारणीमुखप्रवेशं श्रोष्यन्ति, ते सहश्रवणेन सर्वज्ञताकारधारणीमुखप्रवेशस्यावैवर्तिनो भवन्त्यनुत्तरायां सम्यक्संबोधौ। लिखमानश्चाविरहितो भवति बुद्धदर्शनेन धर्मश्रवणेन सङ्घोपस्थानेन यावदनुत्तरेण परिनिर्वाणेन; स्वाध्यायमानश्च बोधिसत्त्व इमं सर्वज्ञताकारधारणीमुखप्रवेशं सर्वाणि गाढकर्माणि निरवशेषं क्षपयति, जन्मपरिवर्तेन च प्रथमां भूमिमाक्रामति; भावयमानश्च बोधिसत्त्वो महासत्त्व इमं सर्वज्ञताकारधारणीमुखप्रवेशं, यदि तस्य बोधिसत्त्वस्य पञ्चानन्तर्याणि कर्माणि कृताणि स्युरुपचिताणि तान्यप्यस्य परिक्षयं गच्छन्ति, येन जन्मपरिवर्तेन च प्रथमां भूमिमवक्रामति; यस्य नास्त्यनन्तर्याणि तस्य तेन जन्मना सर्वाण्यन्यानि कर्माणि निरवशेषं परिक्षयं गच्छन्ति, जन्मपरिवर्तेन च प्रथमां भूमिमवक्रामति। योऽपि न भावयति न स्वाध्यायति शृण्वनश्च धर्मभाणकस्य पट्टं बन्धति, तस्य गङ्गानदीवालिकासमा बुद्धा भगवन्तस्तिष्ठन्तो ध्रियन्तो यापयन्तः अन्यलोकधातुस्थाः साधुकारमनुप्रदास्यन्ति, तेऽपि बुद्धा भगवन्तो व्याकरिष्यन्त्यनुत्तरायां सम्यक्संबोधौ, न चिरेण चासौ बोधिसत्त्वः पट्टपरित्यागेन यौवराज्येऽभिषिच्यते, एकजातिप्रतिबद्धश्च भवत्यनुत्तरायां सम्यक्संबोधौ। एवमेव यः कश्चिद् गन्धेन पूजां करोति सोऽपि न चिरेणानुत्तरां सम्यक्संबोधिगन्धस्य लाभी भवति, पुष्पेण पूजां कृत्वा धर्मभाणकस्यानुत्तराणि ज्ञानपुष्पाणि प्रतिलभते, भक्ष्यान्नपानं दत्त्वा धर्मभाणकस्यानुत्तरस्य तथागताहारस्य लाभी भवति बोधिसत्त्वः, वस्त्रेणाच्छाद्य धर्मभाणकमनुत्तरतथागतवर्णलाभी भवति; यश्च धर्मभाणकं रत्नैराच्छादयति सोऽप्यचिरात् सप्तत्रिंशतां बोधिपाक्षिकधर्मरत्नाणां लाभी भवति।



तदेवं महार्थिकः कुलपुत्र बोधिसत्त्वानां महासत्त्वानां अयं सर्वज्ञताकारधारणीमुखप्रवेशः। तत्कस्माद्धेतो ? यस्माद् अत्र साकल्येन बोधिसत्त्वपिटकमुपदिष्टं। अनेन च सर्वज्ञताकारधारणीमुखप्रवेशेन बोधिसत्त्वो महासत्त्वः असङ्गप्रतिभानतां प्रतिलभते, मनोज्ञधर्मचतुष्कं च प्रतिलभते।



एभिः कुलपुत्र सर्वज्ञताकारधारणीमुखप्रवेशैश्चन्द्रोत्तमस्तथागतोऽर्हन् सम्यक्संबुद्धो यदा गगनमुद्रं बोधिसत्त्वं महासत्त्वमवादत तथैव पृथिवीचालोऽभूत्, महतश्चावभासस्य लोके प्रादुर्भावोऽभुत्, गणनातिक्रान्तानि च दशसु दिक्षु बुद्धक्षेत्राण्युदारेणावभासेन स्फुटान्यभूवन्। एवमेव समानि पाणितलोपमानि विषमानि पृथिवीप्रदेशानि दृश्यन्ते।



ये च तत्र बोधिसत्त्वाः सन्निपतितास्ते दशसु दिक्षु गणनासमतिक्रान्तेषु बुद्धक्षेत्रेषु बुद्धान् भगवतः पश्यन्ति। एवमेव दशभ्यो दिग्भ्यो गणनासमतिक्रान्तेभ्यो बुद्धक्षेत्रेभ्यो गणनासमतिक्रान्ता बोधिसत्त्वाश्चन्दनां लोकधातुमुपसंक्रान्ताश्चन्द्रोत्तमस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य वन्दनाय पर्युपासनाय, इदम् एव सर्वज्ञताकारधारणीमुखप्रवेशं श्रोतुं”॥



