Digital Sanskrit Buddhist Canon

आर्यसंघाट सूत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Āryasaṁghāṭa sūtram

आर्यसंघाट सूत्रम्

(स्वस्तिः॥) नमः सर्वबुद्धबोधिसत्त्वेभ्यः॥



<1> एवं मया श्रुतमेकस्मिन् समये भगवान् राजगृहे विहरति स्म। गृद्ध्रकूटे पर्वते महता भिक्षुसंघेन। सार्धं



<2> द्वाविंशतिभिर्भिक्षुसहस्रैः तद्यथा आयुष्मता चाज्ञातकौण्डिन्येन। आयुष्मता च महामौद्गल्यायेन। आयुष्मता च शारद्वतीपुत्रेण। आयुष्मता च महाकाश्यपेन। आयुष्मता च राहुलेन। आयुष्मता च बक्कुलेन। आयुष्मता च भद्रवासेन। आयुष्मता च भद्रश्रिया। आयुष्मता च नन्दश्रिया। आयुष्मता च जाङ्गुलेन। आयुष्मता च सुभूतिना। आयुष्मता च रेवतेन। आयुष्मता च नन्दसेनेन। आयुष्मता चानन्देन। एवंप्रमुखैर्द्वाविंशतिभिर्भिक्षुसहस्रैः।



<3> द्वाषष्टिभिश्च बोधिसत्त्वसहस्रैः तद्यथा मैत्रेयेण च बोधिसत्त्वेन महासत्त्वेन। सर्वशूरेण च बोधिसत्त्वेन महासत्त्वेन। कुमारश्रिया च बोधिसत्त्वेन महासत्त्वेन। कुमारवासिना च बोधिसत्त्वेन महासत्त्वेन। कुमारभद्रेण च बोधिसत्त्वेन महासत्त्वेन। अनूनेन च (नाम) बोधिसत्त्वेन महासत्त्वेन। मंजुश्रिया च कुमारभूतेन बोधिसत्त्वेन महासत्त्वेन। समन्तभद्रेन च बोधिसत्त्वेन महासत्त्वेन। सुदर्शनेन च बोधिसत्त्वेन महासत्त्वेन। भैषज्यराजेन च बोधिसत्त्वेन महासत्त्वेन। (वज्रसेनेन च बोधिसत्त्वेन महासत्त्वेन।) एवंप्रमुखैर्द्वाषष्टिभिर्बोधिसत्त्वसहस्रैः



<4> द्वाषष्टिभिश्च देवपुत्रसहस्रैः तद्यथा अर्जुनेन च देवपुत्रेण। भद्रेण च देवपुत्रेण। सुभद्रेण च देवपुत्रेण। धर्मरुचिना च देवपुत्रेण। चन्दनगर्भेण च देवपुत्रेण। चन्दवासिना च देवपुत्रेण। चन्दनेन च देवपुत्रेण। चन्दनसेनेन च देवपुत्रेण। एवंप्रमुखैर्द्वाषष्टिभिर्देवपुत्रसहस्रैः॥



<5> अष्टाभिश्च देवकन्यासहस्रैः तद्यथा मृदंगिन्या च देवकन्याया। प्रासादवत्या च देवकन्याया। महात्मसंप्रयुक्तया च देवकन्याया। वर्षश्रियाया च देवकन्याया। (पद्मश्रियाय च देवकन्याया।) प्रजापतिवासिन्या च देवकन्याया। बलिन्या च देवकन्याया। सुबाहुयुक्तया च देवकन्याया। एवंप्रमुखैरष्टाभिर्देवकन्यासहस्रैः



<6> अष्टाभिश्च नागराजसहस्रैः तद्यथा अपलालेन च नागराज्ञा। एलपत्रेण च नागराज्ञा। तिमिङ्गिलेन च नागराज्ञा। कुंभसारेण च नागराज्ञा। कुंभशीर्षेण च नागराज्ञा। सुनन्देन च नागराज्ञा। सुशाखेन च नागराज्ञा। गवशीर्षेण च नागाराज्ञा। एवंप्रमुखैरष्टाभिर्नागराजसहस्रैस्



<7> ते सर्वे येन राजगृहं महानगरं येन गृद्ध्रकूटः पर्वतो येन च भगवांच्छाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धस्तेनोपसंक्रामदुपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिष्प्रदक्षिणीकृत्य भगवतः पुरतस्तस्थिरे।



<8> एतदवोचन् देशयतु भगवां धर्मं देशयतु सुगतः धर्मं यं श्रुत्वास्मे क्षिप्रमनुत्तरा सम्यक्संबोधिमभिसंबुद्ध्येम येन च सर्वसत्त्वानां कर्मावरणक्षयो भवेयात्) भगवांश्च तूष्णीभावेनाधिवासयति स्म।



<9> अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्वः उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिस्थाप्य येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमेतदवोचत्



<10> बह्व्यो भगवन् देवकोट्योप्सरकन्याकोट्यो बोधिसत्त्वकोट्यः बह्व्यो भगवंच्छ्रावककोट्यः सन्निपतिताः सन्निषण्णा धर्मश्रवणाय। तत्साधु भगवन् तेषां यथासन्निपतितानां (सन्निषण्णानां) तथागतोऽर्हन् सम्यक्संबुद्धस्तथारूपं धर्मनयप्रवेशं देशयतु। यथैषां स्याद्दीर्घरात्रमर्थाय हिताय सुखाय देवानां च मनुष्यानां च यथारूपेण धर्मनयप्रवेशेन देशितेन वृद्धानां सत्त्वानां सह श्रवणेनैव सर्वकर्मावरणानि चैषां परिक्षयं गच्छेयुः दहराश्च सत्त्वाः कुशलेषु धर्मेष्वभियुज्यमाना विशेषामधिगच्छेयुर्न हीयेरन्न परिहीयेरन् कुशलैर्धर्मैः॥



<11> एवमुक्ते भगवान् सर्वशूरं बोधिसत्त्वं महासत्त्वमेतदवोचत् - साधु साधु सर्वेशूर साधु खलु पुनस्त्वं सर्वशूर यस्त्वं तथागतमर्हन्तं सम्यक्संबुद्धमेतमर्थं परिप्रष्टव्यं मन्यसे। तेन हि त्वं सर्वशूर शृणु साधु च सुष्ठु च मनसिकुरु................. ते।



<12> एवं भगवन्निति सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवतः प्रव्यश्रौषाद्।



<13> भगवन् अस्यैतदवोचत् अस्ति सर्वशूर [(सद्धर्मपर्यायो। येन धर्मपर्यायेण सर्वसत्वानां पंचानन्तर्याणि कर्मावरणनि क्षयं ...................। तथान्ये च कर्मावरणानि क्षयं गच्छन्ते। क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धयंतेःकतरो भगवं सद्धर्मपर्यायः



<14> भगवानाहः) संघाटो नाम धर्मपर्याय। य एतर्हि जम्बुद्वीपे प्रचरिष्यति। यः कश्चित् सर्वशूरेमं संघाटं धर्मपर्यायं श्रोष्यति। तस्य पञ्चानन्तर्याणि कर्माणि परिक्षयं यास्यन्ति। अवैवर्तिकाश्च भविष्यन्त्यनुत्तरायां सम्यक्संबोधौ।



<15> तत्किं मन्यसे सर्वशूर य इमं संघाटसूत्रं धर्मपर्यायं श्रोष्यति। यथैकस्य तथागतस्य [सत्कारं कृत्वा] पुण्यस्कन्धस्तथा तावन्तं पुण्यस्कन्धः स सत्त्व प्रसविष्यतीति। नैवं सर्वशूर द्रष्टव्यं।



<16> सर्वशूरो बोधिसत्त्व आह। यथा कथं पुनर्भगवन् द्रष्टव्यं।



भगवानाह। यथा गंगानदीबालुकासमानां तथागतानां अर्हतां सम्यक्संबुद्धानां (सत्कारं कृत्वा) पुण्यस्कन्धस्तावन्तं सर्वशूर ते सत्वाः पुण्यस्कन्धं प्रसविष्यन्ति। ये सर्वशूर इमं संघाटं धर्मपर्यायं श्रोष्यन्ति ते सर्वे अवैवर्तिका भविष्यन्ति (अनुत्तरस्यां सम्यक्संबोधेः)। सर्वे च तथागतं द्रक्ष्यन्ति। सर्वे च तथागतदर्शाविनो भविष्यन्ति। सर्वे चानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते। अधृष्याश्च भविष्यन्ति मारेन पापीमता। ते च सर्वे तदेव कुशलधर्ममनुप्राप्स्यन्ति। ये सर्वशूर इमं संघाटसूत्रं श्रोष्यन्ति। ते सर्वे उत्पादनिरोधं ज्ञास्यन्ति।



<17> अथ ते सर्वे (यथासन्निपतिता बोधिसत्त्वा महाश्रावका) देवनागमनुष्याप्सरकन्याकोट्यस्तेन कालेन तेन समयेनोत्थायासनेभ्यः एकांसान्युत्तरासंगानि कृत्वा दक्षिणानि जानुमण्डलानि पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनांजलयः प्रणमय्य (ते सर्वे) भगवन्तं परिपृच्छन्ति स्म। कियन्तं भगवन्नेकस्य तथागतस्य (सत्कारं कृत्वा) पुण्यस्कन्धः



<18> भगवान् आह। शृणु कुलपुत्रा; एकस्य बुद्धस्य पुण्यस्कन्धस्य प्रमाणं तद्यथा महासमुद्रे उदकबिन्दवः यावन्तो जंबुद्वीपे परमाणवः यथा गंगानदीबालिकासमाः सत्त्वास्ते सर्वे दशभूमिप्रतिष्ठिता बोधिसत्त्वा भवेयुः यच्च तेषां बोधिसत्त्वानां पुण्यस्कन्धमतो बहुतरं पुण्यस्कन्धमेकस्य बुद्धस्य (पुण्यस्कन्धम्)। अतश्च ते सर्वशूर सत्त्वा बहुतरं पुण्यस्कन्धं प्रसविष्यन्ति य इमं संघाटं धर्मपर्यायं श्रोष्यन्ति। यावन्न शक्यं गणनायोगेन तस्य पुण्यस्कन्धस्य पर्यन्तमधिगन्तुं। यस्य सर्वशूर तस्मिन् काले तस्मिन् समये एतद् वचनं श्रुत्वा महानुत्साहो भविष्यति स एवमप्रमेयं पुण्यस्कन्धं प्रसविष्यति।



<19> अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - कतमे ते भगवन् सत्त्वा ये धर्मपरितृषिता भविष्यन्ति। एवमुक्ते भगवान् सर्वशूरं बोधिसत्त्वं महासत्त्वमेतदवोचत् - द्वाविमौ सर्वशूर सत्त्वौ धर्मपरितृषितौ। कतमौ द्वौ। यदुतैकः सर्वशूर सर्वसत्त्वसमचित्तः द्वितीयः सर्वशूर यो धर्मं श्रुत्वा सर्वसत्त्वानां समं प्रकाशयति (इमौ द्वौ धर्मपरितृषितौ)।



<20> सर्वशूरो बोधिसत्त्व आह - कतमं भगवन् धर्मं श्रुत्वा सर्वसत्त्वानां समप्रकाशना; भगवान् आह - एकः सर्वशूर धर्मं श्रुत्वा बोधाय परिणामयंति। यदा च बोधाय परिणामयति तदा सर्वसत्त्वा धर्मपरितृषिता भविष्यन्ति। द्वितीयस्सर्वशूर यो महायानमवगाहयति स नित्यं धर्मपरितृषितो भवत्।



<21> अथ ते देवनागमनुष्याप्सरसकोट्य उत्थायासनाद् भगवतः पुरतः प्रांजलयो भूत्वा भगवन्तमेतदवोचन् वयं भगवन् धर्मपरितृषिताः परिपूरयतु भगवान् अस्माकं सर्वसत्त्वानां चाशा।



<22> अथ खलु भगवांस्तस्यां वेलायां स्मितं प्रादुष्चकारः अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्व उत्थायासनाद्येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमेतदवोचत् - को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुष्करणाय।



<23> अथ खलु भगवान् सर्वशूरं बोधिसत्त्वं महासत्त्वं आमन्त्रयामास। ये सर्वशूर सत्त्वा इहागत्वा ते सर्वे अनुत्तरां सम्यक्संबोधिमभिसंबुद्ध्यन्ते। सर्वे ते तथागतगोचरपरिनिष्पत्तये परिनिष्पद्यन्ते।



<24> सर्वशूरो बोधिसत्त्व आह - को भगवन् हेतुः कः प्रत्ययः यदेते सत्त्वा इहगत्वानुत्तरां सम्यक्संबोधिमभिसंबुद्ध्यन्ते भगवानाह - साधु साधु सर्वशूर यस्त्वं तथागतमेतमर्थं परिप्रष्टव्यं मन्यसे। तेन हि सर्वशूर शृणु। इह सर्वशुर परिणामनविशेषो द्रष्टव्यः।



<25> भूतपूर्वं सर्वशूरातीतेऽध्वन्यसंख्येयैः कल्पैर्यदापि तेन कालेन तेन समयेन रत्नश्रीर्नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोको उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्।



<26> तेन खलु पुनः सर्वशूर कालेनाहं माणावको भूवन् ये सत्त्वाः सांप्रतं मया बुद्धज्ञाने प्रतिष्ठपितास्ते सर्वे तेन कालेन तेन समयेन मृगा अभूवन् तेन च कालेन तेन समयेनाहमेवं प्रणिधानमकार्षीद् ये केचिन् मृगाः सांप्रतं दुःखेन परिपीडिताः एते सर्वे मम बुद्धक्षेत्र उपपद्येरन् सर्वांश्च तानहं बुद्धज्ञाने प्रतिष्ठापयेयं ते च मृगास्तद्वचनं श्रुत्वा एवं वाचमभाषन्त - एवं भवतु; तेन सर्वशूर कुशलमूलेनैते सत्त्वा इहगत्वानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते॥



<27> अथ खलु सर्वशुरो बोधिसत्त्वो महासत्त्वो भगवतोऽन्तिकात्तदुत्साहं श्रुत्वा भगवन्तमेतदवोचत् - कियन्तं भगवंस्तेषां सत्त्वानां आयुष्प्रमाणं भविष्यति। भगवान् आह। चतुरशीतिः कल्पसहस्राणि तेषां सत्त्वानामायुष्प्रमाणं भविष्यति।



<28> सर्वशूरो बोधिसत्त्व आह - कियन्तं भगवन् कल्पस्य प्रमाणं।

भगवान् आह - शृणु कुलपुत्र। तद्यथापि नाम सर्वशूर कश्चिदेव पुरुषो नगरं कारयेद्द्वादशयोजनायामविस्तारं ऊर्ध्वेन त्रीणि योजनानि प्रमाणं। तच्च नगरं तिलफलकैः परिपूर्णं कुर्यात् (स च पुरुष शिरजीवी स्यात्) अथ स पुरुषो वर्षशतस्यात्ययात्ततस्तिलफलकैः परिपूर्णान्नगराद् एकं तिलफलकं बहिर्निक्षिपेदनेन पर्यायेण स पुरुषः सर्वाणि तानि तिलफलकानि क्षयं कुर्यात् पर्यवदानं कुर्यात् तच्च नगरममूलमप्रतिष्ठानां भवेन्न चाद्यापि च कल्पं क्षीयेत॥



<29> पुनरपरं सर्वशूर (अपरां ते उपमा करिष्याम्यस्यैवार्थस्य प्रसिद्धये।) तद्यथापि नाम पर्वतो भवेत् पंचविंशद् योजनानि प्रमाणेन द्वादश योजनान्यूर्ध्वेन। अथ कश्चिदेव पुरुषस्तस्य पर्वतस्य पार्श्वे गृहं कारयेत् स दीर्घस्याध्वनो वर्षशतस्यात्ययेन काशिकेन वस्त्रेणैकवारा परिमार्जयेदेवं कृत्वा तस्य पर्वतस्य क्षयो भवेन्न च कल्पं क्षीयेत। एतत्सर्वशूर कल्पस्य प्रमाणं।



<30> अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्व उत्थायासनाद् (एकांसमुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनांजलिं प्रणाम्य) भगवन्तमेतदवोचत् - एकपरिणामनया भगवन्नेवं बहु पुण्यस्कन्धं प्रसवति। यदुताशीतिः कल्पान् सुखमायुष्प्रमाणं भविष्यति। कः पुनर्वादो यस्तथागतशासने बहुतरमधिकारं करिष्यति। तस्य कियन्तमायुष्प्रमाणं भविष्यति।



<31> भगवान् आह - शृणु कुलपुत्र य इमं संघाटं सूत्रं श्रोष्यति। तस्य चतुरशीतिः कल्पसहस्राण्यायुष्प्रमाणं भविष्यति। कः पुनर्वादो यः संघाटं सूत्रं लिखापयिष्यति वाचयिष्यति। स सर्वशूरः सत्त्वो बहुतरं पुण्यस्कन्धं प्रसविष्यति। यः सर्वशूर प्रसन्नचित्तः संघाटं सूत्रमध्याशयेन नमस्करिष्यति स पंचनवति कल्पां जातौ जातिस्मरो भविष्यति। षष्टि कल्पसहस्राणि राजा चक्रवर्ती भविष्यति। दृष्टेव धर्मे सर्वशूर सर्वेषां प्रियो भविष्यति मनापः न स सर्वशूर शस्त्रेण कालं करिष्यति। प्रियो भविष्यति मनापः न स सर्वशूर शस्त्रेण कालं करिष्यति। न विषेण (नोदकेन नाग्नौ) कालं करिष्यति। काखोर्दं चास्य न क्रमिष्यति। मरणकालसमये चरिमनिरोधे वर्तमाने नवति बुद्धाकोट्यः संमुखं द्रक्ष्यति। ते च सर्वशूर बुद्धा भगवन्त आश्वासयन्ति। मा भैः सत्पुरुष त्वया संघाटं सूत्रं महाधर्मपर्यायं सुभाषितं श्रुतं श्रुत्वा इयान् पुण्यस्कन्धः प्रसूतः तेषां पंचनवति बुद्धकोट्यः पृथक् पृथग् लोकधातुषु बुद्धा भगवन्तो व्याकरिष्यन्ति। कः पुनर्वादः सर्वशूर य इमं संघाटसूत्रं महाधर्मपर्यायं सकलसमाप्तं विस्तरेण श्रोष्यति। (लेखयिष्यति वाचयिष्यति भावयिष्यति॥)



<32> अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - अहं भगवन् संघाटसूत्रं महाधर्मपर्यायं श्रोष्यामि। कियन्तं (अहं) भगवन् पुण्यस्कन्धं प्रसविष्यामि।

भगवानाह - यावन्तो गंगानदीबालिकासमानां बुद्धानां भगवतां (सत्कारं कृत्वा) पुण्यस्कन्धस्तावन्तं सर्वशूर स सत्त्वः पुण्यस्कन्धं प्रसविष्यति।



<33> सर्वशूरो बोधिसत्त्व आह - यदहं भगवन् संघाटसूत्रं धर्मपर्यायं शृणोमि नाहं भगवंस्तृप्तिं संजानामि।

भगवान् आह - साधु साधु सर्वशूर यस्त्वं धर्माणां तृप्तिं न संजानानि। अहमपि सर्वशूर धर्माणां तृप्तिं न संजानामि। कः पुनर्वादः सर्वशूर यद् बालपृथग्जनास्तृप्तिं ज्ञास्यन्ति।



<34> यः कश्चित् सर्वशूर कुलपुत्रो वा कुलदुहिता वा महायाने प्रसादं जनयिष्यन्ति। स कल्पसहस्रं विनिपातं न गमिष्यति। पंच कल्पसहस्राणि तिर्यक्षुर्नोपपत्स्यते। द्वादश कल्पसहस्राणि दुर्बुद्धिं स भविस्यति। अष्टादश कल्पसहस्राणि प्रत्यन्तिमे जनपदे नोपपत्स्यते। विंशति कल्पसहस्राणि प्रदानशूरो भविष्यति। पंचविंशत् कल्पसहस्राणि देवलोके उपपत्स्यते। पंचत्रिंशत् कल्पसहस्राणि ब्रह्मचर्यं चरिष्यति। स चत्वारिंशत् कल्पसहस्राणि निष्क्रान्तगृहावासो भविष्यति। पंचाशत् कल्पसहस्राणि धर्मधरो भविष्यति। पंचषष्टिः कल्पसहस्राणि मरणानुस्मृतिं भावयिष्यति। तस्य सर्वशूर कुलपुत्रस्य वा कुलदुहितुर्वा न किंचित् पापकानि कर्माणि संवेत्स्यन्ते। न च तस्य मारः पापीमानवतारं लप्स्यते। न जातु मातुकुक्षावुपपत्स्यते। ये सर्वशूर इमं संघाटं धर्मपर्यायं श्रोष्यन्ति। ते यत्र यत्रोपपत्स्यन्ते तत्र तत्र पंचनवत्यासंख्येयैः कल्पैर्विनिपातं न गमिष्यन्ति। अशीतिः कल्पसहस्राणि श्रुतधरा भविष्यन्ति। कल्पशतसहस्रं प्राणातिपातात् प्रतिविरता भविष्यन्ति नवानवति कल्पसहस्राणि मृषावादात् प्रतिविरता भविष्यन्ति। त्रयोदश कल्पसहस्राणि पिशुनवचनात् प्रतिविरता भविष्यन्ति। दुर्लभास्ते सर्वशूर सत्त्वा य इमन् धर्मपर्यायं श्रोष्यन्ति।



<35> अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्व उत्थायासनाद् एकांसमुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनांजलिं प्रणाम्य भगवन्तमेतदवोचत् - कियन्तं भगवं(स्ते सत्त्वा) अपुण्यस्कन्धं प्रसविष्यति। य इमन् धर्मपर्यायं प्रतिक्षेप्स्यन्ति।

भगवानाह - बहु सर्वशूर सद्धर्मप्रतिक्षेपादपुण्यस्कन्धं प्रसविष्यति।



<36> सर्वशूर आह - कियन्तं भगवन् सत्त्वानां पापकं कर्मस्कन्धं भविष्यति।

भगवानाह - अलमलं सर्वशूर मा मे पापकं कर्मस्कन्धं परिपृच्छः अपि तु सर्वशूर शृणु निर्देक्ष्यामि तेषां सद्धर्मप्रतिक्षेपकानां पापकं अकुशलस्कन्धं। यावन्तं ते पापकमकुशलस्कन्धं प्रतिगृहीष्यन्ति। य इमन् धर्मपर्यायं प्रतिक्षिपन्ति। यश्च सर्वशूर द्वादशगंगानदीबालिकासमानान् तथागतानामर्हतां सम्यक्संबुद्धानामन्तिके दुष्टचित्तमुत्पादयेद्यश्चेमं संघाटसूत्रं प्रतिक्षिपेदयं ततो बहुतरं पापकम् (कुशलस्कन्ध प्रादुर्भविष्यति। अतः सर्वशूर-म्-) अकुशलस्कन्धं प्रसविष्यन्ति। अतस्ते सर्वशूर सद्धर्मप्रतिक्षेपका सत्त्वाः बहुतरमकुशलस्कन्धं प्रसविष्यन्ति ये महायाने आघातचित्तमुत्पादयिष्यन्ति। दग्धास्ते सर्वशूर सत्त्वा दग्धा एव।



<37> सर्वशूर आह - न ते भगवन् सत्त्वा शक्यं मोचयितुं। भगवान् आह - शृणु सर्वशूर; न शक्या मोचयितुं

तद्यथापि नाम सर्वशूर कश्चिदेव पुरुषः कस्यचित् सत्त्वस्य शीर्षंच्छिंद्याद् अथ स पुरुषः केनचिद् भैषज्येन प्रलिंपेन माक्षिकेन वा शर्करया वा। गुडेन वा घृतेन वा तैलेन वा तं शीर्षं प्रलेपयेत् तत्किं मन्यसे सर्वशूर शक्यं स सत्त्वः पुनरप्युत्थापयितुं।



<38> सर्वशूरो बोधिसत्त्व आह - न शक्यं भगवन् न शक्यं सुगत।

भगवान् आह - (एवमेव सर्वशूर न शक्य<<ं>>ते स सत्त्वो मोचयितुं बहुभिरुपायैर्यो महायानस्याघ्[आत]चित्तम् [उ]त्[प्]आदयिति॥)



<39>पुनरपरं सर्वशूर। तद्यथापि नाम द्वितीयः पुरुषो भवेत् स तीक्ष्णेन शस्त्रेणापरस्य सत्त्वस्य प्रहारं दद्यात् स न शक्नुयादेकप्रहारेण जीविताद्व्यवरोपयितुं। किं चापि सर्वशूर ब्रणमुत्पद्येत। अथ च पुनर्भैषज्ययोगं कर्तव्यं तदा ब्रणात् परिमुच्यते। यदा परिमुक्तो भवति तदा दुःखं स्मरति। अहमिदानीञ्जानामि न कदाचित् पुनः पापकमकुशलं कर्माभिसंस्कारं करिष्यामि।



<40> एवमेव सर्वशूर स सद्धर्मप्रतिक्षेपकः पुरुषो यदा नरके दुःखं स्मरति तदा सर्वपापं परिवर्जयति। यदा सर्वपापं परिवर्जयति। तदा सर्वधर्मा आमुखीकरिष्यति (यदा) सर्वधर्मा आमुखीकृत्वा (तदा) सर्वकुशलधर्मपारिपूरिङ् करिष्यति। तद्यथापि नाम सर्वशूर मृतस्य पुरुषस्य मातापितरौ शोचन्ति परिदेवन्ति न च शक्नुवन्ति त्रातुमेवमेव सर्वशूर बालपृथग्जनाः सत्त्वा न शक्नुवन्त्यात्महितं परहितं वा कर्तुं निराशा इव मातापितर गता इति। एवमेव सर्वशूर निराशा भवन्ति ते सत्त्वा मरणकालसमये।



<41> द्वाविमौ सर्वशूर सत्त्वानां नैराश्यौ मरणकालसमये। कतमौ द्वौ। यदुतैकः सत्त्वः पापं कर्म करोति कारापयति वा। द्वितीयः सर्वशूर सद्धर्मं प्रतिक्षिपति। इमौ द्वौ सत्त्वानां नैराश्यौ मरणकालसमये।



<42> सर्वशूरो बोधिसत्त्व आह - का भदन्त भगवंस्तेषां सत्त्वानां गतिः कोऽभिसंपरायो भवति।

भगवानाह - अनन्ता गतिः सर्वशूर सद्धर्मप्रतिक्षेपकानां सत्त्वानां अनन्तोऽभिसंपरायः कल्पमेव ते सर्वशूर रौरवे महानरके दुःखं वेदनां वेदयिष्यन्ति। कल्पं संघाते। कल्पं तपने कल्पं प्रतापने। कल्पं कालसूत्रे महानरके। कल्पं महावीचौ महानरके। कल्पं रोमहर्षे महानरके। कल्पं हहे महानरके। (कल्पं तपने महानरके) इमेष्वष्टसु महानरकेषु सर्वशूर अष्टौ कल्पाः सद्धर्मप्रतिक्षेपकैः सत्त्वैर्दुःखमनुभवितव्यम्॥



<43>अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - दुःखं भगवन् दुःखं सुगत नोत्सहामि श्रोतुं।



अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषतः॥



(1) यस्त्वं नोत्सहसे श्रोतुमिदं वाक्यं महाभयम्

नरके यथैकान्तदुःखे सत्त्वा विन्दन्ति वेदनां



(2) यत् करोति शुभं कर्मं सुखं तस्य भविष्यति।

यत्करोत्यशुभं कर्म दुःखमेव भविष्यति।



(3) जातस्य मरणं दुःखं शोकं दुःखोऽथ बन्धनं

नित्यं दुःखं हि बालस्य सुखहेतो न वेत्ति यः



(4) पण्डितानां सुखं यो वै स्मरते बुद्धमुत्तमम्

प्रसन्नाश्च महायाने न ते यास्यन्ति दुर्गतिम्



(5) एवमेव सर्वशूर पूर्वकर्म प्रचोदितं।

अल्पं हि कृयते कर्म अनन्तं भुज्यते फलं।



(6) बीजमल्पं यथा वाप्य प्रभूतं लभते फलं

बुद्धक्षेत्र तु सुक्षेत्रे उप्ताद्बीजाद्महाफलं



(7) पण्डितानां सुखं भवति रमन्ते जिनशासने।

विवर्जयन्ति पापानि कुर्वन्ति कुशलं बहु;



(8) वालमात्रं प्रदास्यन्ति ये दानं मम शासने।

अशीतिः कल्पसहस्राणि महाभोगा महाधनाः



(9) यत्र यत्रोपपद्यन्ते नित्यं दानं स्मरन्ति ते।

एवं महाफला ह्येषा गंभीरा बुद्धदक्षिणाः॥



<44> अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - कथं भगवन् भगवतः शासने धर्मो ज्ञातव्यः कथं भगवन् संघाटं सूत्रं धर्मपर्यायं श्रुत्वा कुशलमूलं परिगृहीतं भविष्यति।

भगवान् आह - यः सर्वशूर द्वादशगंगानदीबालिकासमांस्तथागतानर्हतः सम्यक्संबुद्धान् सर्वसुखोपधानैरुपतिष्ठेत। यश्चेमं संघाटसूत्रं धर्मपर्यायं शृणुयादेवमेव तस्य पुण्यस्कन्धो ज्ञातव्यः।



