Digital Sanskrit Buddhist Canon

आर्यसर्वबुद्धविषयावतारज्ञानालोकालंकारनाम महायानसूत्रम्

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2015
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
आर्यसर्वबुद्धविषयावतारज्ञानालोकालंकारनाम महायानसूत्रम्

नमो बुद्धाय॥


एवम् मया श्रुतम् एकस्मिन् समये भगवान् राजगृहे विहरति स्म॥ गृध्रकूटे पर्व्वते अनन्तरत्नशिखरे। धर्म्मधातुगर्भे। प्रासादे महता भिक्षुसंघेन सार्द्धं पञ्चविङ्शतिभिर् भिक्षुसहस्रैः सर्वैर् अर्हद्भिः क्षीणाश्रवैर् निष्क्लेशैर् व्वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैः। आजानैयैर् महानागैः कृतकृत्यैः कृतकरणीयैः। अपहृतभारैर् अनुप्राप्तस्वकारथैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्व्वचेतोवशिपरमपारमिप्राप्तैः। आज्ञातकौण्डिन्यप्रमुखैश् चाष्टषष्टिभिर् महाश्रावकैः।

द्वासप्ततिभिर् बोधिसत्वकोटीनियुतशतसहस्रैः। तद्यथा मंजुश्रिया कुमारभूतेन। धनश्रिया च बुद्धिश्रिया च भैषज्यराजेन च। भैषज्यसमुद्गतेन च बोधिसत्वेन महासत्वेन। सर्वैर् अवैवर्त्तिकधर्म्मचक्रप्रवर्त्तकैः सर्वै रत्नकूटवैपुल्यसूत्रपरिपृच्छाकुशलैः॥ धर्ममेघभूमिप्रतिलब्धैः॥ सुमेरुभूतैः प्रज्ञया सर्वैः शून्यतानिमित्ताप्रणिहितानुत्पादाजाद्वताभावधर्मपरिभावितैः। महागम्भीरधर्मनिर्भासैः। तथागतेर्यापथैः। अन्योन्यलोकधातुषु तथागतकोटीनियुतशतसहस्रसंप्रेषितैः। सर्वैर् अभिज्ञापरकर्मनिर्जातैः सर्व्वधर्मस्वभावप्रकृतिप्रतिष्ठितैः।


तेन खलु पुनः समयेन भगवत एतद् अभूत्। य न्व् अहं बोधिसत्वानां महासत्वानां। महाजवबलवेगस्थामसञ्जननार्थं धार्मीण् कथां कथयेयं यण् गङ्गानदिवालिकासमेभ्यो लोकधातुभ्यो महौजस्कमहौजस्कां बोधिसत्वां महासत्वां सन्निपातेयं। य न्व् अहं महाधर्मनिर्द्देशस्य परिदीपनायै निमित्तम् आदर्शयेयं॥ महान्तम्र् अवभासं कुर्यां यन् मे बोधिसत्वा महासत्वा आगत्य महाधर्मनिर्द्देशं परिपृच्छेयुर् इति। अथ खलु भगवान् तस्याम् वेलायां दशसु दिक्ष्व् असंख्येयाचिन्त्यत्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमान् लोकधातुं मर्हारस्मिमेघैर् अवभासयति स्म। तेन खलु पुनः समयेन दशभ्यो दिग्भ्यः। एकैकस्माद् दिग्भागाद् दशबुद्धक्षेत्रानभिलाप्यकोटीनियुतशतसहस्रपरमाणुरजःसमा बोधिसत्वा महासत्वा आगच्छन्ति स्म। तेषाम् एकैको बोधिसत्वो महासत्वः। अचिन्त्याभिर् बोधिसत्वविकुर्व्वणाभिर् आगत्य भागवतो नुरूपाम् अचिंत्यां पूजां कृत्वा स्वकस्वकप्रणिधानबलनिर्जातेषु पद्मासनेषु भगवतः पुरतो न्यषिदन्। भगवन्तम् अनिमिषं निरीक्षमाणा स्थिता अभूवन्।


तेन खलु पुनः समयेन धर्मधातुगर्भे प्रासादमध्ये महारत्नपद्मगर्भसिंघासनं प्रादुरभूत्॥ असंख्येययोजनकोटीविस्तारम् अनुपूर्व्वसमुच्छ्रितं। सर्वप्रभासमणिरत्नमयं विद्युत्प्रदीपं मणिरत्नवेदिकापरिवृतं। अचिन्त्यप्रभासमणिरत्नदण्डं। अनुपममणिरत्नपरिवारं। अनुपमातिक्रान्तप्रभावमणिरत्नदामकृतशोभं। वशिराजमणिरत्नजालसञ्छन्नं। नानामणिरत्नप्रत्युप्तं समुच्छ्रितच्छत्रध्वजपताकं। तस्य च महामणिरत्नपद्मगर्भसिंहासनस्योपरि समन्तात्। दशासंख्येयानि रस्मिकोटीनियुतशतसहस्राणि निचश्चरन्ति स्म। ताश् च रश्मयो दशसु दिक्ष्व् अन्योन्यां लोकधातून् महतावभासेन स्फरन्ति स्म। तेन खलु पुनः समयेन दशदिश्य् ऐकैकस्माद् दिग्भागाद् दशबुद्धक्षेत्रानभिलाप्यकोटीनियुतशतसहस्रपरमाणुरजःसमा देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशक्रब्रह्मलोकपालाः आगच्छन्ति स्म। तत्र केचिद् रत्नकूटागारनिषण्णासंख्येयाचिन्त्यैर् अप्सरकोटीनियुतशतसहस्रसंगीतिसंप्रवादितैर् आगच्छन्ति स्म। केचित् पुष्पमयैः केचिद् उरगसारचन्दनमयैः केचिद् मुक्तामयैः। केचिद् वज्रमयैः केचिद् वज्रप्रभासमणिरत्नमयैः।

केचिज् जांबूनदसुवर्ण्णमयैः। केचित् सर्व्वप्रभाससमुच्चयमणिरत्नराजमयैः। केचिद् वशिराजमणिरत्नमयैः। केचिच् चिन्तामणिरत्नमयैः। केचिच् छक्राभिलग्नमणिरत्नमयैः। केचित् सागरप्रतिष्ठानविशुद्धरत्नव्यूहसमन्तरश्मिप्रभामणिमहारत्नमयकूटागारनिषण्णासंख्येयाचिन्त्याप्सरःकोटीनियुतशतसहस्रसंगीतिसं-प्रवादितैर् आगच्छन्ति स्म॥ आगत्य च भगवतो चिन्त्यातुल्यामाप्यां परिमाणाभिक्रांन्तां पूजां कृत्वा एकान्ते स्वप्रणिधाननिर्जातेष्व् आसनेषु निषीदन्ति स्म। निषीद्य भगवन्तम् अनिमिषं निरीक्षन्तः स्थिता अभूवन्। तेन खलु पुनः समयेनायं त्रिसाहस्रमहासाहस्रो लोकधातुर् जांबूनदसुवर्ण्णमयः संस्थितो भूत्। नानामहामणिरत्नवृक्षैर् द्दिव्यैः पुष्पवृक्षैर् व्वस्त्रवृक्षैर् उरगसारचन्दनगन्धवृक्षैर् अलंकृतचन्द्रसूर्याविद्युत्प्रदीपमणिरत्नजालसंच्छन्नं। उच्छ्रितच्छत्रध्वजपताकः सर्व्ववृक्षाश् चासंख्येयाप्सरःकोटीनियुतशतसहस्रार्द्धकायिका मुक्ताहारपरिगृहीताः। महामणिरत्नदामपरिगृहीताः स्थिता अभूवन्।


तेन खलु पुनः समयेन ततो महामणिरत्नपद्मगर्भात् सिंहासनाद् इमा गाथा निश्चरन्ति स्म।
आगच्छ निषीद नरेन्द्रराजा
अहं हि ते पुण्यबलेन उद्गतः।
संपूर्ण्णसंकल्प अहं त्वम् अद्य
सन्धारयिष्ये द्विपदोत्तमं जिनं॥ १

ममात्मभावो रतनामयो ह्य् अयं
रत्नैकपद्मं मम मध्यसंस्थितं।
मनोरमं तुभ्य कृतेन नायकाः
संकल्प पूरेहि ममाद्य तायिनः। २

निषद्य रत्नामयि पद्मि अस्मिं
शोभेहि मां सर्व्वं इमं च लोकं
देशेहि धर्मं बहुप्राणिकोटिनां
यं श्रुत सिंहासन ईदृशं लभेत्। ३

रश्मी सहस्रा तव गात्रसंभवाः
प्रभासयन्तो बहुलोकधातुं।
प्रामोद्यजातस्य हि लक्षणं इमं
समाक्रमा मह्य कृतेन नायकाः ४

क्षिप्रं निषीदस्व कुरुष्वनुग्रहं
पूर्व्वम् मया धारित अष्टकोटियो।
अस्मिं प्रदेशे मुनिनां स्वयंभूवां
भगवान् पीहाद्य करोत्व् अनुग्रहं। ५


अथ खलु भगवान् उत्थाया पूर्व्वकाद् आसनात् तत्र महारत्नपद्मगर्भे सिंहासने निषद्य पर्यङ्कंबद्धी सर्व्वावन्तं बोधिसत्वगणंष्व् अवलोकयति स्म। सामुत्कर्षिकायाश् च धर्मदेशनायाः तेषां बोधिसत्वानां महासत्वानां निमित्तम् अकार्षीत्॥ तेन खलु पुनः समयेन सर्व्वावान् बोधिसत्वगणः। एवञ् चिन्तयति स्म। यन् न्व् अयम् मञ्जुश्रीः कुमारभूतोऽनुत्पादानिरोधन् तथागतर्हमन्तं सम्यक्संबुद्धं परिऋच्छेति॥ चिरश्रुतो यम् अस्माभिर् द्धर्मपर्याय इति। अथ खलु मञ्जुश्रीः कुमारभूतो भगवतो न्तिकान् निमित्तं विदित्वा तेषां च बोधिसत्वानां महासत्वानां चेतसैव चेतःपरिवितर्क्कम् आज्ञाय भगवन्तम् एतद् अवोचत्॥ अनुत्पादोऽनिरोध इति भगवन्न् उच्यते। कतमस्यैतद् भगवन् धर्मस्याधिवचनं। अनुत्पादो निरोध इति।

इमांश् च गाथा अभाषत्।
अनिरोधम् अनुत्पादं ब्रवीषि त्वं विनायक।
तत् कीदृशं महाप्राज्ञ तस्य निरुक्तिलक्षणम्॥ १

अनिरोधम् अनुत्पादं कथम् एष निगद्यते।
दृष्तान्तैर् हेतुभिश् चैव कथयस्व महामुने॥ २

समागतेमे बहुबोधिसत्वा
ज्ञानार्थिनः त्वां च विभो भिवन्दितुं॥
संप्रेषिता लोकविनायकेभिः।
देशेहि सर्द्धर्म्मम् उद्रारन् उत्तमं॥ ३


एवन् उक्ते भगवान् मञ्जुश्रीयं कुमारभूतम् एतद् अवोचत्। साधु साधु मंजुश्रीः साधु खलु पुनस् त्वं मंजुश्री तथागतम् एत अर्थं परिप्रष्टव्यं मन्यसे। बहुजनहिताय य त्वं मञ्जुश्रीः प्रतिपन्नो बहुजनसुखाय लोकानुकम्पयै महतो जनकायस्यार्थाय हिताय सुखाय देवानाञ् च मनुष्याणाञ् च एतर्हि अनागतागतानाञ् च बोधिसत्वानां महासत्वानां बुद्धभूमिप्रापणार्थं। अनुत्रासस् ते मंजुश्रीर् अश्मि स्थाने योगः करणीयो न भयन् न स्तम्भित्वं। ज्ञानप्रतिसरणेन च ते मंजुश्रिर् भवितव्यं। तथागतस्यैतम् अर्थन् निर्द्दिशतः। अनुत्पादोऽनिरोध इति मञ्जुश्री तथागतस्यैतद् अधिवचनं। तद्यथा मंजुश्रीर् इयं महापृथवी महावैडूर्यमयी संस्थिता भवेत् एवं च संस्थिता भवेत्। यथा तस्याम् वैडूर्यमय्यां महापृथिव्यां त्रयस्त्रिशद् भवनस्य शक्रस्य देवानाम् इन्द्रस्य वैजयन्तस्य च प्रासादस्य प्रतिभासः संदृश्येत्। शक्रश् च देवानाम् इन्द्रः तत्र दिव्यैः पञ्चभिः कामगुणैः क्रीडन् रममाणः परिचायन संदृश्येत्

अथ तस्मिन् समये देवाः सर्वजम्बूद्वीपकाः। स्त्रीपुरुषदारकदारिकाः संचोदयेयुः। आगच्छथ भो नरनार्यः। पश्यतेमं शक्रन् देवानाम् इन्द्रं वैजयन्ते प्रासादे दिव्यैः पञ्चभिः कामगुणैः क्रीडन्तं रमन्तं परिचारयन्तं। आगच्छथ भो नरनारिगणाः। दानानि ददतः पुण्यानि कुरुत। शीलञ् च समादाय वर्त्तयत्। ईदृशेषु वैजयन्तेषु प्रासादेषु क्रीडिष्यथ। रमिष्यथ। परिचारयिष्यथ। शक्रत्वानि च करिष्यथ। ईदृश्या च रिध्या समन्वागता भविष्यथ। यादृश्या च शक्रो देवानाम् इन्द्रो दिव्यैः परिभोगैः समर्पितः समंन्वंगीभूत इति। अथ मंजुश्रीस् ते स्त्रीपुरुषदारकदारिकास् तस्यां वैडूर्यमय्यां महापृथिव्यां त्रयस्त्रिंशद्भवनस्य वैजयन्तस्य प्रासादस्य शक्रस्य देवानाम् इन्द्रस्य प्रतिभासं दृष्ट्वा अञ्जलिप्रगृहं कुर्युः। पुष्पाणि च क्षित्यरन् गन्धांश् च क्षित्यरन्न् एवं वाचं भाषन्ते वयम् अप्य् एवंरूपा भवेम यादृशः। शक्रो देवानाम् इन्द्रो वयम् अप्य् एवं वैजयन्ते प्रासादे क्रीडेम रमेम परिवारयेम यथायं शक्रो देवानाम् इन्द्र इति॥

न च ते सत्वा एवं संजानन्ति स्म। प्रतिभासो यं वैडूर्यमय्यां महापृथिव्यां यत्र त्रयस्त्रिंशद्भवनं वैजयन्तश् च प्रासादः। शक्रश् च देवानाम् इन्द्रः परिशुद्धत्वान् महावैडूर्यस्य प्रतिभासः। संदृश्यत इति। ते शक्रत्वम् अभिनन्दन्तो दानानि च ददति पुण्यानि च कुर्व्वन्ति। शीलण् च समादाय वर्त्तन्ते। तत्र च त्रयस्त्रिंशद्भवने प्रतिभास उपपत्तये कुशलमूलानि च परिणामयन्ति। यथा मंजुश्रीः तत्र च वैडूर्यमय्यां महापृथिव्यां नास्ति तत्र त्रयस्त्रिंशद्भवनं। न वैजयन्तश् च प्रासादः। न च शक्रो देवानाम् इन्द्रः। अपि तु परिशुद्धत्वात् महावैडूर्यस्य संदृश्यते। त्रयस्त्रिण्शद्भवनं वैजयन्तश् च प्रासादः। शक्रस्य देवानाम् इन्द्रः स चासन् नोत्पन्नो न निरुद्धः परिशुद्धत्वान् महावैडूर्यस्य प्रतिभासः सन्दृश्यते।