तत्र कुलपुत्र चन्द्रोत्तमस्तथागतोऽर्हन् सम्यक्संबुद्धो बोधिसत्त्वान् महासत्त्वान् आमन्त्रयते - “अभिजानाम्यहं कुलपुत्र ये बोधिसत्त्वा एकजातिप्रतिबद्धास्त इमान् दशान्तरकल्पान् निरोधाम् अवहितेन चेतसा विहरित्वावशिष्टा बोधिसत्त्वा अस्य गगनमुद्रस्य बोधिसत्त्वस्य सकाशादिमान् दशान्तरकल्पान् इममेव सर्वज्ञताकारधारणीमुखप्रवेशं बोधिसत्त्वपिटकं श्रुतवन्तोऽभूवन्”। इमान् दशान्तरकल्पान् धर्मं श्रुत्वा दशसु दिक्षु तेषु गणनासमतिक्रान्तेषु बुद्धक्षेत्रेषु तेषां गणनातिक्रान्तानां तिष्ठतां ध्रियतां यापयतां भगवतामन्तिके चित्तमभिप्रसाद्य तेन चित्तप्रसादहेतुनावरुप्तकुशलमूला भूत्वा नानाविधैर्बोधिसत्त्वविकुर्वितैः चन्द्रोत्तमस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य पूजां कृत्वा, भगवन्तमेतदवोचन् - “एषां भदन्त दशानामन्तरकल्पानाम् अत्ययेन गगनमुद्रो बोधिसत्त्वो महासत्त्वोऽनुत्तरं धार्मिकं धर्मचक्रं प्रवर्तयिष्यति ?”।



चन्द्रोत्तम आह - “एवमेव कुलपुत्रेमम्, एषाम् दशानाम् अन्तरकल्पानामत्ययेन गगनमुद्रो बोधिसत्त्वो महासत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते, तस्यामेव रात्र्यामत्ययेन धार्मिकं धर्मचक्रं प्रवर्तयिष्यति, बोधिसत्त्वानामिह दशान्तरकल्पानिदमेव सर्वज्ञताकारधारणीमुखप्रवेशं देशयिष्यति। तत्र यो बोधिसत्त्वो महासत्त्वस्तस्यान्तिकाद्धर्मं श्रोष्यति तं धर्मं श्रुत्वा कुशलमुलान्यवरोपयित्वा, यस्मिन् समये गगनमुद्रो बोधिसत्त्वोऽनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते; सोऽभिसंबुद्धबोधिं धार्मिकं धर्मचक्रं प्रवरचक्रं अवैवर्तिकचक्रं प्रवर्तयित्वा बहुबोधिसत्त्वकोटीनयुतशतसहस्रावैवर्तिकां स्थापयित्वा, ये बोधिसत्त्वा इह दशान्तरकल्पान् तस्य सकाशादिमं सर्वज्ञताकारधारणीमुखप्रवेशं धर्मं देशामानं श्रोष्यन्ति ते तस्मिन् समये धर्मं श्रुत्वा एकजातिप्रतिबद्धा भविष्यन्ति, ये तु कल्पं श्रोष्यन्ति ते बोधिसत्त्वास्तस्मिन् समये भूमिमवक्रमिष्यन्ति, अवैवर्तिकाश्च भविष्यन्ति अनुत्तरायां सम्यक्संबोधौ, तस्मिन्नेव समये इमां धारणीं पर्यन्ततो लप्स्यन्ते” इत्युक्त्वा, चन्द्रोत्तमस्तथागतोऽर्हन् सम्यक्संबुद्धो बोधिसत्त्वानां महासत्त्वानां विविधानि बुद्धविषयप्रातिहार्याणि संदर्शयित्वा, गगनमुद्रस्य बोधिसत्त्वस्य महासत्त्वस्य नारायणं समाधिं निदर्शयित्वा, वज्रमयमात्मभावमधितिष्ठति प्रभाव्यूहं समाधिं निदर्शयति स्म। येन प्रवर्तितं धर्मचक्रमिह दशान्तरकल्पान् बोधिसत्त्वानामिदं सर्वज्ञताकारधारणीमुखप्रवेशं धर्मं देशयति,