<45> सर्वशूरो बोधिसत्त्व आह - कथं भगवन् कुशलमूलपरिपूरिः कर्तव्याः

एवमुक्ते भगवान् सर्वशूरं बोधिसत्त्वं महासत्त्वमेतदवोचत् - यत् सर्वशूर कुशलमूलं तत् तथागतसमं ज्ञातव्यं

सर्वशूर आह - कतमच्च भगवन् कुशलमूलं तथागतसमं ज्ञातव्यं।

भगवान् आह - धर्मभाणकः सर्वशूर तथागतसमो ज्ञातव्यः सर्वशूर आह - कतमो भगवन् धर्मभाणकः भगवान् आह - यः संघाटं सूत्रं श्रावयति स धर्मभाणकः



<46> सर्वशूरो बोधिसत्त्व आह - ये भगवन् संघाटसूत्रं धर्मपर्यायं श्रोष्यन्ति। ते ईदृशं पुण्यस्कन्धं प्रसविष्यन्ति। कः पुनर्वादो ये लिखिष्यन्ति (स्वयं वा लिखिष्यन्ति) वाचयिष्यन्ति। कियन्तं ते भगवन् पुण्यस्कन्धं प्रसविष्यन्ति।

भगवान् आह - शृणु सर्वशूर। तद्यथा चतुर्षु दिक्ष्वेकैकस्यान् दिशि द्वादशगंगानदीबालिकासमांस्तथागतान् अर्हतः सम्यक्संबुद्धा द्वादशगंगानदीबालिकासमान् कल्पान् अवतिष्ठन्तो धर्मं देशयेयुरस्य संघाटसूत्रस्य धर्मपर्यायस्य पुण्यस्कन्धं वर्णयेयुर्लेखयतस्तस्य पुण्यस्कन्धस्य न शक्यं पर्यन्तमधिगन्तुं वाचया वा व्याहर्तुं। अष्टाचत्वारिङ्शद्भिरपि गंगानादिबालिकासमैर्बुद्धैर्भगवद्भिर्न शक्यं लिख्यमानस्य यत्पुण्यस्कन्धं तद्व्याहर्तुं कः पुनर्वादो ये वाचयिष्यन्ति चिन्तयिष्यन्ति वा ये वा धर्मध्याना भविष्यन्ति।



<47> सर्वशूरो बोधिसत्त्व आह - कियन्तं भगवन् वाचयमानाः पुण्यस्कन्धं प्रसविष्यन्ति॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषताः॥



(10) चतुष्पदायां गाथायां वाचितायां तु यच्छुभं।

चतुरशीति गंगाया बालिका स्युः समा जिनाः



(11) ते वाचितस्येह यत्पुण्यं कथयेयुरविष्ठिताः

न च क्षीयेत तत्पुण्यं यावद् व्याकरणं भवेत्



(12) बुद्धानां कोटयोऽशीतिस्तिष्ठेयुः कल्पतात्तकान्

महायानगुणाः सर्वे वर्णयेयुर्दशो दिशः



(13) संघाटस्य च यत्पुण्यं तत् क्षयं नैव च व्रजेत्

बुद्धानान् दुर्लभा एवमनन्ता धर्मदेशनाः



<48> तेन खलु पुनः कालेन तेन समयेन चतुरशीतिर्देवपुत्रकोटिशतसहस्राणि येन तथागतो येन च संघाटसूत्रं धर्मपर्यायनिर्देशं तेनांञ्जलयः प्रणाम्य भगवन्तमेतदवोचन् - साधु साधु भगवन् येन भगवता ईदृशं धर्मनिधानं जंबुद्वीपे स्थापितं।



(49) अन्ये चाष्टादश कोटीसहस्राणि निग्रन्थानां येन भगवाम्स्तेनोपसंक्रामनुपसंक्रम्य भगवन्तमेवमाहुः जय भोः श्रमणो गौतम;

भगवानाह - तथागतो नित्यमेव जयति। भो निग्रन्थतीर्थिकाः

कथं युष्माकं तीर्थिकानां जयं

तेऽवोचन् जयतु जयत्वेव श्रमणो गौतम;

भगवानाह - नाहं युष्माकं जयं पश्यामि। आह च -



(14) विपरीता स्थिता यूयं भविष्यति जयः कथं

यूयं शृणुथ निग्रन्था वक्ष्यामि भवतां हितं



(15) बालबुद्धेः सुखं नास्ति किं जयं वो भविष्यति।

दर्शयिष्याम्यहं मार्गं गंभीरं बुद्धचक्षुषाः॥



<50> अथ ते निग्रन्था भगवतोऽन्तिके क्रुद्धा अप्रसादचित्तमुत्पादयामासुः तेन खलु पुनः कालेन तेन समयेन शक्रो देवानामिन्द्रो (तस्यां पर्षदिः सन्निपतितो भूत् सन्निषण्णः स तानन्यतीर्थिकानिग्रन्थां भगवतोऽन्तिके क्रुद्धानभिवीक्ष्य) वज्रं पराहनत्



<51> अथ तेऽष्टादश कोट्यो निग्रन्थानां भीतास्त्रस्ता महाता दुःखदौर्मनस्येनार्ता अस्रुकण्ठा परिदेवन्ति। तथागतश्च स्वकमात्मानमन्तर्धितं दर्शयति स्म।



अथ ते निग्रन्था अस्रुमुखा रुदन्ति तथागतं अपश्यन्तश्च गाथां बभाषिरे।



(16) नास्ति कश्चिदिह त्राणां न माता न पिता तथा।

अतवीमिह पश्याम शून्यागारां निरालयां।



(17) उदकं चैव नैवास्ति न वृक्षा न च पक्षीणाः

जनं चात्र न पश्याम अनाथा दुःखवेदनां



(18) वेदयामो महाघोरामपश्यन्तश्तथागतं

(को नु स्याच्छरणं नाथो येन त्रायेन महाभयात्॥)



<52> तेन खलु पुनः कालेन तेन समयेन तेऽष्टादश कोट्यो निग्रन्थानां उत्थायायनेभ्यो जानुद्वयं भूमौ निपात्य शब्दमुदीरयन्ति घोषमनुश्रावयन्ति।



(19) तथागतः कारुणिकः संबुद्धि द्बिपदोत्तमः

कुरुष्व हितमस्माकं त्रायस्व कृपणं जगत्



<53> अथ भगवान् स्मितं प्रादुष्कृत्वा सर्वशूरं बोधिसत्त्वं महासत्त्वमामन्त्रयति। गच्छ सर्वशूर निग्रन्थानामन्यतीर्थिकानान् धर्मन् देशय।

एवमुक्ते सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - ननु भगवन् कालपर्वताः सुमेरोः पर्वतराजस्य शिरसा प्रणमन्ति। तिष्ठति तथागतेऽहं धर्मन् देशयामि।

भगवान् आह - अलं कुलपुत्र बहु तथागतानामुपायकौशल्यं गच्छ सर्वशूर व्यवलोकय दश दिशि लोकधातून् पश्य क्व तथागतं पश्यसि। कुत्र वा तथागतस्यासनं प्रज्ञप्तं (पश्यसि)। अहमेव सर्वशूर स्वयं निग्रन्थानां अन्यतीर्थिकानां धर्मन् देशयिष्यामि।



<54> सर्वशूरो बोधिसत्त्व आह - कस्य भदन्त भगवन् ऋद्ध्यानुभावेन गच्छामि। स्वऋद्धेर्वा। अथ वा तथागतस्य ऋद्ध्यानुभावेन गच्छामि।

भगवान् आह - स्वकेन सर्वशूर ऋद्धिबलाधिष्ठानेन गच्छः पुनरेव सर्वशूर तथागतस्य ऋद्ध्यानुभावेनागच्छः

अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्व उत्थायासनाद् भगवन्तं प्रदक्षिणिकृत्य तत्रैवान्तर्धितः॥



<55> अथ खलु भगवांस्तेषां अन्यतीर्थिकानां धर्मन् देशयति। जातिर्मार्षा दुःखं जातिरेव दुःखं जातस्य सतो बहूनि भयान्युत्पद्यन्ते। जातस्य व्याधिभयमुत्पद्यते व्याधेर्जराभयमुत्पद्यते। जीर्णस्य मृत्युभयमुत्पद्यते। त आहुः कतमद् भगवाञ्जातस्य भयं



<56> भगवान् आह - जातं जातमिति नाम। जातस्य पुरुषस्य बहूनि भयाणि जायन्ते राजभयं जायते चोरभयं जायते। अग्निभयं जायते। विषभयं जायते। उदकभयं जायते। वायुभयं जायते। आवर्तभयं जायते। स्वकृतानां कर्मणां भयं जायते।

एवं भगवता जातिनिदानं बहुप्रकारं धर्मन् देशयतः



<57> तेन कालेन तेन समयेन तेषामन्यतीर्थिकानां निग्रन्थानां (श्रुत्वा) महासन्त्रासो भवदेवं चाहुः न भूयो वयं भगवन्नुत्सहामहे जतिदुःखमनुभवितुं



<58> अस्मिन् खलु पुनः संघाटे धर्मपर्याये भगवता भाष्यमाणे तेऽष्टादश कोट्यो निग्रन्था अन्यतीर्थिकाः परिनिष्पन्ना अभूवन्ननुत्तरस्याः सम्यक्संबोधेः स्वकाये चाष्टादश बोधिसत्त्वसहस्राः दशमहाभूमिप्रतिष्ठिताः।

सर्वे नानार्धिविकुर्वितानि (स्वकायमनेकप्रकारं) सन्दर्शयामासुः तद्यथा अश्वरूपं। हस्तिरूपं। सिंहरूपं व्याघ्ररूपं गरुडरूपं सुमेरुरूपं नन्दिकरूपं केचिद् वृक्षरूपं। ते सर्वे पद्मासने पर्यंकेन निषीदन्ति।

नव कोटीसहस्राणि बोधिसत्त्वानां भगवतो दक्षिणे पार्श्वे निषीदन्ति। नव कोटीसहस्राणि (बोधिसत्त्वानां) भगवतो वामे पार्श्वे निषीदन्ति। तथागतस्तु नित्यसमाहितः उपायकौशल्येन सत्त्वानां धर्मन् देशयन् संदृश्यते।



<59> यावत् सप्तमे रातृदिवसेन तथागतः पाणितलं प्रसारयति। जानाति च भगवान् यः सर्वशूरो बोधिसत्त्वो महासत्त्वस्तस्याः पद्मोत्तराया लोकधातोरिहागच्छतीति।

यदा च सर्वशूरो बोधिसत्त्वो महासत्त्वो गतस्तदा सप्त रात्रिन्दिवसैस्तां पद्मोत्तरां लोकधातुमनुप्राप्तः स्वऋद्धिबलाधिष्ठानेन। यदा च भगवान् बहुं प्रसारयति। तदा सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवतः पुरत स्थितः भगवन्तं सप्तकृत् प्रदक्षिणीकृत्य भगवतोऽन्तिके चित्तं प्रसादयमानो येन तथागतस्तेनांजलिं प्रणाम्य भगवन्तमेतदवोचत् -



<60> गतोऽस्मि भगवन् दशसु दिक्षु सर्वलोकधातुषु दृष्टानि मे भगवन् नवानवति कोटीसहस्राणि (लोकधातुनां। दृष्टानि च मे भगवन् नवति कोटीसहस्राणि) बुद्धक्षेत्राणामेकया ऋद्ध्याः द्वितीयया ऋद्ध्या बुद्धानां भगवतां कोटीशतसहस्रं।

कोटीशतसहस्रं।



<61> यावत् सप्तमे रातृदिवसे तां पद्मोत्तरां लोकधातुमनुप्राप्तः अत्रान्तरं अक्षोभ्यकोटीसहस्रं बुद्धक्षेत्राणां दृष्टं ततोऽहं तेषां बुद्धानां भगवतामृद्धिं पश्यामि। द्वानवतिषु बुद्धक्षेत्रकोटीनयुतशतसहस्रेषु तथागता धर्मन् देशयन्ति। अशीतिषु कोटीशतसहस्रेषु बुद्धक्षेत्रेषु तत्रैव दिवसे अशीति कोटीशतसहस्राणि तथागतानामर्हतां सम्यक्संबुद्धानां लोक उत्पन्नानि। सर्वांश्च तानहं तथागतान् वन्दित्वा पुनरेव प्रक्रान्तः



<62> तत्रैव दिवसे भगवन्नेकोनचत्वारिंशत्सु बुद्धक्षेत्रकोटीसहस्राण्यतिक्रम्य सर्वेषु च तेष्वेकूनचत्वारिंशत्सु बुद्धक्षेत्रकोटीसहस्रेष्वेकूनचत्वारिंशत् कोटीसहस्राणि बोधिसत्त्वानां निष्क्रम्य तत्रैव दिवसेऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः वन्दिताश्च मे भगवन् ते तथागता अर्हन्तः सम्यक्संबुद्धास्तृगुप्तं प्रदक्षिणीकृत्य ऋद्ध्या चान्तर्धितः



<63> षष्टिकोटिषु भगवन् बुद्धक्षेत्रेषु बुद्धान् भगवतः पश्यामि। वन्दितानि च मे भगवन् तानि बुद्धक्षेत्राणि ते च बुद्धा भगवन्तस्ततश्चाहं प्रक्रान्तं।



<64> अन्येषु च भगवन् कोटीशतेषु बुद्धक्षेत्रेषु तथागताः परिनिर्वायमाणान् पश्यामि। वन्दिताश्च मे ते तथागतास्ततश्चाहं प्रक्रान्तः।



<65> दृष्टं च मे भगवन्नपरेषु पंचनवतिकोटिषु बुद्धक्षेत्रेषु सद्धर्ममन्तर्धायन्तं। चित्तायासो मे भगवंस्तत्र जातः अस्रूणि च प्रमुंचामि। अन्यांश्च रोदमानान् बहून् देवनागयक्षराक्षसान् कामरूपिनश्च महता शोकशल्यसमर्पितान् पश्यामि। एवमपरं बुद्धक्षेत्रं निरवशेषं दग्धं ससमुद्रं ससुमेरुं सपृथिवीप्रदेशं तमपि भगवन् वन्दित्वा निराशीभूतः



<66> प्रक्रान्तोऽस्मि यावदहं भगवन् तां पद्मोत्तरां लोकधातुमनुप्राप्तः तस्यां च भगवन् पद्मोत्तरायां लोकधातौ पंच कोटीशतसहस्राण्यासनानां प्रज्ञप्तान् पश्यामि। दक्षिणस्यान् दिशि कोटीशतसहस्राण्यासनानां प्रज्ञप्तान् पश्यामि। वामेन पार्श्वेन कोटीशतसहस्रमासनानां प्रज्ञप्तान् पश्यामि। पूर्वस्यान् दिशि कोटीशतसहस्रमासनानां प्रज्ञप्तान् पश्यामि। पश्चिमायान् दिशि कोटीशतसहस्रमासनानां प्रज्ञप्तान् पश्यामि। ऊर्ध्वायां दिशि कोटीशतसहस्रमासनानां प्रज्ञप्तान् पश्यामि।



<67> सर्वाणि च भगवन् तान्यासनानि सप्तरत्नमयानि। सर्वेषु च तेष्वासनेषु तथागता अर्हन्तः सम्यक्संबुद्धा निषण्णा धर्मन् देशयन्ति।

तत्राहं भगवन्नाश्चर्यप्राप्तस्तांस्तथागतान् अभिवन्द्य परिपृच्छामि। किन्नामेयं भगवन् लोकधातुः।

ते तथागता आहुः पद्मोत्तरा नामेयं कुलपुत्र लोकधातुः



<68> ततोऽहं भगवंस्तान् प्रदक्षिणीकृत्य पुनरपि तांस्तथागतान् परिपृच्छामि - किन्नाम इह बुद्धक्षेत्रे तथागतः

ते तथागता आहुः पद्मगर्भो नाम कुलपुत्र तथागतोऽर्हन् सम्यक्संबुद्धो य इह बुद्धक्षेत्रे बुद्धकृत्यं करोति।

ततस्तान् अहमेतदवोचत् - बहूनि तथागतकोटीनियुतशतसहस्राणि दृश्यन्ते। तन्न जानामि कतम स पद्मगर्भो नाम तथागतोऽर्हन् सम्यक्संबुद्ध इति।

ते तथागता आहुः वयन् ते कुलपुत्र तं पद्मगर्भं तथागतं दर्शयिष्याम। यः स पद्मगर्भो नाम तथागतोऽर्हन् सम्यक्संबुद्धः



<69> अथ तत्क्षणादेव ते सर्वे तथागतकाया अन्तर्धिताः सर्वे च बोधिसत्त्वरूपाणि सन्दृश्यन्ते। एकमेव तथागतं पश्यामि। यथाहं तस्य तथागतस्य पादौ शिरसाभिवन्द्य पुरतः स्थितः आसनं च प्रादुर्भूतं। स च मां तथागत एवमाह। निषीद कुलपुत्रात्र आसने।



<70> अथाहं तस्मिन्नासने निषण्णः तदा च भगवन्ननेकान्यासनानि प्रादुर्भूतानि। न च कश्चित् तेष्वासनेषु निषण्णं पश्यामि। (तदहं तथागतं परिपृच्छामि। न भगव एष्वासनेषु एकं अपि सत्त्वं निषण्णं पश्यामि।)

स भगवान् मामेवमाह। नाकृतकुशलमूलाः कुलपुत्र सत्त्वा एष्वासनेषु शक्नुवन्ति निषत्तुम्

तमहं तं तथागतमिदमवोचत् - कीदृशं भगवन् सत्त्वाः कुशलमूलं कृत्वा। एष्वासनेषु निषीदन्ति।

स मं भगवन्नेवमाह। शृणु कुलपुत्र ये सत्त्वाः संघाटं सूत्रं धर्मपर्यायं श्रोष्यन्ति। ते तेन कुशलमूलेन एष्वासनेषु निषत्स्यन्ते। कः पुनर्वादो ये लिखिष्यन्ति वाचयिष्यन्ति। त्वया सर्वशूर संघाटं धर्मपर्यायं श्रुतं यस्त्वमत्रासने निषीदित। अन्यत्र कस्तवेह बुद्धक्षेत्रेऽभ्यंन्तरप्रवेशं दद्यात्



<71> एवमुक्ते तेन भगवता अहं तं भगवन्तमेतदवोचत् - कियन्तं भगवन् स सत्त्वः पुण्यस्कन्धं प्रसविष्यति य इमं संघाटं धर्मपर्यायं श्रोष्यति।

अथ स भगवां पद्मगर्भस्तथागतोऽर्हन् सम्यक्संबुद्धस्तस्यां वेलायां स्मितं प्रदुष्कार्षीत्

तदहं भगवन् स्मितकारणं तं भगवन्तं परिपृष्टवान् को भगवन् हेतुः किं कारणं यत् तथागतः स्मितं प्रादुष्करोति।



<72> स भगवानाह। शृणु कुलपुत्र सर्वशूरः (बोधिसत्त्वो महासत्त्वो महास्थामप्राप्तः) तद्यथापि नाम कुलपुत्र कश्चिदेव राजा भवेच्चक्रवर्त्ती चतुर्द्वीपेश्वरः स चतुर्षु द्वीपक्षेत्रेषु तिले वापयेत् तत्किं मन्यसे सर्वशूर बहूनि तस्य बीजान्युत्पद्येरन् सर्वशूर आह। बहूनि भगवन् बहूनि सुगत।



<73> स भगवानाह। ततः सर्वशूर कश्चित् सत्त्वो भवेद् यस्तानि तिलफलकान्येकराशिं कुर्यादन्यतराः पुरुषस्ततस्तिलफलराशेर्चैकं तिलफलकं गृह्य द्वितीये पार्श्वे स्थापयेत् तत्किं मन्यसे सर्वशूर शक्नुयात् स सत्त्वस्तानि तिलफलकानि गणयितुं वोपमां कर्तुम्

सर्वशूरो बोधिसत्त्व आह। नो हीदं भगवन् नो हीदं सुगत; न शक्यं तानि तिलफलकानि गणयितुं



<74> भगवान् आह - एवमेव सर्वशूरास्य संघाटस्य धर्मपर्यायस्य यत्पुण्यस्कन्धं तन्न शक्यमनुपम्यं कर्तुमन्यत्र तथागतेन। तद्यथा सर्वशूर यावन्तस्ते तिलफलकास्तावान्तस्तथागता भवेयुः ते सर्वेऽस्य संघाटस्य धर्मपर्यायस्य श्रवणकुशलमूलपुण्यं परिकीर्तयेयुर्न चोपमयापि पुण्यस्य क्षयो भवेत् कः पुनर्वादो यो लिखिष्यति। वाचयिष्यति।



<75> सर्वशूरो बोधिसत्त्व आह। कियन्तं भगवन् लिखतः पुण्यं भवति य इमन् धर्मपर्यायं लिखयति।

भगवान् आह। शृणु कुलपुत्र। तद्यथापि नाम कुलपुत्र कश्चिदेव पुरुषो भवेद् यस्त्रिसाहस्रमहासाहस्र्यां लोकधातौ तृणं वा काष्ठं वा तं सर्वमंगुलिमात्रंच्छिन्द्यात्



<76> द्वितीयामुपमां शृणु सर्वशूर; तद्यथापि नाम यावन्तस्त्रिसाहस्रमहासाहस्र्यां लोकधातौ शिलान् वा प्रपातान् वा मृत्तिकान् वा परमाणुरजो वा ते सर्वे राजानश्चक्रवर्तिनो भवेयुश्चतुर्द्वीपेश्वराः सप्तरत्नसमन्वागताः तत्किं मन्यसे सर्वशूर यस्तेषां तावतां राज्ञां चक्रवर्तिनां पुण्यस्कन्धं न शक्यं तस्योपमां कर्तुं सर्वसत्त्वैरपि।

सर्वशूरो बोधिसत्त्व आह। न शक्यं भगवन्नन्यत्र तथागतात्



<77> भगवान् आहैवमेव सर्वशूर न शक्यं संघाटसूत्रस्य धर्मपर्यायस्य लिख्यमानस्य पुण्यस्कन्धोपमां कर्तुम्यावन्तस्तेषां राज्ञां चक्रवर्तिनां पुण्यमतो बहुतरं पुण्यं प्रसवति य इतो धर्मपर्यायादेकाक्षरमपि लिखित्वा स्थापयेद्बहुतरं तस्य पुण्यं वदामि न त्वेव तेषां राज्ञां चक्रवर्तिनां।



<78> एवमेव सर्वशूर बोधिसत्त्वस्य महासत्त्वस्य महायानसद्धर्मधारकस्य प्रतिपत्तिस्थितस्य यत्पुण्यं तन्न शक्यं राजभिश्चक्रवर्तिभिरभिभवितुं एवमेवास्य संघाटस्य धर्मपर्यायस्य लेखनाद्यत्पुण्यं तन्न शक्यमुपमां कर्तुं।

इमं सर्वशूर संघाटं सूत्रं पुण्यनिधानानि दर्शयति। सर्वक्लेशानुपशमयति। सर्वधर्मोल्कां ज्वालयति। सर्वमारान् पापीमतः पराजयति। सर्वबोधिसत्त्वभवनान्युज्वालयति। सर्वधर्मनिर्हारानभिनिर्हरति।



<79> एवमुक्ते सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - इह भगवन् ब्रह्मचर्यं परमदुष्करचर्याः तत्कस्य हेतोः दुर्लभा भगवंस्तथागतचर्याः एवमेव दुर्लभा ब्रह्मचर्याः यदा च ब्रह्मचर्यं चरिष्यति। तदा तथागतं संमुखं द्रक्ष्यति। रातृन्दिवं च तथागतदर्शनं भविष्यति। यदा च तथागतं पश्यति तदा परिशुद्धं बुद्धक्षेत्रं पश्यति। यदा परिशुद्धं बुद्धक्षेत्रं पश्यति। तदा सर्वधर्मनिधानानि पश्यति। यदा सर्वधर्मनिधानानि पश्यति। तदास्य मरणकालसमये त्रासं नोत्पद्यते न स जातु मातुः कुक्षावुपपत्स्यते। न तस्य जातु शोको भविष्यति। न च तृष्णापाशेन बद्धो भविष्यति।



<80> एवमुक्ते भगवान् सर्वशूरं बोधिसत्त्वं महासत्त्वमेतदवोचत् - तत्किं मन्यसे सर्वशूर ननु दुर्लभस्तथागतानमुत्पादः

आह। दुर्लभो भगवन् दुर्लभः सुगत;

भगवान् आह। एवमेव सर्वशूर दुर्लभो यं संघातो धर्मपर्यायः

येषां खलु पुनः सर्वशूरायं संघाटो धर्मपर्यायः श्रोत्रावभासमागमिष्यति। सोऽशीतिः कल्पां जात्या जातिस्मरो भविष्यति। षष्टि कल्पसहस्राणि चक्रवर्तिराज्यं प्रतिलप्स्यते। अष्टौ कल्पसहस्राणि शक्रत्वं प्रतिलप्स्यते। पंचविंशतिः कल्पसहस्राणि शुद्धावासकायिकानान् देवानां सहभाव्यतायां उपपत्स्यते। अष्टातृंशत् कल्पसहस्राणि महाब्रह्मा भविष्यति।



<81> नवानवतिः कल्पसहस्राणि विनिपातं न गमिष्यति। कल्पशतसहस्रं प्रेतेषु नोपपत्स्यते। अष्टाविंशति कल्पसहस्राणि तिर्यक्षुर्नोपपत्स्यते।

त्रयोदश कल्पसहस्राण्यसुरकायिकेषु नोपपत्स्यते। न शस्त्रेण कालं करिष्यति (न विषेण नाग्निना न चास्य परोपक्रमभयं भविष्यति)।



<82> पंचविंशतिः कल्पसहस्राणि न दुष्प्रज्ञो भविष्यति। सप्त कल्पसहस्राणि प्रज्ञाचरितो भविष्यति। नव कल्पसहस्राणि प्रासादिको भविष्यति। दर्शनीयः यथा तथागतस्यार्हतः सम्यक्संबुद्धस्य रूपकायपरिनिष्पत्तिस्तथा तस्य भविष्यति।

पंचदश कल्पसहस्राणि न स्त्रीभावेषूपपत्स्यते। षोडश कल्पसहस्राणि व्याधिः काये नाक्रमिष्यति। पंचतृंशत्कल्पसहस्राणि दिव्यचक्षुर्भविष्यति।
[83] एकोनविंशत् कल्पसहस्राणि नागयोनिषु नोपपत्स्यते। षट् कल्पसहस्राणि न क्रोधाभिभूतो भविष्यति। सप्त कल्पसहस्राणि दरिद्रकुलेषु नोपपत्स्यते। अशीतिः कल्पसहस्राणि द्वौ द्वीपौ परिभुंक्ते। यदा दरिद्रो भवति तदा ईदृशं सुखं प्रतिलप्स्यते। द्वादश कल्पसहस्राणि अन्धयोनिषु नोपपत्स्यते। त्रयोदश कल्पसहस्राणि अपायेषु नोपपत्स्यते। एकादश कल्पसहस्राणि क्षान्तिवादी भविष्यति। मरणकालसमये चरिमविज्ञाननिरोधे वर्तमाने न विपरीतसंज्ञी भविष्यति। न च क्रोधाभिभूतो भविष्यति।



[84] स पूर्वस्यान् दिशि द्वादश गंगानदीबालिकासमान् बुद्धान् भगवतः संमुखन् द्रक्ष्यति। दक्षिणस्यां दिशि विंशतिर्बुद्धकोटी संमुखन् द्रक्ष्यति। पश्चिमस्यान् दिशि पंचविंशतिर्गंगानदीबालिकासमान् बुद्धान् भगवतः संमुखं द्रक्ष्यति। उत्तरस्यान् दिशि विंशतिर्गंगानदीबालुकासमान् बुद्धां भगवतः संमुखं द्रक्ष्यति। उर्ध्वायां दिशि नवति कोटीसहस्राणि बुद्धानां भगवतां संमुखं द्रक्ष्यति। अधस्ताद्दिशि कोटीशतं गंगानदीबालुकासमान् बुद्धान् भगवतः संमुखन् द्रक्ष्यति।



[85] ते च सर्वे तथागतास्तं कुलपुत्रमाश्वासयन्ति। मा भैः कुलपुत्र त्वया संघाटं (सूत्रन्) धर्मपर्यायं श्रुत्वा इयन्तः सांपरायिकानि गुणानुशंसमुखानि च भविष्यन्ति।

पश्यसि त्वं भोः कुलपुत्रेमान्यनेकानि गंगानदीबालिकासमानि तथागतकोटीनियुतशतसहस्राणि।

आह। पश्यामि भगवन् पश्यामि सुगत।

(भगवान्) आह। एते भोः कुलपुत्र तथागतास्तव सकाशमुपसंक्रान्ता दर्शनाय।

आह। किं मया कुशलकर्म कृतं येनेमे बहवस्तथागता आगता।



[86] आह। शृणु कुलपुत्र त्वया मानुष्यकमात्मभावं प्रतिलभ्य संघाटं धर्मपर्यायं श्रोत्रावभासमागतं। तेन त्वया एतावत् पुण्यस्कन्धं प्रसूतं।

(सर्वशूर) आह। यदि मम भगवन्न एतावान् पुण्यस्कन्धः कः पुनर्वादो यः सकलसमाप्तं श्रोष्यति।