एवम् एव मञ्जुश्री परिशुद्धत्वाच् चित्तस्य सुभावितत्वाद् भावनायाः सत्वानान् तथागतात्मभावदर्शनं भवति। तथागतानुभावेन मञ्जुश्रीः सत्वास् तथागतं पश्यन्ति। स चाभूतो ऽनुत्पन्नो ऽनिरुद्धो न भावो नाभावो न दृश्यो नादृश्यो न लोक्यो नालोक्यो न चैत्यो नाचैत्यो न सन् नासन्। अथ च मञ्जुश्रीः सत्वाः तथागतप्रतिभासम् आरम्बणीकृत्वा पुष्पाणि क्षिपन्ति। गन्धां वस्त्राणि। रत्नानि च क्षिपन्ति। एवं च वाचं भाषन्ते वयम् अप्य् एवंरूप। भावेम। यादृशस् तथागतो ऽर्हन् सम्यक्सम्बुद्ध इति। ते बुद्धज्ञानाभिलाषिणो दानानि च ददति। पुण्यानि च कुर्व्वन्ति। शीलञ् च समादाय वर्त्तन्ते॥ तच् च कुशलमूलं तथागतज्ञानप्रतिलम्भाय परिणामयन्ति।

तद्यथा मंजुश्रीस् तत्र महावैडूर्यमय्यां महापृथिव्यां शक्रस्य देवानाम् इन्द्रस्य प्रतिभासो नेञ्जति। न मन्यते। न प्रपञ्चयति। न कल्पयति। न कल्पयति। न विल्पयति। अकल्पो विकल्पो ऽचिन्त्योऽमनसिकारः शान्त शीतीभूतो ऽनुत्पादो ऽनिरोध ऽ दृष्टो ऽश्रुतो नाघ्रातो ऽनास्वादितो ऽ स्पृष्टो ऽनिमित्तो अविज्ञप्तिको अविज्ञपनीयः। एवम् एव मञ्जुश्रीस् तथागतो र्हन् सम्यक्सम्बुद्धः। नेञ्जति। न मन्यते। न प्रपंचयति। न कल्पयति। न विकल्पयति। अकल्पो विकल्पो ऽचिन्त्यो ऽमनसिकारः। शान्तः शीतीभूतो ऽनुत्पादो ऽनिरोध ऽदृष्टो ऽश्रुतः। अनाघ्रातो ऽनास्वादितो ऽस्पृष्तो ऽ ऽनिमित्तो ऽविज्ञप्तिको अविज्ञपनीयः। अनुत्पादगतिको हि मञ्जुश्रीस् तथागतः। अथ च प्रतिबिम्ब इव लोकेसु दृश्यते। यथाधिमुक्तिकानाञ् च सत्वानान् दर्शनवैमात्रतया। आयुःप्रमाणवैमात्रतां दर्शयति। परिपाचनाधिमुक्तिबलाधानतया बोधिभाजनेषु सत्वेषु प्रतिभासप्राप्तो भवति। यथाशयाधिमुक्त्या च सत्वाः धर्मं शृण्वन्ति। यथाशयेन त्रियानम् इति संजानन्ति। यथाशयेन चाधिमुच्यते।


तद्यथा मञ्जुश्रीः देवानां त्रयस्त्रिंशानां पुण्यबलपरिनिष्पन्नानां धर्मशब्दानाम् महाधर्मदुन्दुभिर् उपरि वैजयन्तस्य प्रसादस्यान्तरीक्षगता चक्षुःपथसमतिक्रान्ता। अदृश्याऽनालोक्या सर्व्वदेवपुत्रैः। अथ च पुनर् मञ्जुश्रीः सा महाधर्मदुन्दुभिः। यस्मिन् समये देवाः त्रयस्त्रिंशत्कायिका तीव्रसततसमितन् दिव्यैः कामक्रीडारतिपरिभोगैः प्रमत्ता भवन्ति। न भूयः सुधर्मायां देवसभायां प्रविश्य धर्मन् सण्गायन्ति। शक्रश् च यदा देवानाम् इन्द्रो दिव्यैः कामक्रीडारतिपरिभोगैः प्रमत्तो भवति। न धर्मासने निषद्य धर्मम् भाषते।

तस्मिन् समये मञ्जुश्रीः स महाधर्मदुन्दुभिर् अदृष्या च नालोक्या चक्षुःपथसमतिक्रान्ता अन्तरीक्षगता तादृशं धर्मशब्दं निश्चारयति। येन च धर्मशब्देन सर्व्वां त्रयस्त्रिंश्त्कायिकां देवां स्वरेण विज्ञपप्यति। अनित्या मार्षा रूपशब्दगन्धरसस्पर्शाः मा प्रमत्तचारिणो भवत। मा क्षिप्रम् अस्माद् भवनाच् च्यविष्यथा दुःखाः मार्षा सर्व्वसंस्काराः अनात्मनो मार्षाः सर्व्वसंस्काराः। शून्या मार्षाः सर्व्वसंस्कारा मा प्रमादम् आपद्यथ। दुःखम् इतश् च्यवितानां पुनर् अत्रोपपत्तिर् भविष्यति। संगायत मार्षा धर्मन् धर्मारामारतिरता भवथ। धर्मसाराः धर्मनिम्नाः। धर्मप्रवर्षणाः धर्मानुस्मृतिमनसिकाराः। मार्षा विहरथ यूयम् पुनः। एभिर् एवं दिव्यैः कामक्रीडारतिपरिभोगैः। अविरहिता भविष्यथेति।

तेन खलु पुनर् मञ्जुश्रीः समयेन तस्यास् तादृश्याः अरूपिण्याः अकल्प्यायाः अविकल्पायाः चक्षुःपथसमतिक्रान्ताया। अनुत्पन्नानिरुद्धायाः। वाक्पथसमतिक्रान्तायाः। चित्तमनोविज्ञानापगताया महाधर्मदुन्दुभेः शब्देन सर्व्वे त्रयस्त्रिंशत्कायिका देवाः। संचोदिताः भीतास् त्रस्ताह् उद्विग्नोद्विग्नाः सुधर्मायांन् देवसभायां प्रविश्य धर्मारामरतिरता विहरन्ति। धर्मसाराः। धर्मनिम्नाः। धर्मप्रवणाह्। धर्मानुस्मृतिमनसिकारा भवन्ति। ते ततश् च्युता विशेषु गामिनो भवन्ति। शक्रश् च देवानाम् इन्द्रस् तस्मिन् समये सुधर्मायां देवसभायां प्रविश्य धर्मासने निषद्य धर्मन् देशयति। यदा च मञ्जुश्रीर् असुराः देवैः सार्द्धन् संग्रामयन्ति। तत्र यदा त्रयस्त्रिंशा देवाः पराभवं गच्छन्ति। तदा सा धर्मदुन्दुभी तादृशशब्दं निश्चारयति। येन शब्देन असुराः भीताः त्रस्ताः उद्विग्नोद्विग्नाः। पलायन्ति।

न च मञ्जुश्रीस् तस्या महाधर्मदुन्दुभेः कश्चित् सम्पादयिता वा आत्मभावो वा संविद्यते। अदृश्या मञ्जुश्रीः सा महाधर्मदुन्दुभिः आलोक्याऽसत्याऽभूताऽचित्ताऽचेतनानिमित्तारूपिण्य् अरुता आत्मभावा अद्वया चक्षुःपथसमतिक्रान्ता। अथ च मञ्जुश्रीः त्रयस्त्रिंशत्कायिकानान् देवपुत्राणां पूर्व्वपरिकर्मकृतानां महाधर्म्मदुन्दुभेः शब्दो निश्चरति। त्रायस्त्रिंशानान् देवपुत्राणां सर्वोपद्रवोपायासोपक्लेशोपशान्तये सम्वर्त्तते। यथा मञ्जुश्रीस् तस्याः महादुन्दुभेः। अदृश्य आत्मभावो ऽनालोक्यो असन्न् अभूतो ऽचिन्तो ऽचेतनो ऽनिमित्तो ऽरूप्य् अरूपतो ऽभावो ऽद्वयश् चक्षुःपथसमतिक्रान्तः। पूर्व्वकर्मविपाकेन त्रयस्त्रिंश्त्कायिकानां देवपुत्राणां सर्वोपद्रवोपायासोपक्लेशोपशान्तये। शब्दो निश्चरति। प्रमत्तांश् च देवपुत्रान् धर्मशब्देन संचोदयति। स च धर्मशब्द त्रयस्त्रिंशत्कायिकानां देवपुत्राणां सर्वोपद्रवोपायासोपक्लेशोपशान्तये सम्वर्त्तते।

एवम् एव मञ्जुश्रीस् तथागतो र्हन् सम्यक्सम्बुद्धः। अदृश्यो ऽनालोक्यो अनात्मभावो ऽसन्न् अभूतो ऽचित्तो ऽचेतनो ऽनिमित्तो अरूप्य् अरुतो ऽद्वयो ऽभावः। चक्षुःपथसमतिक्रान्तः। अथ च मञ्जुश्रीः सत्वः पूर्व्वकर्म्मविपाकेन यथाशयाधिमुक्त्या धर्मन् निश्चरन्तं संजानन्ति। स च धर्मशब्दः सर्व्वसत्वानान् सर्वोपद्रवोपायासोपक्लेशोपशान्तये सम्वर्त्तते। धर्मस्वरनिर्घोषेण तथागतघोषस्वर इति लोके संख्या गच्छति। न च मञ्जुश्रीः तथागतः। अथ च धर्मस्वरघोषेण तथागत इति प्रज्ञप्तिर् लोके सम्भति। सत्वानाम् एव पूर्व्वकुशलकर्मविपाकेन तथागतशब्दं निश्चरन्तं सत्वाः संजानन्ति। सर्व्वसत्वानान् सर्व्वसुखजननार्थं प्रमत्तानां च संचोदनार्थं शब्दो निश्चरति। ते मञ्जुश्री सत्वाः शब्दं श्रुत्वा तथागतन् संङ्कल्पयन्ति। अयन् तथागतस्यात्मभाव इति। आदिकर्मिकाणां च बोधिसत्वानां सर्व्वबालपृथग्जनानाञ् च तथागतारम्बणकुशलमूलसञ्जननार्थं तथागतवाक् छ्रूयते। अपि त्व् अनुत्पन्नो ऽनिरुद्धो मंजुश्रीः तथागतो वेदितव्यः॥


तद्यथा मंजुश्रीर् निदाघकालावसाने वर्षाणां प्रथमे मास्य् आगते सत्वानां पूर्व्वकर्मविपाकेन पृथिवीगतानां बीजग्रामभूतग्रामस्य सर्व्वतृणगुल्मौषधिवनस्पतीनां सञ्जननार्थम् उपरि वैहायस्य् आन्तरीक्षे आकाशे तादृशा वायवो वान्ति येनोदकं संभवति । संभूतञ् च महापृथिव्यां प्रपतति। तेन च सर्व्वी महापृथिवी सन्तर्पिता भवति। सर्वे जम्बूद्वीपकाश् च सत्वा। तस्मिन् समये प्रमुदिता भवन्ति। सौमनस्यजाताः तस्य मेघ इति।संज्ञा लोके संभवति। यस्मिं खलु पुनर् मञ्जुश्री समये उपर्य् अन्तरीक्षान् महान् उदकस्कन्धो न निपतति। तस्मिं समये सर्व्वजंबूद्वीपकाः सत्वाः एवं चिन्तयन्ति नात्र मेघः सम्भवति। यदा तु मंजुश्रीः उपर्य् अन्तरीक्षान् महान् वारिकन्धो महापृथिव्यां निपतति सत्वाः। एवम् वदन्ति। अहो महामेघो वारिम् प्रमुञ्चति। सन्तर्पयति। महापृथिवीम् इति। न पुनर् अत्र मञ्जुश्रीर् मेघो वा मेघप्रज्ञप्तिर् वा विद्यते। वातसंजनितो मञ्जुश्रीः उपर्य् अत्त<<न्त>>रिक्षान् महान् उ <<द>>कस्कन्धो निपतति। सो ऽप्स्कन्धो मञ्जुश्रीस् तत्रैवान्तरीक्षे अन्तर्धियते। सत्वानां पूर्व्वकर्मविपाकेन

यथा मञ्जुश्रीस् तस्य वारिस्कन्धस्य उपर्य् अन्तरीक्षे वातसंक्षोभेण सन्वार्यमाणस्य मुञ्चतो वारि मेघ इति। प्रज्ञप्तिर् भवति। सत्वानां पूर्व्वकर्मविपाकेन। न पुनर् अत्र मंजुश्रीर् मेघः संविद्यते। न मेघप्रज्ञप्तिर् अनुत्पन्नोर् मञ्जुश्रीर् मेघः चित्तगत्यनवतारो आगतिगतिविनिर्मुक्तः। एवम् एव मञ्जुश्रीः पूर्व्वकुशलसम्भारोपचितानां बोधिसत्वानां महासत्वानां च अन्येषां च सत्वानां श्रावकप्रत्येकबुद्धज्ञानाभिप्रायाणां। अवरोपितकुशलमूलानाञ् च सत्वानान् निर्वाणमार्गसन्दर्शनहेतुकानां आसंगप्रतिभानस् तथागतो र्हन् सम्यक्सम्बुद्धो लोके उत्पन्न इति। संख्या गच्छति। स यद् भाषते। तत् सर्व्वन् तथा अवितथा अन्यथा तस्य देवमनुष्येषु तथागत इति नाम कृतं।

अथ च मञ्जुश्रीः शब्दो निश्चरति। देवमनुष्येषु। यद् उत तथागत इति न पुनः मञ्जुश्रीस् तथागतः सम्विद्यते। अनिमित्तो मंजुश्रीस् तथागतो निमित्तापगतो न देशस्थो न विदेशस्थः। अभूतो ऽनुत्पन्नो ऽनिरुद्धः। तत् खलु पुनर् मञ्जुश्रीः तथागतप्रतिभासः। सदेवकं लोकं धर्मेण संतर्पयित्वा संप्रवारयित्वा आदिकर्मिकाणां च। बोधिसत्वानाञ् च-म् अन्येषाञ् च सर्व्वबालपृथग्जनानां निर्वाणवैनयिकानां पूर्व्वकर्मविपाकेन अदर्शनाभासो भवति। तेषाम् एवं भवति। परिनिर्वृतस् तथागत इति। न मञ्जुश्रीस् तथागत उत्पद्यते वा निरुध्यते वा। अनुत्पन्नो निरुद्धो मञ्जुश्रीस् तथागतः। आदिपरिनिर्वृतो मञ्जुश्रीस् तथागतो र्हन् सम्यक्सम्बुद्धः। यथा मञ्जुश्रीर् उदकारम्बणेनाभूतस्य मेघस्यानुत्पन्नानिरुद्धस्यासतः। मेघप्रज्ञप्ति स्थिता लोके मेघ इति एवम् एव मञ्जुश्रीः धर्मदेशनारम्बणेन अभूतस्य तथागतस्य अनुत्पन्नानिरुद्धस्यासतः। आदित एवाजातस्य नामप्रज्ञप्तिः स्थिता लोके। तथागतो हिन् सम्यक्सम्बुद्ध इति।


तद्यथापि मंजुश्रीर् महाब्रह्मा अनभिभूर् द्दशत्रिसाहस्रमहासाहस्रवशवर्त्ती। दिवसे दिवसे सर्व्वदेवनिकायान् व्यवलोकयति। यावच् चातुर्महाराजिकदेवनिकायपर्यन्तान्। तेन खलु पुनर् मञ्जुश्रीः समयेन तस्य महाब्रह्मणो दशत्रिसाहस्रमहासाहस्रवशवर्त्तिनः सर्व्वदेवानिकायां व्यवलोकयतः। सर्व्वदेवनिकायेषु सर्व्वदेवपुत्राः स्वकस्वकाण् कामक्रीडारतिपरिभोगां त्यक्त्वा सर्व्वतूर्यताडावचरसंगीतिं शमयित्वा कामक्रीडारतिमनसिकारोत्सृष्ताः। सगौरवाः। अञ्जलिं प्रगृह्य महाब्रह्माणम् अनिमिषं व्यवलोकयन्ति। स च महाब्रह्मा सर्व्वदेवनिकायेषु मुहूर्त्तन् दर्शनं ददाति। ते च देवपुत्रास् तस्मिन् समये महाब्रह्मलोको पपत्तिम् आकांक्षंति। महाब्रह्मलोकोपपत्तये च कुशलमूलानि परिणामयन्ति।