सर्वबुद्धक्षेत्रेषु बुद्धानुभावेन लक्षणानुव्यञ्जनैरवभासितः संदृश्यते, वज्रमण्डलसमाधिं निदर्शयति। येन बोध्यासने सुप्रवर्तितधर्मचक्रो बोधिसत्त्वानां धर्मं देशयति, चक्रमालं समाधिं निदर्शयति। येन धर्मचक्रं प्रवर्तयमानो बहुप्राणकोटीनयुतशतसहस्राणि अवैवर्तिकां स्थापयति। धर्मचक्रप्रवर्तनायेति विदित्वा गगनमुद्रो बोधिसत्त्वो महासत्त्वोऽपरिमितेन बोधिसत्त्वसङ्घेन भगवताः पूजां कृत्वा स्वकस्वकेषु कूटागारेषु प्रविश्य स्थिताश्चन्द्रोत्तमोऽपि तथागतोऽर्हन् सम्यक्संबुद्धस्तामेव रात्रिमनुपधिशेषे निर्वाणधातौ परिनिर्वृतस्ते च बोधिसत्त्वास्तस्यामेव रात्र्यामत्ययात् तस्य भगवतः शरीरे पूजां कृत्वा स्वकस्वकेषु कूटागारेषु प्रविशन्ति स्म। अपरे पुनर्बोधिसत्त्वाः स्वकस्वकं बुद्धक्षेत्रं गताः। ये च तत्र बोधिसत्त्वा एकजातिप्रतिबद्धास्ते निरोधसमाधानेनैतान् दशान्तरकल्पान् अतिनामयन्ति। गगनमुद्रो बोधिसत्त्वो महासत्त्वो बोधिसत्त्वान् महासत्त्वान् आरभ्य धर्मं देशयति, तेषां च बोधिसत्त्वानां महासत्त्वानां दशान्तरकल्पान् कुशलमूलान्यवरोपितवान्। सोऽद्यरात्रावनुत्तरां सम्यक्संबोधिमभिसंबुद्धः: तेन चाद्य धर्मचक्रं प्रवर्तितं, महाप्रातिहार्यं कृतं, अनेकानि प्राणिकोटीनयुतशतसहस्राणि अवैवर्तिकान्यनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापितानि। अस्मिन् खलु पुनः सर्वज्ञताकारधारणीमुखप्रवेशे भाष्यमाणे अशीतीनां बोधिसत्त्वनयुतशतसहस्राणाम् अनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलब्धा, द्वानवतिश्च प्राणकोट्योऽवैवर्तिकां स्थापिता अनुत्तरायां सम्यक्संबोधौ, द्वासप्ततिभिश्च बोधिसत्त्वनयुतैरियं सर्वज्ञताकारधारणीमुखप्रवेशा धारणी प्रतिलब्धा, गणनातिक्रान्तानां देवमनुष्याणामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि”॥



अथ खलु रत्नचन्द्रवैरोचनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - “कतमैर्भदन्त भगवन् धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्व इमां धारणीं प्रतिलभते ?”।



भगवान् आह - “चतुर्भिः कुलपुत्र धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्व इमां धारणीं प्रतिलभते। कतमैश्चतुर्भि ?, इह बोधिसत्त्वो महासत्त्वश्चतुर्ष्वार्यवंशेषु व्यवस्थितो भवति। कतमेषु चतुर्षु ?, इह बोधिसत्त्वो महासत्त्व इतरेतरेण चीवरेण संतुष्टो भवति। इतरेतरचीवरसंतुष्टश्च वर्णवादी भवति। स न चीवरहेतोरप्रतिरूपां एषणां समापद्यते। अलब्धचीवरो न परितप्यते, लब्ध्वा च चीवरमरक्तः परिभुङ्क्ते, असक्तोऽगृद्धोऽग्रथितोऽमूर्च्छितोऽनवध्यवसितोऽनध्यवसानमापन्नः, आदीनवदर्शी निःसरणं प्रजानं परिभुङ्क्ते। अस्मिन् प्रथमे आर्यवंशे व्यवस्थितो भवति बोधिसत्त्वो महासत्त्वः। यथा चीवरम् एवं पिण्डपातं शय्यासनं। पुनरपरं बोधिसत्त्वो महासत्त्व इतरेतरेण ग्लानप्रत्ययभैषज्यपरिष्कारेण संतुष्टो भवति। इतरेतरग्लानप्रत्ययभैषज्यपरिष्कारसंतुष्टश्च वर्णवादी भवति। स ग्लानप्रत्ययभैषज्यपरिष्कारहेतोरप्रतिरूपमेषणां न समापद्यते। सोऽलब्ध्यग्लानप्रत्ययभैषज्यं न परितप्यते, प्रतिलब्ध्वारक्तः परिभुङ्क्तेऽगृद्धो ह्यग्रथितोऽमूर्च्छितोऽनवध्यवसितोऽनध्यवसानमापन्न आदीनवदर्शी निःसरणं प्रजानं परिभुङ्क्ते। एषु चतुर्ष्वार्यवंशेषु व्यवस्थितो भवति। एभिश्चतुर्भिर्धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्व इमां धारणीं प्रतिलभते भावयति च।