[87] (भगवान्) आहालं भोः कुलपुत्र शृणु चतुष्पदिकाया गाथाया (श्रुतायाः) पुण्यं वर्णयामि। तद्यथा कुलपुत्र त्रयोदश गंगानदीबालिकासमानां तथागतानां अर्हतां सम्यक्संबुद्धानां यः पुण्यसकन्धस्ततो बहुतरं पुण्यस्कन्धं प्रसवति। यश्चतुष्पदिकामपि गाथामितो धर्मपर्यायाच्छ्रोष्यति।

यश्च त्रयोदश गंगानदीबालुकासमांस्तथागतानर्हतः सम्यक्संबुद्धान् पूजयति। यश्चेतः संघाटाद्धर्मपर्यायादन्तशश्चतुष्पादिकामपि गाथां श्रोष्यति। अयं ततो बहुतरं पुण्यस्कन्धं प्रसविष्यति। कः पुनर्वादो यः सकलसमाप्तं श्रोष्यति। न तस्य पुण्यस्कन्धस्य शक्यमुपमां कर्तुम्





[88] शृणु कुलपुत्र यश्चेमं संघाटं (नाम) सूत्रं धर्मपर्यायं सकलसमाप्तं विस्तरेण श्रोष्यति। यश्च सर्वस्यां तृसाहस्रमहासाहस्र्यां लोकधातौ तिलं वापयेद्यावन्तस्ते तिलफलकास्तावन्तो राजानश्चक्रवर्तिनो भवेयुरथ कश्चिदेव पुरुषो भवेदाढ्यो महाधनो महाभोगः

अथ खलु स पुरुषस्तेषां सर्वेषां राज्ञां चक्रवर्तिनां यथाकामिकं दानन् दद्यात् तत्किं मन्यसे सर्वशूरापि तु स पुरुषस्ततोनिदानं बहु पुण्यं प्रसवेद्

आह। बहु भगवन् बहु सुगत;

भगवान् आह - यावन्तः कुलपुत्र तेषां राज्ञां चक्रवर्तिनां दानन् ददतः पुण्यस्कन्धः यश्चैकस्य स्रोतआपन्नस्य दानन् दद्यादयं ततो बहुतरं पुण्यस्कन्धं प्रसवति।



[89] ये त्रिसाहस्रमहासाहस्र्यां लोकधातौ सत्त्वास्ते सर्वे स्रोतआपना भवेयुस्तेषां सर्वेर्षां दानन् ददतो यत्पुण्यस्कन्धं अयं ततो बहुतरं पुण्यस्कन्धं प्रसवति। य एकस्य सकृदागामिनो दानन् दद्याद्

ये त्रिसाहस्रमहासाहस्र्याम् लोकधातौ सत्त्वास्ते सर्वे सकृदागामिनो भवेयुः तेषां सर्वेषां दानन् ददतो यः पुण्यस्कन्धः अयन् ततो बहुतरं पुण्यस्कन्धं प्रसवति। य एकस्यानागामिनो दानान् दद्याद्

ये त्रिसाहस्रमहासाहस्र्यां लोकधातौ सत्त्वास्ते सर्वे नागामिनो भवेयुः तेषां सर्वेषां दानन् ददतो यः पुण्यस्कन्धं अयं ततो बहुतरं पुण्यस्कन्धं प्रसवति य एकस्यार्हतो दानन् दद्याद्

ये त्रिसाहस्रमहासाहस्र्यां लोकधातौ सत्त्वास्ते सर्वेऽर्हन्तो भवेयुः तेषां सर्वेषां दानन् ददतो यः पुण्यस्कन्धः अयं ततो बहुतरं पुण्यस्कन्धं प्रसवति। य एकस्य प्रत्येकबुद्धस्य दानन् दद्याद्

ये त्रिसाहस्रमहासाहस्र्यां लोकधातौ सत्त्वास्ते सर्वे प्रत्येकबुद्धा भवेयुस्तेषान् सर्वेषां दानन् ददतो यः पुण्यस्कन्धः अयं ततो बहुतरं पुण्यस्कन्धं प्रसवति य एकस्य बोधिसत्त्वस्य दानन् दद्याद्

ये त्रिसाहस्रमहासाहस्र्यां लोकधातौ सत्त्वास्ते सर्वे बोधिसत्त्वा भवेयुस्तेषां सर्वेषां दानन् ददतो यः पुण्यस्कन्धः अयं ततो बहुतरं पुण्यस्कन्धं प्रसवति। य एकस्य तथागतस्य चित्तं प्रसादयेद्



[90] यश्च त्रिसाहस्रमहासाहस्र्यां लोकधातौ तथागतपरिपूर्णायां चित्तं प्रसादयेद् यश्चेमं संघाटसूत्रं धर्मपर्यायं लिखिष्यति। किमंग पुनः सर्वशूर य इमन् धर्मपर्यायं श्रोष्यति। श्रुत्वा च धारयिष्यति वाचयिष्यति पर्यवाप्स्यति परेभ्यश्च विस्तरेण

संप्रकाशयिष्यति। कः पुनर्वादः सर्वशूर य इमं संघाटसूत्रं धर्मपर्यायं चित्तप्रसादेन नमस्करिष्यति।



[91] तत्किं मन्यसे सर्वशूर शक्यमिदं सूत्रं बालपृथग्जनैः श्रोतुं

आह। नो हीदं भगवन्

आह। ये च श्रोष्यन्ति न च प्रसादमुत्पादयिष्यन्ति। शृणु सर्वशूर सन्ति केचित् सर्वशूर बालपृथग्जनाः सत्त्वाः ये शक्नुयुर्महासमुद्रे गाधं लब्धुम्

आह। नो हीदं भगवन्



[92] (भगवान्) आह। अस्ति पुनः सर्वशूर कश्चित् सत्त्वो य एकपाणितलेन समुद्रं क्षपयेद्

आह। नो हीदं भगवन् नो हीदं सुगत।

भगवान् आह। यथा सर्वशूर नास्ति स कश्चित् सत्त्वो यः शक्नुयादेकपाणितलेन। महासमुद्रं शोषयितुं। एवमेव सर्वशूर ये हीनाधिमुक्तिकाः सत्त्वाः न शक्यं तैरयन् धर्मपर्यायः श्रोतुं यैः सर्वशूराशीतिर्गंगानदीबालुकासमानि तथागतकोटीनियुतशतसहस्राणि न दृष्टानि। न तैः शक्यमयं संघाटं धर्मपर्यायं लिखितुं। यैर्नवति गंगानदीबालिकासमानि तथागतानि न दृष्टानि न तैः शक्यमयन् धर्मपर्यायः श्रोतुम्



[93] येन तथागतकोटीशतसहस्राणि न दृष्टानि त इमन् धर्मपर्यायं श्रुत्वा प्रतिक्षिपन्ति। यैः सर्वशूर गंगानदीबालुकासमानि तथागतकोटीशतानि दृष्टानि त इमन् धर्मपर्यायं श्रुत्वा प्रसादचित्तमुत्पादयन्ति हर्षयन्ति यथाभूतं प्रजानन्ति। य इमं संघाटं धर्मपर्यायं यथाभूतं शद्दधन्ति न प्रतिक्षिपन्ति।



[94] शृणु सर्वशूर ये केचिद् अस्मात् संघाटाद्धर्मपर्यायदेकाक्षरामपि चतुष्पदिकां गाथां लिखिष्यन्ति तेषां सर्वशूर सत्त्वानां ततः पश्चात् पंचनवति कोटीसहस्रानि लोकधातुनामतिक्रम्य यथा सुखावतीलोकधातुस्तथा तेषां बुद्धक्षेत्रं भविष्यति। तेषां च सर्वशूर सत्त्वानां चतुरशीतिः कल्पसहस्राण्यायुष्प्रमाणं भविष्यति।



[95] शृणु सर्वशूर ये बोधिसत्त्वा महासत्त्वा अस्मात् संघाटाद्धर्मपर्यायादन्तशश्चतुष्पदिकामपि गाथां श्रोष्यन्ति।

बद्यथा सर्वशूर कश्चित् सत्त्वो भवेद् (रौद्रः साहसिकः सद्धर्मविमुखः परलोकनिरपेक्षः पापकारी) यः पंचानन्तर्याणि कर्माणि कुर्यात् कारयेद् वा क्रियमाणानि वानुमोदेत् सचेत् स इतः संघाटाद्धर्मपर्यायच्चतुष्पदिकमपि गाथां शृणुयात् तस्य तानि पंचानन्तर्याणि कर्माणि परिक्षयं गच्छेयुः



[96] शृणु सर्वशूर। पुनरपरं गुणमामन्त्रयामि। तद्यथापि कश्चित् सत्त्वो भवेद्यः स्तूपभेदं कारयेत् संघभेदं च। बोधिसत्त्वं समाधेरुच्चालयेत् बुद्धज्ञानस्यान्तरायं कुर्यात् मातापितरं जीविताद्व्यावरोपयेद्

अथ स सत्त्वः पश्चाद्विप्रतिसारीभूतः शोचेत परिदेवेत नष्टोऽहम् अनेन कायेन नष्टं मे परलोकमिति। कल्पं एवाहं नष्टः ततोऽस्य महाचित्तायासं भवेत दुःखां वेदनां वेदयेत। कटुकां वेदनां वेदयेत।

तस्य सर्वशूर सत्त्वस्य सर्वसत्त्वाः परिवर्जयन्ति जुगुप्सन्ति (च)। दग्धो नष्ट एषा सत्त्व लौकिकलोकोत्तराद्धर्म नष्टोऽनेकानि कल्पानि यथा दग्धस्थूणं।



[97] एवमेवायं पुरुषः यथा सुचित्रं गृहं दग्धस्थूणं न शोभते। एवमेवायं स पुरुष इह लोके न शोभते। यत्र यत्र च गच्छति तत्र तत्र सत्त्वैः परिभाष्यते प्रहरन्ति च; क्षुत्पिपासार्दितोऽपि न किंचिल्लभते। ततो दुःखां वेदनां वेदयति।



[98] स क्षुत्पिपासाहेतुना परिभाषाहेतुना प्रहारहेतुना स्तूपभेदं च पंचानन्तर्याणि च कर्माणि समनुस्मरति। स ततो दुःखं निर्वेदचित्तमुत्पादयति। कुत्राहं यास्यामि को मे त्रात भविस्यति।



[99] स एवं चिन्तयति गमिष्याम्यहं पर्वतगिरिकन्दरेषु प्रविशामि तत्र मे कालक्रिया भविष्यति न च मे इह कश्चि त्रातास्ति।

आह च॥

(20) कृतं मे पापकं कर्म दग्धस्थूनं निरन्तरम्

नेमं लोके शोभयिष्ये न शोभयिष्यामि परत्र चः

(21) अन्तर्गृहे न शोभामि न शोभामि च बाहिर।

(सर्वत्रैव न शोभामि पापकारी तथास्म्यहं॥)

(22) दोषहेतोः कृतं पापं तेन यास्यामि दुर्गतिम्

परत्र दुःखितः कुत्र वसिष्यामि ह दुर्गतौ।

(23) शृण्वन्ति देवता वाचा अश्रुकण्ठं प्ररोदति।

अहो निराशक्ष् परलोकं प्रयास्यामिः दुर्गतिं॥



तं देवता आहुः

(24) मूढोऽसि गच्छ पुरुष मैवं चिन्तय दुःखितः

शरणं न च मे त्राणं दुःखां विन्दामि वेदनाम्

(25) मातृघाटं पितृघाटं पंचानन्तर्याञ्च मे कृतं

पर्वते मूर्ध्नि गच्छामि तत आत्मा त्यजाम्यहम्

(26) मा गच्छ मूढपुरुष कर्म मा कुरु पापकं।

बहु त्वया कृतं पापं व्यापन्नेन हि चेतसा;

(27) कुर्वन्ति ये आत्मघातं नरकं यान्ति दुःखिताः

ततः पतन्ति भूमीषु क्रन्दन्ति शोकवेदनाः

(28) न तेन वीर्येण भवन्ति बुद्धा

भवन्ति नैवापि

न श्रावकं लभ्यति मोक्षयानम्

अन्यस्य वीर्यस्य कुरुष्व यथम्

(29) गच्छस्य तं परवत येन सो ऋषि

गत्वा च तं दृष्ट्व ऋषिर्महात्मा।

वन्दित्वा पादौ शिरसा च तस्य

त्राणं भवाही मम अग्रसत्त्व;

(30) देशेहि धर्मं कुशलं मुहूर्त्तम्

भातोऽस्मि त्रस्तो अति [[रिवा]] दुःखपीडितः

(ततो गतः स पुरुषु भीतभीतस्)

(तं पर्वतं यत्र रिशिर्महात्मा।)

(31) (वन्दित्वा पादौ हि तदा महार्षेः)

(प्रोवाच वाक्यं समुदीरं या गीरा।)

(देशेहि धर्मं मम पापकारिणः)

(कृपां जनित्वा परदुःखितस्य॥)

(32) ऋषिर्वदन्तं शृणु सत्त्वसार

निषद्य चिन्तस्य क्षणं कुरुष्व।

(शृणुष्व वाक्यं मम दुःखितस्य)

(श्रुत्वा ह्युपायं परिचिन्तयस्व।)

(33) भीतः स त्रस्तो अति [[रिवा]] दुःखपीडितस्

ततो निषण्णः क्षण [[वर]] तं मुहूर्तम्

देशेमि पापं कृत यन् मया बहू

ऋषे हि वाचं इदमब्रवीति।

ऋषिराह।

(34) भुंशाहि तं भोजनु यद्ददामि

दुःखेन च क्रन्दसि शोकपीडितः

क्षुधा पिपासाय च पीडीतस्त्वं

निराशकश्च त्रिभवाद्भविष्यसि।

(35) भोजनान्युपनामित्वा ऋषिः सत्त्व प्रसादयन्

मृष्टं भुंज मनापं च शरीरे तर्पनार्थिकं।

(36) पश्चात् ते धर्म भाषामि सर्वपापक्षयंकरम्

तस्य तद्भोजनं मृष्टं मुहूर्तं भुक्तवान् असौ।

(37) भुक्त्वा हस्तौ च प्रक्षाल्य कृत्वा प्रदक्षिणं ऋषिं।

पर्यंकेन निषीदित्वा वदत् यत् पापकं कृतम्

(38) मातृघातं पितृघातं स्तूपभेदं मया कृतं।

बोधिसत्त्वस्य बुद्धत्वे अन्तरायं कृतं मया।

(39) तस्य तद्वचनं श्रुत्वा ऋषिर्वाक्यमथाब्रवीत्

असाधुस्तव [[भो]] पुरुष यत् कृतं पापकं त्वया।

(40) देशेहि पापकं कर्म कृतं कारापितं च यत्॥

अथ खलु तस्मिन् काले स पुरुषः शोकशल्यसमर्पित भीतस्त्रस्त उद्विग्न को मे त्राता भविष्यतीत्याह च॥

(41) कृतं मे पापकं कर्म दुःखां वेत्स्यामि वेदनां।

नरके रौरवे घोरे तथैव च प्रतापने॥

अथ खलु स पुरुषस्तस्य ऋषेर्जानुद्वयं भूमौ निपात्याह च।

(42) देशेयं पापकं कर्म यत्कृतं कारितं मया।

माफलं पापकं भोतु मा मे स्या दुःखवेदनां।

(43) ऋषिस्त्राणं भवेन् मह्यमासन्ने हं भवेन् तव;

निष्कौकृत्यस्य शान्तस्य शम्यन्तं पापकान् मम;



[100] अथ खलु स रिषिस्तेन कालेन तेन समयेन तं पुरुषमेतदवोचत् - एवं चाश्वासयति। मा भैः कुलपुत्राहं ते त्राणं भविष्याम्यहन् ते गतिरहं परायणं भविष्यामि। संमुखं धर्म शृणु श्रुतं त्वया किंचित् संघाटं नाम धर्मपर्यायं।

स आह। न मे कदाचिच्छ्रुतं।

ऋषिराह - कोऽग्निदग्धस्य सत्त्वस्य धर्मन् देशयत्यन्यत्र यः करुणाविहारितया सत्त्वानां धर्मन् देशयति। आह। शृणु कुलपुत्र



[101] भूतपूर्वं (मया) असंख्येयैः कल्पैरसंख्येयतरैर्यदासीत्तेनो कालेन तेन समयेन विमलचन्द्रो नाम राजाभूद्धार्मिको धर्मराजा। तस्य खलु पुनः कुलपुत्र राज्ञो विमलचन्द्रस्य गृहे पुत्रो जातः



[102] अथ स राजा विमलचन्द्रो लक्षणनैमित्तिकांच्छास्त्रपाठकान् ब्राह्मणान् सन्निपात्य कुमारमुपदर्श्यैवमाह -

किं ब्राह्मण कुमारस्य निमित्तं पश्यथ शोभनमशोभनं वेति।

तत्रैको नैमित्तिको ब्राह्मणः कथयत्यसाधुरयं महाराज कुमारो जातः आसाधुरिति।

राजा श्रुत्वा ससंभ्रम पप्रच्छ। किमिदं ब्राह्मणा

नैमित्तिकः कथयत्ययं देव राजकुमारो यदि सप्त वर्षाणि जीवति स एष मातापितरं जीविताद्व्यावरोपयिष्यति।

ततोऽस राजा एवमाह। वरं मे जीवितान्तरायो भवतु माच्चाहं पुत्रं वधेयं। तत्कस्मात् कदाचित् कर्हचिल्लोके मनुष्योत्पादं लभ्यते। नाहं तथा करिष्यामि। यदिमं मानुष्यकं कायं विरागयिष्यामि।



[103] अथ स कुमारो वर्धते यदन्य वर्षद्वयेन वर्धन्ते तदासावेकेन मासेन वर्धते। जानाति च स राजा विमलचन्द्रो यं कुमारो मम कर्मोपचयेन वर्धते। ततो राजा तस्य कुमारस्य पट्टमाबन्ध्यैवमाह। तव राज्यं भवतु विपुलं च कीर्तिराज्यभोगैश्वर्यं च कारय धर्मेण मा अधर्मेण। ततस्तस्य राजा पट्टं बध्वा राजेति नामधेयमकरोत् स च राजा विमलचन्द्रो न भूयः स्वविषये राज्यं कारयत्य्



[104] अथ ते त्रिंशदमात्यकोट्यो येन स राजा विमलचन्द्रस्तेनोपसंक्रान्ता उपेत्य तं राजानं विमलचन्द्रमेवमाहुः कस्मात् त्वं भोः महाराज स्वविषये न भूयो राज्यं कारयसि।

राजाह - बहून्यसंख्येयानि कल्पानि। यन्मया राज्यभोगैश्वर्याधिपत्यं कारितं न च मे कदाचिद् विषयेषु तृप्तिरासीत्तेन च कालेन तेन समयेन न चिरेण कालान्तरेण स पुत्रस्तं मातापितरं जीविताद्व्यावरोपयति। तेन च तत्र पंचानन्तर्याणि कर्मान्युपचितानि।

अहं च भोः पुरुष तावच्चिरं कालसमयमनुस्मरामि। यथाद्य श्वो वा।



[105] यदा तस्य राज्ञो दुःखा वेदना उत्पन्नाः तदा स राजा विप्रतिसारीभूतो स्रुकण्ठः परिदेवति पापं मे कर्म कृतमिति। अवीचौ महानरके दुःखां वेदनां प्रत्यनुभविष्यामीति

ततोऽहं कारुण्यचित्तमुत्पाद्य तत्र गत्वा तस्य राज्ञो धर्मन् देशयितवान्

अथ स राज तं धर्मं श्रुत्वा तस्य तानि पंचानन्तर्याणि कर्माणि क्षिप्रं निरवशेषं परिक्षयं गतानि।



आह च।

(44) संघाटं धर्मपर्यायं सूत्रराजं महातपाः

ये श्रोष्यन्ति इमन् धर्मन् पदं प्राप्स्यन्त्यनुत्तरम्

(45) सर्वपापक्षयं भवति। सर्वक्लेशांच्छमिष्यति।

शृणु धर्मं प्रवक्ष्यामि येन क्षिप्रं विमोक्षसे।

(46) चतुष्पदायां गाथायां भाष्यमाणं निरन्तरं

सर्वपापक्षयं कृत्वा स्रोतापन्नो भविष्यसि।

(47) ततो दानं उदानेमि सर्वपापप्रमोचनं।

विमोचिता दुःखिता सत्त्वा नारकाद्भयभैरवात्

(48) ततः स पुरुषोत्थाय आसनादञ्जलीकृतः

प्रणम्य शिरसा तस्य साधुकारं प्रयच्छति।

(49) साधु कल्याणमित्राणां साधु पापविनाशकः

साधु संघाटनिर्देशं ये श्रोष्यन्ति महानयं॥



[106] अथ खलु तेन कालेन तेन समयेनोपर्यन्तरिक्षे स्थितानि द्वादश देवपुत्रसहस्राणि कृतांजलिपुटानि तम् ऋषिमुपगम्य पादौ शिरसा प्रणम्यैवमाहुः भगवन् केवच्चिरं स्मरसि महातपः एवं चत्वारि कोटी नागराज्ञामागत्य अष्टादश कोटीसहस्राणि यक्षराज्ञामागत्य येन स ऋषिस्तेनांजलिं प्रणाम्यैवमाहुः केवच्चिरं स्मरसि।



[107] महात्मा ऋषिराह। शतमसंख्येयकल्पकोटीनियुतसहस्राणि समनुस्मरामि।

आह। केन कुशलकर्मणा। मुहूर्तमात्रेणैवं पापं कर्म (सर्वपापकर्म) प्रशान्तम्

(आह। संघाटं धर्मपर्यायं श्रुत्वा) (अनेन कुशलकर्मणा सर्वपापकर्म प्रशान्तम्)



[108] ये च तत्र सत्त्वाः सन्निपतिताः यैरिमं धर्मपर्यायं श्रुत्वा श्रद्दधानता वा कृता पत्तीयनं वा। ते सर्वे व्याक्रियन्तेऽनुत्तरायां सम्यक्संबोधौ। येन च पुरुषेण ताणि पंचानन्तर्याणि कर्माणि कृतानि। तेनेमं संघाटं धर्मपर्यायं श्रुत्वा मुहूर्तमात्रेण तानि पंचानन्तर्याणि कर्माणि निरवशेषं परिक्षयं पर्यादानं कृताणि। तस्यानेकानि कल्पकोटीनियुतशतसहस्राणि सर्वदुर्गतिद्वाराणि पिथितानि भवन्ति। द्वात्रिंशद्देवलोकद्वाराण्यपावृतानि भवन्ति। य इतः संघाटाद्धर्मपर्यायादन्तशश्चतुष्पदिकामपि गाथां श्रोष्यति। तस्येतादृशानि कुशलमूलानि भविष्यन्ति। कः पुनर्वादो यः संघाटसूत्रं सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति। पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिर्वाद्यांजलिकर्मप्रणामं वा करिष्यति। एकां वारां अनुमोदिष्यत्येवं च वक्ष्यति। साधु सुभाषितमिति।



[109] अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - कियन्तं भगवन्नञ्जलिप्रणामात् पुण्यस्कन्धं प्रसवति। ये ते संघाटं धर्मपर्यायं भाष्यमाणं श्रुत्वाञ्जलिं कृत्वा प्रणमन्ति।

भगवान् आह - शृणु कुलपुत्र येन पंचानन्तर्याणि कर्माणि कृताणि कारितानि क्रियमाणानि वानुमोदितानि भवेयुः यदि स इतत् संघाटाद्धर्मपर्यायादन्तशश्चतुष्पदिकामपि गाथां श्रुत्वाञ्जलिं प्रणामयिष्यति। तस्य (तानि) सर्वाणि पंचानन्तर्याणि कर्माणि क्षयं गतानि भविष्यन्ति। कः पुनर्वादः सर्वशूर यः सकलसमाप्तमेवायं धर्मपर्यायं श्रोष्यत्ययं ततो बहुतरं पुण्यस्कन्धं प्रसविष्यति।



[110] उपमां ते कुलपुत्र करिष्यामि। अस्य संघाटसूत्रार्थस्य विज्ञप्तये। तद्यथापि नाम सर्वशूरानवतप्तस्य नागराजस्य भवने न कदाचित् सूर्यो वभासयति। ततश्च पंच महानद्यः प्रवहन्ति।

अथ कश्चिदेव पुरुषो भवेद् यस्तासां पंचानां महानदीनामुदकस्य बिन्दूनि गणयेत् तत्किं मन्यसे सर्वशूर शक्यं तेषामुदकविन्दुनां गणनायोगेन पर्यन्तमधिगन्तुम्

आह। नो हीदं भगवन् नो हीदं सुगत,

भगवान् आह - एवमेव सर्वशूर न शक्यं संघाटसूत्रस्य धर्मपर्यायस्य कुशलमूलं कल्पेन वा कल्पशतेन वा कल्पसहस्रेण वा कल्पशतसहस्रेण वा कल्पकोटीनियुतशतसहस्रेण वा गणनया पर्यन्तमधिगन्तुं।



[111] तत्किं मन्यसे सर्वशूर दुष्करं तस्य य इमं संघाटं धर्मपर्यायं मुहूर्तं प्रकाशयेत।

आह - दुष्करं भगवं दुष्करं सुगत,

भगवान् आह - अतः सुदुष्करतरं सर्वशूर तस्य य इमं संघाटं धर्मपर्यायं शाक्ष्यति श्रोतुम्



[112] तद्यथा अनवतप्तात् (महासरसः) पंच महानद्यः प्रवहन्ति। तासां पंचानां महानदीनां प्रवहतामुदकविन्दून्न शक्यं केनचिद्गणकेन वा गणकमहामात्रेन वा गणनया पर्यन्तमधिगन्तुमेवमेवास्य धर्मपर्यायस्य पुण्यस्कन्धस्य न शक्यं पर्यन्तमधिगन्तुम्

सर्वशूर आह - कतमास्ता भगवन् पंच महानद्य।

भगवान् आह - तद्यथा। गंगा सीता वक्षुः यमुनाश्चन्द्रभागा च। इमा सर्वशूर पंच महानद्यो महासमुद्रे प्रविशन्ति। एकैका च महानदी पंचमहानदीशतपरिवाराः॥



[113] पुनरपरं सर्वशूर पंचेमा महानद्यः आकाशे प्रवहन्ति। या सततसमितमुदकविन्दुभिः प्रजां प्लावयन्ति। ताश्च पंच महानद्यः एकैका सहस्रपरिवाराः

आह - कतमास्ता भगवन् पंच महानद्यः सहस्रापरिवाराः या आकाशे प्रवहन्ति।

भगवान् आह - सुन्दरी नाम (नदी) सहस्रपरिवारा, शंखा नाम (नदी) सहस्रपरिवारा, वहन्ती नाम (नदी) सहस्रपरिवारा, चित्रसेना नाम (नदी) सहस्रपरिवारा, धर्मवृत्ता नाम (नदी) सहस्रपरिवारा, इमास्ता सर्वशूर पंच महनद्यः सहस्रपरिवारा या जंबूद्वीपे औत्सुक्यमापद्यन्ते।

याः कालेन कालं जंबूद्वीपे बिन्दुभिर्वर्षधाराः प्रमुंचन्ति।

तेन पुष्पफलसस्यान्यभिरुह्यन्ति। यदा जंबूद्वीपे(विन्दूभि)

वर्षधाराः प्रपतन्ति। तदा उदकं जायते। जातं चोदकं सर्वक्षेत्रारामाणि संतर्पयति सुखं च कारयति। तद्यथापि नाम सर्वशूर प्रजापति सर्वजंबूद्वीपे सुखं कारयति।



[114] एवं एव सर्वशुरायं संघाटो धर्मपर्याय बहुजनहिताय बहुजनसुखाय जंबूद्वीपे प्रकाशितः यथा (च सर्वशूर) देवानां त्रायस्तिंशानामायुष्प्रमाणं न तथा मनुष्याणां। (तत्र) कतमे च सर्वशूर त्रायस्त्रिंशा देवाः यत्र शक्रो देवानामिन्द्रः प्रतिवसति। ते त्रायस्त्रिंशा नाम देवाः सन्ति (तद्यथा)सर्वशूर सत्त्वाः य एकं वाक्सुचरितं भाषन्ते। तेषां न शक्यं पुण्यस्कन्धस्योपमां कर्तुं। (यन् ते देवमनुष्येष्वनुपमं सौख्यमनुभवन्ति।)



[115] सन्ति सर्वशूर सत्त्वाः य एकं वग्दुश्चरितं भाषन्ते न शक्यं तेषां नरकतिर्यक्षूपमां कर्तुम् यत् ते सत्त्वाः नरकतिर्यक्प्रेतदुःखां वेदनां वेदयन्ति। न (च) कश्चित् तेषां त्राता भवति तत्र ते निराशाः परिदेवन्ते नरकेषु प्रपतमानाः तद् अकल्याणमित्रवशेन द्रष्टव्यं। ये सत्त्वा वाक्सुचरितं भाषन्ते तेषां न शक्यं पुण्यस्कन्धस्योपमां कर्तुं। तत् कल्याणमित्रवशेन द्रष्टव्यं।