स च मञ्जुश्रीर् महाब्रह्माच्यवमानो ततो ब्रह्मविमानाद् अन्यम् अधितिष्ठति। महाब्रह्माणं दशत्रिसाहस्रमहासाहस्रवशवर्त्तिनं पूर्व्वप्रणिधानाधिष्ठानेन तेषां च देवपुत्राणां पूर्व्वकुशलमूलोपचयेन स च मञ्जुश्रीर् निर्मितोर् महाब्रह्मा दिवसे दिवसे सर्व्वदेवनिकायां व्यवलोकयति। यावच् चातुर्महाराजकायिकदेवनिकायां तेन खलु पुनर् मंजुश्रीः स्वमयेन सर्व्वेषु देवनिकायेषु सर्व्वदेवपुत्राः स्वकस्वकां कामंक्रीडारतिपरिभोगां त्यक्त्वा सर्व्वतूर्यताडावचरसङ्गीतिः प्रशमयित्वा कामक्रीडारतिम<<न>>सिकारोत्सृष्टाः सगौरवाः। अञ्जलिं प्रगृह्य महाब्रह्माणम् अनिमिषं व्यवलोकयंति स्म। स च महाब्रह्मा सर्वदेवनिकायेषु मुहूर्त्तन् दर्शनं ददाति। न च स्थानाच् चलति। ते च देवपुत्रास् तस्मिन् समये महाब्रह्मलोकपपत्तिम् आकाङ्क्षन्ति। ब्रह्मलोकोपपत्तये च कुशलमूलानि परिणामयन्ति।

न चात्र मञ्जुश्री ब्रह्मा संचिद्यते। शून्यो यं मञ्जुश्रीर् ब्रह्मा वशिको ऽभूतो ऽनक्षरो ऽघोषो ऽदेशो ऽ भावो ऽचिन्त्यो ऽनिमित्तश् चित्तमनोविज्ञानापगतो ऽनुत्पन्नो ऽ निरुद्धः। अथ च मञ्जुश्रीः सर्व्वदेवनिकायेषु दर्शनाभासो भवति। तस्यैव महाब्रह्मणः पूर्व्वकुशलमूलप्रणिधानाधिष्ठानेन तेषां च देवपुत्राणां पूर्व्वकुशलमूलोपचयेन। न च मञ्जुश्रीस् तेषान् देवपुत्राणां एवं भवति। निर्मितो यम् ब्रह्मा। शून्यो ऽवशिको ऽभूतो ऽनक्षरः। अघोषो ऽदेशो ऽभावो ऽचिन्त्यो ऽनिमित्तः चित्तमनोविज्ञानापगतः। अनुत्पन्नो ऽनिरुद्धो वेति। एवम् एव मञ्जुश्रीस् तथागतो प्य् अर्हन् सम्यक्सम्बुद्धः शून्यो ऽवशिको ऽभूतो ऽनक्षरो ऽघोषो ऽदेशो ऽभावोऽचिन्त्यो ऽनिमित्तः। चित्तमनोविज्ञानापगतः। अनुत्पन्नो ऽनिरुद्धः। अथ च पुनर् मञ्जुश्रीस् तथागतो र्हन् सम्यक्सम्बुद्धः। पूर्व्वबोधिसत्वचर्याप्रणिधानाधिष्ठानेन आदिकर्मिणाञ् च बोधिसत्वानां सर्व्वश्रावकप्रत्येकबुद्धयानसंप्रस्थितानां च सर्वबालपृथग्जनानां सर्वकुशलमूलाधिष्ठानेन लक्षणशतसहस्रालंकृतस् तथागतः प्रतिबिम्बम् इव लोके संदृश्यते। न च स्थानाच् चलति।

न च मञ्जुश्रीर् आदिकर्मिकाणाञ् च बोधिसत्वानां सर्व्वश्रावकप्रत्येकबुद्धयानिकानां सर्व्वबालपृथग्जनानाञ् चैवम् भवति। शून्यस् तथागत ऽवशिको ऽभूतो ऽनक्षरो ऽघोषो ऽदेशो ऽभावो ऽचिन्त्यो ऽनिमित्तः चित्तमनोविज्ञनापगतः। अनुत्पन्नो ऽनिरुद्धो चेति। अथ च मञ्जुश्री तथागतात्मभावाल् लक्षणशतसहस्रालंकृतात् सर्व्वतथागतेर्यापथेषु शून्येषु नानाविधिविचित्राः नानाधिमुक्तानां सत्वानाम् महाधर्मदेशना निश्चरति। सा च धर्मदेशना सर्व्वसत्वानां सर्वोपद्रवोपायासोक्लेशोप<<क्लेशोप>>शान्तये सम्वर्त्तते। तत्र च तथागतः समयः सर्व्वत्रो पेक्षको निर्विकल्पो न्निर्व्विशेषः। तद् अनेनापि ते मञ्जुश्रीः पर्यायेणैवम् वेदितव्यं। अनुत्पादो ऽनिरोध इति। तथागतस्यैतद् अधिवचनम् इति।

१०
अथ खलु भगवान् तस्याम् वेलायांम् इमा गाथे अभाषत्।
अनुत्पादधर्माः सततं तथागतः
सर्व्वे च धर्मा सुगतेन सादृशाः।
निमित्तग्राहेण तु बालबुद्धयो
असत्सु धर्मेषु चरन्ति लोके॥ १

तथागतो हि प्रतिबिम्बभूतः।
कुशलस्य धर्मस्य अनाश्रवस्य।
न चात्र तथता न तथागतोऽस्ति।
बिम्बाम् च संदृश्यति सर्व्वलोके २

११
तद्यथा मञ्जुश्रीः सूर्यरश्मयो जम्बूदीपे पूर्व्वतरम् एव तावन् महाशैलेन्द्रराजानम् अवभासयन्ति ततः पश्चाच् चक्रवाडान म <<हा>>चक्रवाडान् अवभासयन्ति। ततः पश्चाद् उच्चोच्चां पृथिवीप्रदेशान् अवभासयन्ति। ततः पश्चाद् इह जम्बूद्वीपे निम्नां पृथिवीप्रदेशान् अवभासायन्ति। ते च मञ्जुश्रीः सूर्यरश्मयो न कल्पयन्ति <<न>> विकल्पयन्ति। न चिन्तयन्ति। न विचिन्तयन्ति। चित्तमनोविज्ञानापगता मञ्जुश्रीः सूर्यरश्मयः। अनुत्पन्नानिरुद्धा अलक्षणा अलक्षणा लक्षणापगताः। अमनस्कारा मनस्कारापगता अप्रपञ्चाः प्रपञ्चापगताः। अपरिहारा निःपरिदाहाः। न ओरस्थाः न परस्थाः। न उच्चा न नीचाः। न बद्धा न मुक्ताः। न ज्ञानवन्तो नाज्ञानवन्तो न संक्लेशा न निःक्लेशाः। न सत्यवादिनो न मृषावादिनः। न तीरे न निम्ने। न स्थले न ओघे। न तर्क्कवचरा नातर्क्कवचराः। न रूपिणो नारूपिणह्। अथ च पुनर् मञ्जुश्रीः पृथिव्यां उच्चनीचमध्यविशेषेण हीनमध्योत्कृष्टावभासस्य च्छया वैचित्र्यं भवति।

एवम् एव मञ्जुश्रीः तथागतो प्य् अर्हन् सम्यक्सम्बुद्धः। अनुत्पन्नो ऽनिरुद्धो ऽलक्षणो लक्षणापगतः। अमनस्कारो मनस्कारापगतः। अप्रपञ्चः प्रपञ्चापगतः। अपरिदाहो निःपरिदाहः न ओरस्थो न पारस्थः। न उच्चो न नीच। न बद्धो न मुक्तः। न ज्ञानवान् नाज्ञानवान्। न संक्लेशो न निःक्लेशः। न सत्यवादी न मृषावादी। न अवारे न पारे न तीरे नातीरे। न निम्ने नानिम्ने। न स्थले नास्थले। न ओघे नानोघे। न सर्व्वज्ञे नासर्व्वज्ञः। न तर्क्को नातर्क्कः। न <<प्र>>चारो नाप्राचारः। न समुदाचारो नासमुदाचारः। न स्मृतिमान् नास्मृतिमान् न चेतनो न निश्चेतनः। न मनो नामनो न निर्जातो नानिर्जातः। न नामो नानामः। न रूपो नारूपः। न व्याहारो नाव्याहारः। न प्रज्ञप्यो नाप्रज्ञप्यः। न दृश्यो नादृश्यः। न नेत्री। नानेत्री। न मार्गप्रणेता नामार्गप्रणेता न प्राप्तफलो नाप्राप्तफलः। न कल्पो नाकल्पः। न कल्पापगतो नाकल्पापगतः।

अथ च पुनर् मञ्जुश्रीस् तथागतसूर्यमण्डलज्ञानारश्मयः। त्रैधातुके अनन्तमध्यधर्मधात्वप्रतिहतरश्म्यवभासप्रमुक्ताः प्रसृताश् च न रश्मयः। पूर्व्वतरम् एव महाशैलेन्द्रकल्पाध्याशयानां बोधिसत्वानां काये निपतन्ति। ततः पश्चात् प्रत्येकबुद्धयानसंप्रस्थितानां काये निपतन्ति। ततः पश्चाच् छ्रावकयानसंप्रस्थितानां काये निपतन्ति। ततः पश्चात् कुशलाध्याशयानां यथाविमुक्त्यानां सत्वानां काये निपतन्ति। ततः पश्चाद् अन्तशो मिथ्यात्वनियतेषु सत्वसन्तानेषु काये तथागतसूर्यमण्डलरश्मयो निपतन्ति। तेषां चोपकारीभूता भवन्ति। अनागतहेतुसंजननतया सम्वर्द्धयन्ति च कुशलैर् द्धर्मैः तत्र च तथाग मञ्जुश्रीः समः सर्व्वत्रोपेक्षको निर्व्विकल्पो नर्विशेषः। न पुनर् मञ्जुश्रीस् तथागतज्ञानसूर्यमण्डलस्यैवं भवति। अस्याहन् सत्वस्योदारं धर्मन् देशयिष्यामि। अस्य न देशयिष्यामीति। न तस्यैवं विकल्पो भवति। अयम् उदाराधिमुक्तिकः सत्वः। अय मध्याधिमुक्तिकः। अयं श्रावकयानाधिमुक्तिकः। अयं कुशलाशयः। अयं हीनो मिथ्याशयः इति।

न मञ्जुश्रीस् तथागतज्ञानसूर्यमण्डलस्यैवम् भवति। अयम् उदाराशयाधिमुक्तिकः सत्वो स्य महायानां देशयिष्यामि। अय मध्याशयाधिमुक्तो स्य प्रत्येकबुद्धयानं देशयिष्यामि। अयं श्रावकयानाधिमुक्तिकः। अस्य श्रावकयानं देशयिष्यामि। कुशलाकुशलाशयानाञ् च सत्वानाम् आशयं विदित्वा विशोधयिष्यामि। ऋजुकां दृष्टिं करिष्यामि। यावन् मिथ्यात्वनियतानाम् अपि सत्वानां यथानुरूपं धर्मन् देशयिष्यामि। न तथागतज्ञानसूर्यमण्डलरश्म्यावभासस्यैवम् विकल्पो भवति। तत् कस्य हेतोः सर्व्वकल्पविकल्पप्रपञ्चसमुच्छिन्नत्वात् तथागतज्ञानसूर्यमण्दलरश्म्यवभासस्य। अथ च मञ्जुश्रीः सत्वानां कुशलाशयसन्तानवैचित्र्यात् तथागतज्ञानसूर्यमण्डलरश्म्यवभासस्य वैचित्र्यं भवति।

१२
तद्यथा मञ्जुश्रीर् अस्ति महासागरे सर्व्वाभिप्रायपरिपूरणं नाम महामणिरत्नं तद् ध्वजाग्रावबद्धं। यस्य सत्वस्य यादृशो अभिप्रायो भवति। तादृशं ततः शब्दन् निरश्चरन्तं सत्वाः सजानन्ति। तच् च महामणिरत्नं न कल्पयति। न विकल्पयति। न चिन्तयति। न विचिन्तयति। अचिन्त्यं निश्चिन्त्यं। चित्तमनोविज्ञानापगतं। एवम् एव मञ्जुश्रीस् तथागतः। न कल्पयति। न विकल्पयति। न चिन्तयति। न विचिन्तयति। न चिन्त्यो निश्चिन्त्यः। चित्तमनोविज्ञानापगतः। अग्राहः। अपर्यवग्राहः। अप्राप्तः अप्राप्तव्यः। प्रणुन्नः। प्रत्येकसत्यः प्रणुन्नरागः। प्रणुन्नदोषः प्रणुन्नमोहः। न सत्यो न मृषा। न नित्यो नानित्यः। न प्रभो नाप्रभोः। न लोको नालोकः। अवितर्क्को अविचारः। अनुत्पन्नो ऽनिरुद्धः।

अचिन्त्यः ऽप्रचिन्त्यः। अस्वभावः अस्वाभाव्यः। अभावशून्यः। अनायूहः। अनिर्यूहः। अनभिनिवेश्यः। अव्यवहारः। व्यवहारसमुच्छेदः। अनानन्दो निरानन्दः। नदिसमुद्घातः। असंख्यातः। संख्यापगतः। अगतिर् अगतिगामी। सर्व्वगतिसमुच्छिन्नः। सर्व्वव्याहारसमुच्छिन्नः। अदृश्यः। अनालोक्यः। अग्राह्यो नावकाशः। नानवकाशो न पश्यो न निर्देश्यो न सामग्री न विसामग्री। न विकल्पितो नाविकल्पितः अवि <<ठा>>पितः। असंदर्शितः। असंक्लिष्टः। अपरिशोधनार्हः। ना नाम रूपन् न निमित्तं। न कर्म न कर्मविपाकः। नातीतो नानागतो न प्रत्युत्पन्नः। निःकिञ्चन्नः। अरणः। अनक्षरः। अघोषः। घोषसमतिक्रान्तः। अरुतः। अलक्षणः। सर्व्वलक्षणापगतः। नाध्यात्म्यं। न बहिर्द्धा नोभयम् अन्तरेणोपलभ्यते। अथ च मञ्जुश्रीस् तथागतज्ञानरत्नम् अध्याशयपरिशुद्धं महाकरुणाध्वजाग्रावबद्धं। ततो यो यथाशयाधिमुक्तः सत्वः। स तथा धर्मदेशनां निश्चरन्तीं संजानाति। तत्र च तथागतः समः सर्व्वत्रोपेक्षको निर्विकल्पो निर्विशेषः।

१३
तद्यथा मञ्जुश्रीः प्रतिश्रुत्काम् यरुतविज्ञप्तितो निश्चरन्तीम् सत्वाः सञ्जानन्ति। सा च नातिता नानागता न प्रत्युत्पन्नाः। नाध्यात्मां बहिर्द्धा। नोभ्यम् अन्तरेणोपलभ्यते। नोत्पन्ना। न निरुद्धा। नोच्छिन्ना। न शास्वता। न ज्ञानवती। नाज्ञानवती न प्रज्ञा नाप्रज्ञा। न विद्या नाविद्या। न विमुक्तिर् न्नाविमुक्तिः। न सावद्या न निरवद्या। न स्मृतिर् न्नास्मृतिः। न स्थानवती। नास्थानवती। न निषद्या नानिषद्या। न पृथिवीधातुर् न्नाब्धातुः। न तेजोधातुर् न वायुधातुः। न संस्कृता। नासंस्कृता। न निःप्रपंचा सप्रपञ्चा। न दृश्या नादृश्या। अनक्षरा। अनक्षरापगता। अघोषा घोषसमतिक्रान्ताः। अतुलान् तुलनासमतिक्रान्ता। अलक्षणा लक्षणापगता। न शान्तिर् न्नाशान्तिः। न दिर्घा न ह्रस्वा। न चेतना नाचेतना। न चैत्या नाचैत्या। न लोक्या नालोक्या। दर्शनस्वभावेन शून्यास्मृतिर् अमनसिकारा। अवितर्क्का। अविचारा। चित्तमनोविज्ञापगता। सर्व्वत्र समा निर्विकल्पा। निर्विशेषा त्र्यध्वसमतिक्रान्ता। अथ च मञ्जुश्रीः प्रतिश्रुत्का नानारुतघोषा नानाध्याशयानां सत्वानां नानारुतघोषविज्ञप्तितो निश्चरति। तांश् च सत्वा तथैव संजानन्ति।