अपरैः पञ्चभिर्धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्व इमां सर्वज्ञताकारधारणीमुखप्रवेशधारणीं प्रतिलभते। कतमैः पञ्चभिर् ?, इह बोधिसत्त्वो महासत्त्वः आत्मना शीलवां विहरति, प्रातिमोक्षसंवरसंवृतः, आचारगोचरसंपन्नोऽणुमात्रेष्ववद्येषु भयदर्शी, समादाय शिक्षति शिक्षापदेषु, परानपि शीलविरहितां दृष्ट्वा शीलसंपदे समादापयति विनयति निवेशयति प्रतिष्ठापयति; अनेन प्रथमेन धर्मण समन्वागतो बोधिसत्त्वो महासत्त्वः। पुनरपरं बोधिसत्त्वो महासत्त्वः दृष्टिव्यसनगतां सत्त्वां मिथ्यादृष्ट्यां व्युत्थाप्य सम्यग्दृष्ट्यां समादापयति विनयति निवेशयति प्रतिष्ठापयति; अनेन द्वितीयेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वः। पुनरपरं बोधिसत्त्वो महासत्त्वोऽनाचारव्यसनगतां सत्त्वान् सम्यगाचारे समादापयति विनयति निवेशयति प्रतिष्ठापयति; अनेन तृतीयेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वः। पुनरपरम् आशयविपन्नान् सत्त्वान् आशयसंपत्तौ समादापयति विनयति निवेशयति प्रतिष्ठापयति; अनेन चतुर्थेण धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वः। पुनरपरं बोधिसत्त्वो महासत्त्वः श्रावकप्रत्येकबुद्धयाने संप्रस्थितान् सत्त्वान् अनुत्तरायां सम्यक्संबोधौ समादापयति विनयति निवेशयति प्रतिष्ठापयति; अनेन पञ्चमेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वः। एभिः पञ्चभिर्धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्व इमां धारणीं प्रतिलभते।



अपरैः षड्भिर्धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्व इमां धारणीं प्रतिलभते। कतमैः षड्भिर् ?, इह बोधिसत्त्वो महासत्त्वः स्वयमेव बहुश्रुतो भवति श्रुताधारः श्रुतसन्निचयः, तस्य ये ते धर्मा आदौ कल्याणा मध्ये कल्याणाः पर्यवसाने कल्याणाः स्वर्थाः सुव्यञ्जनाः केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं अभिवदमाना अभिवदन्ति, तद्रूपा अनेन धर्मा बहवः श्रुता भवन्ति धृता वचसा परिचिता मनसा अन्वीक्षिता दृष्ट्या सुप्रतिविधाः, स एवं बहुश्रुतः समानः परान् अश्रुतान् सत्त्वान् बाहुश्रुत्ये समादापयति विनयति निवेशयति प्रतिष्ठापयति; अनेन प्रथमेन धर्मेण समन्वागतो भवति। पुनरपरं बोधिसत्त्वो महासत्त्वोऽनीर्ष्यको भवति अमत्सरी, स परान् ईर्स्यामात्सर्याभिभूतान् सत्त्वान् अनीर्ष्यायाम् त्यागसंपदि च समादापयति यावत् प्रतिष्ठापयति; अनेन द्वितीयेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वो भवति। पुनरपरं बोधिसत्त्वः सत्त्वानामविहेठनजातीयो भवति अभयप्रदाता, नानोपद्रवैरुपद्रूतान् सत्त्वान् उपद्रवेभ्यः परिमोचयति, अकुहकश्च भवत्यलपकोऽशठश्च भवत्यमायावी शून्यतया च बहुलीविहरति। एभिः षड्भिर्धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्व इमां सर्वज्ञताकारधारणीमुखप्रवेशधारणीं प्रतिलभते। एवंरूपैर्धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्वः सर्वान् समासविस्तरेण सप्तवर्षाणीमान् द्रामिडमन्त्रपदां त्रिः कृत्वा दिवा पञ्चमण्डलेन निषद्य कायगतां स्मृतिमुपस्थाप्य शून्यताविहारेण इमा एवं द्रमिडा मन्त्रपदा उत्सारयितव्याः। उत्तिष्ठता समन्ततो दशसु दिक्षु तिष्ठतो ध्रियतो यापयतो बुद्धान् भगवतः स्मरता सततं बुद्धानुस्मृतिं भावयता सप्तानां वर्षाणां अत्ययेन इमां सर्वज्ञताकारधारणीमुखप्रवेशधारणीं प्रतिलभते बोधिसत्त्वो महासत्त्वः। अस्या धारण्याः प्रतिलम्भाद् बोधिसत्त्वो महासत्त्वस्तद्रूपम् आर्यं प्रज्ञाचक्षुः प्रतिलभते, येन प्रज्ञाचक्षुषा दशसु दिक्षु गङ्गानदीवालिकासमेषु बुद्धक्षेत्रेषु तिष्ठतो ध्रियतो यापयतो महाप्रातिहार्यविदर्शयतः सर्वां पश्यति, तेषां बुद्धानां भगवतां स्मितविदर्शनं दृष्ट्वा चतुरशीतिधारणीमुखसहस्राणि प्रतिलभते, द्वासप्ततिश्च समाधिमुखसहस्राणि प्रतिलभते, षष्टिश्च धर्ममुखसहस्राणि प्रतिलभते। अस्यां च सर्वज्ञताकारधारणीमुखप्रवेशधारण्यां प्रतिष्ठितो बोधिसत्त्वो महासत्त्वो महामैत्रीं प्रतिलभते, महाकरुणां प्रतिलभते। येन बोधिसत्त्वेन महासत्त्वेनेयं धारणी प्रतिलब्धा भवति तेन यदि पञ्चानन्तर्याणी कर्माण्याचीर्णानि भवति, तस्य जन्मान्तरेण परिक्षयं गच्छन्ति, तृतीये जन्मनि निरवशेषं तानि कर्माणि नष्टानि भवन्ति, दशमीं च भूमिमवक्रामति। यस्य तु बोधिसत्त्वस्य नानन्तर्याणि कर्मानि कृतानि भवन्ति तस्यान्यानि सर्वकर्मावरणानि परिक्षयं गच्छन्ति, जन्मपरिवर्तेन दशभूमीः समतिक्रामति, न चिरस्येदानीं सप्तत्रिंशद्बोधिपक्षान् धर्मान् प्रतिलभते, सर्वज्ञज्ञानं च प्रतिलभते।