[116] यदा कल्याणमित्रं पश्यति तदा तथागतो दृष्टो भवति। यदा तथागतं पश्यति। तदा (तस्य) सर्वपापक्षयो भवति। यदा सर्वपापक्षयो भवति। तदा प्रजापतिर्जंबूद्वीपे औत्सुक्यं करोति। यदा प्रजापतिर्जंबुद्वीपे औत्सुक्यं करोति। तदा जंबूद्वीपकनां सत्त्वानां सुखस्य न शक्यमुपमां कर्तुमेवमेवायं सर्वशूर संघाटो धर्मपर्याय जंबूद्वीपकानां सत्त्वानां बुद्धकृत्यं करोति। तदा न शक्यं तेषां सत्त्वानां पुण्यस्कन्धस्योपमां कर्तुम्



[117] तद्यथापि नाम सर्वशूर यत्रेमाः पंच महानद्यः संभेदं समवसरणं गच्छन्ति। तत्र न शक्यमुदकस्य प्रमाणमुद्ग्रहीतुं। एतावदुदककुंभा वा उदककुंभशतानि वा उदककुंभसहस्राणि वा उदककुंभशतसहस्राणि वा। अपि तु बहुत्वादुदकस्य महान् उदकस्कन्ध इति संख्यां गच्छति।



[118] एवमेव सर्वशूर यदा जंबूद्वीपका सत्त्वा इमं संघातं धर्मपर्यायं श्रोष्यन्ति। श्रुत्वा चोद्ग्रहीष्यन्ति धारयिष्यन्ति। वाचयिष्यन्ति पर्यवाप्स्यन्ति। परेषां च विस्तरेण संप्रकाशयिष्यन्ति प्रतिपत्या च संपादयिष्यन्ति। तदा न शक्यं तेषां सत्त्वानां पुण्यस्कन्धस्य प्रमाणं उद्ग्रहीतुमपि तु बहुत्वात् पुण्यस्य महान् पुण्यस्कन्ध इति संख्यां गच्छति।



[119] ये सर्वशूर सत्त्वाः संघाटं धर्मपर्यायं न श्रोष्यन्ति न तैः शक्यमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् न शक्यं धर्मचक्रं प्रवर्तयितुम् न शक्यं धर्मगण्डी पराहनितुम् न शक्यं तैर्धर्मसिंहासनमभिरोढुं न शक्यं (तै) निर्वाणधातुमनुप्रवेष्टुं। न शक्यमप्रमेयै रश्मिभिरवभासयितुम् य इमं सर्वशूर संघाटं धर्मपर्यायं न श्रोष्यन्ति न शक्यं तैर्बोधिमण्डे निषत्तुं।



[120] सर्वशूर आह - पृच्छामि भगवं पृच्छामि सुगत, कंचिदेव कौतुहलम्

भगवान् आह - पृच्छ त्वं सर्वशूर यद् यद् एवाकांक्षस्यहं ते निष्कांक्षं करिष्यामि

(सर्वशूर) आह - कतमः स भगवन् ऋषिरभूद् येन ते सत्त्वाः पंचभिरानन्तर्यैः कर्मभिः परिमोक्षिताः अवैवर्त्तिकभूमौ च प्रतिष्ठापिताः

भगवान् आह -

(50) सूक्ष्मं वचन बुद्धानां सर्वशूर शृणोहि मे

संघाटदर्शनं सूत्रं ऋषिरूपेण दर्शितं

(51) संघाटो बुद्धरूपं च दर्शयत्यनुकम्पया।

यथा बलिकगंगाया रूपं दर्शयते तथा।

(52) बुद्धो दर्शयते रूपं धर्मन् देशयते स्वयम्

बुद्धं य इच्छते द्रष्टुं (लोकनाथं जिनोत्तमं॥)

(53) (संघाटस्तेन श्रोतव्यः) संघाटं बुद्धसादृशं।

बुद्धस् तत्र भवेन् नित्यं संघाटं यत्र तिष्ठति।



[121] भगवान् आह - शृणु कुलपुत्र।

भूतपूर्वं सर्वशूरातीते ध्वनि नवानवत्यसंख्येयङ् कल्पान् अनुस्मरामि। (तत्र) द्वादश बुद्धकोट्य बभूवन् रत्नोत्तमनामानस्तथागता अर्हन्तः सम्यक्संबुद्धाः अहं तेन कालेन तेन समयेन प्रदानशूरो भूवं चन्द्र नाम।

ते च मे द्वादश बुद्धकोट्य पर्युपासिताः खादनीयभोजनीयमाल्यगन्धविलेपनेन यथासुखं। प्रणीतेनाहारेण सर्वसुखोपधानेनोपस्थिताः उपस्थाप्य च तत्रैव मया सर्वशूर व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धम्



[122] अभिजानाम्यहं सर्वशूराष्टादश बुद्धकोट्य सर्वे रत्नावभासनामानस्तथागता लोक उत्पन्ना अभूवन् तत्राहमपि प्रदानशूरो भूवन् गर्भसेनो नाम।

ते चाष्टादश बुद्धकोट्यो मया पर्युपासिताः पूजिताश्च। यथा तथागतानां प्रत्यर्हं गन्धमाल्यविलेपनालंकारविभूषणैः तत्र च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धं।



[123] अनुस्मराम्यहं सर्वशूर विष्मशतिर्बुद्धकोट्यः शिखिसंभवनामानस्तथागता अर्हन्तः सम्यक्संबुद्धा लोक उदपद्यन्त, पूजिता मे ते बुद्धा भगवन्तो यथा प्रत्यर्हेण पूजसत्कारेण तत्रैव च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धम् न चाद्यापि कालसमयमभूद्व्याकरणाय॥





[124] अनुस्मराम्यहं सर्वशूर विंशत्येव बुद्धकोट्यः काश्यप नामानस्तथागता अर्हन्तः सम्यक्संबुद्धा लोक उदपद्यन्तः तत्राहमपि प्रदानशूरो भूवन्

कृतं मे तेषां तथागतानामुपस्थानं। गन्धेन माल्येन विलेपनेन तथागतगुरूपस्थानेनोपस्थिताः यथा तथागतानां गुरुगौरवं कर्तव्यं तथा कृतं। तत्रैव च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धं।



[125] अनुस्मराम्यहं सर्वशूर षोडश बुद्धकोट्यो भूवन् विमलप्रभासनामान तथागता अर्हन्तः सम्यक्संबुद्धाः तेन च कालेन तेन समयेनाहं गृहपतिरभूवदाढ्यो महाधनो महाभोगः सर्वस्वपरित्यागी (महात्यागी।)।

ते च मया षोडश बुद्धकोट्यः पूजिता आस्तरणप्रावरणेन गन्धेन माल्येन विलेपनेन विभूषणाच्छादनेन च। यथा तथागतानां गुरूपस्थानं (कर्तव्यं तथा च मया) कृतं।

तत्रैव च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धं। न च मे कालं न समयमभूद्व्याकरणाय॥



[126] शृणु सर्वशूरानुस्मराम्यहं पंचनवतिर्बुद्धकोट्यो लोक उत्पन्नान्यभूवन् सर्वे शाक्यमुनिसहनामानस्तथागता अर्हन्तः सम्यक्संबुद्धाः अहं च तेन कालेन तेन समयेन च राजा भूद्धार्मिको धर्मराजा,

पर्युपासिता मे (ते) पंचनवतिर्बुद्धकोट्यः शाक्यमुनिनामधेयास्तथागताः गन्धेन माल्येन विलेपनेनास्तरणप्रवरणेन च्छत्रध्वजपताकाभिश्च। तत्रैव च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धम्॥



[127] अनुस्मराम्यहं सर्वशूर नवतिर्बुद्धकोट्यः क्रकत्सुदनामानस्तथागता अर्हन्तः सम्यक्संबुद्धा लोक उदपद्यन्त, अहं च तेन कालेन तेन समयेन ब्राह्मकुमारोऽभूव आढ्यो महाधनो महाभोगः प्रदानदाता सर्वस्वपरित्यागी।

ते च मया तथागता सर्वे उपस्थिताः गन्धेन माल्येन विलेपनेनास्तराणप्रावरणेन विभूषणाच्छादनेन। यादृशं च तथागतानामुपस्थानं (तथा तेषां मया प्रत्यर्हमुपस्थानं) कृतं तत्रैव च मे व्याकरणं अनुत्तरायां सम्यक्संबोधौ प्रतिलब्धं न च मे कालं न समयं व्याकरणाय॥



[128] अनुस्मराम्यहं सर्वशूराष्टादश बुद्धकोट्यः लोक उदपद्यन्त ; सर्वे कनकमुनिनामानस्तथागता अर्हन्तः सम्यक्संबुद्धाः अहं च तेन कालेन तेन समयेन प्रदानशूरो भूवन् पर्युपासिता मे ते तथागता अर्हन्तः सम्यक्संबुद्धाः पुजिताश्च गन्धेन माल्येन विलेपनेनास्तरणप्रावरणेन विभूषणेन। यथा तथागतानां गुरुपस्थानां तथा मे उपस्थिताः तत्रैव च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धं न च मे कालं न समयं व्याकरणायै।



[129] अनुस्मराम्यहं सर्वशूर त्रयोदश बुद्धकोट्यो लोक उदपद्यन्त; सर्वे वभासशिर्नामानस्तथागता अर्हन्तः सम्यक्संबुद्धाः ते च मे तथागताः पूजिता आस्तरणप्रावरणेन गन्धेन माल्येन विलेपनाच्छादनविभूषणेन। यथा तथागतानां गुरूपस्थानं कृतं तदृशमुपस्थानमुपस्थिताः तैश्च तथागतैर्नानाधर्ममुखानि भाषितानि अर्थविनयविनिश्चया तत्रैव च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धं न चाद्यापि समयं व्याकरणाय।



[130] अनुस्मराम्यहं सर्वशूर पंचविंशतिर्बुद्धकोट्यः पुष्यनामानस्तथागता अर्हन्तः सम्यक्संबुद्धा लोक उदपाद्यन्त; अहं च तेन कालेन तेन समयेन प्रब्रजितोऽभूवम्

पर्युपासिता मे ते तथागता यथा आनन्दैतर्हि ममोपस्थायकौपस्थानमुपतिष्ठति। तादृशं च मे ते तथागता उपस्थिताः तत्रैव च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धं न चाद्यापि मे समयमभूद्व्याकरणाय।



[131] अनुस्मराम्यहं सर्वशूर अष्टादश बुद्धकोट्यो विपश्यिनामानस्तथागता अर्हन्तः सम्यक्संबुद्धा लोक उदपद्यन्त;

पर्युपासिता मे ते तथागता अर्हन्तः सम्यक्संबुद्धाः आभरणप्रावरणेनाच्छादनगन्धमाल्यविलेपनेन यथा तथागतोपस्थानं तथा (मे) उपस्थिता।

अहं च तेन कालेन तेन समयेन प्रब्रजितोऽभूवन् तत्रैव च (मे) व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धवान् न चाद्यपि समयं व्याकरणाय न चिरेण कालेन।



[132] यः पश्चिमको विपश्यि लोक उत्पन्नः स इमं संघाटं धर्मपर्यायं भाषितवान् तमहं ज्ञात्वा तस्मिन् समये जंबुद्वीपे सप्तरत्नवर्षं प्रवृष्टवान् तदा ते जांबुद्वीपकाः सत्त्वा अदरिद्रा संवृत्ताः तत्रैव चाहं व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धवान् ततश्चिरेण कालसमयेनाद्यापि (च) मां न व्याकरोति (अनुत्पत्तिकधर्मक्षान्तिव्याकरणेन।)



[133] आह। कतमः स भगवान् कालः कतमः स समयः

भगवान् आह - शृणु सर्वशूर ततो द्व्यसंख्येयैः कल्पैर्दीपंकरो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि। ततोऽहं सर्वशुर तेन कालेन तेन समयेन मेघो नाम अणवको भूवन् यदा च भगवन् दीपंकरस्तथागतो लोक उत्पन्नः तदाहमपि तस्मिन् काले तस्मिन् समये ब्रह्मचर्यमचार्षं माणवकरूपेण

ततोऽहं भगवन्तन् दीपंकरन् तथागतं दृष्ट्वा प्रसाद प्रतिलब्धः सप्तभिरुत्पलैरवकीर्णवां तच्च तथागतावरोपितं कुशलमूलमनुत्तरायां सम्यक्संबोधौ परिणामितम्

स च मान् दीपंकरस्तथागतो व्याकार्षीद्भविष्यसि त्वं माणवकानागतेऽध्वन्यसंख्येयैः कल्पैः शाक्यमुनिर्नाम तथागतोऽर्हन् सम्यक्संबुद्ध इति।



[134] ततोऽहं सर्वशूर द्वादशतालमात्रं विहायसमन्तरीक्षे स्थित्वानुत्पत्तिकधर्मक्षान्तिं प्रतिलब्धवान् यच्च मे सर्वशूरासंख्येयेषु कल्पेषु ब्रह्मचर्यं चीर्णं। यच्च पारमिताप्रतिसंयुक्तं कुशलमूलं तत्सर्वमामुखीभूतमिवानुस्मरामि यथाद्य श्वो वा। तत्र मया सर्वशूरानेकानि सत्त्वकोटीनियुतशतसहस्राणि कुशलेषु धर्मेषु प्रतिष्ठापितानि।

कः पुनर्वाद सर्वशूर य एतर्ह्यहम अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः सर्वसत्त्वहितैषिणः कारुणिकः सत्त्वानां निरोधधर्मन् देशयिष्यामि।



[135] नैतत्स्थानं विद्यते। तत्कस्य हेतोः बहुप्रकारं चाहं सर्वशूर सत्त्वानान् धर्मन् देशयामि। यथारूपवैनयिकानां सत्त्वानां तथारूपेण धर्मन् देशयामि।

देवरूपेण देवलोके (देवानां) धर्मन् देशयामि। नागभवणे नागरूपेण (नागानानं) धर्मन् देशयामि। यक्षभवने यक्षरूपेन (यक्षानां) धर्मन् देशयामि। प्रेतभवने प्रेतरूपेण (प्रेतानां) धर्मन् देशयामि। मनुष्यलोके मनुष्यरूपेन (मनुष्याणां) धर्मन् देशयामि।

बुद्धवैनयिकानां सत्त्वानां बुद्धरूपेण धर्मन् देशयामि। बोधिसत्त्वावैनयिकानां सत्त्वानां बोधिसत्त्वरूपेण धर्मन् देशयामि। श्रावकवैनयिकानां सत्त्वानां श्रावकरूपेण धर्मन् देशयामि।

येन येन रूपेण सत्त्वा विनयं गच्छन्ति तेन तेन रूपेणाहं सत्त्वानान् धर्मन् देशयामि। एवं बहुप्रकारम् अहं सर्वशूर सत्त्वानान् धर्मन् देशयामि।



[136] तत्कस्य हेतोर्यथैव सर्वशूर सत्त्वा बहुप्रकारं धर्मं शृण्वन्ति। तथैव ते सत्त्वसाराः बहुप्रकारं सत्त्वानान् धर्मन् देशयन्ति। ते च सत्त्वास्तेषु तथागतेषु कुशलमूलान्यवरोपयन्ति। दानानि च ददन्ति। पुण्यानि च कुर्वन्ति। स्वार्थे च प्रतिजागरन्ति। मरणानुस्मृतिं च भावयिष्यन्ति।

ते चैवंरूपं कुशलं कर्माभिसंस्कारमभिसंस्करिष्यन्ति। तेनैव च धर्मश्रवणकुशलमूलहेतुना तत् पूर्वकं कुशलमूलं संस्मरिष्यन्ति। तेषां तद् भविष्यति दीर्घरात्रमर्थाय हिताय सुखाय देवानां च मनुष्याणां च। एवं हि सर्वशूर संघाटसूत्रस्य धर्मपर्यायस्य सहश्रवणमात्रेणैवमप्रमेया (-म्-असंख्येया) गुणानुशंसा भविष्यन्ति।



[137] अथ ते सत्त्वाः परस्परमेवमाहुः अस्त्यन्यः कश्चित् कुशलो धर्मफलविपाकः यस्य कृतत्वादुपचितत्वादनुत्तरां सम्यक्संबोधिमभिसंबोद्ध्यते सर्वसत्त्वाहितैषिणश्च भवन्ति॥



[138] अथ भगवंस्तेषां सत्त्वानां चेतसैव चेतःपरिवितर्कमाज्ञाय तानेतदवोचत् - अस्ति कुलपुत्रा ये धर्मं पत्तीयन्ति ते एवं वक्ष्यन्ति अस्ति धर्मो यथाभूतः तेषां महाफलं सुखविपाकमनुत्तरं धर्मसुखं भविष्यति।



[139] ये सत्त्वा मोहमूढास्त एवं वक्ष्यन्ति। न सन्ति धर्माः न सन्ति धर्मानां पारगः स तेषां महाफलं कटुकविपाकमपायेषुपपत्स्यते। पुनः पुनश्च ते (मोहपुरुषा) अपायभूमिपरायणा भविष्यन्ति।



[140] अष्टौ कल्पान् नैरायिकान् दुःखं वेदनामनुभविष्यन्ति। द्वादश कल्पानि प्रेतयोनिषु दुःखं वेदनां वेदयिष्यन्ति।

षोडश कल्पान्यसुरेषूपपत्स्यन्ते। नव कल्पसहस्रानि भूतपिशाचयोनिषूपपत्स्यन्ते। चतुर्दश कल्पसहस्राणि अजिह्वका भविष्यन्ति। षोडश कल्पसहस्राणि मातुगर्भे कालं करिष्यति। द्वादश कल्पसहस्राणि मांसपिण्डा भविष्यन्ति। एकादश कल्पसहस्राणि जात्यन्धभूताः प्रजास्यन्ति। दुःखाम् वेदनां वेदयमाना। (जात्यन्धं च दृष्ट्वा)



[141] तदा मातापितृभ्यामेवं भविष्यति। निरास्वादमस्माभिर्दुःखमनुभूतं निरास्वादमस्माकां पुत्रोऽजातः निरास्यादं नवा मासाः कुक्षौ धारितः शीतोष्णां वेदनां वेदयमानैः क्षुत्पिपासासुःखाणि च प्रत्यनुभूतानि। बहूनि च दृष्टधर्मवेदनीयानि दुःखानि दृष्ट्वा पुत्रोऽजातः न च गृहे मातापित्रावुत्सुकौ कृतौ न स्वकायं। ततो मातापितृभ्यां महती निराशता भविष्यति।

एवमेव सर्वशूर निराशाः सद्धर्मप्रतिक्षेपकाः सत्त्वाः नरकतिर्यक्प्रेतपरायणाः ते च तस्मिन् मरणकालसमये महता शोकाशल्यसमर्पिता भविष्यन्ति।



[142] ये सर्वशूर सत्त्वा एवं वाग्भाषन्ते अस्ति धर्मः अस्ति धर्माणां पारगः ते तेन कुशलमूलेन विंशाति कल्पाण्युत्तरकुरुषूपपत्स्यन्ते। पंचविंशति कल्पसहस्राणि त्रायस्त्रिंशानान् देवानां सहभाव्यतायामुपपत्स्यन्ते। त्रयस्त्रिंशद्भ्यो देवेभ्यश्च्यवित्वा उत्तरकुरुषुपपत्स्यन्ते।

न च मातुः कुक्षावुपपत्स्यन्ते। लोकधातुशतसहस्रं च द्रक्ष्यन्ति। सर्वे (च तां लोकधातवः) सुखावतीनामानः सर्वबुद्धक्षेत्रसन्दर्शनन् दृष्ट्वा तत्रैव प्रतिष्ठानां कृत्वा तत्रैव बोधिमभिसम्भोत्स्यन्ते।



[143] एवं हि सर्वशूर महाप्रभावो यं संघाटो धर्मपर्यायः येऽस्मिंश्चित्तप्रसादं करिष्यन्ति। न ते जातु विषमपरिहारेण कालं करिष्यन्ति। परिशुद्धशीलसमवागतास्ते (सत्त्वा) भविष्यन्ति।



[144] सन्ति सर्वशूर सत्त्वा य एवं वक्स्यन्ति रात्रिन्दिवं तथागतो बहूनि सत्त्वानि परिमोचयन्ति। अद्यापि सत्त्वधातुः क्षयं न गच्छन्ति। बहवो बोधाय प्रणिधानं कुर्वति। बहवः स्वर्गलोक उपपद्यन्ते। बहवो निर्वृतिमनुप्राप्नुवन्ति। अथ केन हेतुना सत्त्वानां क्षयो न भवति॥

II. मैत्रेयपरिपृच्छा।



[145] अथान्यतीर्थिकचरकपरिब्राजकनिग्रन्थानामेतदभवत् गमिष्यामो वयं श्रमणेन गौतमेन सार्धं विवादं करिष्यामः अथ खलु चतुर्नवति ब्राह्मणान्यतीर्थिकचरकपरिब्राजकाः अनेकानि च निग्रन्थशतानि येन राजगृहं महानगरं तेनोपसंक्रामन्ति। तेन च कालेन तेन समयेन भगवान् स्मितां प्रादुष्चकार;॥



[146] अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनांजलिं प्रणम्य भगवन्तमेतदवोचत् - को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुष्करणाय। नाहेतुं नाप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धा स्मितं प्रादुष्कुर्वन्ति।



[147] भगवानाह - शृणु कुलपुत्राद्येह राजगृहे महानगरे महासन्निपातो भविष्यति।

आह। के भगवन् इहायास्यन्ति। देवा वा नागा वा यक्षा वा मनुष्या वा अमनुष्या वा।

भगवानाह - सर्व एते मैत्रेयाद्येहागमिष्यन्ति। देवनागयक्षमनुष्यामनुष्याः चतुरशीतिं च सहस्राणि ब्राह्मणानामिहायास्यन्ति।



[148] नवति कोटीसहस्राणि तीर्थिकचरकपरिब्राजकनिग्रन्थानामिहा यास्यन्ति। ते मया सार्धं विवादं करिष्यन्ति। तेषां सर्वेषां विवादशमनाय धर्मन् देशयिष्यामि। सर्वे च ते ब्राह्मणा अनुत्तरायां सम्यक्सम्बोधौ चित्तमुत्पादयिष्यन्ति। नवति कोटीशतसहस्राण्यन्यतीर्थिकचरकपरिब्राजकनिग्रन्थाः सर्वे स्रोतआपत्तिफलं प्राप्स्यन्ति।



[149] अष्टादश कोटीसहस्राणि नागराज्ञामागमिष्यन्ति। ये ममान्तिकाद्धर्मं श्रोष्यन्ति। श्रुत्वा च (ता) सर्वेऽनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयिष्यन्ति।



[150] षष्टि कोटीसहस्रानि शुद्धावासकायिकानां देवपुत्राणामागमिष्यन्ति। द्वात्रिंशद्भिः कोटीसहस्रैर्मारः पापीयान् सपरिवार आयास्यति। द्वादश कोटीसहस्राणि असुरराज्ञामागमिष्यन्ति। पंचमात्राणि (च) राजशतानि सपरिवाराण्यायास्यन्ति धर्मश्रवणाय। ते सर्वे ममान्तिकाद्धर्मं श्रुत्वानुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयिष्यन्ति॥



[151] अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवतः पादौ शिरसा वन्दित्वा भगवन्तं (तृष्) प्रदक्षिणीकृत्वा तत्रैवान्तर्धिततः॥



III. सर्वशूरपरिपृच्छा (2)

[152] अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यं प्रतिष्ठाप्य येन भगवांस्तेनांजलिं प्रणाम्य भगवन्तमेतदवोचत् - किन्नामो भगवन् पंचमात्राणि राजशतानि।



[153] भगवान् आह - शृणु सर्वशूर नदो नाम राजा सुनन्दो नाम राजा। उपनन्दो नाम राजा। जिनर्षभो नाम राजा। ब्रह्मसेनो नाम राजा। ब्रह्मघोषो नाम राजा। सुदर्शनो नाम राजा। जयसेनो नाम राजा। नन्दसेनो नाम राजा। बिंबिसारो नाम राजा। प्रसेनजिन्नाम राजा। विरूढको नाम राजा। एवंप्रमुखानि पंचमात्राणि राजशतानि। एकैको राज विंशतिकोटीसहस्रपरिवारः ते सर्वेऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः स्थापयित्वा राजा विरूढकः



[154] पूर्वस्यान् दिशि तृंशत्कोटीसहस्रानि बोधिसत्त्वानामागच्छन्ति। (दक्षिणायां दिशायां पंचाशत्कोटीसहस्रानि बोधिसत्त्वानामागच्छन्ति; पश्चिमायान् दिशायां षष्टि कोटीसहस्राणि बोधिसत्त्वानामागच्छन्ति।)

उत्तरस्यान् दिशि अशीति कोटीसहस्राणि बोधिसत्त्वानाम् आगच्छन्ति। अधस्ताद्दिशि नवति कोटीसहस्रानि बोधिसत्त्वानामागच्छन्ति। ऊर्ध्वायान् दिशि शत कोटीसहस्राणि बोधिसत्त्वानामागच्छन्ति। सर्वे च दशभूमिप्रतिष्ठिताः



[155] अथ ते सर्वे बोधिसत्त्वा येन राजगृहं महानगरं येन च गृद्ध्रकूटपर्वतो येन भगवांस्तेनोपसंक्रान्ता भगवतो दर्शनाय (;वन्दनाय)। सर्वे च ते बोधिसत्त्वानुत्तरां सम्यक्संबोधिं संप्रस्थिताः



[156] अथ खलु भगवान् सर्वशूरं बोधिसत्त्वं महासत्त्वमामन्त्रयति (स्म;) गच्छ त्वं सर्वशूर दशसु दिक्षु सर्वलोकधातुषु बोधिसत्त्वानां एवं वद।

अद्य तथागतो राजगृहे महानगरे धर्मन् देशयति। तद्यूयं सर्वे दशसु दिक्षु लोकधातुषु स्थिता अञ्जलीन् प्रणामयथ; अनुश्राव्य च मुहूर्तमात्रेण च पुनरेवागच्छ धर्मश्रवणाय।



[157] अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्व उत्थायासनाद् भगवतः पादौ शिरसाभिवन्द्य भगवन्तं (तृष्) प्रदक्षिणीकृत्य ऋद्धिबलेनान्तर्धितः



[158] अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्वो दशसु दिक्षु लोकधातुषु गत्वा बोधिसत्त्वानामारोचयति।

अद्य मार्षा शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धः सहायां लोकधातौ राजगृहे महानगरे सत्त्वानान् धर्मं देशयति। तद्यूयं साधुकारमनुप्रयच्छथ्; तद्युष्माकमद्यैव हिताय सुखाय महालाभो भविष्यति।



[159] अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्वो दशसु दिक्षु लोकधातुषु गत्वा सर्वबुद्धान् पर्युपास्य बोधिसत्त्वानामारोचयति। तद्यथापि नाम बलवान् पुरुषो च्छटासंघाटं कुर्यादत्रान्तरे सर्वशूरो बोधिसत्त्वो महासत्त्वो येन राजगृहं महानगरं येन च भगवांस्तेनागत्य भगवतः पुरत स्थितः तत्र च सर्वे ब्राह्मणान्यतीर्थिकचरकपरिब्राजकनिग्रन्था सन्निपतिताः बहवश्च देवनागमनुष्यामनुष्याः पंचमात्राणि च राजशतानि सपरिवाराणि सन्निपतितानि। त्रयस्त्रिंशत्कोटीसहस्राणि माराणां पापीयसां सपरिवाराः सन्निपतिता।



[160] अथ खलु पुनः तेन समयेन राजगृहं महानगरं प्रकंपितम् अथ खलु दशसु दिक्षु लोकधातुषि दिव्यं चन्दनचूर्णं प्रवर्षितं। दिव्यं च पुष्पवर्षं प्रवर्षितं। तद् भगवतो मूर्धसन्धौ कूटागारः संस्थितः तेन खलु पुनः समयेन तथागतस्य पुरतः शक्रो देवानामिन्द्रो वज्रं पराहनत्



[161] अथ खलु तस्मिन् समये चतुर्दिशं चत्वारो वातराजनः संक्षुब्धाः प्रवान्ति। येन च राजगृहे महानगरे संकरा वा पंसवो वा बालिका वा तत्सर्वं नगराद्बहिः प्रक्षिपन्ति। दशसु दिक्षु लोकधातुषु गन्धोदकवर्षं प्रवर्षन्ति। दशसु दिक्षु लोकधातुषूत्पलपद्मकुमुदपुण्डरीकानि प्रवर्षन्ति।

ते च पुष्पास्तेषां सत्त्वानामुपरिमुर्ध्नि पुष्पच्छत्राणि तस्थिरे। तथागतस्य चोपरिमुर्ध्नि उपर्यन्तरीक्षे चतुरशीतिः कूटागारसहस्राणि संस्थितानि।

तेषु च चतुरशीतिषु पुष्पकूटागारसहस्रेषु चतुरशीति सहस्राण्यासनानां प्रज्ञप्तानि सप्तरत्नमयानि प्रादुर्भूतानि। सर्वत्र चासने तथागतो निषण्णो धर्मन् देशयति। अथ खल्वयं त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारं प्रकम्पितः॥



[162] अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्वो येन भगवांस्तेनांजलिं प्रणम्य भगवन्तमेतदवोचत् - को भगवन् हेतुः कः प्रत्ययो यदिमान्येवंरूपाणि राजगृहे महानगरे प्रातिहार्याणि; सन्दृश्यन्ते।