एवम् एव मञ्जुश्रीस् तथागतो र्हन् सम्यक्सम्बुद्धो नातीतो नागतो न प्रत्युत्पन्नः। नाध्यात्मं न बहिर्धा नोभयम् अन्तरेणोपलभ्यते। नोत्पन्नो न निरुद्धो नोच्चिन्नो न शास्वतः। न ज्ञानवान् नाज्ञानवान् अप्रज्ञावान् नाप्रज्ञावां। न विद्या नाविद्या। न विमुक्तिर् न्नाविमुक्तिः। न सावद्यो न निरवद्यः। न स्मृतिमां। नास्मृतिमां। न स्थानवान् नास्थानवान्। न निषद्यो नानिषद्यः। न पृथिवीधातु नब्धातु न तेजोधातु <<न तेजोधातु>> न संस्कृतो नासंस्कृतः। न प्रपञ्चो नाप्रपञ्चः। न रुतो नारुतः। न दृश्यो नादृश्यः। अनक्षरः। अघोषः। घोषसमतिक्रान्तः। अतुलस् तुलासमतक्रान्तः। अलक्षणो लक्षणापगतः। न शान्तो नाशान्तः। न दिर्घो न ह्रस्वः। न चेतनो नाचेतनः। न चैत्यो नाचैत्यः। न लोक्यो नालोक्यः।दर्शनस्वभावेन शून्यः। अस्मृत्यमनसिकारः। अवितर्क्को ऽविचारः। चित्तमनोविज्ञानापगतः।सर्व्वत्र सो निर्विकल्पः। निर्विशेषः। त्र्यध्वसमतिक्रमः। अथ च मञ्जुश्रीर् नानाविमुक्ताः सत्वाः। नानाध्याशयविज्ञप्तितः। तथागतवाचन् निश्चरन्ती संजानन्ति।

१४
तद्यथापि मञ्जुश्रीः पृथिवीन् निशृत्य पृथिवीं प्रतिष्ठाय सर्व्वतृणगुल्मौषधिवनस्पतयो वृद्धिं विरुढिं वैपुल्यताम् आपद्यन्ते। न मञ्जुश्रीः पृथिवी कल्पयति। न विकल्पयति। सर्व्वत्र समा निर्विकल्पानि निर्व्विशेषाः निश्चिन्ताश् चित्तमनोविज्ञानापगताः। एवम् एव मञ्जुश्रीस् तथागतन् निसृत्य तथागतं प्रतिष्ठाय सर्व्वसत्वानां सर्व्वकुशलमूलानि वृद्धिम् विरूढिं वैपुल्यताम् आपद्यन्ते। श्रावकयानिकानाम् वा प्रत्येकबुद्धयानिकानां वा। महायानिकानाम् वा। अन्येषाम् वा चरकपरिव्राजकनिर्गन्थप्रभृतीनां सर्वतीर्थ्यायतनानां। कुशलमूलानि यानि चान्यान्य् अन्तसो मिथ्यात्वनियतानां कुशलमूलानि। सर्वाणि तानि तथागतं निसृत्य तथागतम् प्रतिष्ठाय वृद्धिं विरूढिं वैपुल्यताम् आपद्यन्ते। न च मञ्जुश्री <<ः>> तथागतः कल्पयति। न विकल्पयति। सर्व्वकल्पविकल्पारम्बणमनसिकारोच्छिन्नो मञ्जुश्रीस् तथागतो र्हन् सम्यक्संबुद्धः। चित्तमनोविज्ञानापगतः। अतर्क्कः। अतर्क्कावचरः। अदृश्यः। अनालोक्यः। अचिन्त्यः अचिन्तनीयः। अमनसिकारो निश्चिन्तः। चित्तमनोविज्ञानापगतः। समः सर्व्वत्रोपेक्षको निर्विकल्पो निर्विशेषः।

१५
तद्यथा मञ्जुश्रीः आकाशं सर्व्वत्र समं निर्विकल्पं निर्विशेषम् अनुत्पन्नम् अनिरुद्धं नातीतं ना<<ना>> गतं न प्रत्युत्पन्नम् अलक्ष्यम् अप्रपञ्चम् अनिरूप्य निदर्शनं। अविज्ञपनीयं। असंस्पर्शम् अनिकेतमन्तल्यं। तुलासमतिक्रान्तं। अनुपमं। उपमासमतिक्रान्तं। अप्रतिष्ठम् अग्राह्यं। चक्षुःपथसमतिक्रान्तं। चित्तमनोविज्ञानापगतम् अनक्षरं। अघोषं अमनसिकारं। अनायूहम् अनिर्यूहं। अनुक्षेपाप्रक्षेपं। वाक्पथसमतिक्रान्तम्। सर्व्वत्रानुगतम् अप्रतिष्ठितं। अथ मञ्जुश्रीः सत्वाः संस्थानस्य हीनमध्योत्कृष्टतया आकाशं हीनोत्कृष्टं संजानन्ति।

एवम् एव मञ्जुश्रीस् तथागतो प्य् अर्हन् सम्यक्सबुद्धः।सर्व्वत्र समो निर्विशेषो अनुत्पन्नो ऽनिरुद्धः। नातितो नागतो न प्रत्युत्पन्नः। अलक्ष्यो अप्रपञ्चः। अरूप्य् अनिदर्शनो अविज्ञप्तिकः। अस्पर्शो ऽनिकेतः। अतुलस् तुलासमतिक्रान्तः। अनुपम उपमासमतिक्रान्तः। अप्रतिष्ठीतः। अग्राह्यः। चक्षुःपथसमतिक्रान्तः। चित्तमनोविज्ञानापगतः। अलक्षणः। अनक्षरः। अघोषो मनसिकारः। अनायूहानिर्यूहः। अनिक्षेपो ऽप्रक्षेपः। वाक्पथसमतिक्रान्तः। सर्व्वत्रानुगतो नुप्रविष्टः। अथ च मञ्जुश्रीः ये हीनमध्योत्कृष्ताशयाः सत्वाः ते हीनमद्योत्कृष्टन् तथागतं पश्यन्ति। न च मञ्जुश्रीस् तथागतस्यैवम् भवति। अयं हीनाध्याशयाधिमुक्तः सत्वः। अस्य सत्वस्य हीनां रूपकायपरिनिःपत्तिन् दर्शयिष्यामि। अय मध्याशयाधिमुक्तः सत्वः। अस्य मध्यमां रूपकायवर्ण्णपरिनिष्पत्तिन् दर्शियिष्यामि। अयम् उदाराशयाधिमुक्तः। सत्वो स्य उदारां रूपकायवर्ण्णपरिनिष्पत्तिन् दर्शयिष्यामि।

एवम् एव मञ्जुश्रीः धर्मदेशनायाम् अनुगतव्यम। न च मञ्जुश्रीस् तथागतस्यैवं भवति। अयं हीनाधिमुक्तः सत्वः। अस्य सत्वस्य हीनां श्रावकयानकथाण् करिष्ये। अय मध्याशयाधिमुक्तं। सत्वः। अस्य सत्वस्य प्रत्येकबुद्धयानकथां करिष्ये। अयम् उदाराशयाधिमुक्तः सत्वः। अस्य सत्वस्य महायानकथाण् करिष्ये। न मञ्जुश्रीस् तथागतस्यैवम् भवति। अयम् उदाराधिमुक्तः सत्वः। अस्य सत्वस्य दानकथां करिष्ये। एवं शीलं क्षान्तिं वीर्यन् ध्यानञ् च। न मञ्जुश्रीस् तथागतस्यैवम् भवति। अयं प्रज्ञापारमिताधिमुक्तः सत्वः। अस्य सत्वस्य प्रज्ञापारमितां कथां कथयिष्ये। नैवं मंजुश्रीस् तथागतस्यैवम् भवति। तत् कस्माद् धेतोः। थर्मकायो मञ्जुश्रीस् तथागतः। अत्यन्तानुत्पन्नो मञ्जुश्रीस् तथागतः।

१६
न मञ्जुश्रीस् तथागतस्य नामरूपनिरूक्त्यानुसारि विज्ञानं प्रवर्त्तते। न मञ्जुश्रीस् तथागतः कल्पयति। न विकल्पयति। क्षणिको हि मंजुश्रीस् तथागतः। अक्षयलक्षणः। अक्षयकोटीभूतकोटीनियतः। सर्वधर्मसमताकोटी मञ्जुश्रीस् तथागतो र्हन् सम्यक्सबुद्धः समः सर्व्वत्र निर्विकल्पो निर्विशेषः। न हीनो न मध्यो नोत्कृष्टः। एवम् एव मञ्जुश्रीः समाःसर्वधर्माः। निर्व्विकल्पा निर्विशेषाः। न हीना न मध्या नोत्कृष्ताः। तत् कस्माद् धेतोः। अनुपलब्धित्वात् सर्व्वधर्माणां। या मञ्जुश्रीर् अनुपलब्धिः सर्व्वधर्माणां सा समताः। या समता स्थिता यो स्थिता सा ऽचलनता। या ऽचलनता सा ऽनिश्रयता।

अनिश्रितस्य सर्व्वधर्मेषु नास्ति चित्तप्रतिष्ठानं। अप्रतिष्ठितचित्तस्यानुत्पत्तिर् आजायते। एवं दर्शिनश् च। विपर्यस्ताच् चित्तचैतसिका न प्रवर्त्तन्ते। यश् चाविपर्यस्तचित्तः। स यथावावत्प्राप्तो भवति। यथावत्प्राप्तो न प्रपञ्चयति। अप्रपञ्चयत प्रचारो नास्ति। यदा न प्रचरति तदा न संचरति। यदा न संचरति तदा न विसरति। अविसरं धर्मतान् न विरोधयति। धर्मतां अविरोधयं सर्व्वत्रानुलोमो भवति। सर्व्वत्रानुलोमो धर्मप्रकृतेर् न चलति। धर्मप्रकृतेर् अचलं धर्मप्र<<कृ>> तिप्राप्तो भवति। धर्मप्रकृतिप्राप्तो न किञ्चित् प्रपञ्चयति। तत् कस्य हेतोः। प्रत्ययहेतुजनितत्वात्।

यः प्रत्ययहेतुजनितः सो त्यन्ताजातः। यश् चात्यन्ताजातः। स न्नियामप्राप्तः। यश् च नियामप्राप्तः।स सर्वधर्ममनसिकारैः। सार्द्धन् न सम्वसति। यदा सर्व्वधर्ममनसिकारैः सार्द्धन् न संवसति।तदा न सम्वाश्यो न भवति। यदा सम्वाश्यो न भवति। तदा न भवति। न विभवति। यदा न भवति। न विभवति। तदा स्थितो धर्म्मप्राप्तो भवति। यदा योनिषोधर्मप्रयुक्तो भवति। योनिशोधर्मप्रयुक्तस्य न कश्चिद् धर्मो स्ति यो न बुद्धधर्मः। तत् कस्य हेतोः शून्यतानुबोधत्वात्। यश् च शून्यतानुबोधः स बोधिः। स एवं शून्यतानिमित्ताप्रणिहितानभिसंस्कारानिकेतासंभवाग्राह्या ऽनलयावबोधाद् बोधिः बोधिश् च योनिशोप्रयोगः।

योनिशोप्रयोगः। योनिशः प्रयोगे नामोच्यते। अनुपेक्षाप्रक्षेपः। अकारविकारप्रयोगः। असंबद्धः अप्रयुक्तप्रयोगः अनेकत्वानानात्वप्रयोगः। अनागतप्रयोगो योनिशः प्रयोगः। न तत प्रगो न प्रमाणं। न फलसाक्षात्क्रियां। तत् कस्य हेतोः। प्रकृतिप्रभास्वरं चित्तन् तच् चागन्तुकैर् उपक्लेशैर् उपक्लिश्यते। न च प्रकृतिः संक्लिश्यते। या च प्रकृतिप्रभास्वरताः। सा असंक्लेशता। या चासंक्लेशता। तत्र प्रतिपक्षो नास्ति। येन प्रतिपक्षेण क्लेशप्रहाणं स्यात्। तत् कस्य हेतोः। न शुद्धः शुध्यति। षुद्ध एव सः। यश् च शुद्धः। सो नुत्पादः। यश् चानुत्पादः। सो ऽनिन्दितः। यश् चानिन्दितः। स नन्दीप्रहाणं तत्र सर्व्वस्नेहान् निरुध्यंते। यत्र सर्व्वस्नेहा निरुध्यन्ते। सो नुत्पादः। यश् चानुत्पादः स बोधिः।

१७
या बोधिः। सा समताः या समता सा तथता तथाताप्रतिष्ठिताश् च सर्व्वधर्माः संस्कृतासंस्कृताश् च या च तथाता न तत्र संस्कृतं नासंस्कृतं। न द्वाप्रज्ञप्तिः। यत्र न संस्कृतं नासंस्कृतं न द्वयप्रज्ञप्तिः। सा तथता या तथता सा अनन्यतथता। या अनन्यतथता सा अविकारतथता। या चाविकारतथता। सा अनागततथता॥ या च अनाग ततथता। सा अवितथता। या च अवितथता। सा यथावत्तथता। या यथावत्तथता। सा न जातुतथता। या न जातुतथता।सा न संकिश्यते। न विरुध्यते या नं संक्लिश्यते। न विरुध्यते। सा नोत्पद्यते। न निरुध्यते।या नोत्पद्यते। न निरुध्यते। सा निर्वाणेन समा। या निर्वाणेन समा सा न संसरति। न परिनिर्वाति। या न सन्सरति। न परिनिर्वाति। सा नातीता नानागता न प्रत्युत्पन्ना। या नातीता नानागता न प्रत्युत्पन्ना। स न हीना न मध्या नोत्कृष्टा। या न हीना न मध्या नोत्कृष्टा सा तथाता। तथता नामोच्यते। तत्वार्थाधिवचनम् एतत् तत्वम् उच्यते। तथात्वं तथत्वम् उच्यते। तथैव तथता चात्मा चाद्वयम् एतद् अद्वैधीकारं। यश् चाद्वयार्थः स बोधिश् चावबोधार्थः।

अर्थ उच्यते। त्रिविमोक्षमुखप्रवेशं ज्ञानं। सर्व्वधर्मनिर्द्देशेषु ज्ञानम् उच्यते। त्र्यध्वसमतावतार सर्व्वधर्मेष्व् असंभेदार्थश् च। सर्व्वधर्माणां। अयम् उच्यते अर्थः। अरुतो ऽनभिलाप्यः। अध्याहारः। व्याहारसमुच्छिन्नः। ज्ञानम् उच्यते। यद् अर्थानुगमज्ञानं विज्ञानानुगमं च इदम् उच्यते ज्ञानं। अर्थ उच्यते। यत् तत्वार्थज्ञानेन विज्ञानानुगमज्ञाने च। नीतार्थता सा एव धर्मता या। या च धर्मता सो ऽर्थः। यार्थानुगमज्ञानेन विज्ञानानुगमज्ञानेन। नीतार्थानुगमज्ञानेन च। धर्मता धर्मस्थितिता धर्मनियामता सा धर्मे ण प्रवर्त्तते। या धर्मस्याप्रवृत्तिः। या चार्थव्यंजनसमता साद्वयार्थे समा। या च समता सो ऽर्थः। सा चार्थज्ञानेन समता सा अद्वयमुखप्रवेशेन ज्ञानसमता। नीतार्थेन नेयार्थसमता समानार्था। सा शून्यता समानार्थेन पुद्गलसमता समा पुद्गलसमतया। धर्मसमता समा। धर्मसमतया विमुक्तिसमता समा। विमुक्तिसमतया चानुबोधो बोधिः।