एवं बहुकरः कुलपुत्र बोधिसत्त्वानां महासत्त्वानामयं सर्वज्ञताकारधारणीमुखप्रवेशः, सततसमितं बोधिसत्त्वो महासत्त्वो बुद्धानां भगवतां स्मितविदर्शनात् प्रातिहार्यं दृष्ट्वा एवंरूपेण ऋद्धिविषयेन समन्वागतो भवति। यद् गङ्गानदीवालिकासमेषु लोकधातुषु गङ्गानदीवालिकासमानां बुद्धानां भगवतां पूजां कृत्वा तेषां बुद्धानां भगवतां धर्मं श्रुत्वा नानाविधसमाधिक्षान्तिधारणीं प्रतिलब्धाः, इममेव बुद्धक्षेत्रमागच्छन्ति।



एवं कुलपुत्र बोधिसत्त्वानां महासत्त्वानां सर्वज्ञताकारधारणीमुखप्रवेशः कर्मपरिक्षयाय संवर्तते कुशलाभिवृद्धये। ये च कुलपुत्र सत्त्वा अस्याः सर्वज्ञताकारधारणीमुखप्रवेशधारण्या नाम श्रोष्यन्ति तस्य च भगवतश्चन्द्रोत्तमस्य तथागतस्य, तेषां सर्वकर्मावरणानि क्षयं गमिष्यन्ति, नियताश्च भविष्यन्ति अनुत्तरायाः सम्यक्संबुद्धेः"।



अथ ते बोधिसत्त्वा एवमाहुः - "अस्माभिर्भदन्त भगवन् गङ्गानदीवालिकासमेषु अतीतेषु बुद्धेषु भगवत्सु तिष्ठत्सु ध्रियत्सु यापयत्सु इयं धारणी श्रुता च प्रतिलब्धा च"। अपरेवमाहुः - "अस्माभिर्द्विगङ्गानदीवालिकासमानां", अपरे "त्रिभिः", अपरे "चतुर्भिः", अपरे "पञ्चभिः", अपरे "षड्भिः", अपरे "सप्तभिः", अपरे "अष्टभिः"। अपरे एवम् आहुः, "अस्माभिर्नवसु गङ्गानदीवालिकासमेषु सम्यक्संबुद्धेषु अतीतेषु तिष्ठत्सु ध्रियमानेषु यापयत्सु इयं सर्वज्ञताकारधारणीमुखप्रवेशधारणीं श्रुत्वा सर्वाकारेण प्रतिलब्धा"॥