भगवान् आह - तद्यथा कश्चिदेव पुरुषः स्याच्चञ्चलश्चपलोऽहंकारममकारस्थितः स च दरिद्रो भवेत् तस्य राजा शीर्षं परिमार्जयेदथ स पुरुषोऽधिमानाद्यावाद्राजद्वारं गत्वा बलसा तं राजकुलं प्रवेष्टुं इच्छेदथ ते राजामात्यपार्षद्यास्तं पुरुषं गृह्णीयुर्बहुभिश्च प्रकारैस्ताडयेयुर्



[163] अथ तेन कालेन तेन समयेन स राजा शृणुयाद् एतं प्रकृतिं स दरिद्रपुरुषो बलसाभ्यन्तरं प्रवेष्टुकाम इति। श्रुत्वा चास्यैवं भवेद् अवश्यमयं मम घातयितुकामः

ततः स राजा रुष्टस्तान् पार्षद्यानेवं वदेद् गच्छन्तु भवन्त एतं पुरुषं पर्वतविवरं नीत्वा जीविताद्व्यपरोपयथ; सर्वपरिवारं मातापितृपुत्रदुहितृदासीदासकर्मकराणां च व्यसनमापादयथ।

अथ ते सर्वे जीविताद्व्यवरोपिताः तस्य (च) सर्वे स्वजनबन्धुवर्गाः परमशोकशल्यसमर्पिता भवेयुः



[164] एवमेव सर्वशूर तथागतोऽप्यर्हन् सम्यक्संबुद्धः सत्त्वानान् धर्मन् देशयति। तत्र यथा स पुरुषोऽधिमानिक एवं बालपृथग्जनास्तथागतं रूपवर्णलिंगसंस्थानतो निमित्तमुद्गृह्य तथागतकायमिति संजानन्ति।



[165] तत्र ते बहून् धर्मंच्छ्रुत्वाधिमाने पतन्ति नानाप्रलापान् प्रलपन्ति। अहंकारममकारेणाभिभूताः (सत्त्वाः) स्वयमेव धर्मं न शृण्वन्ति न प्रकाशयन्ति। यः कश्चित् सूत्रं वा गाथां वान्तशो दृष्टान्तं वा तेषां आरोचयति। तत्ते न गृह्णन्ति न श्रोत्रमवदधन्ति। वयं स्वयं जानीमह इति। तत्कस्य हेतोर्यथापीदमधिमानत्वात्ते च बाहुश्रुत्येन प्रमादमापद्यन्ते।



[166] ये बालपृथग्जनैः सार्धं समवधानं कुर्वन्ति। न ते तथारूपं धर्मोपसंहितं वचनं श्रोष्यन्ति। तेत्तेन बाहुश्रुत्येन प्रमत्ता भविष्यन्ति। ते तथारूपाः पुरुषाः स्वकाव्यानि स्थापयन्ति। स्वग्रन्थानि दानानि स्थापयन्ति। ते सर्वलोकं चात्मानं च विसंपादयन्ति। व्यर्थं च राष्ट्रपिण्डं प्रभूतं परिभोक्ष्यन्ति। भुक्त्वा च न सम्यक् परिणमयिष्यंति। मरणकालसमये च तेषां महासन्त्रासो भविष्यति।



[167] ते च सत्त्वास्तं वक्ष्यन्ति। बहवस्त्वया वयं शिल्पज्ञानं शिक्षापिताः कथं त्वं स्वमात्मानं न शक्नुषे परिसंस्थापयितुं। स तेषां एवं वदेन्न शक्यं मार्षा इदानीमात्मानं परिसंस्थापयितुं।



[168] तत्र ते सत्त्वा(स्तस्य तद्भाषितं श्रुत्वा) नानाप्रकारं परिदेवयिष्यन्ति। यथा तस्यैकपुद्गलस्यर्थेन बहवो ज्ञतृसंघा जीविताद्व्यवरोपिता अनपराधिनः स्वकर्मप्रत्ययेन।

एवमेव ते सत्त्वा मरणकालसमये तेषां परिदेवतां नरकतिर्यग्योनिपरायणं आत्मानं समनुपश्यन्तः अकल्याणमित्रहेतोः एवमेव युष्माकं ब्राह्मणानामन्यतीर्थिकचरकपरिब्राजकनिग्रन्थानामेवं वदामि।

मा यूयं प्रमत्ता भवथः तद्यथापिनामाजातपक्षः शकुनिर्न शक्नोत्याकाशे प्रक्रमितुं देवलोकगमनाय। एवमेव युष्माभिर्(अहंकारममकारस्थितैर्)न शक्यं निर्वाणं अनुप्राप्तुं न युष्माकं तथा ऋद्धिः संविद्यते।

तत्कस्य हेतोः कर्मप्रकरणेन यूयं कुक्कुटयोन्या इवोत्पन्नाः न चिरेणायं कायो भेदनधर्मा मरणपर्यवसानो भविष्यति। मरणकालसमये निरास्वादनता परितस्यनता च भविष्यति।



[169] किमयं अस्माभिरात्मभावः सन्धारितो ये वयं न देवसुखं न मनुष्यलोकसुखं प्रत्यनुभविष्याम। नापि निर्वाणपदस्था भविष्याम; निरर्थकमस्माभिः शरीरमुद्बूढं। का गतिरस्माभिः कः परायणं भविष्यति। कुत्रोपपत्तिः कुत्र (वा) निरोधो भविष्यति।



[170] अथ (खलु) भगवांस्(पुनरपि) तेषां अन्यतीर्थिकचरकपरिब्राजकनिग्रन्थब्राह्मणानमन्त्रयति। मा यूयं मार्षा रत्नमयाज्जंबूद्वीपान्निराशा भविष्यध्वे; मा यायं धर्मरत्नात् परिबाह्या भविष्यथेति। पृच्छथ यूयं मार्षास्तथागतं यद्यदेवाकांक्षथाहं युष्माकं सर्वाभिप्रायान् परिपूरयिष्यामि।



[171] अथ खलु ते सर्वे ब्राह्मणान्यतीर्थिकचरकपरिब्राजकनिग्रन्था उत्थायासनेभ्यः एकांसानि चीवराणि प्रवृत्यांजलयः प्रगृह्य भगवन्तं परिपृच्छन्ति (स्म)। बहूनि भगवं सत्त्वानि रात्रिन्दिवस्तथागतः संसारा परिमोचयति। न च सत्त्वधातोरूनत्वं वा पूर्णत्वं वा प्रज्ञायते। को भगवन् हेतुः कः प्रत्ययः यत्ते सत्त्वा समाना उत्पादनिरोधं दर्शयन्ति॥०॥ (संघाटे महाधर्मपर्याये सर्वशूरपरिपृच्छा समाप्ता॥०॥)



IV. भैषज्यसेनपरिपृच्छा।

[172] तत्र खलु भगवान् भैषज्यसेनं बोधिसत्त्वं महासत्त्वमामन्त्रयति स्म। महासन्नाहं सन्नह्यन्ति तीर्थ्या। महाकौकृत्यविनोदनार्थाय। महाधर्मोल्काज्वालनाय। महाप्रश्ननिदानं परिपृच्छन्ति। (शृणुथ यूयं कुलपुत्रा इहानन्तापर्यन्त पृथिवीधातुरब्धातुस्तेजोधातुर्वायुधातुरतो नांततरः सत्त्वधातुः सन्ति च सत्त्वाः ये सत्त्वहितार्थमुत्पादनिरोधं दर्शयंति)

पश्चिमे तु काले भविष्यन्ति दहरा सत्त्वा वृद्धा वा ये उत्पादनिरोधं करिष्यन्ति। सन्ति भैषज्यसेन वृद्धा सत्त्वा दहरा इव न किंचिज्जानन्ति।



[173] तद्यथापि नाम भैषज्यसेन कश्चिदेव पुरुषः शिरं शोचयेत नवकानि च वस्त्राणि प्रवृणुयात् स च गृहाद्बहिर्निष्क्रमेत। तमेनं सत्त्वा आमन्त्रयन्ति। सुप्रावृतानि ते नवकानि वस्त्राणीति। अथ कश्चिदेवापरः सत्त्वो भवेत् स शिरः शोचयेत पुराणकानि च वस्त्राणि (शोचयित्वा) प्रावृणुयात् तानि च शिथिलकानि भवन्ति न च शोभन्ते। स च पुरुषः सुस्नातशिरा भवति वस्त्रं चास्य न शोभते। एवमेव भैषज्यसेन संति वृद्धा सत्त्वा ये जंबूद्वीपं न शोभयन्ति। दहरास्तु सत्त्वा उत्पादनिरोधं दर्शयन्ति।



[174] अथ खलु ते सर्वेऽन्यतीर्थिकचरकपरिब्राजकनिग्रन्थब्राह्मणा उत्थायसनाद् भगवन्तमेतदवोचन् - को भगवन्नस्माकं वृद्धो वा दहरो वा

भगवान् आह - वृद्धा यूयं पुनः पुनर्नरकतिर्यक्प्रेतेषु दुःखां वेदनां दृष्ट्वा तदद्यापि यूयं तृप्तिं नाधिगच्छथ;



[175] अथ खलु ते सर्वे ब्राह्मणान्यतीर्थिकचरकपरिब्राजकनिग्रन्थाः सर्वे च नागराजानो भगवन्तमेतदवोचन् - न भूयो भगवन्नुत्सहाम संसारे दुःखां वेदनामनुभवितुं

ते चान्यतीर्थिकचरकपरिब्राजकनिग्रन्थब्राह्मणा एवमाहुः न सन्ति दहरा सत्त्वा ये शक्नुयुर्धर्मतां साक्षात् कर्तुम्॥



[176] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - पश्य भदन्त भगवन् कियद्दुरधिमोच्या इमे सत्त्वाः

भगवान् आह - शृणु भैषज्यसेन संप्रतं तथागतः सर्वलोकप्रत्यक्षं करोति।



[177] अथ खलु चतुनवति कोटीसहस्राणि नवकानां सत्त्वानां ते तथागतस्य पुरतः स्थिताः न च तथागतं बन्दन्ति नालपन्ति न संलपन्ति। तूष्णींभावेनाधिवासयन्ति।

अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - को भगवन् हेतुः कः प्रत्ययो यदेते सत्त्वा भगवन्तं नालपन्ति न संलपन्ति न वन्दन्ति न च भगवन्तं परिपृच्छन्ति। भगवान् आह - शृणु भैषज्यसेन ये सत्त्वा एवं वदन्ति न शक्यं नवकैः सत्त्वैर्धर्मता साक्षात् कर्तुम्॥ त एते भैषज्यसेन नवकाः सत्त्वा युष्माभिर्द्रष्टव्याः

ते च सत्त्वा एवं आहुर्वयं भदन्त भगवन् नवकाः सत्त्वा वयं भदन्त सुगत नवकाः सत्त्वा।

भगवान् आह - एषां भो सत्त्वानां लोकप्रत्यक्षं सांप्रतं स्वशरीराल्लोकस्य प्रमानं दर्शयथ।



[178] तेन खलु पुनः कालेन तेन समयेन चतुर्नवति कोटीसहस्राणि नवकानां सत्त्वानां कायस्य भेदादन्तरिक्षे स्थित्वा दशभूमिप्रतिलब्धा अभूवन्

अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - सुलब्धा लाभा भगवन्नीदृशाः सत्त्वाः ये संसारे परिक्षयाय पर्यदानाय वीर्यमारभन्ते। अद्यैव भगवन्निमे सत्त्वा उत्पन्नाः अद्यैव भगवन्निमे सत्त्वाः परिमुक्ताः (अद्यैव) सर्वे दशभूमिप्रतिष्ठिता दृष्टाः॥



[179] अथ खलु सर्वब्राह्मणान्यतीर्थिकचरकपरिब्राजकनिग्रन्था नागराजानोऽपि माराश्च पापीयानं सपरिवारं उपसंक्रान्तं विचक्षुष्करणाय; सर्वे च ते भगवन्तमेतदवोचन्निह वयं भगवन् तथागतस्यान्तिकमुपसंक्रान्ता विचक्षुष्करणाय। ते वयं भगवन्निमन् धर्मपर्यायं श्रुत्वा प्रसादप्रतिलब्धा अभूवन् बुद्धे च धर्मे च। तत्रास्माकं भगवन् सर्वेषां एवं भगवत्येवंरूपं बुद्धसुखं प्रतिलभेम;॥ एवंरूपाश्च तथागता अर्हन्तः सम्यक्संबुद्धा लोके भवेम;



[180] भगवान् आहैवमेतद्भद्रमुखा एवमेतद्यथा यूयं तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकमुपसंक्रान्ताः तैर्युष्माभिरिमं संघाटं (सूत्रं) धर्मपर्यायं श्रुत्वानुत्तरायाः सम्यक्संबोधेश्चित्तान्युत्पादितानि। तेन यूयं भद्रमुखाः कुशलमूलेन न चिरेण कालेनानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यध्वे। अथ समन्तरभाषिता च भगवतेयं वाग्



[181] अथ तावदेव तेषां सर्वेषामन्यतीर्थिकचरकपरिब्राजकनिग्रन्थब्राह्मणानामनुत्पत्तिकधर्मक्षान्तिप्रैत्लब्धोऽभूवत् सर्वे च दशभूमिप्रतिष्ठिता बोधिसत्त्वाः संवृत्ताः सर्वे च ते बोधिसत्त्वा उपर्यन्तरीक्षे सप्त तालान् वैहायसमभ्युद्गम्य सप्तरत्नमयानि कूटागाराणि तथागतस्योपनामयन्ति। सर्वे च नानाविकुर्वाधिष्ठानर्ध्यभिसंकारान् अभिसंस्कुर्वन्ति।

अथ तावदेव ते सर्वे भगवत उपरिमूर्ध्नि स्थित्वा भगवन्तं नानापुष्पैरभ्यवकिरन्ति। तथागतांश्च मनसि कुर्वन्ति। स्वकाये च बुद्धसंज्ञामुत्पादयन्त्यनेकानि च देवपुत्रकोटीनियुतशतसहस्राणि (दिव्यपुष्प्[ऐ]स्) तथागतमभ्यवकिरन्ति (स्मः)।



[182] एवं च वाचमभाशन्त; महालाभः श्रमणो गौतमः महाक्षेत्रं लोकनाथः समाधिबलाधानप्राप्तः विज्ञो विज्ञार्थिकः यः ईदृशान् सत्त्वान् संसारादनुपूर्वेणोपायकौशल्येन परिमोचयत्येकेन सुभाषितमात्रेण एतावन्ति सत्त्वानि संसारात् परिमुच्यन्ते॥



[183] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनांजलिं प्रणम्य भगवन्तमेतदवोचत् - को भगवन् हेतुः कः प्रत्ययो य एत देवपुत्रा एवं वान्निश्चारयन्ति। बहूनि चर्ध्यभिसंस्कारं कुर्वन्ति। बहुभिश्च गुणवर्णस्तवैस्तथागतमभिस्तवन्ति स्म।

भगवान् आह - शृणु कुलपुत्र न हि ते मां स्तुन्वन्ति। स्वकायमेव स्तुन्वन्ति। स्वकायमेव धर्मराजासने स्थापयिष्यन्ति। स्वकायमेवग्रधर्मासने प्रतिष्ठापयिष्यन्ति। स्वकायादेव धर्मरश्मिन् निश्चारयिष्यन्ति। सर्वबुद्धपरिगृहीताश्च भविष्यन्त्यनुत्तरास्याः सम्यक्संबोधेरभिसंबोधायाभिसंबुध्य च धर्मन् देशयिष्यन्ति (च)॥



[184] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - बहवो भदन्त भगवन् सत्त्वाः बहवो भदन्त सुगतः सत्त्वा रात्रिन्दिवं परिमुच्यन्ते तदद्यापि सत्त्वानां क्षयो न भवति। भगवान् आह - साधु साधु भैषज्यसेन यस्त्वं तथागतमेतमर्थं परिप्रष्टव्यं मन्यसे। शृणु भैषज्यसेन तद्यथापि नाम भैषज्यसेन कश्चिदेव पुरुषो भवेदाढ्यो महाधनो महाभोगः प्रभूतभोगः बहुधनधान्यकोशकोष्ठागारसमन्वागतः बहुदासदासीकर्मकरपौरुषेयानि चास्य स्युः बहूनि च धनस्कन्धानि भवेयुः बहूनि च क्षेत्रारामाणि संविद्येरन् बहूनि च धनधान्यानि। तद्यथा यवगोधुमशालितिलमाषमुद्गादीनि स च पुरुषो वसन्तकाले सर्वानि तानि धनधान्यानि वापयेत।

अथ यावदपरेण कालसमयेन सर्वाणि तानि धनधान्यानि परिपद्यरन् स परिपक्वानीति विदित्वा स यावदभ्यन्तरगृहे प्रवेशयेत; स पुरुषस्तानि धनधान्यानि गृहस्याभ्यन्तरे पृथक् पृथक् स्थापयति। स्थापयित्वा परिभुंक्ते। यावद्वसन्तकाले (समये) पुनरेव तानि बीजानि वापयति।



[185] एवमेव भैषज्यसेन इमे सत्त्वाः पूर्वं शुभं कर्म कृत्वा पश्चात् तेषां कर्मणां परिक्षयात् पुनः पुनरपि पुण्यक्षेत्रमेषन्ते कुशलमूलान्यवरोपयन्ति। कुशलमूलान्यवरोपयित्वा तत्र च कुशलधर्मे प्रतिपत्य संपादयन्ति। प्रतिपत्तिसंपन्ना सर्वधर्मान् वर्धयन्ति। सर्वधर्मान् वर्धयित्वा प्रीतिप्रामोद्यमुत्पादयन्ति। तेन च प्रीतिप्रामोद्यचित्तेन भैषज्यसेनानेकानि कल्पकोटीसहस्राणि न नाश्यन्ते। एवमेव भैषज्यसेन प्रथमचित्तोत्पादिको बोधिसत्त्वो न कदाचिद् विनाशधर्मा भवति। संक्षिप्तेन सर्वधर्मान् प्रजानाति।



[186] आह। कथं भगवन् प्रथमचित्तोत्पादिको बोधिसत्त्वः स्वप्नं पश्यति।

भगवान् आह। बहूनि भैषज्यसेन प्रथमचित्तोत्पादिको बोधिसत्त्वः स्वप्नान्तरे भयानि पश्यति। तत्कस्य हेतोर्यदा स्वप्नान्तरे भयानि पश्यति। तदा सर्वपापकानि कर्माणि परिशोधयति। न शक्यं भैषज्यसेन पापकर्मणा सत्त्वेन तीव्रं दुःखमपनयितुं न च पापेन स्वप्नेन दृष्टेनास्य भयं भवति।



[187] भैषज्यसेन आह - कतमानि भगवन् प्रथमचित्तोत्पादिको बोधिसत्त्वः स्वप्नान्तरे भयानि पश्यति।

भगवान् आह - अग्निं भैषज्यसेन प्रज्वलितं पश्यति। तत्र तेन बोधिसत्त्वेनैवं चित्तं उत्पादयितव्यं सर्वक्लेशानि मे दग्धाः द्वितीयं भैषज्यसेन उदकं पश्यति लुडितं संप्रलुडितं। तत्र तेन प्रथमचित्तोत्पादिकेन बोधिसत्त्वेन न भेत्तव्यं। तत्कस्य हेतोः एवं हि भैषज्यसेन बोधिसत्त्वेन सर्वमोहबन्धनानि विनिवर्त्य सर्वपापक्षयं कृतं भवति।

तृतीयं भैषज्यसेन प्रथमचित्तोत्पादिको बोधिसत्त्वः स्वप्नं पश्यति महाभयं।

आह - कतमं भगवन्



[188] भगवान् आह - स्वशरीरे शीर्षं मुण्डितं पश्यति। तत्र तेन भैषज्यसेन प्रथमचित्तोत्पादिकेन बोधिसत्त्वेन न भेत्तव्यं तत्कस्य हेतोः तेनैवं चित्तमुत्पादयितव्यं रागद्वेषमोहानि मे मुण्डितानि भवन्ति। षड्गतिकं च मे संसारं पराजितं भविष्यति। न हि तस्य नरकावासो भविष्यति। न तिर्यक्षु न प्रेतेषु (वा) नासुरेषु (वा) न नागेषु न देवेषु परिशुद्धेषु भैषज्यसेन बुद्धक्षेत्रेषु प्रथमचित्तोत्पादिको बोधिसत्त्वः उपपत्तिं प्रतिगृह्णाति।



[189] (भविष्यति) भैषज्यसेन पश्चिमे काले पश्चिमे समये यदि कश्चित् सत्त्वो बोधौ चित्तं परिणमयिष्यति। तेन महती परिभाषणा द्रष्टव्या। परिभूतवासश्च भविष्यति। तत्र (तेन) भैषज्यसेन प्रथमचित्तोत्पादिकेन बोधिसत्त्वेन न परिखेदचित्तमुत्पादयितव्यं न व्यवसितव्यं।



[190] बहवो भैषज्यसेन मया धर्मा देशिताः मया च भैषज्यसेनानेकानि कल्पनियुतशतसहस्रानि दुष्करचर्या चीर्णा न मया भैषज्यसेन राज्यभोगार्थाय वा वृत्तिभोगार्थाय वा ऐश्वर्यभोगार्थाय वा दुष्करचर्या चीर्णाः स्वभावधर्मावबोधाय भैषज्यसेन मया दुष्करचर्या चीर्णाः न च मे तावदनुत्तरा सम्यक्संबोधिमभिसंबुद्धा यावन्न मयायं धर्मपर्यायः श्रुतः यस्मिन्स्तु भैषज्यसेन कालसमये मयायं संघाटो धर्मपर्याय श्रुतः तत्रैव मे दिवसे अनुत्तरा सम्यक्संबोधिमभिसंबुद्धा गंभीरो यं भैषज्यसेन धर्मपर्यायः दुर्लभोऽस्य भैषज्यसेन धर्मपर्यायस्य कल्पकोटीनियुतशतसहस्रैरपि श्रवः परमदुर्लभो भैषज्यसेन तथागतानामुत्पादः परमदुर्लभा भैषज्यसेनास्य धर्मपर्यायस्य धारकः



[191] ये ते इमन् धर्मपर्यायं श्रोष्यन्ति। सर्वे ते नुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते। कल्पशतसहस्रं भैषज्यसेन सत्त्वा संसारात् पश्चान्मुखं करिष्यन्ति। परिषुद्धं च बुद्धक्षेत्रं प्रतिलप्स्यन्ते। निरोधमार्गं च प्रज्ञस्यन्ति।

भव्याश् च ते निश्रयं प्रज्ञातुं। भव्याः कुशलस्थानं प्रज्ञतुं। भव्या अभिज्ञाकुशलस्थानं प्रज्ञतुम् भव्याः कुशलस्थाननिरोधं प्रज्ञातुम्



[192] निरोधमेव भैषज्यसेन किमर्थमुच्यते।

आह। अर्थ उच्यते भगवन् धर्मस्थानम्

भगवानाह - कतमं भैषज्यसेन धर्मस्थानं।

आह। धर्म उच्यते भगवन्नारब्धवीर्यता। आरब्धशीलता। शीलसमन्वागमता धर्मनिधानमित्युच्यते। इदं भगवन् धर्मनिधानं संभवति।

भगवान् आह - साधु साधु भैषज्यसेन यस्(त्वं) तथागतमेतमर्थं परिप्रष्टव्यं मन्यसे।



[193] आह। केन कारेणन भगवन् तथागता लोक उत्पद्यन्ते। भगवान् आह - ये भैषज्यसेन बाहुश्रुत्यसमन्वागमं प्रजानन्ति। ते तथागतानामुत्पादं प्रजानन्ति। ते तथागतानामुत्पादं ज्ञात्वा इदं तथागतानामुत्पादसुखस्थानं प्रजानन्ति। यदा च तथागता लोक उत्पद्यन्ते तदा सत्त्वा सर्वधर्मान् प्रजानन्ति। उपायकुशलान् धर्मान् प्रजानन्ति। लौकिकलोकोत्तरान् धर्मान् प्रजानन्ति। लौकिकलोकोत्तराणि ज्ञानानि प्रजानन्ति।



[194] आह ज्ञानमेवं ज्ञात्वा कतमं निर्वाणं प्रजानन्ति।

भगवानाह - धर्ममेव भैषज्यसेन प्रजानन्ति। धर्ममेव ज्ञात्वा (एवमेव) भैषज्यसेन धर्मसंग्रहं प्रजानतां प्रथमो लाभ उत्पद्यते। यथाश्रुतं गृह्य धार्मिकमेव लाभो भविष्यति।



[195] तद्यथापि नाम भैषज्यसेन कश्चिदेव पुरुषो वाणिजको भवेत् स लाभहेतोर्गच्छन् परक्यस्वकस्य सुवर्णस्य पुरुषभारसहस्रं गृहीत्वा गच्छेत्

तस्य गच्छतस्तौ मातापितरावेवमाहुतुः शृणु कुलपुत्र इदं सुवर्णस्य पुरुषभारसहस्रं गृहीतं परक्यस्वकस्य च; त त्वयेदं सुवर्णं सुगृहीतं कर्तव्यं न च किंचिदतो विनाशयितव्यं महालाभं कृत्वा सुवर्णं एव सुगृहीतं कुरु तदस्माकं महालाभो भविष्यति। सुखं च जीविष्यामः

स च पुत्रस्तौ मातापितरावेवं वदेदेवं करिष्यामि। इत्युक्त्वा

स वाणिजकः सुवर्णं गृहीत्वा गच्छेदथ स वाणिजकः प्रमादाद्यावन् मासमात्रेण सर्वं सुवर्णं विनाशयेद्विलयं कुर्यात्



[196] अथ स पुरुषः परमचिन्तामापन्नः शोकशल्येनाविद्धहृदयः सह्रीरवत्राप्येन च स्वगृहं न परविशेत;

तस्य तौ मातापितरौ शृणुयातां एवं युवाभ्यां पुत्रेण तत् सुवर्णं सर्वं विनाशितमिति श्रुत्वा निराशीभूतौ शोकशल्येनाभ्याहतहृदयौ वस्त्राणि पाटयतः शोचतः क्रन्दतः एवं च परिदेवतः दुष्पुत्रोऽस्माकं गृहे पुत्ररूपेणोत्पन्नः सकलं एव गृहं विनाशीतवान् अस्माकमनाथं कृत्वा दासौ कर्मकरौ कृतौ;

तस्य तौ मातापितरौ चिन्तापरिगतहृदयौ निराशौ कालगतौ ततस्तेन पुत्रेण श्रुतं मतापितरौ मे निराशौ कालगतौ; सोऽपि पुत्रो निराश एव कालगतः



[197] एवमेव भैषज्यसेन तथागतोऽप्येतमर्थं भाषते। ये सत्त्वा मम शसने न प्रसीदन्ति ते निराशीभूता मरणकालसमये शोकशल्याभ्याहतहृदया महाधर्मरत्नबहिष्कृताः कालं कुर्वन्ति। यथा तौ मातापितरौ निराशौ शोचतः परिदेवतः सुवर्णहेतोः शोकशल्याभ्याहतहृदयौ परक्यस्वकेन सुवर्णेन शोकशल्यपरिगतौ चिन्तामापद्य कालगतौः



[198] एवमेव भैषज्यसेन ये मम शसने न प्रसीदन्ते पश्चान् मरणकालसमये परितप्यमानाः परिदेवन्तो दुःखां वेदनां वेदयन्ति। पूर्वकृतानि च पुण्यानि परिभुक्त्वा न भूयोऽन्यानि पुण्यानि कुर्वन्ति सुक्षेत्रगतानि। तत्र तेषां पुण्यपरिक्षीणानां शोकशल्यपरिगतहृदयानां तेन कालेन तेन समयेन नरकतिर्यग्योनियमलोकोपपत्तिं घोरां दारुणान् दृष्ट्वा मरणकालसमये एवं भवति। को मे त्राता भवेद्यदहं नरक (गति) तिर्यक्प्रेतयमलोकविषयं न पश्येयन् न च तां दुःखां वेदनां वेदयेयं।



[199] तस्यैवं प्रलपतः परलोकमाक्रमतः तौ मातापितरावेवमाहतः किं करिष्याम पुत्रक; गाथाभिश्चाद्ध्याभाषतः

(54) ग्रहीतुं शक्यते नैव व्याधिर्दुःखं महाभयं।

नास्ति ते मरणं पुत्र ग्लानस्य मरणाद्भयं।

(55) मोक्षो भविष्यते तुभ्यं व्याधेर्हि भयभैरवात्

धृतिं कुरुष्व हे पुत्र ततः सिद्धिर्भविष्यति।

पुत्र आह -

(56) निरुद्ध्यते मे विज्ञानं कायो मे पीड्यते भृशम्

सर्वे अङ्गानि दुःखन्ति मृत्युं पश्यामि आत्मनः

(57) न पश्यतश्चक्षुषी मे कर्णौ मे न शृणोन्ति च।

श्रोत्रं पुनर्न लप्स्यामि न कायः संसहिष्यति।

(58) अङ्गमंगानि दुःखन्ति काष्ठा इव अचेतनाः

विस्वादयसि मे अम्ब नागतं मरणं तव;

माता आह -

(59) वक्तुं नार्हसि पुत्रैवं मा मे त्रासपरां कुरु।

कायं तव ज्वराक्रान्तं विप्रकाराणि पश्यसि।

पुत्र आह -

(60) न पश्यामि ज्वरं कायेर्न च व्याधिर्न दुःखति।

पश्यामि मरनं घोरं हतं कायं च मे भृशम्

(61) पश्यामि आत्मना सर्वं कायं दुःखप्रपीडितं।

गच्छामि कस्य शरणं को मे त्राता भविष्यति।

(62) मातापिता वदेत् पुत्र देवक्रोधं हि ते भवेत्

देवेभ्यो यजनं कृत्वा ततः स्वस्तिर्भविष्यति।

पुत्रा आह -

(63) करिष्यथा यूयमेव येन स्वस्तिर्भवेन् मम;