१८
रूपसंङ्गसंयुक्ताना मञ्जुश्रीश् चक्षुः संगः। रूपचक्षुःप्रकृतिज्ञानम् असङ्गः। दृष्तिशंगसंयुक्तानां स्वकायं संगः। सर्व्वदृष्टिकृतानां स्वकायप्रकृतिशून्यता। ज्ञानम् असङ्गः। अयोनिशोमनस्कारसङ्गसक्तानां धर्मलोक संगः। योनिशोमनस्कारधर्मप्रत्यवेक्षा। प्रकृतिशून्यता। स्वभावशून्यता। ज्ञानम् असंगः। विचिकित्सामलसङ्गसक्तानां मोक्षः संगः। अधिमुक्तिविमुक्तियथाभूतज्ञानम् असङ्गः। कौशीद्यमलसंगसक्तानां अधिगमदृष्टवीर्यता सङ्गः। यथाधर्माणाम् अनुबोधः सङ्गः नीवरणसङ्गयुक्तानां बोध्यङ्गानि सङ्गः। अनावरणज्ञानविमोक्ष संगः। प्रकृतिपरिशुद्धाः सर्व्वधर्माः। हेतुप्रत्ययसा मग्र्या प्रवर्त्तन्ते। तत्र बोधिसत्वेन संक्लेशहेतुः। व्यवदानहेतुश् च परिज्ञातव्यः। संक्लेशहेतुविशुद्ध्या च। व्यवदानविशुद्ध्या च न स्थातव्यं।

आत्मसमुत्थानं च। संक्लेशस्य हेतुः। नैरात्म्यधर्मावतारक्षान्तिर् व्यवदानस्य हेतुः। अहंकारममकारदृष्टि संक्लेशस्य हेतुः। अध्यात्मोपशमो बहिर्वापचारश् च। व्यवदानस्य हेतुः। कामव्यापादविहिन्सावितर्क्कः। संक्लेशस्य हेतुः। अशुभामैत्री। करुणामुदितोपेक्षाप्रतीत्यधर्मावतारक्षान्तिः। व्यवदानस्य हेतुः। चत्वारो विपर्यासाः। संक्लेशस्य हेतुः। चत्वारि सम्यक्स्मृत्युपस्थानानि व्यवदानस्य हेतुः। पञ्च नीवरणानि संक्लेशस्य हेतुः। पञ्चेन्द्रियाणि व्यवदानस्य हेतुः। षड् आयतनानि संक्लेशस्य हेतुः। षड् अनुस्मृतयो व्यवदानस्य हेतुः। सप्तासधर्माः। संक्लेशस्य हेतुः॥ सप्त बोध्यङ्गानि व्यवदानस्य हेतुः। अष्ट मिथ्यात्वानि संक्लेशस्य हेतुः॥ अष्टौ सम्यक्त्वानि व्यवदानस्य हेतुः। नवाघातवस्तूनि संक्लेशस्य हेतुः। नवानुपूर्व्वविहारसमापत्तयो व्यवदानस्य हेतुः। दशाकुशलाः कर्मपथाः संक्लेशस्य हेतुः। दष कुशलाः कर्मपथा व्यवदानस्य हेतुः। संक्षिप्तेन सर्व्वे अकुशला मनस्काराः संक्लेशस्य हेतुः। सर्व्वे कुशलाः मनस्काराः व्यवदानस्य हेतुः।

तत्र यः संक्लेषस्य हेतुः। यश् च व्यवदानस्य हेतुः। सर्व्वे ते धर्माः प्रकृतिशून्याः निःसत्वा निजीवा निष्पोषा निःपुरुषा निःपुद्गलाः। अस्वामिका अपरिग्रहाः। निर्व्यापाराः मायोपमाः। अलक्षणाः। आध्यात्मोपशान्ताः। यश् चाध्यात्मोपशमः। स प्रशमः। यः प्रशमः। सा प्रकृतिने या प्रकृतिः। सो ऽनुपलम्भः। यो ऽनुपलम्भः। सो ऽनिलयः। यश् चानिलयः॥ तत् खं। खं चाकाशं स आकाशसमात् सर्व्वधर्मां प्रजानाति। सम्क्लेशव्यवदानेन च व्यवहरति। न चाकाशधर्मताम् विजहाति। तत् कस्माद् धेतोः। न कश्चिन् मञ्जुश्रीः धर्मः सम्विद्यते। यस्योत्पादो निरोधो वा भवेत्।

१९
मञ्जुश्रीर् आह। तत् कथम् भगवन् तथागतेन बोधिः प्राप्ता भगवान् आह। अमूला अप्रतिष्ठानां मञ्जुश्रीः तथागतेन बोधिः प्राप्ता। मंजुश्रिर् आह। तत्र कतमद् भगवं मूलं कतमत् प्रतिष्ठानं। भगवान् आह। सत्कायो मंजुश्रीर् मूलं अभूतपरिकल्पः प्रतिष्ठानं। तत् तथागतेन मञ्जुश्रीर् बोधिसमतया सर्व्वधर्मसमता ज्ञाता तस्माद् उच्यते। मञ्जुश्रीर् अमूला अप्रतिष्ठाना तथागतेन बोधिर् अभिसंबुद्धेति।

२०
बोधिर् मञ्जुश्रीः शान्ता चोपशान्ता च। तत्र कतमः शमः कतमः उपशमः। अध्यात्मं शमः। बहिर्द्धोपशमः। तत् कस्माद् धेतोः चक्शुर् मञ्जुश्रीः शून्यम् आत्मना चात्मीयेन च। प्रकृतिर् अस्यैषा अयम् उच्यते शम इति। स चक्शुः शून्यम् इति परिज्ञाय रूपेषु न धावति तेनोच्यते। उपशम इति। एवं श्रोत्रं शून्यम् आत्मना चात्मीयेन च प्रकृतिर् अस्यैषा अयम् उच्यते शम इति। स सोत्रं शून्यम् इति परिज्ञाय शब्देषु न धावति। तेनोच्यते। उपशम इति। घ्राणं शून्यम् आत्मना चात्मीयेन प्रकृतिर् अस्यैषा अयम् उच्यते शम इति स घ्राणं शून्यम् इति। परिज्ञाय गन्धेषु न धावति तेनोच्यते। उपसम इति। जिह्वा शून्या आत्मना चात्मीयेन च प्रकृतिर् अस्यैषा तेनोच्यते उपशम इति। स जिह्वा शून्येति परिज्ञाय रसेषु न धावति। तेनोच्यते उपशम इति। कायः शून्यम् आत्मना चात्मीयेन च प्रकृतिर् अस्यैषा अयम् उच्यते शम इति। स कायं शून्यम् इति परिज्ञाय स्प्रष्टव्येषु न धावति। तेनोच्यते उपशम इति। मनो मञ्जुश्रीः शून्यम् आत्मना चात्मीयेन च प्रकृतिर् अस्यैषा अयम् उच्यते सम इति मनः शून्यम् इति परिज्ञाय धर्मेषु न धावति। तेनोच्यते उपशम इति।

२१
बोधिर् मञ्जुश्रीः प्रकृतिप्रभास्वराः। चित्तप्रकृतिप्रभास्वरतया तेन कारणेनोच्यते। प्रकृतिप्रभास्वरेति। या सा प्रकृति सा असंक्लिष्टा आकाशसमा। आकाशप्रकृति आकाशसमवसरणा आकाशोपमा अत्यन्तप्रभास्वरा प्रकृतिः।

२२
बोधिर् मञ्जुश्रीर् अनायूहा। अनिर्यूहा। तत्र कतमः अनायूहता। कतमा ऽनिर्यूहता। अनायूहः। तेनोच्यते। अग्रहः सर्व्वधर्माणां। अनिर्यूहोच्यते। अनुत्सर्गः सर्व्वधर्माणां। तत्र मञ्जुश्रीः तथागतः। अनायूहः। अनिर्यूहः। मोघम् अवतार्षीत्। तथा चावताषीत् यथा तथताया नतेर न पारं समनुपश्यति। इति ह्य् अपारपारविगताः सर्व्वधर्माः तथागतेनाभिसबुद्धा तेन तथागत इत्य् उच्यते।

२३
बोधि मञ्जुश्रीर् अनिमित्तानारम्बणा। तत्र कतामा अनिमित्तता कतमा अनारम्बणता। चक्षुर्व्विज्ञानानुपलब्धिर् मञ्जुश्रीः। अनिमित्तता। रूपस्यासमनुपश्यनता। अनारम्बणता श्रोत्रविज्ञानानुपलब्धिर् अनिमित्तता शब्दाश्रवणता अनारम्बणता घ्राणविज्ञानानुपलब्धिर् अनिमित्तता गन्धाघ्राणता। अनारम्बणता। जिह्वाविज्ञानानुपलब्धिर् अनिमित्तता। रसास्वादनता। अनारम्बणता। कायविज्ञानानुपलब्धिर् अनिमित्तता। स्प्रष्टव्यास्पृशणता अनारम्बणता। मनोविज्ञानानुपलब्धिर् अनिमित्तता। धर्मविज्ञानता अनारम्बणता। अयम् मञ्जुश्रीः आर्याणां गोचरः। यस् त्रैधातुके अगोचरः। अयम् मञ्जुश्रीर् आर्याणां गोचरः।

२४
बोधिर् मञ्जुश्री नातीता नानागता न प्रत्युत्पन्ना। त्र्यध्वसमा त्रिमण्डलपरिच्छिन्ना। तत्र कतमो मञ्जुश्रीः त्रिमण्डलपरिच्छेदः। यद् अतीते चित्तं नोपलभ्यते। अनागते विज्ञानं न धावति। न प्रत्युपन्ने मनस्कारो प्रवर्त्तते। स चित्तमनोविज्ञानाप्रतिष्ठितो न कल्पयति। न विकल्पयति। अनवकल्पयन्न् अविकल्पयन् नातीतं करोत्य् अनागत मन्यते। प्रत्युत्पन्नं न प्रपञ्चयति।

२५
बोधिर् मञ्जुश्री अशरीरा असंस्कृता। तत्राशरीरता मंजुश्रीर् या न चक्षुर्विज्ञानविज्ञेया। न श्रोत्र न घ्राण न जिह्वा न काय न मनोविज्ञानविज्ञेया। यन् मंजुश्रीर् न्न चित्तमनोविज्ञानविज्ञेया। तद् असंस्कृतम् असंस्कृतम् उच्यते। यत्र नोत्पादो न स्थितिर् न व्ययः। तद् उच्यते तृरिमण्डलपरिशुद्धम् असंस्कृतं यथैवासंस्कृतस् तथैवन् संस्कृतं बोद्धव्यं। तत् कस्य हेतोः। सर्वधर्माणां यः स्वभावः स अस्वभावः तत्र नास्ति द्वयम् इति।

२६
बोधिर् मञ्जुश्रीः अभेदपदम् एतत्। तत्र कतमो भेदः कतमत् पदं। असंज्ञा अभेदः। तथता पदं। अप्रतिष्ठानम् अभेदो धर्मधातुः पदं। नानात्वम् अभेदो भूतकोटि पदं। अनिलंभो भेदः। अचलनता पदं शून्यता अभेदः। अनिमित्त पदं अवितर्क्काणां भेदः। अप्रणिहितं पदं अप्रार्थना अभेदः निःसत्वता पदं। सत्वस्वभावो अभेदः। आकाश पदम् अनुपलम्भो भेदः। अनुत्पाद पदं। अनिरोधो भेदः। असंस्कृतं पदं। अप्रचारो भेदः। बोधि पदं व्युपशमो भेदः। निर्वाण पदम् अनभिनिर्वृत्तिर् अभेदः। अजातिः पदं

२७
बोधिर् मञ्जुश्री न कायेनाभिसम्बुध्यते। न चित्तेन तत् कस्माद् धेतोः। जडो कायो मञ्जुश्री निश्चेष्टः अचेतनः। तृणकाष्ठः। कुड्यलोष्टप्रतिभासोपमः। चित्तञ् च मायोपमं रिक्तं तुच्छम् अभूतं। असंस्कृतं यो मंजुश्रीर् एवं कायस्य चित्तस्य चाऽवबोधः। अयम् उच्यते मञ्जुश्रीर् बोधिः व्यवहारम् उपादाया न पुनः परमार्थतः। तत् कस्माद् धेतोर् न मञ्जुश्रीर् बोधिः कायेन वा चित्तेन वा धर्मेण वा अधर्मेण वा भूतेन वा। अभूतेन वा सत्येन वा मृषा वा वचनीया

२८
अवचनीया मञ्जुश्रीर् बोधिः। सर्वधर्मैः तत् कस्माद् धेतोः न मंजुश्रीर् बोधिः किञ्चित् स्थानं येन च व्यवहारं गच्छेत्। यथा मञ्जुश्रीर् आकाशस्थानम् असंस्कृत अनुत्पन्नम् अनिरुद्ध वचनीयं तथा मंजुश्रीर् बोधिः असंस्कृता अस्थाना अनुत्पन्ना अनिरुद्धा अवचनीया यथा मञ्जुश्रीर् भूतं परिगवेष्यमाणं। सर्व्वधर्मैर् अवचनीयं। एवम् एव मंजुश्रीर् बोधिः भूता परिगवेष्यमाणा सर्व्वधर्मैर् अवचनीया तत् कस्माद् धेतोर् न मञ्जुश्रीर् भूते वचनं संविद्यते। अनुत्पन्नोनिरुद्धत्वात्।

२९
बोधिर् मञ्जुश्रीर् अग्राह्या अनालया तत्रमंजुश्रीः कतमा अग्राह्यता। कतमा अनालयता। चक्षुःपरिज्ञा मञ्जुश्रीर् अग्राह्यता रूपानुपलब्धिर् अनालया। श्रोत्रपरिज्ञा अग्राह्या शब्दानुपलब्धिः। अनालयता। घ्राणपरिज्ञार् अग्राह्यता शब्दानुपलब्धिर् अनालयता जिह्वापरिज्ञा अग्राह्यता। रसानुपलब्धिर् अनालयता कायपरिज्ञा अग्राह्यता। एवन् तथागतेनाग्राह्या अनालया बोधिर् अभिसंबुद्धा अभिसंबुध्य चक्षुःषो नुग्रहाया रूपानुपलब्धितश् चक्षुर्विज्ञानं न प्रतिष्ठितं। श्रोत्रानुग्रहाय शब्द-म्-अनुपलब्धितः। श्रोत्रविज्ञानं न प्रतिष्ठितं। घ्राणानुग्रहाय गन्धानुपलब्धितो घ्राणविज्ञानं न प्रतिष्ठितं। जिह्वानुग्रहाय रसानुपलब्धितो जिह्वाविज्ञानं न प्रतिष्ठितं। कायानुग्रहाय स्प्रष्टव्यानुपलब्धितः। कायविज्ञानं न प्रतिष्ठितं। मनोनुग्रहाय। धर्मानुपलब्धितो मनोविज्ञानं न प्रतिष्ठितं। मनोनुग्रहाय। धर्मानुपलब्धितो मनोविज्ञानं न प्रतिष्ठितं। तेनाप्रतिष्ठितविज्ञानस् तथागतो र्हन् सम्यक्सम्बुद्ध इति। संख्यां गच्छति।

चत्वारीमानि मञ्जुश्रीः सत्वानां चित्तप्रतिष्ठानि। कतमानि चत्वारि यद् उत रूपन् सत्वानां चित्तस्य प्रतिष्ठानं। एवम् वेदनासंज्ञासंस्काराः मंजुश्रीः सत्वानां चित्तस्य प्रतिष्ठानं तानि खलु पुनर् इमानि। मञ्जुश्रीः चत्वारि चित्तस्य प्रतिष्ठानानि। तथागतेन अनुत्पन्नान्य् अनिरुद्धानीति ज्ञातानि।