मैत्रेयस्तु बोधिसत्त्वो महासत्त्व एवमाह - "मया दशगङ्गानदीवालिकासमान् कल्पान् अतिक्रम्य सन्तारणो नाम महाकल्पोऽभूत्। तत्रेदं बुद्धक्षेत्रं सर्वालङ्कारविभूषितं नामाभूत्। सालेन्द्रराजो नाम बुद्धोऽभूद् विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथीः शास्ता देवमनुष्याणां बुद्धो भगवान्। अनन्तकोटीनयुतशतसहस्रेण भिक्षुसङ्घेन परिवृतः तथा गणनातिक्रान्तैर्बोधिसत्त्वैः परिवृत इमामेव सर्वज्ञताकारधारणीमुखप्रवेशां धारणीं भाषितवान्, तस्यान्तिके मयेयं धारणी श्रुता भावना परिपूर्याधिगताः। एवमप्रमेयेषु कल्पेषु अप्रमेयतरेषु असंख्येयतरेषु अतीतानां सम्यक्संबुद्धानां तिष्ठतां ध्रियतां यापयतां असंख्येयैर्बोधिसत्त्वविकुर्वितैस्तेषां बुद्धानां भगवतां पूजां कृत्वा, एकैकस्य बुद्धस्य सकाशे अप्रमेयाण्यसंख्येयान्यतुल्यानि अप्रमेयाणि कुशलमूलान्यवरोप्य पुण्यस्कन्धः परिगृहीतस्तेनाहं कुशलमूलेन बहुभिर्बुद्धसहस्रैर्व्याकृतः। कालमवेक्ष्याहं प्रणिधानविषयेनैव चिरं संसारे संसृतो, येन मे पूर्वं संसारे संसरतोऽनुत्तरा सम्यक्संबोधिर्नाभिसंबुद्धा, सोऽहमिदानीं भगवता यौवराज्येनाभिषिक्तो, विमुक्तिपट्टश्च मे प्रज्ञाशिरसि बद्धोऽनुत्तरायां सम्यक्संबोधौ"।



अथ खलु भगवान् मैत्रेयं बोधिसत्त्वमेतद् अवोचत् - "एवमेतन् मैन्त्रेय यस्त्वं सालेन्द्रराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकादिमां सर्वज्ञताकारधारणीमुखप्रवेशधारणीं प्रतिलब्धवान्। आकाङ्क्षमाणस्त्वं मैत्रेय दशानां कल्पानामत्ययेनानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे, यथैव ते मैत्रेयाशापरिपूर्णाशक्तस्त्वं मैत्रेय शीघ्रमेवानुत्तरेण ज्ञानेनानुपधिशेषे निर्वाणधातौ प्रवेष्टुं। यच्च त्वं मैत्रेय इयच्चिरं संसारेऽभिरतस्तत् सर्वं प्रणिधानवशेन कालप्रेक्षिणा, तेन ते मैत्रेय एतर्हि ममान्तिकाद्यौवराज्यं परिगृहीतं, अतीतानामपि ते तथागतानामन्तिके यौवराज्यं परिगृहीतं"॥



तत्र भगवान् सर्वावतीं पर्षदं अवलोकयते, बोधिसत्त्वपर्षदं भिक्षुपर्षदं भिक्षुण्युपासकोपासिकापर्षदं देवनागयक्षराक्षसगन्धर्वमनुष्यामनुष्यं व्यवलोक्य तस्यां वेलायाम् इमानि मन्त्रपदान्यभाषत।



"दान्तभूमिः दमथभूमिः स्मृतिभूमिः प्रज्ञाभूमिर्वैशारद्यभूमिः प्रतिसंविद्भूमिरनुत्क्षेपभूमिः समतापरिक्षयोपेक्षभूमिर्जातिक्षयभूमिर्मनुज विन्मुजः मलन्मुजः विसाग्रः दशावते वेशतः तेरण वेसलग्र शमुशवतः विमति विमति योपहिर रेगमत वसिसक्रम इतिचारवते मेखेमुद्र दहरवते प्रज्ञाक्षाबुबु दहक्रमिता सदोषवन्तः एलय तिलय अहुसुटा अमुन्धमं अर्थवति मुरुवति तेहीनद्विवा अकनेति बकनते समके विसाभटे इटे इटबले अत्र तत्र कुरुषं लरुषं लतथ कथ सर्वन्तः सर्वतर्वः अनिरुद्धः दिहखटम्बिफल बहुफल शतफल शीष्टवते, अपि देवानां भगवान् प्रतीत्यसमुत्पादप्रतिसंयुक्तान्यधिमुक्तिपदाणि प्रकाशयति, एषु प्रकाश्यमानेषु षष्टिभिर्देवनयुतैः सत्यदर्शनं कृतमभूत्।