शीघ्रं शीघ्रं च गत्वा वै पृच्छथा देवपालकम्



[200] अथ तस्य तौ मातापितरौ देवकुकं गत्वा देवस्य धूपं दापयन्ति। अथ स देवपालकः देवस्य धूपं दत्वैवं वाचं भाषते। देवस्ते क्रुद्धः देवस्योपकारः कर्तव्यः यजनं कर्तव्यं। तत्र पशुर्घातयितव्यः पुरुषश्च घातयितव्यः ततस्ते पुत्रो व्याधेः परिमोक्ष्यते।

अथ तौ मातापितरौ तस्याम् वेलायामेवं चिन्तयतः किं करिष्यामो दरिद्राश्चास्म। यदि देवो न परसीदिष्यति तदस्माकं पुत्रः कालं करिष्यति। अथ वा प्रसादं कुर्यात्तद्वयं परमदरिद्राः पशुं पुरुषं चानयाम।



[201] अथ तौ शीघ्रशीघ्रं स्वगृहं गत्वा यत्किंचिद्गृहे परिष्कारं संविद्यते तत्सर्वं विक्रीय; पशुक्रयार्थे गच्छतः अथ तावदन्यतरं पुरुषं एवं वदेयुः देहि भोः पुरुषः सुवर्णमस्माकं याचितं यदि शक्नुमो दशमे दिवसे पुनरपि दातुं तच्छोभनमथ न शक्नुमो दातुं तद्वयं तव दासा भविष्यामः कर्मकराः तौ च तं सुवर्णं गृहीत्वा गच्छेयुः पशुं पुरुषं क्रोतुं।



[202] अथ ताभ्यां च पशुः पुरुष क्रीतः स च पुरुषो न जानीयाद्यन् मामेते जीविताद्व्यवरोपयिष्यन्ति।

अथ तौ मातापितरौ संमोहमापन्नौ न भूयः स्वगृहं प्रविष्टौ। तौ देवकुलं गत्वा तं देवपलकमामन्त्रयन्ति। शीघ्रमिदानीं यजनं कुरुष्व।

अथ तौ मातापितरौ स्वयमेव तं पशुं घातयतः तं च पुरुषं जीविताद्व्यवरोपयतः ततः स देवपालक आरब्धो यज्ञं यजनाय मेदं प्रज्वालयति।

ततः स देवोऽवतीर्य एवं कथयति। तव पुत्रो मया परिगृहीता इति।

ततस्तौ मातापितरौ प्रीतिप्रामोद्येन स्फुटावाहतुः वरं पुत्रो जीवतु वयं दासा भविष्यामः

ततस्तौ मातापितरौ निवर्त्य सुयष्टां देवं कृत्वा यावत् स्वगृहं गत्वा तदा तं पुत्रं कालगतं पश्यन्ति। ततस्तौ मातापितरौ महता दुःखदौर्मनस्येन शोकशल्येनाविद्धहृदयौ निराशीभूतौ। तत्रैव कालगतौ।

एवमेव भैषज्यसेनाकल्याणमित्रसंसर्गता द्रष्टव्याः



[203] आह। पृच्छामि (तावद्) भगवन् पृच्छामि सुगत;

आह। पृच्छ भैषज्यसेन।

आह। कुत्र भगवन् तेषां सत्त्वानामुपपत्तिः कोऽभिसंपरायः

आह। अलं भैषज्यसेन किन् तवानेनार्थेन परिपृष्टेन।

आह। पृच्छामि भगवन् पृच्छामि सुगत;

भगवान् आह। तत्र भैषज्यसेन माता रौरवे महानरके उपपन्ना;

पिता संघाते महानरके उपपन्नः पुत्रस्तपने महानरके उपपन्नः देवपालको महाविचौ महानरके उपपन्नः



[204] आह। अनपराधिकस्य भगवन् पुरुषस्य कुत्रोपपत्तिः कोऽस्याभिसंपरायः।

भगवान् आह - इह भैषज्यसेनानपराधिकस्य पुरुषस्य त्रायस्त्रिंशानन् देवनां सहभाव्यतायामुपपत्तिर्द्रष्टव्या;

आह। को भगवन् हेतुः कः प्रत्ययो यत् स पुरुषस्त्रायस्त्रिंशता देवानां सहभाव्यतायामुपपन्नः

भगवान् आह - शृणु भैषज्यसेन स पुरुषो मरणकालसमये जीविताद्व्यवरोप्यमाणस्तथागतस्योपरि चित्तं प्रसाद्यैवं वाचमभाषतः नमस्तस्य भगवते तथागतस्यार्हतः सम्यक्संबुद्धस्येत्येकवाराकृतं। स तेन भैषज्यसेन कुशलमूलेन षष्टिः कल्पान् त्रायस्त्रिंशतां देवानां सुखमनुभविष्यति। अशीतिः कल्पां जात्या जातिस्मरो भविष्यति। जातौ जातौ च सर्वशोकविगतो भविष्यति। जातमात्रश्च सर्वदुःखानि निर्वापयिष्यति। न हि ते सर्वसत्त्वा शक्यं परिनिर्वापयितुम्



[205] एवमुक्ते भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - कथं भगवन् न शक्यं सर्वसत्त्वाः परिनिर्वापयितुम् भगवान् आह - वीर्यं भैषज्यसेनारब्धव्यम्

आह। कतमो भगवन् वीर्यारंभः

भगवान् आह। शृणु भैषज्यसेन वीर्यमुच्यते फलानां दर्शनं। यदुत स्रोतआपत्तिफलं नाम वीर्यस्थानं। सकृदागामिफलं नाम वीर्यस्थानं। अनागामिफलं नाम वीर्यस्थानं। अर्हत्वफलमर्हन्निरोधश्च नाम वीर्यस्थानं। प्रत्येकबुद्धफलं प्रत्येकबुद्धफलज्ञानं नाम वीर्यस्थानं। बोधिसत्त्वभूमिफलं च बोधिस्थानं वीर्यस्थानं नाम। इमे भैषज्यसेन वीर्यस्थानानां नामानि।



[206] आह। कथं भगवन् स्रोतआपन्नो दर्शयितव्यः स्रोतआपत्तिफलञ्च।

भगवान् आह। तद्यथापि नाम कश्चिदेव भैषज्यसेन पुरुष वृक्षं वापयेत। वापितस्य वृक्षस्य तत्रैव दिवसे अङ्कुरं विरुह्येत। यत्रैव दिवसे अङ्कुरं विरुह्यन्त तत्रैव दिवसे तदङ्कुरं योजनमधस्ताद्गच्छेते;

द्वितीयश्च पुरुष एवमेव वृक्षं वापयेत; अथ तत्रैवदिवसे वातक्षोभेन तस्य वृक्षस्य नाङ्कुरानि विरुह्येरनथ स पुरुषस्तस्मात् स्थानात् तं वृक्षं उद्धरेतथान्यतरश्च पुरुषः कलहभण्डनविग्रहविवादं कुर्यात् किमर्थं मे भूमिं खनसीति।



[207] तेन च कालेन तेन समयेन राजा अश्रौशीदेवं द्वौ पुरुषौ परस्परकलहभण्डनविग्रहजातौ विवदतः तेन च राज्ञा तयोर्दूतः प्रेषितः गच्छ भोः पुरुष तौ द्वौ पुरुषावानय; एवं देवेति स पुरुषस्तस्य राज्ञः प्रतिश्रुत्य त्वरमाणरूपः प्रधात्वा तौ पुरुषावेतदवोचत् - राजा युवयोरामन्त्रयति।

अथ तावदेव तत्रैव पुरुष भीतस्त्रस्त द्वितीयश्च पुरुषोऽभीतोऽनुत्रस्तः येन स राजा तेनोपनीतावुपनीय राज्ञ पुरतः स्थापितावथ स राजा तयोरेवमाह। किमिदं भो युवयोः कलहभण्डनविग्रहविवादो जातः



[208] अथ खलु तौ द्वौ पुरुषावुत्थाय तं राजानमेतदवोचतां शृणु महाराजास्माकं न किंचित् पृथिवीप्रदेशः संविद्यते। याचितके पृथिवीप्रदेशे वृक्षो वापितः तत्रैव दिवसे वापितस्तत्रैव दिवसेऽङ्कुरं पत्राणि पुष्पाणि फलाणि च प्रादुर्भूतानि आमार्धं पक्वार्धं च। एतेन च द्वितीयेन पुरुषेण तत्रैव दिवसे तस्मिन् पृथिवीप्रदेशे वृक्षो वापित। तस्य च वृक्षस्य नांकुराणि रोहन्ति। वातेन क्षुभितेन न पत्राणि न पुष्पाणि न फलानि प्रादुर्भूतानि। न च महाराज योजनमधस्तादस्य मूलं गच्छति। स एष पुरुषो मया सार्धं विवदति तवापराध इति। अपि (तु) च देव स्वयमेव परीक्ष्य जानीयान् नात्र मम किंचिदपराधः संविद्यते।



[209] अथ खलु स राजा त्रिंशत्कोट्योऽमात्यानामाहूयैकध्येऽसंपात्यैवमाह। कथयथ यूयं।

आमात्या आहुः किं कथयाम महाराज

राजाह। क्व युष्माभि दृष्टं वा श्रुतं वा यत्रैव दिवसे वृक्षो वापितस्तत्रैव दिवसेऽङ्कुरं विरुह्यते। पत्राणि पुष्पानि फलानि च जायन्ते। पक्वर्ध-म्-आमार्धानि निश्चयमिदं भवद्भिः कर्तव्यं। अथ खलु ते अमात्य उत्थायासनात् तं राजानमेवमाहुः अस्माकं महाराज निश्चयमिदं न शोभते कर्तुं न च शक्ष्यामोऽस्य निश्चयं वक्तुं। विस्मयमिदं महाराज एष एव पुरुषस्तावत्प्रष्टव्यः वद भोः पुरुष किं सत्यमेतमर्थं यद्वदसि।

आह। सत्यं महाराजैतमर्थं।

राजाह।

(64) न श्रुतं नैव च पुष्याम दुःश्राद्धेयं वचस्तव।

वृक्षो यत्र दिने वुप्तस्तत्रैवाङ्कुरितो दिने।

(65) पत्राः पुष्पं फलं दत्तं दिने तत्रैव भाषसि।

कृतांजालिः स पुरुषस्तं राजानमथाव्रवीत्

(66ab) गच्छ स्वयम् वापय तरुं पश्य रुह्यति अङ्कुरम्॥



[210] अथ खलु स राजा तृंशत्कोटिभिरमात्यैः सार्धं बहिर्निष्क्रामति। तौ च द्वौ पुरुषौ चारकावरोधं कारयति। ततः स राजा स्वयमेव वृक्षं वापयति। न च स वृक्षो अङ्कुराणि ददाति न पत्राणि न पुष्पाणि न फलानि।

अथ स राजा रुष्ट एवमाह। गच्छन्तु भवन्तः शीघ्रमानयन्तु दारुपाटकानि कुठाराणि। यावदानयित्वा यस्तेन पुरुषेण वापितो वृक्षः सपत्राणि पुष्पफलः प्रादुर्भूतः तं वृक्षं रोषाच्छेदयति।



[211] तं चैकं वृक्षं च्छिन्नं द्वादश वृक्षाः प्रादुर्भूताः द्वादश वृक्षा च्छिन्नाश्चतुर्विंशति वृक्षाः प्रादुर्भूताः सप्तरत्नमयाः समूलाः सपत्राः सपहलाः सांकुराः

अथ तेभ्याश्चतुर्विंशति वृक्षेभ्यश्चतुर्विंशति पक्षिणः कुर्कुटाः प्रादुर्भूतानि। सुवर्णचूडानि सुवर्णतुण्डानि सप्तरत्नमयानि पक्ष्माणि।

अथ खलु स राजा रोषाभिभूतः स्वहस्तेन कुठारं गृह्य तं वृक्षं पराहनति। ततश्च वृक्षात्पराहतादमृतोदकं प्रवहति।



[212] अथ (खलु) स राजा संविग्नमना आज्ञापयति। गच्छथ तौ पुरुषौ ततश्चारकाबन्धनान् मोचयध्वमेवम् देवेति।

तत्क्षनमेव प्रधावित्वा तौ पुरुषौ ततश्चारकबन्धनान् मोक्षयित्वा येन तं वृक्षं तेनोपनीयतः

अथ स राजा पप्रिच्छ। किम् अयं वृक्षस्त्वद्वापितः एको भूत्वा च्छिद्यमानो द्विगुणविद्ध्याभ्वर्धमानः यावच्चतुर्विंशतुधा गतः मद्वापितस्तु वृक्षो नांकुराणि न पत्राणि न पुष्पाणि न फलानि दत्तवान्

ततः स पुरुष एवमाह। यादृशानि महाराज मम पुण्याणि न तव तादृशानि पुण्यानि संविद्यन्ते।



[213] अथ खलु ते त्रिंशदमात्यकोट्यस्तस्य पुरुषस्योभौ जानुमण्डलौ पृथिव्यां प्रतिष्ठाप्यैवमाहुः त्वया राज्यं कारयितव्यं नायं पूर्विमको राजा शोभते। अथ (खलु) स पुरुषस्तान् अमात्यान् गाथाभिः प्रत्यभाषत;॥

(66cd) राज्यभोगैश्च मे नार्थो न धान्येन धनेन वा।

(67) प्रसादो मम बुद्धेभ्यो भवेयं द्विपदोत्तमः॥

ब्रजेन्निर्वाणधातौ हि शान्ते यत्र तथागतः

(68) देशेय धर्मं युष्माकं निर्वाणपुरगामिनं॥

पर्यंकमबन्धित्वा प्रतिज्ञां अकरोत्ततः

(69) पूर्वं मया कृतं पापं राज्ञो बन्धनमागतः

इदन् तु कृत्वा प्रणिधिं मम पापक्षयो भवेत्॥



[214] अथ खलु ते चतुर्विंशति पक्षिणकुक्कुटकोट्यो वज्रतुण्डेन तूर्याणि पराहनति स्म॥

अथ खलु तेन कालेन तेन समयेन द्वात्रिंशति कूटागारसहस्राणि प्रादुर्भूतानि। एकैकं च कूटागारं पंचविंशतियोजनप्रमाणं प्रादुरभवत् एकैकस्मिंश्च कूटागारे पंचविंशति पक्षिणकुक्कुटाः प्रादुर्भूतानि। सुवर्णचूडानि सुवर्णतुण्डानि सुवर्णमुखानि। ते मानुष्यकं वाचं निश्चारयन्ति।

(70) असाधुस्ते महाराज यद्बृक्ष च्छेदितस्त्वया।

कोटीशतानि वृक्षाणां चतुर्विंशत् स्थिताः पुनः

(71) पापेन कर्मणानेन अनिष्ठं भोक्ष्यसे फलम्

[[न]] जानीषे कीदृशः सत्त्वो येनायं वापितो द्रुमः



राजाह -

(72) न जानामि इमं अर्थं व्यकुरुधवं महातपा।

कीदृशोऽसौ महासत्त्वो येनायं वापितो द्रुमः

पक्षिण आहुः

(73) एषो हि लोकप्रद्योतो उत्पत्स्यति विनायकः

मोचकः सर्वसत्त्वानां संसारभवबन्धनात्॥

राजाह -

(74) कतमो द्वितीयः सत्त्वो यस्य वृक्षं न रूहति।

किं वा कर्म कृतं तेन पापमाचक्ष्व मे द्विजाः

पक्षिण आहुः

(75) देवदत्तो हि मूढोऽसौ यस्य वृक्षं न रूहति।

न कृतं कुशलं किंचिद् रुह्यते स्य कथं द्रुम॥



[214] अथ खलु तेन कालेन तेन समयेन तृंशत्कोट्य आमात्यानामिमन् धर्मपर्यायं श्रुत्वा सर्वे दशभूमिप्रतिष्ठिता बोधिसत्त्वा अभिज्ञाप्रतिलब्धाः संवृत्ताः स च राजा दशभूमिप्रतिष्ठितः कुशलधर्माभिसमयमनुप्राप्तः॥



[215] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - को भगवन् हेतुः कः प्रत्ययो यत्त्रिंशत्कोट्यो जनानां दशभूमिप्रतिष्ठिता अभिज्ञाप्रतिलब्धा संवृत्ताः

भगवान् आह - शृणु भैषज्यसेन व्याकरिष्यामि।

अथ खलु भगवांस्तस्यां वेलायां स्मितं प्रादुष्चकार; अथ तावदेव तस्मिन् समये भगवतो मुखद्वाराच्चतुरशीति रश्मिशतसहस्राणि नश्चरन्ति स्मानेकवर्णानि नानावर्णान्यनेकशतसहस्रवर्णानि। तद्यथा नीलपीतलोहितावदातमंजिष्ठास्फटिकरजतवर्णानि। ता अनन्तापर्यन्तानि लोकधातवोऽवभास्य पुनरेव प्रत्युदावृत्या (तं) भगवन्तं तृष्प्रदक्षिणीकृत्य भगवतो मूर्धन्यन्तर्धीयन्त;
[216] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वः उत्थायासनादेकांसं चीवरं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमेतदवोचत् - को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुष्करणायः नाहेतुकं नाप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्रादुष्कुर्वन्ति।

भगवान् आह - पश्यसि त्वं भैषज्यसेन चतुर्दिशं लोकधातौ समन्ताज्जनकायमागच्छन्तं ममान्तिके।

आह। नोहीदं भगवन् न पश्यामि।

भगवान् आह - तेन हि भैषज्यसेन व्यवलोकय पश्य जनकायं



[217] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो व्यवलोक्याद्राक्षीत् पूर्वस्यान् दिश्येको वृक्षः प्रादुर्भूतः सप्तयोजनसहस्रप्रमाणः तत्रैकान्ते पंचविंशति कोटीसहस्राणि जनकायस्य सन्निपतितानि। ते च न भाषन्ते न जल्पन्ति नालपन्ति न संलपन्ति न भुंजन्ति नोत्तिष्ठन्ति न चंक्रमन्ति तूष्णींभावेनाधिवासयन्ति।

दक्षिणस्यान् दिशि-म्-एको वृक्षः प्रादुर्भूतः सप्तयोजनसहस्रप्रमाणः तत्र पंचविंशति कोटीसहस्राणि जनकायस्य सन्निपतितानि। ते न जल्पन्ति नालपन्ति न संलपन्ति। न भाषन्ते नोत्तिष्ठन्ति न चंक्रमन्ति। तूष्णींभावेनाधिवास्यन्ति।

पश्चिमायां दिश्येको वृक्षः प्रादुर्भूतः सप्तयोजनसहस्रप्रमाणः तत्र पंचविंशति कोटीसहस्राणि जनकायस्य सन्निपतितानि। ते न जल्पन्ति नालपन्ति न संलपन्ति। न भाषन्ति नोत्तिष्ठन्ति न चंक्रमन्ति। तूष्णींभावेनाधिवासयन्ति।

उत्तरस्यान् दिशि-म्-एको वृक्षः प्रादुर्भूतः सप्तयोजनसहस्रप्रमाणः तत्र पंचविंशति कोटीसहस्राणि जनकायस्य सन्निपतितानि। ते न जल्पन्ति नालपन्ति न संलपन्ति न भाषन्ति नोत्तिष्ठन्ति। न चंक्रमन्ति तूष्णींभावेनाधिवासयन्ति।

ऊर्ध्वायान् दिश्येको वृक्षः प्रादुर्भूतः सप्तयोजनसहस्रप्रमाणः तत्र पंचविंशति कोटीसहस्राणि जनकायस्य सन्निपतितानि। ते न जल्पन्ति नालपन्ति न संलपन्ति न भाषन्ति। नोत्तिष्ठन्ति न चंक्रमन्ति। तूष्णींभावेनाधिवास्यन्ति।

अधस्ताद्दिश्येको वृक्षो प्रादुर्भूतः सप्तयोजनसहस्रप्रमाणः तत्र च पंचविंशति कोटीसहस्राणि जनकायस्य सन्निपतितानि। ते न जल्पन्ति नालपन्ति न संलपन्ति न भाषन्ति नोत्तिष्ठान्ति। न चंक्रमन्ति। तूष्णीभावेनाधिवासयन्ति॥



[218] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - पृच्छेयमहं भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्धं कंचिदेव प्रदेशं सचेन्मे भगवान् अवकाशं कुर्यात् पृष्टः प्रश्नव्याकरणाय।

एवमुक्ते भगवान् भैषज्यसेनं बोधिसत्त्वं महासत्त्वमेतदवोचत् - पृच्छ त्वं भैषज्यसेन यद्यदेवाकांक्षस्यहन् ते तस्य तस्यैव प्रश्नस्य परिपृष्टस्य व्याकरणेन चित्तमाराधयिष्ये।



[219] एवमुक्ते भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - किमेतद् भगवंश्चतुर्दिशे लोकधातुषु जनकायमागत्यावस्थितो यावदधस्ता ऊर्ध्वायां दिशि पंचाशत् कोट्यो जनकायमागत्यावस्थितः ते च भगवन्तं नालपन्ति न संलपन्ति। न जल्पन्ति न वदन्ति न भाषन्ति। नोत्तिष्ठन्ति न चंक्रमन्ति। तूष्णींभावेनाधिवासयन्ति। को भगवन् हेतुः कः प्रत्ययः भगवान् आह - गच्छ त्वं भैषज्यसेन स्वयमेव तांस्तथागतान् परिपृच्छा; यतो लोकधातावेते जनकाया आगता।

आह। कस्य भगवन् ऋद्धिबलाधानेन गच्छामि। तथागतस्यर्ध्यानुभावेन उत स्वर्ध्या;

भगवान् आह - स्वकेन भैषज्यसेन ऋद्धिबलाधानेन गच्छ। पुनरपि तथागतस्यर्ध्यानुभावेनागच्छ;



[220] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तं तृगुप्तं प्रदक्षिणीकृत्य तत्रैवान्तर्धितः

अथ खल्वितो लोकधाता षण्नवति लोकधातुकोटीरतिक्रम्य चन्द्रप्रदीपा नाम लोकधातुः तत्र चन्द्रावतिक्षेत्रो नाम तथागतोऽर्हन् सम्यक्संबुद्ध एतर्हि तिष्ठति धृयते यापयति। अशीतिकोटी बोधिसत्त्वमहासत्त्वसहस्रपरिवृतः पुरस्कृतो धर्मन् देशयति स्म। ताम् लोकधातुं भैषज्यसेनो बोधिसत्त्वोऽनुप्राप्तः



[221] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो येन भगवांस्तेनोपसंक्रान्त उपसंक्रम्य तस्य भगवतश्चन्द्रावतिक्षेत्रस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य पादौ शिरसाभिवन्द्य पुरत स्थितः स्थित्वा येन स भगवांस्तेनांजलिं प्रणम्य भगवन्तमेतदवोचत् - आगतोऽस्मि भगवन् षण्नवति लोकधातुकोटीसहस्राण्यतिक्रम्य भगवतः शाक्यमुनेस्तथागतस्य बुद्धक्षेत्रात् सहाया लोकधातोः न चाहं भगवंस्तावन्ति सत्त्वानि क्वचित् पश्यामि। यावन्ति तत्र दृष्टानि। को भगवन् हेतुः कः प्रत्ययो यत् सहायां लोकधातौ भगवतः शाक्यमुनेस्तथागतस्य पुरतो बहुजनकायः सन्निपतितो दशदिगभ्यागतस्तत्रस्थः पश्याम्यासीत्तानि चेहस्थो न पश्यामि।



[222] स भगवान् आह - तत्रैव भैषज्यसेन संचरन्ति संतिष्ठन्ति। आह। यथा कथं पुनर्भगवन्

भगवान् आह - अचेतनवृक्षसंभूतानि सत्त्वानि।

आह। केन भगवन् दृष्टं केन श्रुतं यद् अचेतने वृक्षे मनुष्या जायन्ते।

स भगवान् आह - न भैषज्यसेन त्वया दृष्टं (वा) न श्रुतं (वा) यदचेतने वृक्षे मनुष्या जायंते।

आह। न मे भगवन् दृष्टं न श्रुतं यदचेतने वृक्षे मनुष्या जायन्ते।

स भगवान् आह - इच्छसि त्वं भैषज्यसेन द्रष्टुं तदहं सांप्रतं दर्शयिष्यामि।

आह। इच्छामि भगवन्निच्छामि सुगत;



[223] अथ खलु भगवांश्चन्द्रावतिक्षेत्रस्तथागतस्तस्यां वेलायां शतपुण्यविचित्रितं स्वं बाहुं प्रसारयति स्म। ततश्च बाहुतः कोटीशतसहस्रं जनकायानां प्रादुरभवतेकैकश्च जनकायो बाहुशतं प्रसार्य नानागन्धविलेपनैस्तथागतमभ्यवकिरन्ति।

अथ स भगवांश्चन्द्रावतिक्षेत्रस्तथागतो भैषज्यसेनं बोधिसत्त्वं महासत्त्वमामन्त्रयति। पश्यसि त्वं भैषज्यसेन एष जनकायस्तथागतं नानागन्धमाल्यविलेपनैरभ्यवकिरन्ति।

आह। पश्यामि भगवन् पश्यामि सुगत ;

स भगवान् आह - एते अचेतना जनकायाः प्रादुर्भूताः एत अचेतना मनुष्याः प्रत्याजाताः॥

अथ खलु तेषां कोटीशतसहस्राणामेकैकस्य यद्बाहुशतं ते सर्वे विकीर्यन्ते।



[224] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वस्तं दृष्ट्वा भगवन्तमेतदवोचत् - किमिदं भगवन् किमिदं सुगतः यन् मनुष्याणां मुहूर्तमात्रेण बाहुशतं विकीर्णम् यदि भगवंच्छतबाहवो न मुच्यन्ते कः पुनर्वादो द्विबाहुका मनुष्या मोक्ष्यन्ते।

भगवान् आह - एवमेव भैषज्यसेनाचेतनाः सत्त्वा जायन्ते। अचेतना निरुद्ध्यन्ते। अस्माकमपि भैषज्यसेन शरीरमचेतनभूतं मन्यितव्यं।

आह। कतमे भगवन् सत्त्वा ये दहराः कतमे वृद्धाः

भगवान् आह - सन्ति भैषज्यसेन दहराः सत्त्वा सन्ति वृद्धाः

आह। कतमे भगवन् दहरा कतमे वृद्धाः

आह। ये ते साम्प्रतंविकीर्णा ते वृद्धाः ये ते वृक्षेभ्यो निर्जातास्ते दहरा।

आह। इच्छामि भगवन् दहराणि सत्त्वानि द्रष्टुम्



[225] अथ खलु स भगवांश्चन्द्रावतिक्षेत्रस्तथागतो दक्षिणं पाणितलं प्रसारयति। अथ दशभ्यो दिग्भ्यः कोटीशतसहस्रं जनकायानां आगच्छन्ति। अधस्तादूर्ध्वायान् दिशि पंचाशत् कोटी जनकायस्यागच्छन्ति। आगत्वा च ते जनकाया भगवतः पादौ शिरसाभिवन्द्य न च तथागतमालपन्ति न संलपन्ति तूष्णींभावेनाधिवासयन्ति स्म।



[226] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - किमेते भगवन् सत्त्वास्तथागतं नालपन्ति न संलपन्ति तूष्णींभावेनाधिवासयन्ति।

भगवान् आह - न जानासि भैषज्यसेन अचेतनः पृथिवीप्रदेशो नालपन्ति न संलपन्ति। (न) धर्मस्कन्धं प्रजानाति। तत्कस्य हेतोः इहैकत्या भैषज्यसेन दहरा सत्त्वाः नोत्पादं जानन्ति न निरोधं जानन्ति। दृष्ट्वा च न जरा न व्याधिर्न शोको न परिदेवः न प्रियविप्रयोगो नाप्रियसंप्रयोगः न प्रियाद्विनाभावः न मरणं नाकालमृत्यु। नापि तानि सर्वकटुकानि दुःखाणि दृष्ट्वा उद्योगमापद्यन्ते कुतस्ते ज्ञास्यन्ति। पुनः पुनस्ते भैषज्यसेन शिक्षयितव्यानि।



[227] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - कुतो भगवन् दहरा सत्त्वा आगच्छन्ति। कुतश्च्यवन्ति। कुत्रोपपद्यन्ते। ये धर्मं न जानन्ति (न बुद्ध्यन्ति)।

भगवान् आह - शृणु भैषज्यसेन यन् मानुष्यकमात्मभावं प्रतिगृह्णन्ति। तन्न रुप्यकारेण कृतं। न चीमरकारेण कृतं। न काष्ठकारेण कृतं। न कुलालेन कृतं। न राजभयेनोत्पद्यते। स्त्रीपुरुषसंयोगात् पापेन कर्मणा संयुक्तं संभवति। पुनः पुनश्च तेषां सत्त्वानां शिल्पानि शिक्षापयन्ति। अनन्तं च तेषां कटुकं दुःखं संभवति। कटुका वेदनाः तत्र तेषां पूर्वकृतानां पापकानां कर्मणां विपाकमनुभवन्ति।