३०
बोधिर् इति। मञ्जुश्रीः शून्यतायाः। एतद् अधिवचनं। यया शून्यतया मञ्जुश्रीर् बोधिः शून्या तया शून्यतया मञ्जुश्रीः सर्वधर्माः शून्या ते तथागतेन। यथैव शून्यास् तथैवाभिसंबुद्धाः। न मंजुश्रीः शून्यतया शून्यताभिसंबुद्धाः। अपि तु खलु पुनर् मञ्जुश्रीर् एकनयम् एतद् यद् उत शून्यता वा बोधिर् वा यत्र मञ्जुश्रीर् न शून्यता। न बोधिः। न तत्र मञ्जुश्री किञ्चि द्वयम्। येन द्वयेन शून्यता वा। बोधिर् व्वा द्विधाक्रियते। तत् कस्माद् धेतोः अद्वया मञ्जुश्रीः सर्व्वधर्मा अलक्षणा अद्वैधीकाराः। अनात्माने निमित्ता। चित्तमनोविज्ञानापगता। अनुत्पन्ना अनिरुद्धाः। अनाचाराः। अप्रचारा असमुदाचाराः। अनक्षराः। अघोषाः।

यत् पुनर् उच्यते। मञ्जुश्री शून्यम् इति। अनभिनिवेशग्राहस्यैतद् अधिवचनं। न पुनर् अत्र मञ्जुश्रीः परमार्थतः। कश्चिद् धर्म उपलभ्यते। यः शून्यम् इत्य् उच्यते। यथा मञ्जुश्रीर् आकाशसम् आकाश इत्य् उच्यते। अवचनीयम् आकाशम् एवम् एव मंजुश्रीः शून्यं शून्यम् इत्य् उच्यते। अवचनीयेषु शून्येषु प्रवेशः। सर्व्वधर्माणां अनामका मंजुश्रीस् सर्व्वधर्मानाम् अतश् च व्याक्रियंते। न मञ्जुश्रीर् न्नाम न देशस्थं तथाभिसंबुद्धाः तथागतेन। नाम्ना यो धर्मो भिलप्यते सो पि धर्मो न देशस्थो न प्रदेशस्थो एवम् एते मञ्जुश्रीः सर्व्वधर्मास् तथागतेन ज्ञाता आदित एवाजाता ऽनुत्पन्ना अनिरुद्धाः। अलक्षणाः चित्तमनोविज्ञानापगताः। अनक्षराः। अघोषाः। यथा ज्ञातास् तथैवाधिमुक्ताः। न मञ्जुश्रीर् बुद्धाधिमुच्यते।

३१
बोधिर् मञ्जुश्रीर् आकाशसमा। आकाशं च न समं न विसमं। बोधिर् अपि न समा न विषमा। तत् कस्माद् धेतोः। यस्य मञ्जुश्रीः धर्मस्य न भूतापरिनिःपत्ति नासौ समो ना विषमो वा वक्तव्य इति हि मञ्जुश्रीस् तथागतेन सर्व्वधर्माः समाः। अविषमाः। अभिसंबुद्धाः। तथा चाभिसंबुद्धा। अथा अणुर् अपि न समीकृतो न विषमीकृतः। यादृशा एव ते धर्माः तादृशा एव विज्ञाताः। भूतज्ञानेन कतमच् च मंजुश्रीः सर्व्वधर्माः अनुत्पन्नानिरुद्धाः अभूत्वा भवन्ति। अभूत्वा च प्रति विगच्छन्ति। ते चास्वामिकाः। अपरिग्रहा सम्भवन्ति। अस्वामिका अपरिग्रहाश् च मञ्जुश्रीः प्रति विगच्छन्ति। इति हि मंजुश्रीः सम्भवन्ति। विभवन्ति च। प्रतीत्यधर्मे वर्त्तन्ते। न चात्र कश्चिद् वर्त्तयिता। तद् उच्यते धर्मोपच्छेदाय तथागतो धर्मन् देशयतीति।

३२
बोधिर् इति मंजुश्रीर् यथावत्। पदम् एतत्। तत्र मंजुश्रीः कतमद् यथावत्पदं। मञ्जुश्रीर् बोधिः यथा बोधिस् तथा रूपं। तथता न व्यतिवर्त्तते। यथा बोधिस् तथा वेदनासंज्ञासंस्काराः विज्ञानन् तथता न व्यतिवर्त्तते। यथा बोधिस् तथा पृथिवीधातुस् तथता न व्यतिवर्त्तते। यथा बोधिम् अप्धातुस् तेजोधातुस् तथता न व्यतिवर्त्तन्ते। यथा बोधिस् तथा चक्षुर्धातुः रूपधातुः। चक्षुर्विज्ञानधातुः। तथाता न व्यतिवर्त्तते। यथा हि मञ्जुश्रीर् बोधिस् तथा श्रोत्रधातुः। शब्दधातुः। श्रोत्रविज्ञानधातुः। घ्राणधातुः। गन्धदातुः। घ्राणविज्ञानधातुः। जिह्वाधातुः। रसधातुः। जिह्वाविज्ञानधातुः। कायधातुः। स्प्रष्टव्यधातुः। कायविज्ञानधातुः। मनोधातु धर्मधातुर् मनोविज्ञानधातुः तथतान् न व्यतिवर्त्तन्ते। एतावती चेयं धर्मप्रज्ञप्तिः। यदुत स्कन्धधात्वायतनप्रज्ञाप्तिः। सा तथागतेन यथावदभिसंबुद्धा यथैव पूर्व्वात् तथा पश्चात् तथा मध्ये पूर्व्वान्ततो जाता अपरान्ततो संक्रान्ता। मध्यो विविक्ता। एवम् एवैषां यथावत्पदं भवति। यथैकस् तथा सर्वे यथा चैकः न चात्र मञ्जुश्रीः। एकत्वम् वा बहुत्वं चोपलभ्यते।

३३
बोधिर् मञ्जुश्रीर् आकारप्रविशेन अनकारप्रच्विष्टा। तत्र मञ्जुश्री कतमः आकारः। कतमश् चानाकारः। आकारो मंजुश्रीर् उच्यते आरम्भः। सर्व्वेषां कुशलानां धर्माणां अनाकार उच्यते अनुपलम्भः। सर्व्वेशान् धर्माणां आकार उच्यते। अनवस्थितस्य चित्तस्यावस्थानं अनाकार उच्यते। अनिमित्तः समाधि विमोक्षमुखं आकार उच्यते चित्तनान्तलनागणनाप्रत्यवेक्षाविमोक्षः सर्व्वधर्माणां अनाकार उच्यते॥ तुलासमतिक्रमः। कतमश् च तुलासमतिक्रमः। यत्र विज्ञानकर्मन् नास्ति आकार उच्यते। संस्कृतप्रत्यवेक्षा। अनाकार उच्यते। असंस्कृतप्रत्यवेक्षा।

३४
बोधिर् मञ्जुश्रीर् अनाश्रवा। अनुत्पादा। तत्र मञ्जुश्रीः कतम अनाश्रवः कतमा अ अनुपादानता॥ अनाश्रवता मंजुश्रीर् उच्यते। चतुर्ण्णाम् आश्रवाणां विगमः। कतमेषां चत्रुण्णां यदुत कामाश्रवस्य अविद्याश्रवस्य। दृष्ट्वाश्रवस्य च। एषाञ् चतुर्ण्णाम् आश्रवाणाम् अनुपादानता उच्यते। चतुर्ण्णाम् उपादानानां विगमः। कतमेषां चतुर्ण्णां। कामोपादानस्य दृष्ट्युपादानस्य शीलव्रतपरामर्शोपादानस्य। आत्मवादोपादानस्य च। एषाञ् चतुर्ण्णाम् उपादानानां। सर्व्वाण्य् अविद्यया अन्धीकृतानि। तृष्णायालालपितानि। अन्योन्याभिनिवेश्योपादियन्ते। तत्र मञ्जुश्रीस् तथागत आत्मवादोपादानमूलपरिज्ञातावी आत्मविशुद्ध्या। सर्वस्त्वविशुद्धिम् अनुपगतो या चात्मविशुद्धिः। सा सर्व्वसत्वविशुद्धिः। या सर्व्वसत्वविशुद्धिः। अद्वैषाः। अद्वैधीकारा। यश् चाद्वयार्थः। सो नुत्पादानिरोधः।

अनुत्पादानिरोधे मंञ्जुश्रिः चित्तमनोविज्ञानं न प्रवर्त्तते। तत्र न कश्चित् परिकल्पः॥ येन विकल्पो अयोनिशो मनसि कुर्यात्। स योनिशो मनस्कारप्रवृत्तः। अविद्यां न समुत्तहापयति। यच् चाविद्याया असमुत्थानं। तत् द्वादशानां भवांगानाम् असमुत्थानं। यत् द्वादशानां भवांगानाम् असमुत्थानं। सा अजातिः। या च अजातिः। स नियामः। यो नियामः। स नीतार्थः। स परमार्थः। यः परमार्थः। स निःपुद्गलार्थः। यो निःपुद्गलार्थः। सो नभिलाप्यार्थः। यश् चानभिलाप्यार्थः। स प्रतित्यसमुत्पादार्थः। यः प्रतीतसमुत्पादार्थः स धर्मार्थः यो धर्मार्थः स तथागतार्थः। तेनोच्यते। यः प्रतीत्यसमुत्पादं पश्यति। स धर्मं पश्यति। यो धर्मं पश्यति। स तथागतं पश्यति। तथा च पश्यति। यथा परिगवेष्यमाणो न किञ्चित् पश्यति। तत्र मंजुश्री कतमत् किञ्चिनं यदुत चित्तम् आरम्बणं च स यदा न चित्तन् न चारम्बणं पश्यति। तदा भूतम् पश्यति। एवम् एते धर्मास् तथागतेन सम्बुद्धाः। समतया समा

३५
बोधिर् मञ्जुश्रीः शुद्धाः। विमला अनङ्गणास् तत्र मञ्जुश्रीः कतमा शुद्धिः। कतमद् विमलं। कतमद् अनङ्गणं। शून्यता मञ्जुश्रीः शुद्धिः। आनिमित्तं विमलं। अप्रणिहितम् अनङ्गणं। अजातिः शुद्धिः अनभिसंस्कारो विमलं। अनुत्पादो नगणं प्रकृतिविशुद्धिः। परिशुद्धिः विमलं। प्रभास्वरता अनङ्गणं। अप्रपञ्चशुद्धिः। निप्रपञ्चो विमलं। प्रपञ्चव्युपशमो नङ्गणं। तथता विशुद्धिः। धर्मधातुर् विमलं। भूतकोटिर् अनंगणं। आकाशं शुद्धिः। गगनं विमलं खं अनङ्गणं अध्यात्म परिशुद्धिः। बहिर्द्धाप्रचारो विमलं। अध्यात्मबहिर्द्धा चानुपलब्धिः अनङ्गणं। स्कन्धपरिज्ञा शुद्धिः। धातुस्वभावो धिविमलम् आयतनानाम् अपकर्षो नङ्गणम् अतीते क्षयज्ञानं शुद्धिः। अनागते नुत्पादज्ञानं विमलं प्रत्युत्पन्ने धर्मधातुःस्थितिं अनङ्गणं।

इति हि मञ्जुश्रीः शुद्धि विमलम् अनंगणं। इति एकपदेस्मिं समवसरन्ति। यदुत शान्तपदे यच् छान्तं प्रशान्तं यदुत् प्रशान्तम् तद् उपशान्तं। यद् उपशान्तं स उपशमं यश् चोपशमः स मुनिर् इत्य् उच्यते इति। हि मञ्जुश्रीर् यथाकाशं तथा बोधिः। यथा बोधिस् तथा धर्माः। यथा धर्मास् तथा सत्वाः। यथा सत्वास् तथा क्षेत्राणि। यथा क्षेत्राणिस् तथा निर्वाणं। तेनोच्यते मंजुश्री निर्वाणसमाः। सर्व्वधर्माः। निष्ठापर्यन्तकारणे अप्रतिपक्षः। निःप्रतिपक्षकारणेन आदिशुद्धाः॥॥ आदिविमलाः।आद्यनङ्गणाः। तत्र मंजुश्रीस् तथागतस्यैवंरूपाः सर्व्वधर्मान् अभिसंबुद्धस्य सत्वानां च धातुं व्यवलोकयतः। शुद्धा विमला अनङ्गणाः। विक्रीडिता नाम सत्वेषु महाकरुणा प्रवर्त्तते।

३६
कथं मंजुश्रीर् बोधिसत्वश् चरति। बोधिसत्वचर्यायां। यदा मञ्जुश्रीर् बोधिसत्वः न क्षयाय नोत्पादाय नाक्षयाय नानुत्पादाय अन्यत्क्षीणक्षयाय च मन्यते। अत्यन्तानुत्पादञ् च न विकोपयति। एवञ् च मञ्जुश्रीश् चरति। बोधिसत्वचर्यायां। पुनर् अपरं मञ्जुश्रीर् बोधिसत्वः। अतीतं चित्तं क्षीणम् इति न चरति। अनागतं चित्तं असंप्राप्तम् इति न चरति प्रत्युत्पन्नं चित्तम् अस्थितम् इति न चरति। न चातीतानानागतप्रत्युत्पन्नेषु चित्तेषु सज्जति। एवञ् चरन् मञ्जुश्रीर् बोधिसत्वश् चरति बोधिसत्वचर्यायां।

दानं मंजुश्रीर् बोधि सत्वाश् च तथागतश् चाद्वयम् एतद् अद्वैधीकारं। एवञ् चरं बोधिसत्वश् चरति। बोधिसत्वचर्यायां। शीलं मञ्जुश्रीः बोधि सत्वाश् च। तथागताश् चाद्वयम् एतद् अद्वैधीकारं। एवं चरम् बोधिसत्वश् चरति बोधिसत्वचर्यायां। एवं क्षान्ति बोधिः सत्वाश् च तथागतश् च वीर्यम् बोधि सत्वाश् च तथागतश् च वीर्यं। ध्यानम् बोधिः। सत्वाश् च तथागतश् च एवं प्रज्ञा बोधिः। तथागतश् च सत्वाश् चाद्वयम् एतद् अद्वैधीकारं। एवंञ् चरन् मंजुश्रीर् बोधिसत्वश् चरति बोधिसत्वचर्यायां। सचेन् मंजुश्रीर् बोधिसत्वो न्न रूपं शून्यम् इति चरति नाशून्यम् इति। एवं चरं मंजुश्रीर् बोधिसत्वश् चरति बोधिसत्वचर्यायां। तत्कस्माद् धेतोः। रूपम् एव शून्यं रूपस्वभावेन। एवं वेदनासंज्ञासंस्काराविज्ञानं शून्यम् इति। चरति नाशून्यम् इति। एवं चरं मंजुश्रीर् बोधिसत्वश् चरति। बोधिसत्वचर्यायां। तत् कस्माद् धे<<तो>>ः चित्तंमनोविज्ञानानुपलब्धित्वात्।

स न कश्चिन् मञ्जुश्रीर् द्वमो विद्यते। यस्य परिज्ञानं वा प्रहाणम् वा भावना वा। साक्षात्क्रिया वा भवेत्। यो सा मंजुश्रीर् बुध्यते। क्षय इति। अन्तक्षय एवासौ यश् चात्यन्ततत्क्षीणः। न स क्षपयितव्यः। अक्षेयक्षीयत्वात्। अक्षयस् तत् कस्माद् धेतोः। यथा च क्षयः। स यश् च यथावत् क्षयः स न कस्यचित् क्षयः। यस्य कस्यचित् क्षयः तद् असंस्कृतं यद् असंस्कृतं। तत्र नोत्पादो न निरोधः। तेनोच्यते। उत्पादाद् वा तथागतानाम् अनुत्पदाद् वा। स्थितैवैषा धर्मता धर्मस्थितिता। धर्मधातुर् यथा धर्मधातुस्थिति। तथागतज्ञानन् न प्रवृत्तन् न निवृत्तं। इदृशेन धर्मनयप्रवेशेन आश्रवा नोत्पद्यन्ते। न निरुध्यन्ते। आश्रवक्षय इति मञ्जुश्रीर् व्यवहाररुताक्षरसङ्केतप्रज्ञप्तिर् एषा नात्र कश्चिद् धर्म उत्पद्यते वा निरुध्यते वा।