तत्फलम् अग्रफलं ललह अलह निलंहरे वचतख्या इदंफलं नियामफलं नमुदय विभूख प्रज्ञाचक्र सुनिर्वृतिचक्र ज्ञानीचक्र, एभिरधिमुक्तिपदैर्दशानां देवकोटीनामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि, तत्रैवावैवर्तिका स्थिताः।



पश्य मोमते अनुमतो अकुमतो अकुमती छीद्रत्रके मन्त्रस्था देशबल विप्रवस्थ इशस्थित अतिमति तीक्ष्णमति आलोको स्तेरितुष्ण, एभिरधिमुक्तिपदैश्चतुःषष्टीनां नागसहस्राणां अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादितानि, तत्रैव च अवैवर्तिकाः संवृताः।



अप्रभा समदना अहद्यो भगवद्यो करण्याक्ष सिद्धमति समन्तक्षौ अलबले पिटकरो महाबले ओजदरो धरणे मिगलेक्षे उदाक्ष कुदाक्ष कुकाक्ष विरोयो विरूपमुख अक्षिहस्त संक्षिबल असुरोविन असुरोप्रमर्दने, एभिरधिमुक्तिपदैर्द्वादशानां यक्षकोटीनामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि, तत्रैवावैवर्तिकाः संवृताः।



अर्थे पिलिले तिनिथे संतीर्थे कतितेने नकेमे ननमस्ते उभेरभे मुदमे मदमे मतिमे सनिह शूरे धारणीय सेन्द्र सदेव सनाग सयक्षासुरदेवा नाग निरुक्ति परिवार निरुक्तलानि स्मृति प्रज्ञा परिवारमति प्रतिलाभी गतिधृतिपरिवार गतिधृतिलाभीः पूर्वकेषु हितेषु चरितवन्तः अभिस्कामवन्तः शूरवन्तः चिरवीर्यवन्तः भीतवन्तः सितभागे मार्गमुद्र दिशापकर्षणि क्षपरहु ओहरणो देवरचतु सुरमुद्र यक्षमुद्र राक्षसमुद्र वेदिवेदिमे तपे तत्तपे उष्णानमे प्रखाद्ये ननव धारणीय आविश दिशाशोधने वाक्यशुद्धे जिह्वाशुद्धे वाचिपरिकर्मः प्रज्ञा बुद्धि स्मृति मति गति धृति गणन प्रतिसरणबुद्धिः जयचक्रे शून्यचक्रे व्यय, एभिरधिमुक्तिपदैः षट्पञ्चाशानामसुरसहस्राणां अनुत्तरायां सम्यकसंबोधौ चित्तान्युत्पादिताणि, अवैवर्तिकाश्च व्यवस्थिताः॥



तत्र भगवान् वैशारद्यसमवसरणं नाम बोधिसत्त्वमामन्त्रयते स्म - "दुर्लभं कुलपुत्र तथागतानामर्हतां सम्यक्संबुद्धानां लोके प्रादुर्भावो; दुर्लभा इमे शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनपरिभाविता अमी मन्त्रपदाः; सत्त्वानां हिताय बोधिसत्त्वगुणनिष्पादनार्थं कुलपुत्र तथागतेन पूर्वं बोधिसत्त्वचर्यां चरता दानदमसंयमक्षान्तिवीर्यसमाधिप्रज्ञा परिगृहीता बहवो बुद्धकोटीनयुतशतसहस्राः पर्युपासिताः, क्वचिद् दानान् दत्तं, क्वचिच्चीलं रक्षितं, क्वचिद् ब्रह्मचर्यं चीर्णं, क्वचिद् भावना निषेविता, क्वचित् क्षान्तिर्भाविता, क्वचिद् वीर्यमारब्धं, क्वचित् समाधिर्निष्पादिता, क्वचित् प्रज्ञा सेविता, बह्वप्रमेयं विविधं नानाप्रकारं शुभं कर्म कृतं, येनैतर्हि ममानुत्तरं ज्ञानं प्रतिलब्धं। अनेकां कल्पकोटीनयुतशतसहस्रां कुलपुत्र तथागतेन पूर्वं बोधिसत्त्वचर्यां चरता मृषापैशुन्यपरुषसंभिन्नप्रलापा वर्जिताः, अनेकविधं कुशलं वाक्कर्म सेवितं बहुलीकृतं, येनैतर्हि प्रभूतजिह्वता प्रतिलब्धा, न हि कुलपुत्र तथागता अर्हन्तः सम्यक्संबुद्धा अन्यथा कथयन्ति"।