इहैव ते भैषज्यसेन दहराः सत्त्वा आगता य एते(नालपन्ति न संलपन्ति) नोत्तिष्ठन्ति य ईदृशान् दुःखां वेदनामनुभवन्ति। अनेन कारणेन भैषज्यसेन नालपन्ति न संलपन्ति। एवं ते भैषज्यसेन दहराः सत्त्वाः कुशलमजानानाः नोत्पादं जानन्ति न निरोधं जानन्ति। न च ते मानुष्यकमात्मभावं प्रतिलप्स्यन्ते। इमे उच्यन्ते भैषज्यसेन दहराः सत्त्वा।



[228] आह। कथं भगवन् दहराः सत्त्वा उत्पद्यन्ते कथं निरुध्यन्ते।

भगवान् आह - तद्यथापि नाम भैषज्यसेन कश्चिदेव पुरुष अग्निं काष्ठेन परिमार्जयेत्त तस्यानुपूर्वेण तं काष्ठमग्निना प्रदीप्येत। एवमेव भैषज्यसेन मानुष्यात्मभावं प्रथमं संजायते। जातं च सन् वेदनां वेदयति।

आह। को त्राभिजातो जातः कः परिनिर्वृतः

भगवान् आह - बुद्ध एव भैषज्यसेनाभिजातो जातः तथागत एव परिनिर्वृतः



[229] तद्यथापि नाम भैषज्यसेन कस्मिंचिदन्धकारगृहे तिमिरागारे राज्ञा पुरुषो बन्धनावरोधः कृतः स्यात् तत्र स पुरुषोऽन्धकारगृहे प्रविष्टः अन्तर्गृहे तिमिरं तिमिरागारं पश्येत् अथान्यः क कश्चित् पुरुषः पूर्वदुःखवेदनाभिर्दृष्टश्चिन्तयेन्नष्ट एष पुरुषः अनभ्यसितः दुःखो जीविते विनाशं यास्यति। स तत्राग्निमानयित्वा तत्राभ्यन्तर्गृहे सुक्ष्ममग्निम् च्छोरयेत्

स च पुरुषश्चारकावरुद्धस्तमग्निरश्मिं पश्येद्दृष्ट्वा चाश्वस्तो भवेद् उत्साहं च वर्धयेत् स चाग्निः केनचिदेव हेतुना प्रज्वलेत; तेन चाग्निन्ज्वालेन तद्गृहं समन्ततः प्रज्वलेत् स च पुरुषस्तत्रैव दह्येत् तं च दग्धं राजा श्रुत्वा चिन्तायासमापद्येत। तस्यैवं भवेन्न भूयोऽहं स्वविषये कंचित् सत्त्वं चारकावरोधं करिष्यामि।

अथ स राजा तेषां स्वविषयनिवासिनां सत्त्वानामेवं समाश्वासयेत् मा यूयं भवन्तः सत्त्वा भायथ मा उत्रसथ; अभयं युष्माकं भवतुः न मम विषये भूयो दण्डोपचारं (वा) बन्धनावरोधं वा भविष्यति। न च कस्यचित् सत्त्वस्य जीवितविनाशं करिष्यामि। निर्भया भवन्तः सत्त्वा यूयं भवथ।



[230] एवमेव भैषज्यसेन तथागतः सर्वक्लेशदग्धः सर्वव्याधिप्रशान्तः यथा स पुरुषो गृहदाहात् स्वकायं दहति। (सर्व)सत्त्वानामर्थाय हिताय सुखाय (च) प्रतिपन्नो भवति। सत्त्वान् वधबन्धनावरोधेषु परिमोचयेदेवमेव तथागतो रागद्वेषमोहमलप्रहीणः सर्वसत्त्वानान् दीप इव लोक उत्पन्नः सत्त्वान् मोचयति नरकतिर्यक्प्रेतासुरकायेभ्यः दहरांश्च (सत्त्वां) वृद्धांश्च सत्त्वान् मोचयति।



[231] अथ तावदेवोपर्यन्तरीक्षादिमा गाथा निश्चचारा;॥

(76) अहो क्षेत्रं जिनक्षेत्रं सुक्ष्त्रेमभिसंस्कृतं।

वुप्तानि यत्र बीजानि न विनाशं ब्रजन्ति हि।

(77) बुद्धक्षेत्रं जिनक्षेत्रं प्रशस्तं जिनशासनं।

शास्ता करोत्युपायं हि सर्वसत्त्वपरिग्रहे।

(78) स्थितो निर्वानधातौ सन् दृश्यते धरणीतले।

शान्तं कृत्वा सर्वलोकं बुद्धः शोधेति दक्षिणां।

(79) मोचेति नवकान् सत्त्वान् मोचेति च पुराणकान्

मोचयित्वानुपूर्वेण सर्वसत्त्वास्त्रिधातुकात्

(80) बद्धा हि नरकद्वारस्तिर्यक्प्रेता विमोचिताः

शान्तिः कृता हि लोकेस्मिन् परलोके सुखं कृतं॥



[232] अथ खलु भगवांस्तस्यां वेलायां स्मितं प्रादुष्चकार। आह च -

(81) साधु दर्शनु साधूनां बुद्धानाम् साधु दर्शनं।

साधु धर्मगुणः क्षेत्रं संघसामग्रिदर्शनम्

(82) साधु संघातनिर्देशं सर्वपापविनाशनं

ये श्रोष्यन्ति इदं सूत्रं पदं प्राप्स्यन्त्यनुत्तरं



[233] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमेतदवोचत् - को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुष्करणाय।

भगवान् आह - पश्यसि त्वं कुलपुत्रैतानि दहराणि सत्त्वानि।

आह। पश्यामि भगवन् पश्यामि सुगत;

भगवान् आह - सर्व एते भैषज्यसेनाद्यैव दशभूमिप्रतिष्ठिता बोधिसत्त्वा भविष्यन्ति॥



[234] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वोऽशीतिर्योजनसहस्राण्यूर्धवमुपर्यन्तरीक्षे स्थादथाशीतिर्देवपुत्रकोटीसहस्राणि भगवत उपरि पुष्पवर्षं प्रवर्षन्ति ते च दहराः सत्त्वा दृष्ट्वा सर्वेऽञ्जलयः कृत्वा नमस्कुर्वन्ति।



[235] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो अन्तरीक्षस्थ एवं वाग् भाषते। येन त्रिसाहस्रमहासाहस्रो लोकधातुः शब्देनापूरयति। द्वात्रिंशन् महानरकोपपन्नाः सत्त्वास्तं शब्दं शृण्वन्ति। द्वात्रिंशच्च देवनिकायास्तं शब्दं शृण्वन्ति। त्रिसाहस्रमहासाहस्रश्च लोकधातुः षड्विकारं प्रकम्पितः चतुरशीतिश्च नागराजसहस्राणि महासमुद्रे संक्षुब्दानि। त्रिंशत् कोटीसहस्राणि राक्षसानाम् इमं जंबूद्वीपमागतानि। पंचविंशत् कोटीसहस्राणि प्रेतानां यक्षानां राक्षसानामडकवत्यां राजधान्यामागतानि भगवतः पुरतो महासन्निपातः संस्थितः॥



[236] अथ खलु भगवांस्तेषान् दहराणां सत्त्वानान् धर्मन् देशयति। दशसु दिक्षु लोकधातुकोटीनियुतशतसहस्रेषु बोधिसत्त्वा महासत्त्वाः स्वकस्वकाभ्यो ऋद्धिभिरागतानि।

अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमेतदवोचत् - बहवो भगवन् बहवो सुगत बोधिसत्त्वाः सन्निपतिताः सन्निषण्णाः बहूनि च भगवन् देवनागानि सन्निपतितानि सन्निषण्णानि। पुनश्चानेकानि राक्षसप्रेतान्यडकवत्यां राजधान्यमागत्य सन्निपतितानि सन्निषण्णान्यभूवन् धर्मश्रवणाय॥



[237] तत्र खलु भगवान् भैषज्यसेनं बोधिसत्त्वं महासत्त्वमामन्त्रयति। आगच्छ कुलपुत्र;

अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो ऋद्धिबलेनोर्ध्वादवतीर्य येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमेतदवोचत् - धर्मस्कन्धो (भगवन्) धर्मस्कन्ध इति। भगवन्नुच्यते कियता भगवन् धर्मस्कन्ध इत्युच्यते।

भगवान् आह - धर्मस्कन्ध इति कुलपुत्रोच्यते। यो ब्रह्मचर्यं पर्येषते ब्रह्मचर्यं पर्येष्य सर्वपापाद्विरमति। पश्यसि त्वं कुलपुत्रामी दहरा सत्त्वा अब्रह्मचर्याद् विरमन्ति।

आह पश्यामि भगवन् पश्यामि सुगत;

आह। ते नूनन् धारणीप्रतिलब्धा भविष्यन्ति। सर्वधर्मसमन्वागताश्च भविष्यन्ति।

आह। केनोपायेन भगवन् बहूनि सत्त्वानि सन्निपतितानि। धर्मस्कन्धं श्रोतुम्



[238] अथ खलु भगवां भैषज्यसेनं बोधिसत्त्वं महासत्त्वमामन्त्रयति। बहवो भैषज्यसेन सत्त्वाः सन्ति। ये जातिरेव दुःखं न शृण्वन्ति। जरा एव दुःखं न शृण्वन्ति। व्याधिरेव दुःखं न शृण्वन्ति। शोकदुःखं परिदेवदुःखं प्रियविप्रयोगदुःखमप्रियसंप्रयोगदुःखं मरणं तु सर्वदुःखं हरते। कायजीवितमिदमुच्यते भैषज्यसेन सर्वदुःखम्



[239] अथ खलु ते दहराः सत्त्वा इमन्निर्देशं श्रुत्वा येन भगवांस्तेनांजलयः प्रणमय्य भगवन्तमेतदवोचन् अस्माकमपि भगवन् मर्त्तव्यं।

भगवान् आह- युष्माभिरपि कुलपुत्राः सर्वसत्त्वैश्च मर्तव्यमिति। आह। कथं भगवन् मरणकालमाक्रमति।

भगवान् आह - मरणकाले कुलपुत्राश्चरिमविज्ञाने विज्ञाननिरोधो नाम वातः विज्ञानविभ्रमो नाम वातः विज्ञानसंक्षोभसंयुक्तो नाम वातः इमे त्रयः कुलपुत्रा वाता मरणकालसमये चरिमविज्ञाने संलुडन्ति (संक्षुभन्ति) संक्षोभमुत्पादयन्ति।

त आहु। कतमानि भगवन् त्रीणि मरणकालसमये विज्ञाननिरोधे वर्तमाने शरीरं निर्घातयन्ति।

भगवान् आह - शस्त्रकश्च नाम मार्षाः सूचकश्च नाम मार्षाः ष्ठीलकश्च नाम; ये शरीरं निर्घातयंति।

आह। किमेतद्भगवंच्छरीरण् नाम;

भगवान् आह - आदीप्तकश्च नाम मार्षा दहनवासकश्च नाम; मेडिकश्च नाम; शृंगारिकश्च नाम। श्मशानिकश्च नाम; दुर्बुद्धिकश्च नाम। भारगुरुकश्च नाम; जातिपरिपीडितश्च नाम; जातिसंक्षुभितश्च नाम; जीवितपरिभाविकश्च नाम; मरणप्रियविप्रयोगकश्च नाम; इमे मार्षा उच्यन्ते शरीरनामानः



[240] त आहु। कथं भगवन् मृयते कथं जीवति।

भगवान् आह - विज्ञानं नामायुष्मन्तो म्रियते। पुण्यं नामायुष्मन्तो जीवति। शरीरं नाम मार्षा मृयते स्नायुकोटीभिर्बद्धम् चतुरशीतिभिः सिराकूर्वसहस्रै रोमकूपैर्बद्धम् द्वादशभिः सहस्रैरंगानां बद्धं। षष्ट्युत्तरैस्त्रिभिः शतैरस्थीनां बद्धम् चतुरशीतिः कृमिकुलशतान्यभ्यन्तरे वसन्ति तेषां सर्वेषां प्रणकानां मरणं संविद्यते। मरणनिरोधं च संविद्यते तत्र सर्वे ते प्राणका निराशा भवन्ति। यदा स पुरुषो मृयते तदा सर्वप्राणकानां वातसंक्षोभः संलुडति अन्योन्यपरिभाक्षनार्थाय तदा ते दुःखां वेदनां वेदयन्ति। अन्ये पुनः पुत्रशोकं कुर्वन्ति। अन्ये दुहितृशोकं ज्ञातृशोकं सर्वे एव ते शोकशल्यविद्धाः अन्योन्यभक्षणमारभन्ते। सर्वे ते अनुपूर्वेण परस्परं भक्षयन्त;

द्वौ प्राणकाववतिष्ठन्ते। तौ सप्ताहमभियुध्यतः याव सप्ताहेऽतिक्रान्ते तत एकः प्राणको निर्मथ्यते। एको मुच्यते। तत् कतम आयुष्मन्त उच्यते धर्मः तत्किं मन्यध्वे यथा सर्वप्राणकानां अन्योन्यनिरोधेन मरणं।



[241] एवमेव बालपृथग्जना सत्त्वा अन्योन्यविरधमाप्द्यन्ते। ते जात्या न बिभ्यन्ति। व्याधिभ्यो न बिभ्यन्ति। मरणा न बिभ्यन्ति यथा (तौ) द्वौ प्राणकौ युध्यतः एवमेव बालपृथग्जनाः परस्परं युध्यन्ते।

अथ मरणकालसमये उच्यते साधु पुरुषैः किं त्वं भो पुरुष विश्वासमापद्यसे। किं त्वया मनुष्यलोके न किंचिदादीनवं दृष्टं। न जात्या[द् आ]दीनवो दृष्टः न जरया न व्याधेरादीनवो दृष्ट। न मरणादादीनवो दृष्ट।

आह। दृष्टो मे आयुष्मन्त जात्या[द् आ]दीनवो जरया व्याधेरादीनवो दृष्टः सर्वपश्चान् मरणादादीनवो दृष्टः

आह। कथं न कृतानि यत् करणीयानि कुशलमूलानि। तत् कथं त्वया भोः पुरुष न कृतमुभयोर्लोकयो हितसंवर्तकानि धर्मस्कन्धकुशलमूलानि। द्वितीयं मार्षाः पृच्छामि। कथं त्वया न कृतः कुशलमूलसंभारः यस्त्वं परिमुक्तः स्याज्जात्या जरया व्याधेर्मरणात् तत् कथं ते न कृतं योनिशोमनसिकारप्रत्यवेक्षणां

किं त्वया भोः पुरुष श्रुतं। पृथिव्यां गण्ड्यां आकोटनशब्दं। न च दृष्टा जांबुद्वीपका मनुष्या दानानि ददन्तः पुण्यानि च कुर्वन्तः उपवासमुपवसन्तः तथागतक्षेत्रे कुशलमूलबीजान्यवरोपयन्तः गन्धं वा माल्यं वा दीपं व न त्वया दृष्टं खादनीयभोजनीयं वा दीयमानम् न च ते दृष्टास्तथागतस्य चतस्रः पर्षदः सन्तर्प्यमानाः भिक्षुर्वा भिक्षुणी वा उपासको वा उपासिका वा इमांश्चतस्रः पर्षदः शासनेऽभिनिवुस्ताः एवं तस्य हितानि वदन्त्यालपन्ति च। न हि देवकृतं किंचित् असाधुस्त्वया भोः पुरुष कृतम् इमिमं जंबुद्वीपमागत्य;



[242] तस्य मृतस्य धर्मराजा तस्मिन् काले तं पुरुषं अनुशासन् ता गाथा भाषते -

(83) दृष्ट्वा तथागतोत्पादः श्रुत्वा गण्डीपराहताम्

श्रुत्वा धर्मन् देशयमानं शन्तं निर्वाणगामिनं।

(84) कस्मात् ते न कृतं पुण्यं परलोकसुखावहम्

भोक्ष्यसे नरके दुःखम् अनिष्ठकर्मणः फलम्



[243] अथ स पुरुषस्तं धर्मराजानं गाथाभि प्रत्यभाषत -

(85) बालबुद्धिरहं आसीत् पापमित्रवशानुगः

कृतं मे पापकं कर्म कामभ्रान्तेन चेतसा;

[86] कामश्च मे चितस्तस्य आगतं दारुणं फलम्

कृता मे प्राणिनां हिंसा सांघिकं च विनाशितं।

[87] कृतं मे स्तूपभेदं च प्रदुष्टेनानतरात्मना;

दौष्ठुल्यं भाषितं वाक्यं माता मे परितापिता;

[88] अपराधं विजानामि स्वशरीरेण यत् कृतं

रौरवे नरके पश्याम्युपपत्तिं सुदारुणे।

[89] संघाते वेदनां वेत्स्ये तथैव च प्रतापने।

महावीचौ च कटुकामनुभविष्यामि वेदनां

(90) महापद्मे च नरके क्रन्दयिष्यामि सुदुःखितः

वारा शतं कालसूत्रे उत्पत्स्यामि महाभये

(91) हताश्च नारका सत्त्वाः पुनः पश्यन्ति ते भयम्

योजनानां शतं भूयः प्रतिपद्यन्ति महाभयम्

(92) द्वारन् ते न लभिष्यन्ति पुनः कुंभे प्रतापिताः

क्षूरं तु नाम नरकं सहस्रं क्षूरसंभवम्

(93) शतम् सहस्रं कोटीनां क्षूराणां जायते ग्रतः

तैस्तस्य भिद्यन्ते गात्रं कर्मभि दुष्कृतैः स्वकैः॥

[94] वातक्षोभा महाघोरा सर्वं च्छिन्दन्ति तां तनुम्

अनुभाव्या मया दुःखा ईदृशा नरके ध्रुवम्

(95) द्रक्ष्यन्ते सर्वसत्त्वा मे कायं दुःखप्रपीडितं।

अर्था परक्या आदत्ता मया वेश्मस्य कारणात्

(96) पुत्रा दुहितरो मह्य भ्राता च भागिनी तथा

माता पिता चैव मम मित्रज्ञातिगणोऽपि च

(97) दासकर्मकराश्चैव गावो भृत्यः पशुं तथा।

भ्रान्तो स्म्यहं कुकार्येषु रुप्यसौवर्णभाजनैः

(98) वस्त्रैस्तथा सुसूक्ष्मैश्च भ्रान्तः कारापने गृहे

सुविचित्रं गृहं कृत्वा नरनारीसमाकुलं।

(99) वीणास्तूर्याः पराहत्य रतं मे दुर्दमं मनः

गात्रं गन्धोदकैर्लिप्तं कृतज्ञोऽद्यापि नैव सः

(100) अचेतन शरीरस्त्वं भ्रान्तोऽस्मि तव कारणात्

न विद्या ते मम त्राता कश्चित् सत्त्वः पुनर्भवेत्

(101) वातक्षोभे महाघोरे शरीरपरितापने।

भुक्ता रसा स्वादुवन्तो जिह्वया विविधास्तथा

(102) शीर्षे मालाश्च बहवो बद्धा श्वित्राः सुशोभनाः

रूपेण भ्रामितश्चक्षुश्चक्षुत्राणं न विद्यते।

(103) पापानां चक्षुषी हेतुर्मया दृष्ट्वातु यत्कृतम्

श्रोत्रौ हेतुश्च मे भूयः बाहू वज्रपराहताः

(104) हस्तेभ्यः कटका बद्धा अङ्गुलीयेभि यंत्रिका।

ग्रीवायां मुक्तिहाराणि पादौ चापि स्वलंकृतौ

(105) जालानि कृत्वा तत्रैव सौवरणं संस्थितं ततः

गात्रै च विविधा रत्ना सौवर्णकटकास्तथा।

(106) उदारै रमितो भोगैर्मनसंबृहणैरपि।

स्पर्शं च सुकुमारं मे। तृष्णग्रस्तेन सेवितं।

(107) नानास्तरणशय्याभिः कायः क्रीडापितो मया;

स्नातो गन्धोदकैर्विशदैर्गन्धैश्चापि प्रलेपितः

(108) कर्पूरचन्दनैर्दिव्यैर्धूपनैश्चापि धूपितः

कस्तूरिकासमायुक्तो वासो वर्णकरः कृतः

(109) गन्धवार्षिकतैलेन सुमनाचण्पकादिभिः

मक्षितः पाण्डुरं वस्त्रं प्रावृतं सूक्ष्मकाशिकं

(110) अवतीर्य हस्तिपृष्ठादश्वपृष्ठे भिरुह्य च

राजाहमिति मन्यामि जनो मे धावते ग्रतः

(111) अन्तःपुरं विजानामि गीते नृत्ये सुशीक्षितः

निरापराधा मृगया हता काण्डैश्च मे मृगा

(112) ईदृशं मे कृतं पापं परलोकमजानता;

परमांसा मया भुक्तास्ततो दुःखमिदं मम;

(113) मरणं मे न विज्ञातमागमिष्यति दारुणं

बालबुद्धिरहं आसीच्छरीरं पोषितं मया।

(114) आगतं मरणं मे द्य कश्चित्त्राता न विद्यते।

यूयं हि ज्ञातयः सर्वे मुखं मे किं निरीक्षथ।

(115) कस्माद् वस्त्रं पाटयध्वं प्रलापैश्चापि किंकृते;

केशान् कस्माद् विकिरथ रक्तं किं वा करिष्यति

(116) पांसुं च शीर्षे क्षिपथ उरस्ताडं करोथ किम्

जीवं नाहं वारितव्यः पापात् किं रुदितेन वः

(117) शरीरं मे वृकभोज्यं कुर्कुराणां च वायसाम्

भविष्यते पक्षिणां च वृथा पुष्टं अयन् तनुः

(118) मरणोरगसंस्पृष्टो जायतेऽपि सुदारुणः

तथोपयोज्यं भैषज्यं यथास्मान् मुच्यते भयात्

(119) यन् मे वैद्याः प्रदास्यन्ति भैषज्यं न तदिष्यते

सांप्रतं धर्मभैषज्यं क्लेशोरगविमोचकम्

(120) मृयतो मम दातव्यं मा मेमं संप्रयच्छथ।

पोष्यमाणशरीरो यमवश्यं नाशमेष्यति।

(121) पापस्कन्धं किमाक्षिप्य यत्पश्चा दुःखदायकम्

पोषितो मे पृयं कायः कृतघ्नत्वं करिष्यति।

(122) पुत्रा दुहितरं किं मे चक्षुषा सन्निरीक्षथ;

त्रायध्वमस्माद् रोगान् मे रुदध्वं किन्निरर्थकम्

(123) यूयं हि पुत्र दुहितृ कृतघ्ना मम साम्प्रतम्

युष्माकं पोषणार्थाय परकीयं मया हृतं।

(124) साप्रतं मरणं प्राप्तं निराशं माम् करोथ किम्

जातिदुर्गतिसंत्रस्तो मरणेन च पीडितः

(125) वेदना संज्ञा संस्काराः स्पर्षं परमवेदनाः

तृष्णाया भ्राम्यते बालः प्राप्नोति कटुकं फलं;

(126) शोकबन्धन मह्य तु जातस्य विषमे कुले

अल्पपुण्यं तु मां ज्ञात्वा शोचयिष्यन्त्यपरे जनाः

(127) दानशीलपरिभ्रष्टो धर्माच्चापि परान्मुखः

पुनर्भवं न जानीते क्लेशोरगविषार्दिता

(128) भ्राम्यते विद्यया बालो यत्र मोक्षं न विद्यते।

मोक्षार्थं न विजानाति भ्रान्तः पापं करोति च

(129) क्लेशैश्च भ्राम्यते बालो नित्यं व्याक्षिप्तमानसः॥

दह्यते ह्यग्निना दीप्तः कायो विविधबन्धनः

(130) विभ्रान्तो भ्रमते कायो यत्र सौख्यं न विद्यते।

तच्च सौख्यं न जानाति यदभ्यन्तसुखावहम्

(131) बुद्धानाम् सुखदं क्षेत्रं धर्मचक्रं महागदम्

शीलं च सत्यं शीलनां ब्रह्मघोषास्तथागता॥



[244] अथ खलु भगवान् भैषज्यसेनं बोधिसत्त्वं महासत्त्वमामन्त्रयेतदवोचत् - एवं च भैषज्यसेन सत्त्वा मरणकाले परिदेवन्ति। न न हि तेषां कश्चित्त्राता भविष्यत्यन्यत्र सुकृतानां कर्माणां फलविपाकं च गाथा चेमा भाषते॥



(132) कृत्वा तु पापकं कर्म नरकेषु पतन्ति हि

भुंजन्ते चीमरं तप्तं पीवन्ते लोहपानकम्

(133) कायेभ्यो वर्षतेऽङ्गारं दग्धाः क्रन्दन्ति दारुणम्

दह्यत्येषां तच्छरीरं नरकेस्मिन् महाभये।

(134) न विजानन्ति सौख्यानि धर्मं च न विजानते

बालो भ्रमत्यधर्मेण सौख्यं नाप्नोति किंचन;

(135) श्रद्धाशीलेन संपन्नः प्रज्ञायुक्तो महातपाः

मित्रं भजति कल्याणं शीघ्रं भोति तथागतः

(136) वीर्यमारभते श्रेयं बुद्धलोकोपपत्तये

देशेथ कुशलं धर्मं सर्वसत्त्वपरिग्रहं

(137) मैत्रं चित्तं समापन्नो ब्रह्मचर्यपरायणः

श्रुत्वैवं भैषज्यसेन प्रतिपत्तिपरो भवेत्

(138) विमुक्तिदर्शनं बुद्धं गुष्टशब्दं विनायकं।

लोकस्य मातापितरं बोधिचित्तं तदुच्यते।

(139) कल्याणमित्रां परमां सुदुष्करं यो देशयेत्

[[इह]] धर्म लोके शृण्वन्ति ये गौरवाद्बुद्धशासनं

ते भोन्ति बुद्धाः सुगता नरोत्तमाः

(140) लोकनाथा भवन्त्येते सर्वसत्त्वप्रमोचकाः

शान्तेभ्यो बुद्धक्षेत्रेभ्यो ये भवन्ति सगौरवाः॥



(245) अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - किम् इदं भगवन् पृथिवी कंपति संप्रकंपति। एवमुक्ते भगवान् भैषज्यसेनं बोधिसत्त्वं महासत्त्वमेतदवोचत् - व्यवलोकय भैषज्यसेन किं पश्यसि। व्यवलोकितं भैषज्यसेनेन बोधिसत्त्वेन महासत्त्वेन।

अथ तावदेव चतुर्भ्यो दिग्भ्यः पश्यति। पृथिवीविवरं ददाति। पृथिव्या विवृतायां पश्यति। पृथिवीविवरेभ्यो विंशति कोट्यो मनुष्याणां जायन्ते। अधस्ताद्दिशि विंशति कोट्यो मनुष्यानां जायन्ते। ऊर्ध्वायां दिशायां पंचविंशति कोट्यो मनुष्यानां जायन्ते।



[246] अथ ते दहराः सत्त्वा व्यवलोक्य भगवन्तमेतदवोचन् कतमे भगवन्निह जाता।

भगवान् आह - पश्यथ यूयमिमे जनकायाः

त आहुः पश्यामो भगवन्

भगवान् आह - इमे जनकाया युष्माकं सखाया जाताः

त आहुः एतेषामपि भगवन् सत्त्वानां मरणं भविष्यतीति;

भगवान् आह - एवमेतन् मार्षाः सर्वसत्त्वानामपि मरणं भविष्यति।



[247] अथ ते पूर्विमका सत्त्वा दहराः ये प्रथमतरमुत्पन्नास्ते येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमेतदवोचन् - नोत्सहामो वयं पुनर्भगवं जातिं मरणं च द्रष्टुम् भगवान् आह - तत्किं यूयमुत्सहथ वीर्यवलालब्धम् त आहुः तथागतं संमुखं पश्येमः तस्य च सकाशाद्धर्मश्रवणं मृष्टं मनापं शृणुयामः तथागतश्रावकसंघं च निषण्णं पश्येमः बोधिसत्त्वान् महर्धिकान् महानुभावान् पश्येमः ईदृशं च भगवन्नोत्सहामो जातिं मरणं च द्रष्टुम्



[248] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो ऋद्धिबलेनोत्थायासनात् सार्धं तैः पंचभिर्बोधिसत्त्वशतैः ते सर्वे ऋद्ध्या उत्थायोपर्यन्तरीक्षे चंक्रमन्ति। पर्यंकञ्च बध्वा ध्यायन्ति। तेषां सर्वकायेभ्यः सिंहा निष्क्रामन्ति। व्याघ्रा निष्क्रामन्ति। व्याडा निष्क्रामन्ति। हस्तिनो निष्क्रामन्ति।

महाऋद्धिविकुर्वितानि दर्शयन्ति। पर्वतेषु च पर्यंकं बध्वा निषीदन्ति। विंशतिर्योजनसहस्राण्यूर्ध्वमारुहन्ति। दश कोटीसहस्राणि चन्द्रमसूर्याणि-म्-अवतरन्ति।



[249] अथ खलु ते दहराः सत्त्वा भगवन्तमेतदवोचन् - को भगवन् हेतुः कः प्रत्ययो महारश्म्यावभासस्य महच्च ऋद्धिविकुर्विता लोके प्रादुर्भूताः

भगवान् आह - पश्यथ कुलपुत्रा एतौ चन्द्रसूर्यौ प्रादुर्भूतौ। त आहु। पश्यामो भदन्त भगवन् पश्यामो भदन्त सुगत;