३७
अथ खलु मंजुश्रीः कुमाभूतः उत्थायासनाद् एकासम् उत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणम्याभिर् भगवतम् अभ्यष्टावीत्।

अवर्ण्णलिङ्गसंस्थान अनिरोध असम्भव।
अमूल अप्रतिष्ठान निरालम्ब नमो स्तु ते। १

अप्रतिष्ठ अनायूह अनियूहानवस्थिताः।
षडायतनविनिर्मुक्त निरालम्ब नमो स्तु ते २

अस्थितः सर्व्वधर्मेषु भावाभावविवर्ज्जितः।
संस्कारसमताप्राप्त निरालम्ब नमो स्तु ते। ३

त्रैधातुकविनिमुक्त आकाशसमतां गतः।
नोपलेप्यसि कामेषु निरालम्ब नमो स्तु ते। ४

सदा समाहितश् चासि गच्छतश् चासि गच्छन् तिष्ठं स्वयन्न् अपि
ईर्यापथेषु सर्व्वेषु निरालम्ब नमो स्तु ते। ५

समं क्षेषि समं यासि समतायां प्रतिष्ठितः।
समतां न विकोपेसि निरालम्ब नमो स्तु ते। ६

समतां च समापन्नः सर्व्वधर्मसमाहितः।
आनिमित्तसमापन्न निरालम्ब नमो स्तु ते। ७

अप्रतिष्ठित निरालम्ब प्रज्ञाकूटसमाहितः।
धर्मैस्वर्यम् अनुप्राप्त निरालम्ब नमो स्तु ते। ८

सर्व्वसत्वान ये रूपा रुतघोषस् तथैर्यता।
एकक्षणेन देशेसि निरालम्ब नमो स्तु ते।९

नामरूपविनिर्मुक्त स्कन्धहेतुसमुच्छिदः।
अनाकारप्रवेशो सि निरालम्ब नमो स्तु ते। १०

निमित्तापगश् चासि निमित्तकारवरिजितः।
आनिमित्तप्रवेशो सि निरालम्ब नमो स्तु ते। ११

अविकल्पतसंकल्प अप्रतिष्ठितमानसः।
अस्मृत्य् अमनसीकारः निरालम्ब नमो स्तु ते। १२

अनालयं यथाकाशं निःप्रपञ्चं निरञ्जनं।
आकाशसमचित्तो सि निरालम्ब नमो स्तु ते। १३

अनन्तमध्यम् आकाशं बुद्धानां चैव धर्मता।
त्र्यध्वसमतिक्रान्त निरालम्ब नमो स्तु ते। १४

आकाशलक्षणा बुद्धा आकाशञ् चाप्य् अलक्षणं।
कार्यकारणनिर्मुक्त निरालम्ब नमो स्तु ते। १५

दकचन्द्रवद् अग्राह्य सर्व्वधर्मैष्व्व् अनिश्रितः।
अनहंकार-म्-अनिर्घोषा निरालम्ब नमो स्तु ते। १६

अनिश्रितो सि स्कन्धेषु धातुष्व् आयतनेषु च।
विपर्यासविनिर्मुक्त निरालम्ब नमो स्तु ते। १७

अन्तद्वयविनिर्मुक्त आत्मदृष्टिसमुच्छिदः।
धर्मधातुसमताप्राप्तः निरालम्ब नमो स्तु ते।१८

रूपसंख्याविनिर्मुक्तः असद्धर्मविवर्जितः।
अनुपादान आत्याग निरालम्ब नमो स्तु ते। १९

मारदोषसमतिक्रान्तः। धर्मधातुं गतिंगतः।
अनावरणधर्मो सि निरालम्ब नमो स्तु ते। २०

आस्तीति नोच्यते ऽर्थज्ञैः नास्तीत्य् अपि तु नोच्यसि।
अवाक्पथ अनादान निरालम्ब नमो स्तु ते। २१

द्वयधर्म अनिश्रित्य मानध्वजसमुच्छिदः।
द्वयाद्वयविनिर्मुक्त निरालम्ब नमो स्तु ते। २२

जितास् ते मानसा दोषाः शारीराश् चतुर्विधाः।
अचिन्त्य विगतौपम्य निरालम्ब नमो स्तु ते। २३

अनाभोगप्रवृत्तो सि सर्व्वदोषविवर्जितः।
ज्ञानपूर्व्वण्गमा चेष्ता निरालम्ब नमो स्तु ते।२४

अनाश्रवा ते स्मृतिः सूक्ष्मा भूताभूतेषु तन्मया।
अनिकेत असङ्कल्प निरालम्ब नमो स्तु ते। २५

अनारम्बणेन चित्तेन सर्व्वचित्तां प्रजानसि।
न चात्मपरसंज्ञा ते निरालम्ब नमो स्तु ते।२६

अनारम्बणम् अनालम्ब सर्व्वचित्तान मोहन।
अनारम्बणधर्मो सि निरालम्ब नमो स्तु ते।२७

अनारम्बणं च तच्चित्तं स्वभावेन न विद्यते।
अचिन्त्य समताप्राप्त निरालम्ब नमो स्तु ते। २८

अनिश्रितेन ज्ञानेन सर्व्वक्षेत्राणि पश्यसि।
सर्व्वसत्वचरिं चैव निरालम्ब नमो स्तु ते। २९

चित्तन् न लब्धं बुद्धेहि अत्यन्ताप कदाचन।
सर्व्वधर्मा च सर्व्वज्ञ निरालम्ब नमो स्तु ते।३०

मायोपमाः सर्व्वधर्माः माया चैव न विद्यते।
मायाधर्मविनिर्मुक्त निरालम्ब नमो स्तु ते। ३१

लोके चरसि संबुद्ध लोकधर्मैर् अनिश्रित।
लोकं न च विकल्पो सि निरालम्ब नमो स्तु ते। ३२

शून्ये चरसि शूयत्वाच् छून्यत्वां च्छून्यगोचरः।
शून्यञ् च शून्यम् आख्यासि निरालम्ब नमो स्तु ते। ३३

विकुर्व्वसि महारिध्या मायोपमसमाधिना।
निर्न्नानात्वं समापन्न निरालम्ब नमो स्तु ते। ३४

अनेकत्व अनानात्व दूरासन्ने न वर्त्तसे।
अनुक्षेप अनिक्षेप निरालम्ब नमो स्तु ते। ३५

एकक्षणे भिसंबुद्ध वज्रोपमसमाधिना।
निराभाससमापन्न निरालम्ब नमो स्तु ते। ३६

अचलं वेत्सि निर्वाणं सत्र्यध्वसु नायक।
विविधोपायसम्पन्न निरालम्ब नमो स्तु ते। ३७

पारम्पर्येण सत्वानाम् उपायज्ञानकोविदः।
अचलम् वेत्सि निर्वाणं निरालम्ब नमो स्तु ते।३८

निर्निमित्त निराभोग निःप्रपञ्च निरामय।
निराभास निरात्मैक निरालम्ब नमो स्तु ते। ३९

निर्विकल्पो निरात्मीय यथैवात्मानम् आत्माना।
वेत्सि सर्व्वज्ञ सर्व्वत्र निरालम्ब नमो स्तु ते। ४०

३८
वन्दामि त्वां दशबल ओघतीर्ण्णां
वन्दामि त्वां अभयददा विशारदा
धर्मेषु आवेणिकनिश्चयण् गताः।
वन्दामि त्वां सर्व्वजगस्य नायकं॥ १

वन्दामि संयोजनबन्धनच्छिदं
वन्दामि त्वां पारगतं स्थूले स्थितं।
वन्दामि त्वां खिन्नजगस्य नायकं
वन्दामि सन्सारगत-म्-अनिश्रितं। २

वन्दामि सत्वसमाधानविगतं गतीषु।
सर्वासु जातीसु विमुक्तमानसं।
जले रुहम् वा सलिलैर् न लिप्यसे
निषेविता ते मुनिर् बुद्ध शून्यता। ३

विवेकता शास्तृपदं निरुत्तरम्
वन्दे निरालम्ब महौघतीर्ण्णं।
विभाविता सर्व्वनिमित्त सर्व्वशो
न ते कहिंचित् प्रणिधानु विद्यते। ४

अचिन्तियं बुद्ध महानुभावम्
वन्दामि आकाशसमं ऽनिश्रितं।
वन्दामि ते सर्व्वगुणाग्रधारि
वन्दामि त्वां मेरुन् इवोद्गतश्रियं॥॥ ५

३९
अथ खलु भगवां मङ्जुश्रिये कुमारभूताय साधुकारम् अदात्। साधु साधु मञ्जुश्री सुभाषितं। ते मंजुश्रीर् एवम् एव मंजुश्रीर् न बुद्धा रूपतो द्रष्टव्या। न धर्मतो न लक्षणतो। न धर्मधातुतो न बुद्धा एकाकिनो न महाजनमध्यगता। न बुद्धा केनचिद् दृष्टाः। न श्रुता न पूजिता। न पूज्यन्ते न बुद्धा कस्यचिद् धर्मस्य एकत्वम् वा बहुत्वम् वा कुर्व्वन्ति। न बुद्धैर् बोधिः प्राप्ता। न बुद्धाः। केनचिद् धर्मेन प्रभाव्यन्ते। न बुद्धैः कश्चिद् धर्मो दृष्टः। न श्रुतो न स्मृतो न विज्ञातः। नाज्ञातः न बुद्धैर् भाषितं। नोदाहृतं। न बुद्धाः भाषन्ति नोदाहरन्ति। न बुद्धाः भाषिष्यन्ति नोदाहरिष्यन्ति। न बुद्धा अभिसंबुध्यन्ति। न बुद्धैः कश्चिद् धर्मो भिसम्बुद्धः न बुद्धानां क्लेशाः प्रहीणाः। न व्यवदानन् साक्षात्कृतं न बुद्धैः कश्चिद् धर्मो दृष्टः। न श्रुतो नाघ्रातो न विज्ञातः। तत् कस्य हेतोः। आदिपरिशुद्धत्वात् सर्व्वधर्माणां।

४०
१ यः कश्चिन् मञ्जुश्रिर् बोधिसत्वः त्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमां सत्वां प्रत्येकजिनत्वे स्थापयेद् इदं धर्मपर्याय नाधिमुक्तः। यो चान्ये मंजुश्रीर् बोधिसत्वः। इमन् धर्मपर्यायम् अधिमुच्येद् अयन् ततो बहुतरं पुण्यं प्रसवति। कः पुनर् वादो य इमं धर्मपर्यायं लिखेत्। लेखापयेद् वा। अयम् एव ततो बहुतरं पुण्यम् प्रसवति।

२ यावन्तो मंजुश्रीर् बोधिसत्वः त्रिसाहस्रमहासाहस्रे लोकधातौ सत्वाः सम्विद्यन्ते। अण्डजा वा जरायुजा वा संस्वेदजा वा। ओपपादुका वा रूपिणो वा अरूपिणो वा। संज्ञिनो वा असंज्ञिनो। अपदा वा। द्विपदा वा। चतुःपदा वा। बहुपदा वा। सर्वे ते परिकल्पम् उपादाय। अपूर्वाचरिमं मानुष्यकम् आत्मभावं प्र <<ति>> लभेयुः। मानुष्यकम् आत्मभावं प्रतिलभ्य बोधिचित्तम् उत्पादयेयुः। बोधिचित्तम् उत्पाद्य एकैको बोधिसत्वः। गंगासिकतासंख्येयानाम् बुद्धक्षेत्रपरमाणुरजःसमानां बुद्धानां बोधिसत्वानां सश्रावकाणां चिवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिस्कारैः। उपतिष्ठेत् सर्व्वसुखोपधानानि चोपसंहरेत्। गंगासिकतासंख्येयां कल्पान् तेषाञ् च परिनिर्वृतानाम् स्तुपानि कारयेत्। रत्नमयानि योजनशतोच्छ्रितानि। रत्नवेदिकापरिवृतानि। मणिमुक्तारत्नदामकृतशोभानि। उच्छ्रितच्छत्रध्वजपताकानि। वशिराजमणिरत्नजालसंच्छन्नानि।

यो चान्ये बोधिसत्वः आशयसम्पन्नः। इमन् धर्मपर्यायं सर्व्वबुद्धविषयावतारज्ञानालोकालंकारं श्रुत्वाधिमुच्येद् अवतरेत् पत्तीयेत् परिबुद्धेद् अन्तश एकाम् अपि गाथाम् उद्दिशेद् अयन् ततो संख्येयतरं पुण्यं प्रसवेद् बुद्धज्ञानानुगमन् संवर्त्तकं। अस्य पुण्याभिसंस्कारस्य स पूर्व्वकः पुण्याभिसंस्कारस्य सर्व्वपूर्व्वकः पुण्याभिसंस्कारः। तेषां बोधिसत्वानां दानमयम् पुण्यक्रियावस्तु शततमाम् अपि कलान् नोपैति। सहस्रतमाम् अपि कोटीशतसहस्रतमाम् अपि। कलाम् अपि गणनाम् अपि उपमाम् अपि निषदम् अपि नोपैति।

४१
१ यः कश्चिन् मञ्जुश्रीः गृहीत्वा बोधिसत्वः। गंगासिकतासंख्येयां बुद्धां बोधिसत्वाम् श्रावकसंघ गंगासिकतासंख्येयाण् कल्पां चीवरपिण्डपातशयनाशनग्लानप्रत्ययभैषज्यपरिस्कारैः। उपतिष्ठेद् यो चान्यः प्रव्रजितो बोधिसत्वः। शीलवान् आशयसम्पन्नः। अन्तशो यो तिर्यग्योनिगते पि सत्वो एकस्याप्य् आलोपं दद्यात् तस्य पुण्याभिसंस्कारस्य पूर्व्वकः पुण्याभिसंस्काराः। शततमाम् अपि कलान् नोपैति। सहस्रतमाम् अपि कोटीशतसहस्रतमाम् अपि। कोटीनियुतसहस्रतमाम् अपि। यावद् उपनिषदम् अपि न क्षमते।

२ सचेन् मञ्जुश्रीस् त्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमा बोधिसत्वा प्रव्रजिती शीलवन्तः आशयशुद्धाः। ततः एकैकः बोधिसत्वो गंगानदीसिकतासंख्येयां बुद्धाम् बोधिसत्वाम् सश्रावकसंघां चीवरपिण्डपातशयनाशनग्लानप्रत्ययभैषज्यपरिस्कारैर् उपतिष्ठेत्। गण्गानदीसिकतासंख्येयां कल्पां यस् तेषां बोधिसत्वानां पुण्याभिसंस्कारो भवेद् दानमयः। यो वान्यो बोधिसत्वः। आशयशुद्धो शीलंवा गृही वा प्रव्रजितो वा। इमन् धर्मपर्यायं श्रुत्वाधिमुच्येत् पत्तीये वा ल्लिखेत लेखापयेद् वा। अस्य पुण्याभिसंस्कारस्य स पूर्व्वकः पुण्याभिसंस्कारः। तेषां बोधिसत्वानां दानमय शततमीम् अपि कलान् नोपैति। सहस्रतमीम् अपि। यावद् उपनिशाम् अपि न क्षमते।

३ सचेन् मंजुश्रीर् बोधिसत्वो महासत्वस् त्रिसाहस्रमहासाहरं लोकधातुं सप्तरत्नपरिपूर्ण्णां कृत्वा बुद्धेभ्यो भगवद्भ्यः। दानं दद्याद् एवं ददन् त्रिसाहस्रमहासाहस्रो लोकधातुः परमाणुरजःसमान् कल्पान् दानन् दद्यात्। यो वान्यो बोधिसत्वः इमान् धर्मपर्यायान्तशश्चतुष्यादिका गाथा बोधिसत्वस्य देशयेद् अश्यपुण्याभिसंस्कारस्य स पूर्व्वकः पुण्याभिसंस्कारः। शततमाम् अपि कलान् नोपैति। सहस्रतमाम् अपि सतसहस्रतमाम् अपि कोटीशतसहस्रतमाम् अपि। यावद् उपनिशाम् अपि न क्षमते।