अथ भगवांस्ततः पर्षदं ऋद्ध्यभिसंस्कारमभिसंस्कार्षीत्, यथाभिसंस्कृतेनर्द्ध्यभिसंस्कारेण सर्वपुण्यसमवसरणं नाम समाधिं समापन्नः। मुखाच्च जिह्वेन्द्रियं निर्णामयित्वा स्वं मुखमण्डलं प्रच्छाद्य तस्माज्जिह्वेन्द्रियात् षष्टिरश्मिकोट्यः प्रमुक्तास्तैश्च रश्मिभिः अयं त्रिसाहस्रमहासाहस्रो लोकधातुरुदारेणावभासेन स्फुटोऽभूत्, तैश्च रश्मिभिर्निरयतिर्यग्योनियमलोकदेवमनुष्याः स्फुटा बभूवुः। ते च रश्मयो ये नैरयिकाः सत्त्वा अग्निना प्रज्वलितगात्रा दह्यन्ते तेषां शीतला वायवो वान्ति येषां स्पृष्टानां तन्मुहूर्तं सुखा वेदना प्रादुर्बभूव। एकैकस्य च नैरयिकस्य सत्त्वस्य पुरतः बुद्धनिर्मितं तिष्ठति द्वात्रिंशद्भिर्महापुरुषलक्षणैः समलङ्कृतगात्रः अशीतिभिरनुव्यञ्जनैर्विराजिततनुर्यं दृष्ट्वा ते नैरयैकाः सुखसमर्पिता बुद्धदर्शनाप्यायिताशरीरा बुद्धं दृष्ट्वैवं चिन्तयन्तोऽस्य सत्त्वस्यानुभावेनास्माभिः सुखा वेदना प्रतिलब्धा; ते भगवतः सकाशे प्रेमप्रसादं गौरवं च संजनयन्ति। भगवांस्तेषां कथयति - "भोः सत्त्वा एवं वाचं भाषध्वं, "नमो बुद्धाय नमो धर्माय नमः सङ्घाय", नित्यमेवं सुखसमर्पिता भविष्यथ"। ततस्ते नैरयिकाः सत्त्वा अञ्जलिं प्रगृह्य वाचमुदीरयन्ति, "नमो बुद्धाय नमो धर्माय नमः सङ्घाय"। अथ ते नैरयिकाः सत्त्वास्तेन कुशलमूलेन तेन च चित्तप्रसादेन ततश्च्यवित्वा एकत्या देवेषूपपन्ना, एकत्या मनुष्येषु; येऽपि शीतनरकेषूपपन्नाः सत्त्वास्तेषाम् उष्णा वायवः प्रवायन्ति, पूर्ववद् यावन् मनुष्येषूपपद्यन्ते। एवं प्रेतानां पिशाचानां क्षुत्तृष्णाप्रज्वलितगात्राणां तेषां ते रश्मयो बुभुक्षाग्निं निर्वाणं कुर्वन्ति, सुखां च वेदनां संजनयन्ति। एकैकस्य प्रेतस्य निर्मितं बुद्धरूपमग्रतः स्थितं भवति द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतं अशीत्या चानुव्यञ्जनैर्विराजितगात्रं; तं दृष्ट्वा ते प्रेता बुद्धदर्शनात् सुखा प्रीणितगात्रा एवं चिन्तयन्तः, "अस्य सत्त्वस्यानुभावेनास्माकं सुखा वेदना प्रतिलब्धा"। ते भगवतः सकाशे प्रसादं प्रेमगौरवं चोत्पादयन्ति। भगवांस्तेषां कथयति - "एत यूयं सत्त्वा, एवं वाचमुदीरयत, "नमो बुद्धाय नमो धर्माय नमः सङ्घाया", नित्यमेवं सुखसमर्पिता भविष्यथ"। ततस्ते प्रेता अञ्जलिं प्रगृह्यैवं वाचमुदीरयन्ति, "नमो बुद्धाय नमो धर्माय नमः सङ्घाय"। अथ ते प्रेतसत्त्वास्तेन कुशलमूलेन ततश्च्यवित्वा केचिद् देवेषूपपन्नाः एकत्या मनुष्येष्वेवं तिरश्चां संचोदयन्ति, एवं मनुष्यां संचोदयन्ति।



गणनातिक्रान्ता देवमनुष्या भगवत्सकाशं उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य निषण्णा धर्मश्रवणाय। तेन च समयेन गणनातिक्रान्ता देवमनुष्यकाया अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयाम् आसुः। गणनातिक्रान्ताश्चात्र बोधिसत्त्वाः समाधिक्षान्तिधारणीं प्रतिलब्धवन्तः॥



इति श्रीकरुणापुण्डरीके महायानसूत्रे

द्वितीयो धारणीमुखपरिवर्तः॥२॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project