भगवान् आह - एष बोधिसत्त्वैः स्वकायाद् रश्म्यावभासो ऋद्धिप्रातिहार्यं च दर्शितं सन्दर्शयित्वा सत्त्वानान् धर्मन् देशयन्ति। बहुजनहिताय बहुजनसुखाय लोकानुकंपायैर्महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च इहैव ते मानुष्यके काये वीर्यबलमुपदर्शयित्वा ईदृशम् ऋद्धिबलमुपदर्शयन्ति।

आह। देशयतु भगवान् रश्म्यावभासप्रादुर्भावाय धर्मम्



[250] एवमुक्ते भगवान् भैषज्यसेनं बोधिसत्त्वं महासत्त्वमेतदवोचत् - पश्यसि त्वं भैषज्यसेन त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारं प्रकंपितः

आह। पश्यामि भगवं पश्यामि सुगत। तस्य मम भगवन्नेवं भवत्वहं तथागतमेतमर्थं परिपृच्छेयं।

भगवान् आह - पृच्छ त्वं भैषज्यसेन यद्यदेवाकांक्षस्यहं ते तस्य तस्यैव प्रश्नस्य व्याकरणेन चित्तमाराधयिष्यामि निर्देक्ष्यामि विभजिष्यामि। भैषज्यसेन यदतीतानागतप्रत्युत्पन्नेष्वध्वसु तत्सर्वं दर्शयिष्यामि।

आह। देशयतु मे भगवन् कौकृत्यविनोदनार्थं। इहाहं भगवन् पश्यामि तथागतं चतुरशीतिभिर्देवपुत्रसहस्रैः परिवृतं चतुरशीतिभिः कोटीसहस्रैर्बोधिसत्त्वैः परिवृतं; द्वादशभिः कोटीसहस्रैर्नागराज्ञां परिवृतं। अष्टादशभिः कोटीसहस्रैर्भूतानां परिवृतं पंचविंशतिभिः कोटीसहस्रैः प्रेतपिशाचैः परिवृतं।



[251] भगवान् आह - नूनमेते भैषज्यसेन सत्त्वाः य इह पर्षदि ममान्तिके सन्निपतिता सन्निषण्णा धर्मश्रवणाय। त एते भैषज्यसेनाद्यैव संसारं पश्चन्मुखं करिष्यन्ति। अद्यैव दशभूमिप्रतिलाभिनो भविष्यन्ति। दशभूमिप्रतिष्ठिता निर्वाणधातौमनुप्राप्स्यन्ति। सर्वसत्त्वहितैषिणः जरामरणपरिमोक्षणार्थाय कृतधर्माः सुखावहाः क्लेशपाशं निर्जित्वा प्राप्स्यन्ते बुद्धशासनां।

आह। किमेते भगवन् सत्त्वा बहूनि सत्त्वस्थानानि नानाविचित्रैः कर्मभिऋ उत्पन्नानि। ते भगवन्तं परिवार्यावस्थितानि



भगवान् आह - शृणु भैषज्यसेन। आह च -

(141) मूढाः सत्त्वा न जानन्ति कुतो मोक्षो भविष्यति।

बहवो नवकाः सत्त्वाः अद्य प्राप्स्यन्ति धारणिम्

(142) ज्ञास्यन्ते ते सर्वधर्मान् प्राप्तये दशभूमिनां

भूमयो दश प्राप्स्यन्ति बुद्धकृत्यं करिष्यतः

(143) वर्तिष्यन्ति धर्मचक्रं धर्मवर्षं प्रवर्षिषूः

रमणीयं शासनं मह्यं येन सत्त्वाः समागताः

(144) देवनागाश्च प्रेताश्च असुराश्च सुदारुणाः

दशभूमिप्रतिष्ठन्ते धर्मशब्दपराहताः

(145) धर्मभेरी उदाहरं धर्मशंखप्रपूरणं

अद्यैषां नवसत्त्वानां वीर्यस्थामो भविष्यति।

(146) धर्मं प्राप्स्यन्ति अद्येमे यथा प्राप्तं तथागतैः॥



[252] अथ पंचमात्राणि सहस्राणि दहराणां सत्त्वानामुत्थायासनेभ्यो येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमेतदवोचन् -



(147) गुरुभारो भगवन् कायो दारुणश्च महाभय।

संसारे येन बध्यामः पर्यन्तमविजानकाः

(148) मार्गन् तु न विजानामो मार्गमेव न दृश्यते।

अन्धभूता वयं नाथ अस्माकं कुरु संग्रहं।

(149) अध्येषाम वयं वीर धर्मन् देशय नायक;

अल्पप्रज्ञा वयं जाता अनभिज्ञाः सुखस्य हि;

(150) धर्मन् देशय। अस्माकं दुःखान् मोचय दारुणात्

यत्र यत्रोपपद्येमः स्याद् अस्माद् बुद्धदर्शनं॥



[253] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो येन ते दहरा सत्त्वास्तेनोपसंक्रामदुपसंक्रम्य तान् दहरान् सत्त्वाङ् गाथाया अध्यभाषता -



(151) भूंजध्वं भोजनं यूयं पिवध्वं रसमद्भुतम्

पश्चाद्विशारदा भूत्वा धर्मं श्रोष्यथ निर्भयं।



त आहुः

(152) भदन्त स्थविर कस्त्वं नजानीमो वयं तव;

प्रासादिकस्त्वं पश्यामः शान्तरूपं महायशः

(153) मुक्तं नरकतिर्यक्षुः प्रेतलोकान् महाभयात्

शान्तस्ते सर्वपापानि यथा जगति शोभसे

(154) पश्याम हस्ते करकं सप्तरत्नसमन्वितम्

सूत्रं रत्नामयं काये तेजराशौ विवेष्टितं।

(155) प्रतिवोढुं न शक्ता स्म शान्तवाक्यस्य ते वच।

भक्तेन कार्यं नास्माकं पानेन स्वादुना न च।

(156) भक्तादुच्चार संभवति पानान् मूत्रं तथैव च।

शोणितं च रसाद्भवति रक्तान् मांसं च संभवेत्

(157) नास्माकं भोजनं कार्यं पानान् चैव सौसंस्कृतं;

वस्त्राणि नैव सूक्ष्माणि पट्टापट्टकसंहिता।

(158) कटकाश्च न सौवर्णाः कार्या मुक्तिलता न च;

अङ्गुलियैर्नैव कार्यं सर्वे ते नित्यधर्मिणः

(159) जीवितैरर्थिकाश्च स्म न च गच्छेम दुर्गतिम्

अर्थिका धर्मदानेन न देवानां सुखैरपि;

(160) कल्याणमित्रता कार्या न राज्यं चक्रवर्तिनां।

चक्रवर्ती मरिष्यन्ति त्यक्त्वा द्वीपान् सुशोभनां।

(161) न पुत्राः पृष्ठतो यान्ति न भार्या न च धीतराः

सप्तरत्ना निवर्त्यन्ते नापि यास्यन्ति पृष्ठतः

(162) संन्निपात्य बहुजनो न च यास्यन्ति पृष्ठतः

पुरतश्च न धावन्ते वशं भूयो न वर्तति।

(163) एकजन्मिकराजानो भ्रामिता नित्यया बहु;

कृत्वा पापानि कर्माणि रौरवं प्रपतन्ति ते।

(164) चतुर्दिशं पर्यण्वित्वा सप्तरत्नैर्महर्धिकैः

यास्यते क्व च सा ऋद्धिर्यदा वत्स्यति रौरवे।

(165) मृता ऋद्धिं न शक्नोन्ति यत्र भूमिर्न विद्यते

स्थविर शृणुष्व अस्माकं गच्छ येन तथागतः

(166) कांक्षाम दर्शनं तस्य मातापित्रोर्यथैव हि।

नास्माकं विद्यते माता न पिता भ्रातरौ न च

(167) सैव लोकगुरुर्माता पिता चैव तथागतः

सैव चन्द्रश्च सूर्यश्च क्षेममार्गप्रदर्शकः

(168) मोचकः स हि संसाराद् येन भूयो न जायते।

स नावातरको ओघात् क्लेशोघाच्च महाभयात्

(169) तेन प्रतारिताः सत्त्वाः न भूयो विनिवर्तिता

सद्धर्मो देशितस्तेन अग्रबोधीय कारणात्

(170) नास्माकं भोजनेनार्थो न राज्यफलकांक्षिणः

न देवलोकगमनं कार्यं नरकभीरुभिः

(171) सुखं मानुष्यकं जन्म दृश्यते यत्र सर्ववित्

अल्पायुषाश्च दृश्यन्ते दुष्कृतैः कर्मभिः स्वकैः

(172) रज्यन्ते कामभोगैस्ते विन्दन्ति मरणं न च;

जानन्ति न च भायन्ते निरोधोत्पादवांचिताः

(173) सुक्ष्मान् धर्मान् न जानन्ति सूक्ष्मं कार्यं न कुर्वन्ते।

शान्तं धातुं न जानन्ति अविद्याक्रान्तचेतसः

(174) च्यवन्तो न च खिद्यन्ते जायन्तश्च पुनः पुन

दीर्घरात्रं दुःखहता नित्यता दण्डताडिताः

(175) परकीयं हरिष्यन्ति घात्यन्ते बन्धने तथा।

पंचबन्धनबद्धास्ते पूर्वपापेन चोदिताः

(176) निराशाश्च मरिष्यन्ति शोकशल्यसमर्पिता।

निरुद्ध्यमाने विज्ञाने करुणं परिदेवते।

(177) को नु त्राता भवेयुर्मे सर्वान् भोगान् ददाम्यहं।

सुवर्णरुप्यस्फटिकं दासोऽपि च भवाम्यहं।

(178) सर्वं कर्म करिष्यामि दासयोग्यं च यद्भवेत्

न राज्यभोगैर्मे कार्यं न धान्येन धनेन च।

(179) स्वशरीरेण मे कार्यं पापकारी न मुच्यते

एवं हि स्थविरास्माकं न कार्यं भोजनं भवेत्

(180) राजानोऽपि मरिष्यन्ति यैर्भुक्तं मृष्टभोजनम्

देवपुत्रा मरिष्यन्ति पीत्वा वै पानमुत्तमम्

(181) नानारसमायुक्तं संस्कृतं पानभोजनम्

आनीय पुरतो राजा जिह्वया स्पृशति भोजन।

(182) रसगृद्धा हि राजानः पापं कुर्वन्त्यनल्पकं।

रज्यन्त्यनित्येहि रसेहि यत्र सारं न विद्यते।

(183) पानं न कार्यं अस्माकं न च कार्यं हि भोजनं।

धर्मता ईदृशी कार्या दुःखान् मुच्येम यद्वयम्

(184) तृष्णाबन्धननिर्मुक्तं तृष्णाक्लेशविमोक्षनम्

सर्वबन्धननिर्मुक्तं तं बुद्धं शरणं गताः

(185) वयं हि शरणं यामो लोकनाथं महर्षिणम्

वन्दनाय वयं यामः सत्त्वानां प्रियदर्शनम्

(186) नामं तव न जानामो नाममाचक्ष्व शोभनं।



भैषज्यसेनो बोधिसत्त्व आह -

यूयं हि श्रोतुमिच्छध्वं नामं सर्वजनस्य च।

(187) वृतः कोटीशतसहस्रैर्नवकैः सत्त्वैस्तथागतः त आहुः

तव तु श्रोतुमिच्छामो नामं सर्वगुणोद्भवं।

(188) गंभीरं श्रूयते नाम यस्त्वं बुद्धाना श्रावकः आह।

भैषज्यसेनो नाम्नाहं सत्त्वानां भैषज्यो ह्यहं

(189) युष्माकं देशयैष्यामि सर्वेषामौषधं वरं।

सर्वव्याधिप्रशमनं सर्वव्याधिहते जने।

(190) रागो व्याधिर्महाव्याधिर्लोके नश्यति दारुणः

मोहो व्याधिर्महाघोरो येन भ्राम्यन्त्यबुद्धयः

(191) व्रजन्ति नरकं सत्त्वास्तिर्यक्प्रेतेषु वै तथा;

द्वेषग्रस्ता इमे बालास्तेषां शान्तिः कथं भवेत्॥



त आहुः

(192) मुच्येम सर्वदुःखातः श्रुत्वा धर्ममिमं शुभं।

मुक्तश्च सर्वदुःखेभ्यो बालबुद्धिरजानकाः

[193) श्रोष्यामहे धर्मदानं पापकर्मविवर्जिताः

सर्वपापं विवर्जित्वा प्रहीणभयभैरवाः

(194) द्रक्ष्याम शीघ्रं संबुद्धं सर्वव्याधिप्रमोचकं।

वैद्यराजं महावैद्यं दुःखितानां चिकित्सकं।

(195) गच्छ स्थविर शीघ्रं त्वं वन्दनाय तथागतं।

वन्दस्व चास्मद्वचना ब्रूहि लोकविनायकं।

(196) प्रशामय इमं व्याधिं प्रशमयाग्निं सुदारुणम्

कायो यं ज्वलितः सर्वो दह्यमानो न शाम्यते।

(197) दुःखार्दितानामस्माकं कार्युण्यं कुरु सुब्रत;

कायभारो महाभारस्तीक्ष्णभारः सुदारुणः

(198) द्वेषमोहसमाक्रान्त उद्वहन्ति जनाः सदा;

पुनः पुनर्बहंत्येते मोक्षभारं अजानकाः

(199) मर्तव्यं न विजानन्ते त्रासो नोत्पद्यते थ च।

मोक्षमार्गं अजानाना मोक्षमार्गमपश्यकाः

(200) अस्माकं मरणं नास्ति कदाचिदिति सुस्थिताः

संभ्रान्ता न विजानन्ति पश्यन्तो मातरं मृता;

(201) पितरं न स्मरन्त्यन्ये नित्यं च व्याधिपीडिताः

क्लेशकर्मप्रलुडिताः कथं भूंजाम भोजनं।

(202) दुःखान्तं न विजानामः श्रमामोऽथ निरर्थकं।

अस्माकमीदृशान् दुःखां जात्यविद्यानिदानतः

(203) महाभयं गुरुभारं संज्ञासंस्कारवेदना।

तृष्णाया भ्राम्यते बालो यो धर्मं न विजानते।

(204) जातो लोके ह्यनर्थाय कायभारपरिवृत

स्नानानुलेपनैः कार्यं शुचिर्वस्त्रं सुशोभनं;

(205) मृष्टं च भोजनं कार्यं यच्छरीरे मनोरमं।

पंचतूर्यामनोज्ञं च श्रोत्रं याचयते तथा।

(206) सप्तरत्नसमुत्थाने रूपे रज्यन्ति चक्षुषी।

सर्वं रसं च मृष्टं च जिह्वा याचयतेऽपि च।

(207) स्पर्शं च मृदुकं सूक्ष्मं कायः प्रार्थयते सदा।

मांसद्वयं शरीरेण निष्पीड्य रती जायते।

(208) कायो ह्यचेतनो ह्येष रतिं कस्तत्र विन्दति।

पादौ मे रमतस्तत्र प्रावृतं चर्म सुन्दरं।

(209) भवन्ति मरणत्राण न वस्त्रं न विलेपनम्

भवेच्छरीरं न त्राणं किं पुनर्वस्त्रलेपनं।

(210) पुरुष उच्यते कायमेति श्वासं महाबलं

तीक्ष्णं बलं प्रतिसंख्या तं तच्छरीरे महागुणं।

(211) क्रीडया भ्रामितः पूर्वमश्वहस्तिपरिवृतः

मोक्षधर्ममजानानो रतोऽहं पापकर्मणि।

(212) क्रीड्या कारापितं पापं परलोकमजानता;

पुनः पुनश्च जातोऽहं पुनर्मरणमागतः

(213) शोकः पुनः पुनर्दृष्टं परिदेवितबन्धनं।

मातॄणां मरणं दृष्टं दृष्टाश्च पितरो मृता।

(214) ज्ञातयो भगिनी चैव पुत्रा भार्या मृतापि च।

शून्याः सर्वे हि संस्काराः को हि रज्येत् सचेतनः

(215) विश्वासं हि मया ज्ञातं लोभग्रस्तेन चेतसा;

शान्तं धर्मं नोपलब्धं मरणं नाभिनन्दितं।

(216) तेन दानं न दत्तं मे लोभेनावृतचेतसा;

कः स्या लोभसमो पापो योऽद्यापि न निवर्तते।

(217) संभ्रान्ता हि वयं जाताः संभ्रान्तं सकलं जगत्

संभ्रान्ताः शब्दं शृणुमो असद्धर्मपरिग्रहं।

(218) मोक्षं ध्यानाश्च मर्गामः शरीरं नोद्वहामहे।

बुद्धा भवेम लोकार्थे शास्तारो गुरवो जगे।

(219) बुद्धो मातापिता लोके बुद्धो मार्गप्रदर्शकः

प्रवर्षते धर्मवर्षं जंबुद्वीपे समन्ततः

(220) मूढा सत्त्वा न जानन्ति धर्माणां संग्रहं कथं।

बोधौ चित्तं नामयित्वा लभ्यते धर्मसंग्रहः

(221) शुन्यताः सर्वसस्ंकाराः शुन्या भोगा धनं तथा।

पश्याम शुन्यमात्मानं दृष्ट्वा जाता निराशता;

(222) स्थविर भैषज्यसेन-म्-अस्माकं वचनं शृणु;

दूरं च ते विसर्जेम बोधिसत्त्वाना कारणात्

(223) बोधिसत्त्वा न खिद्यन्ते वीर्यवन्तो महातपाः

स्मृत्वा संसारदोषाणि कुर्वन्ते गुणसंग्रहं;

(224) गच्छस्व येन शास्तासौ पृच्छ चास्माक कारनात्

प्रतिलब्धसुखः शास्ता मा किंचित् खिद्यते जिनः

(225) पराजितस्त्वया मारः सबलश्च सवाहनः

शीघ्रमुज्वालितं धर्मं सर्वसत्त्वसुखावहं।

(226) न चास्माभिः श्रुतो धर्मो येन बुद्धा भवेमहे।

गच्छस्व शीघ्रं स्थविर अस्माकं हितकारणात्

(227) नोत्तरामो वयं यावन्न पश्यामस्तथागतं।

द्वातृंशलक्षणधरं स्थिता सर्वे सगौरवाः॥

भैषज्यसेनो बोधिसत्त्व आह -

(228) ऊर्ध्वं तावन्निरीक्षध्वं किं पश्यध्वं हि सांप्रतं;

(229) अवलोकयन्ति ते ऊर्ध्वं स्थिता पंच अनूनकाः

शतास्त्रयः सहस्राणि कूटागाराः समन्ततः

(230) सप्तरत्नसमारूढा रत्नजालस्वलंकृताः

पद्मं प्रफुल्लं मध्ये च दिव्यगन्धप्रमुञ्चनं।

(231) पृच्छन्ति स्थविरं तत्र किमेतदिह दृश्यते

कूटागारा रत्नजालाः पद्मकेसरसंस्थिताः



भैषजयसेन आह -

(232) स्थानान्येतानि युष्माकं गच्छध्वं बुद्धदर्शनं।

वन्दध्वं लोकप्रद्योतं योऽसौ लोकोत्तरो गुरुः॥



त आह -

(233) तत्र मार्गं न जानीमो न पश्यामस्तथागतं।

यत्र मार्गं न जानीमः क्व गच्छाम वन्दितुं।



भैषज्यसेन आह -

(234) वन्दनाय च गन्तव्यं शास्तारममृतप्रभं।

अनन्तमाकाशमिव परामार्ष्टुं न शक्यते।

(235) स्थाने तिष्ठत्यसौ शास्ता यथा तिष्ठन्ति मेरवः

सुमेरोरुपमा स्यात्तु गाधं चैव महोदधे।

(26) तृसाहस्राच्च रजसो न ज्ञानाद्बुद्धसंभवात्

वन्दितो लोकप्रद्योतो बोधिसत्त्वैर्दशद्दिशे॥



त आहुः

(237) विलोकय लोकनाथ पूरयास्मकमाशयं।

चित्तेन वन्दितोऽस्माभिः शास्ता लब्धास्ततः फलं।



भैषज्यसेनो बोधिसत्त्व आह -

(238) न गन्धै रज्यते शास्ता न माल्यैर्न विलेपनैः

हेतुं गृह्णाति सत्त्वानां येन मुच्यन्ति संस्कृतात्

(239) संग्रामं न कुरुते तस्य मारः परमदारुणं;

दमितो हि मनो येन बुद्धं च शरणं गतः

(240) मृत्योर्न यास्यति वशं क्षिप्रं प्राप्स्यति धारणी

चित्तप्रसादं कृत्वासौ शास्तारं पश्यते ततः



[254] अथ खलु भगवान् कलविङ्करुतस्वरमनोज्ञघोषस्तथागतः स्मितं प्रादुष्चकार;

अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्व उत्थायासनाद् येन भगवांस्तेनांजलिं प्रणम्य भगवन्तमेतदवोचत् - को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुष्करणाय यद्भगवतो मुखद्वाराच्चतुरशीति रश्मिशतसहस्राणि निश्चरन्ति। तैश्च रश्मिभिरियं त्रिसाहस्रमहासाहस्रा लोकधातुरवभासेन स्फुटाभूत् सर्वे च द्वातृंशन् महानिरया स्फुटा अभूवन् द्वातृंशतिश्च देवभवनान्यवभासितानि। ताश्च रश्मयो नानावर्णाः तद्यथा नीलपीतलोहितावदातमंजिष्ठास्फटिकरजतवरणाः एताश्च रश्मयो भगवतो मुखद्वारान्निश्चर्य त्रिसाहस्रमहासाहस्रायां लोकधातौ सत्त्वानां सर्वमुखोपधानं कृत्वा पुनरेव प्रत्युदावृत्य भगवन्तं सप्तकृत् प्रदक्षिणाकृत्य भगवतो मूर्धन्यन्तरधीयन्त;



[255] अथ खलु भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - पृच्छेयमहं भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्धं कञ्चिदेव प्रदेशं सचेन्मे भगवान् अवकाशं कुर्यात् पृष्टः प्रश्नव्याकरणाय;॥

एवमुक्ते भगवां भैषज्यसेनं बोधिसत्त्वं महासत्त्वमेतदवोचत् - पृच्छ त्वं भैषज्यसेन यद्यदेवाकांक्षस्यहं ते तस्य तस्यैव (पृष्टस्य) प्रश्नस्य व्याकरणेन चित्तमारधयिष्यामि।



[256] एवमुक्ते भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - तृंशत्कोटीसहस्राणि भगवन्नवकानां सत्त्वानां प्रादुर्भूतानि ते तथागतस्य सूक्ष्मान् धर्मदेशनामवगाहन्ति। सूक्ष्मं भगवन् बृद्धानां सत्त्वानां परिभाषन्ति परिवदन्ति परिपीडयन्ति। न यूयं बृद्धाः सत्त्वा धर्मं जानीथ नित्यं यूयंमधर्मे चाकुशले च रज्यथ। तद् भगवान् मृष्टा मनापा वाग्भाषन्ते तत्केन कारणेन भगवन्तमेवं वाग्भाषन्ते।

भगवान् आह - न विजानासि भैषज्यसेन केन कारणेनैते सत्त्वा एवं वाग्भाषन्ते। तथागतस्यैभिर्मृदुकं सुकुकारं भाषितं धर्मं श्रुत्वा तेनैते भैषज्यसेन सर्वधर्माणां अर्थमवभोत्स्यन्ते सर्वगुणसमन्वागताश्च भविष्यन्ति। सर्वे च धारणामवगाहिष्यन्ति। अद्य-द्-अग्रेण दशभूमिप्रतिष्ठिता भविष्यन्ति। अद्य महादुन्दुभिशब्दं प्रकरिष्यन्ति। अद्य महाधर्मप्रकारसमन्वागता भविष्यन्ति। पश्यसि त्वं भैषज्यसेन इमानि कूटागाराणि॥

भैषज्यसेन आह - पश्यामि भगवन् पश्यामि सुगत।

भगवान् आह - अद्येमे भैषज्यसेन दहराः सत्त्वाः एषु कूटागारेष्वभिरुह्य धर्माभिसमयमनुप्राप्स्यन्ति। अद्येमे सर्वकुशलधर्मपारिपूरिं करिष्यन्ति। अद्य महाधर्मदुन्दुभिं पराहनिष्यन्ति। अनेकेषां च देवनिकायानामद्य धर्माभिसमयो भविष्यति। बहूनाञ्च नैरयिकानां सत्त्वानां विनिपातसंप्रस्थितानां तथागतज्ञाननिर्देशं श्रुत्वा सर्वसंसारपराङ्मुखपराजयो भविष्यति।



[257] तस्याम् च वेलायां वृद्धसत्त्वैर्नवानवतिभिः कोटीशस्रैः (सर्वे) स्रोतआपत्तिफलं प्राप्तं ते च सर्वधर्मसमन्वागता भविष्यन्ति। सर्वे ते भैषज्यसेन सर्वदुःखपरिवर्जिता भविष्यन्ति। सर्वे ते भैषज्यसेन सर्वतथागतदर्शनं निष्पादयिष्यन्ति। सर्वे ते भैषज्यसेन महाधर्मसमन्वागता भविष्यन्ति। अवलोकय भैषज्यसेन चतुर्दिशं



[258] अवलोकयति भैषज्यसेनो बोधिसत्त्वो महासत्त्वः समन्ता चतुर्दिशं स पश्यति पूर्वस्यान् दिशि पंचाशत् कोट्यो गंगानदीवालिकासमानि बोधिसत्त्वानामागच्छन्ति। दक्षिणस्यान् दिशि षष्टि कोटी गंगानदीवालिकासमानि बोधिसत्त्वानामागच्छन्ति। पश्चिमस्यांन् दिशि सप्तति कोटी गंगानदीवालिकासमानि बोधिसत्त्वानामागच्छन्ति। उत्तरस्यान् दिश्यशीति कोट्यो गंगानदीवालिकासमानि बोधिसत्त्वानामागच्छन्ति। अधस्ताद्दिशि नवकोटीसहस्राणि गंगानदीवालिकासमानि बोधिसत्त्वानामागच्छन्ति। ऊर्ध्वायां दिशि कोटीशतसहस्रं गंगानदीवालिकासमानि बोधिसत्त्वानामागच्छन्ति।

ते चागतागता बोधिसत्त्वा महासत्त्वा भगवतः पुरतः पादौ शिरशाभिवन्द्यैकान्ते तशुः



[259] एकान्तस्थितानां दशदिग्भ्यागतानां बोधिसत्त्वानाम् महासत्त्वानामथ भैषज्यसेनो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - किमेतद् भगवन् खग-म्-अन्तरीक्षे कृष्णरूपं लोहितरूपं (च) पश्यामि। भगवान् आह - किमिदं भैषज्यसेन। न संजानासि यदेतदन्तरीक्षे कृष्णरूपं लोहितरूपं च पश्यसि।

आह। न जानामि भगवन् न जानामि सुगत।

भगवान् आह - एष तथागत एव जानाति। मारोऽयं भैषज्यसेन विचक्षुस्करणायेहोपसंक्रान्तः इच्छसि भैषज्यसेनैतान् बोधिसत्त्वान् महासत्त्वान् द्रष्टुं य एते खगान्तरीक्षे व्यवस्थिताः

आह। इच्छामि भगवन्निच्छामि सुगत।



[260] अथ भगवांस्तान् बोधिसत्त्वान् दर्शयित्वा भैषज्यसेनं बोधिसत्त्वं महासत्त्वमामन्त्रयति स्म। ईदृशानां भैषज्यसेन कोटीशतगंगानदीवालिकासमानि बोधिसत्त्वाना आगतानि।

आह। को भगवन् हेतुः कः प्रत्ययो यदेते बोधिसत्त्वा एतावन्त इहागता।

भगवान् आह - दहराणां सत्त्वानां प्रत्ययेन भैषज्यसेन संप्रतं सर्वसत्त्वा धर्मध्यानसमन्वागता भविष्यन्ति। पश्यसि त्वं भैषज्यसेन य एते बोधिसत्त्वा महासत्त्वा नानारूपा आगता ऋद्धिबलाधानेन।

आहावलोकितानि मया कोटीशतगंगानदीवालिकासमा लोकधातवस्तत्र मया कोटीनियुतशतसहस्रगंगानदीवालिकासमा बोधिसत्त्वा महासत्त्वा दृष्टाः स्वकस्वकेन ऋद्धिबलेन तिष्ठन्ति नानारूपा नानावर्णा नानाबलसंस्थानास्तिष्ठन्ति। आर्यधर्मविहारेषु ते बोधिसत्त्वस्तिष्ठन्ति। धर्मविहारेषु ते बोधिसत्त्वपरिवारास्तिष्ठन्ति।



[260] इदमवोचद्भगवान् आत्तमनाः सर्वशुरो बोधिसत्त्वो महासत्त्वः भैषज्यसेनो बोधिसत्त्वो महासत्त्वः सर्वे च नवपुराणका बोधिसत्त्वा महासत्त्वाः सा च सर्वावती पर्षत् सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितं अभ्यनन्दत्



Colophon B:

॥०॥ संघाटं ना[म] महायानसूत्रं महाधर्मपर्यायं॥०॥



Colophon D:

॥०॥ आर्यसंघाटं नाम धर्म्मपर्यायं समाप्तम्॥०॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project