४ तिष्ठन्तु तावन् मंजुश्रीः त्रिसाहस्रमहासाहस्रो लोकधातुपरमाणुरजःसमान् कल्पान् दानं ददतः पुण्याभिसंस्कारः। सचेन् मंजुश्रीः गंगसिकतासंख्येया बोधिसत्वा भवेयुः। तत एकैको बोधिसत्वो गंगासिकतासंख्येयानि बुद्धक्षेत्राणि जाम्बूनदसुवर्ण्णमयानि सर्व्ववृक्षाश् च दिव्यैर् वस्त्रैः परिवेष्टयित्वा सर्व्वप्रभासमुच्चयमणिरत्नजालसंच्छन्नानि कृत्वा वशिराजमणिरत्नमयैः कूटागारैः। विद्युत्प्रदीपमणिरत्नवेदिकापरिवृतैः। परिपूर्ण्णां कृत्वा उच्छ्रितच्छत्रध्वजपताका गङ्गानदीसिकतासंख्येयेभ्यो बुद्धेभ्यः दिवसे दिवसे दानन् दद्याद् एवं ददङ् गङ्गासिकतासंख्येयां कल्पां दानन् दद्यात्। यो वान्यो बोधिसत्वः। इमन् धर्मपर्यायम् अधिमुच्यान्यस्य बोधिसत्वस्य इतो धर्मपर्यायाद् अन्तशः एकाम् अपि चतुःपदिकां गाथां देशयेद् अवतारयेद् वास्य पूर्व्वकः पुण्याभिसंस्कारः। तेषां बोधिसत्वानां दानमयः। शततमाम् अपि कलान् नोपैति सहस्रतमाम् अपि शतसहस्रतमाम् अपि। संख्याम् अपि कलाम् अपि। गणनाम् अपि उपनिशाम् अपि यायद् उपनिषदम् अपि नोपैति।

४२
१ तद्यथा मंजुश्रीः त्रैधातुकपर्यापन्ना सर्व्वसत्वाः नरकतिर्यक् प्रेतयमलोकोपपन्ना भवेयुः। अथ गृहीता बोधिसत्वः तां सर्वान् नरकतिर्यक्प्रेतयमलोकाद् उद्धृत्य प्रत्येकबुद्धत्वे प्रतिष्ठापयेत्। यो वान्यो बोधिसत्वः प्रव्रजितः। अन्तश तिर्यग्योनिगते पि सत्वे एकम् आलोपन् दद्यात्। अयन् ततो बहुतरम् असंख्येयतरं पुण्यं प्रसनुयात्।

२ सचेन् मंजुश्रीर् द्दशसु दिक्षु बुद्धक्षेत्रानभिलाप्यकोटीनियुतशतसहस्रपरमाणुरजःसमाः प्रव्रजिताः बोधिसत्वा भवेयुः। ततः एकैको बोधिसत्वो दशसु दिक्षु एकैकस्मिन् दिग्भागे दशबुद्धक्षेत्रानभिलाप्यकोटीनियुतशतसहस्रपरमाणुरजःसमां बुद्धां भगवतः पश्येद् एकैकं च तथागतं सबोधिसत्वं सश्रावकं दशसु बुद्धक्षेत्रानभिलाप्यकोटीनियुतशतसहस्रपरमाणुरजःसमां कल्पां चीवरपिण्डपातशयनाशनग्लानप्रत्ययभैषज्यपरिष्कारैर् उपतिष्ठेद् एकैकस्य च तथागतस्य दिवसे दिवसे बुद्धक्षेत्रानभिलाप्यकोटीनियुतशतसहस्रपरमाणुरजःसमा लोकधातवो वशिराजमणिरत्नप्रतिपूर्ण्णां कृत्वा दानन् दद्यात्। यो वान्यो बोधिसत्वः। अस्मिन् धर्मपर्याये धिमुक्तः। अन्तशः तिर्यग्योनिगते पि सत्वे एकम् आलोपन् दद्याद् अस्य पुण्याभिसंस्कारस्य पूर्व्वकः पुण्याभिसंस्कारः तेषाम् बोधिसत्वानान् दानमयः शततमाम् अपि कलान् नोपैति सहस्रतमाम् अपि शतसहस्रतामाम् अपि संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपनिशाम् अपि। उपनिषदम् अपि न क्षमते। तत् कस्य हेतोर् अवैवर्त्तिकानां बोधिसत्वानाम् इयं मुद्रा यदुतास्य धर्मपर्यास्य श्रवः।

४३
१ सचेन् मंजुश्रीर् बोधिसत्वो दशसु दिक्षु सर्व्वलोकधातुषु सत्वान् श्रद्धानुसारित्वे प्रतिष्ठापयेद् यो वान्यो बोधिसत्वः। एकं सत्वं अर्थानुसारित्वे प्रतिष्ठापयेत्। अयन् ततो असंख्येयतरं पुण्यं प्रसवति।

२ सचेन् मञ्जुश्रीर् बोधिसत्वो दशदिक्षु सर्व्वलोकधातुषु सर्व्वसत्वान् अर्थानुसारित्वे प्रतिष्ठापयेद् यो वान्यो बोधिसत्वो एकैकं बोधिसत्वं धर्मानुसारित्वे प्रतिष्ठापयेत्। अयन् ततो असंख्येयतरं पुण्यं प्रसवति।

३ सचेन् मञ्जुश्रीर् बोधिसत्वः दशसु दिक्षु सर्व्वलोकधातुषु सत्वाः। धर्मानुसारित्वे प्रतिष्ठापयेद् यो वान्यो बोधिसत्वः। एकसत्वं श्रोतापत्तिफले प्रतिष्ठापयेद् अयन् ततो असंख्येयतरं पुण्यं प्रसवति।

४ सचेन् मंजुश्रीर् बोधिसत्वः दशसु दिक्षुः सर्वलोकधातुषु सर्वे सत्वा श्रोत-आपत्तिफले प्रतिष्ठापयेद् यो वा बोधिसत्वः एकं सत्वं सकृदागामिफले प्रतिष्ठापयेत्। अयन् ततो असंख्येयतरं पुण्यं प्रसवति।

५ __________________

६ सचेन् मञ्जुश्रीर् बोधिसत्वः कश्चिद् बोधिसत्वो दशसु दिक्षु सर्व्वलोकधातुषु सर्व्वसत्वानागामिफले प्रतिष्ठपयेत्।

७ एवं अर्हत्वे यो वान्यो बोधिसत्वः। एकन् सत्वं प्रत्येकबुद्धत्वे प्रतिष्ठापयेत्। अयन् ततो असंख्येयतरं पुण्यं प्रसवति।

८ सचेन् मंजुश्रीर् बोधिसत्वः। कश्चिद् बोधिसत्वो दशसु दिक्षु सर्व्वलोकधातुषु सर्व्वसत्वां बोधिचित्ते प्रतिष्ठापद् यो वान्यो बोधिसत्वः एकन् सत्वम् बोधिचित्ते प्रतिष्ठापयेत् अयन् ततो असंख्येयतरं पुण्यं प्रसवेत्।

९ सचेन् मञ्जुश्रीर् बोधिसत्वो दशसु दिक्षु सर्व्वलोकधातुषु सत्वानाम् बोधिचित्ते प्रतिष्ठापयेत्। यो वान्यो बोधिसत्व एकैकं बोधिसत्वं अवैवर्त्तिकत्वे प्रतिष्ठापयेत् अयन् ततो बहुतरं पुण्यं प्रसवेत्।

१० सचेन् मंजुश्रीर् बोधिसत्वः सर्व्वसत्वान् अवैवर्त्तिकत्वे प्रतिष्ठापयेद् यो वान्यो बोधिसत्वः। इमन् धर्मपर्यायम् अधिमुक्तः लिखापयित्वा परेभ्यो विस्तरेण संप्रकाशयेद् अन्तशः। एकसत्वम् अप्य् अस्मिं धर्मपर्यायेद् अवतारयेत्। अयन् ततो बहुतरं पुण्यं प्रसवेत्।

४४
अथ खलु भगवांस् तस्याम् वेलायाम् इमा गाथा अभाषत्।
यो बोधिसत्वो दशबुद्धकोटीनां
सद्धर्मं धारयेत्। क्षयान्तकाले
सूत्रं च यो अन्यः शृणुयात्। सगौरवाद्
इमं ततः पुण्यमहान्तं विशेषयेत्। १

यो बुद्धकोटीदश पूजयेत्।
ऋध्या समाक्रम्य दशासु दिक्षु
वन्दापयेत्। स पुरुषांश् च सर्वां।
कृत्वा कृपां सर्व्वसुखेष्व् अगृद्धः। २

यश् चेयं सूत्रं जिनधर्मसूचकम्
परस्य देशेत मुहूर्त्तकं पि।
प्रसन्नचित्तः सुगतस्य शासने
इदन् ततः पुण्यफलं विशिष्यते। ३

संदर्श्य सूत्रं सुगतप्रवेदितं
प्रदीपभूतं मरुमानुषाणां।
स तीक्ष्णप्रज्ञश् च महाबलश् च।
बुद्धान भूमिं लभते च शीघ्रं। ४

कायं श्रुणित्वा सुगतानम् ईदृशं।
संश्रावयेद् यश् च द्वितीयसत्वे।
तेषाञ् च बुद्धान् नरोत्तमानां।
परिनिर्वृतानां निरुपाधिशेषे ५

स्तूपां प्रतिष्ठापय उच्चशोभना।
भवाग्रपर्यन्तसुरत्नचित्रां
च्छत्रैः पताकैः तथ घण्ठाशब्दैः।
परिणाहवन्ते हि यथा भवाग्रं॥ ६

इच्छे त्व् अयः कश्चिद् इह बोधिः।
सूत्रं श्रुणित्वा इम एवरूपं।
काये प्रतिष्ठापयि पुस्तके वा
ईदन् ततः पुण्यफलम् विशिष्यते॥ ७

यो बोधिसत्वो इमु धर्मु धारयेद्
अपनीतमाच्छर्यमलो विशारदः।
पुण्यन् भवेत् तस्य हि अप्रमेयं।
लभेत बोधिञ् च यथेप्सितेना। ८

इदं हि सूत्रं सुगतैः प्रशस्तं
परिगृहीतम् बहुबोधिसत्वैः।
तथागतानाम् इह-म्-आत्मभावः
आकाशधात्वे हि सर्वे दर्शितं॥॥ ९

४५
इदम् अवोचद् भगवान् आत्तमनाः आर्यमंजुश्रीर् बोधिसत्वः। ते च दशदिगनन्तापर्यन्ताशेषलोकधातुसन्निपतिता बोधिसत्वा महासत्वेति च महाश्रावकाः सदेवमानुषासुरगन्धर्व्वश् च लोको भगवतो भाषितम् अभ्यनन्दन्न् इति॥॥
आर्यसर्व्वबुद्धविषयावतारज्ञानालोकालंकार नाम महायानसूत्रं समाप्तम्॥॥

ये धर्मा हेतुप्रभवा हेतुं तेषान् तथागतो ह्य् अवदत्
तेषाञ् च यो निरोध एवम्वादी महाश्रवणः॥

देयधर्मो यं प्रवरमहायानयायिनः भिक्षुशिलध्व॥॥ जस्य च हत्र पुण्यं तद् भवत्व् आचार्योपाध्यायमातापितृपूर्व्वंगमं कृत्वा सकलसत्वरासेर् अनुत्तरज्ञानफलावाप्तय इति॥

महाराजाधिराजश्रीमद्गोपालदेवराज्ये सम्वत् १२ श्रामणदिने ३० लिखितम् इदं उपस्थायकचाण्डोकेनेति॥ श्री॥

Ms. repeats.

महाप्रज्ञतस्य निरुक्तिलक्षणं॥ अनिरोधम् अनुत्पादं कथम् एष निगद्यते। दृष्टान्तैर् हेतुभिश् चैव कथयस्व महामुने॥ समागते मे वद्भ बोधिसत्वा ज्ञानार्थिनः त्वां च वि भो भिवन्दितुं। संप्रेषिता लोकविनायकेभिः। देशेहि सर्धर्म्मम् उद्र्आरम् उत्तमं॥ एवम् उक्ते भगवान् मञ्जुश्रीयं कुमारभूतम् एतद् अवोचत्। साधु साधु मंजुश्रीः साधु खलु पुनस् त्वं तथागतम् एतम् अर्थं परिप्रष्टव्यं मन्यसे। बहुजनहिताय य त्वं मञ्जुश्रीः प्रतिपन्नो बहुजनसुखाय लोकानुकपायै महतो जनकायस्यार्थाय हिताय सुखाय देवानाञ् च मनुष्याणाञ् च एतर्हि अनागतागतानाञ् च बोधिसत्वानां महासत्वानां बुद्धभूमिप्रापणार्थं। अनुत्रासस् ते मञ्जुश्रीर् रश्मिस्थाने योगः करणीयो न भयन् न स्तम्भित्वं। ज्ञानप्रतिसरणे न च ते मंजुश्रीर् भवितव्यं। तथागतस्यैतम् अर्थन् निर्द्दिशतः। अनुत्पादो ऽनिरोध इति मञ्जुश्री तथागतस्यैतद् अधिवचनं। तद्यथा मंजुश्रीर् इयं संदृश्येत्। अथ तस्मिन् समये देवाः सर्व्वजम्बुद्वीपकाः। स्त्रीपुरुषदारकदारिकाः संचोदयेयुः। आगच्छथ भो नरनार्यः। पश्यते मं शक्रन् देवानाम् इन्द्रं वैजयन्ते प्रासादे दिव्यैः पञ्चभिः कामगुणैः क्रीडन्तं रमन्तं परिवारयन्तं। आगच्छथ भो नरनारिगणाः।

दानानि ददतः पुण्यानि कुरुत। शिलञ् च समादाय वर्त्तयत्। ईदृशेषु वैजयन्तेषु प्रासादेषु क्रीडिष्यथ। रमिष्यथ। परिवारयिष्यथ। शक्रत्वानि च करिष्यथ। इदृश्या चरिध्या समन्वागता भविष्यथ। यादृश्या च शक्रो देवानाम् इन्द्रो दिव्यैः परिभोगैः समर्पितः समं त्वं गीभूत इति। अथ मञ्जुश्रीस् ते स्त्रीपुरुषदारक-दारिकास् तस्यां वैडूर्यमय्यां महापृथिव्यां त्रयस्त्रिंशद्भवनस्य वैजयन्तस्य प्रासादस्य शक्रस्य देवानाम् इन्द्रस्य प्रतिभासं दृष्ट्वा अञ्जलिप्रगृहं कुर्युः। पुष्पाणि च क्षित्यरं गन्धांश् च क्षित्यरन्न् एवं वाचं भाषन्ते। वयम् अप्य् एवं रूपा भवेम यादृशः। शक्रो देवानाम् इन्द्रो वयम् अप्य् एवं वैजयन्ते प्रासादे क्रीडेम रेमेम परिवारयेम यथायं शक्रो देवानाम् इन्द्र इति॥ न च ते सत्वा एवं संजानन्ति स्म। प्रतिभासो यं वैडूर्यमय्यां महापृथिव्यां यत्र त्रयस्त्रिंशद्भवनं वैजयन्तश् च प्रासादः। शक्रश् च देवानाम् इन्द्रः परिशुद्धः मेहावैडूर्यस्य प्रतिभासः। संदृश्यत इति। ते शक्र त्वम् अभिनन्दन्तो दानानि च ददति पुण्यानि च कुर्व्वन्ति। शीलञ् च समादाय वर्त्तन्ते। तत्र च त्रयस्त्रिंशद्भवने प्रतिभास उपपत्तये कुशलमूलानि च परिणामयन्ति। यथा मञ्जुश्री
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project