Digital Sanskrit Buddhist Canon

१२ पूर्वयोगः सद्धर्मपरीन्दना च

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

12 pūrvayogaḥ saddharmaparīndanā ca

१२ पूर्वयोगः सद्धर्मपरीन्दना च



अथ भगवन्तं शक्रो देवानामिन्द्र एतदवोचत्‌-"पुरा, भगवन्‌, तथागतान्मंजुश्रीकुमारभूताच्च धर्मपर्यायानां बहुशतसहस्राण्यश्रौषम्‌, परं तु यथाऽस्माद्धर्मपर्यायादीदृशाचिन्त्यविकुर्वणनयप्रवेशनिर्देशः पुरा न कदाचिदश्रौषम्‌।



"ये सत्त्वाः, भगवन्‌, इमं धर्मपर्यायमुद्‌ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, तेऽपि निःसंशयमेतादृशधर्मभाजनं भवेयुः। कः पुनर्वादो ये भावनाऽधिगमनानुयुक्ता ( भविष्यन्ति ) ? ते छेत्स्यन्ति सर्वदुर्गति-(मार्गम्‌ ), तेभ्यः सर्वसुगतिमार्गो विवृतः; सर्वबुद्धैस्ते दृष्टा भविष्यन्ति; ते सर्वपरप्रवादिघ्ना भविष्यन्ति; सर्वमारास्तैः सुपराजिता भविष्यन्ति; ते विशोधितबोधिसत्त्वमार्गा भविष्यन्ति, बोधिमण्डसमाश्रितास्तथागतगोचरे समवसरन्ति।

"कुलपुत्रो वा कुलदुहिता वा, भगवन्‌ यौ धारयिष्यत इमं धर्मपर्यायं, ताभ्यां सर्वपरिवारेण सह सत्कारं पर्युपासनं करिष्यामि। ( तेषु ) ग्रामनगरनिगमजनपदराष्ट्रराजधानीषु, येष्वयं धर्मपर्यायश्चर्यते निर्दिश्यते प्रकाश्यते, तेन धर्मश्रवणाय सपरिवारो गमिष्यामि। अश्रद्धेषु कुलपुत्रेषु श्रद्धामुत्पादयिष्यामि, श्राद्धानां धार्मिकेन रक्षावरण गुप्ति करिष्यामि"।



एवमुक्ते, भगवांशक्रं देवानामिन्द्रमेतदामन्त्रयते स्म-"साधु, देवेन्द्र, साधु। ( यत्‌ ) त्वया सुभाषितम्‌, तस्मिंस्तथागतोऽप्यनुमोदते।(या), देवेन्द्र, अतीतानागतप्रत्युत्पन्नानां भगवतां बुद्धानां बोधिः, साऽस्माद्धर्मपर्यायान्निर्दिष्टा। अतो देवेन्द्र, ये केचित्‌ कुलपुत्रा वा कुलदुहितरो वेमं धर्मपर्यायमुद्‌ग्रहीष्यन्ति, अन्तशः पुस्तके लिखिष्यन्ति, उद्‌ग्रहीष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, ते ह्यतीतानागतप्रत्युत्पन्नान्‌ भगवतो बुद्धान्‌ पूजयिष्यन्ति।



"अयं, देवेन्द्र, त्रिसाहस्रमहासाहस्रलोकधातुस्तथागतैः परिपूर्णः (स्यात्‌, परिपूर्णस्‌ ) तद्यथापि नामेक्षुवनैर्वा नडवनैर्वा वेणुवनैर्वा तिलवनैर्वा खदिरवनैर्वा; ( यैरयं लोकधातुः ) परिपूर्णस्तांस्तथागतान्‌, क्ल्पं वा कल्पाधिकं वा, कुलपुत्रो वा कुलदुहिता वा मानयेद्गुरुकुर्यात्‌ सत्कुर्यात्‌ पूजयेत्‌ सर्वपूजासुखोपधानैः। तेषां परिनिर्वृतानामपि तथागतानामेकैकस्य तथागतस्य पूजनाऽर्थ सर्वरत्नमयं विस्तरेण चतुर्महाद्वीपकलोकप्रमाणमारोहे ब्रह्मलोकसम्प्राप्तमुच्छ्रितच्छत्रपताकयष्टिसूपशोभितम्‌ एकान्तकठोराकुथितशारीरिकधास्तूपं ( कुर्यात्‌ )। स एवमेव सर्वतथागतानां प्रत्येकं स्तूपं कृत्वा, तत्‌ कल्पं वा कल्पाधिकं वा सर्वपुष्पगन्धध्वजपताकैः पूजयेद्‌घट्टियदुन्दुभितूर्यैश्च।



"तत्‌ कि मन्यसे, देवेन्द्र, अपि नु स कुलपुत्रो वा कुलदुहिता वा ततो निदानं बहु पुण्यं प्रसवेत्‌ ?" आह--"बहु भगवन्‌, बहु सुगत। कल्पकोटिशतसहस्रैरपि तस्य पुण्यस्कन्धस्य पर्यन्तमनुप्राप्तुमशक्यम्‌"।

भगवानामन्त्रयते स्म--"अधिमुच्यस्व., देवेन्द्र, त्वयाऽनुगन्तव्यम्‌ यः कुलपुत्रो वा कुलदुहिता वेममचिन्त्यविमोक्षनिर्देशस्य धर्मपर्यायमुद्‌गृह्णीयाद्वाचयेत्‌ पर्यवाप्नुयात्‌, ( सोऽस्माद्‌- ) बहु(तरं) पुण्यं प्रसवेत्‌। तत्‌ कस्य हेतोः ? भगवतां बुद्धानां हि बोधिः, देवेन्द्र, धर्मसम्भवा; सा च धर्मपूजायै शक्या, न परं त्वामिषेण ( पूज्या )। अनेने पर्यायेण, देवेन्द्र, त्वयैवं वेदितव्यम्‌"।

"भूतपूर्व, देवेन्द्र, अतीतेऽध्वन्यसंख्येयैः कल्पैरसंख्येयतरैविपुलैरप्रमेयैरचिन्त्यैस्तेभ्यः परेण परतरेण यदासीत्‌ तेन कालेन तेन समयेन भैषज्यराजो नाम तथागतोऽर्हन्‌ सम्यक्सम्बुद्धो लोक उदपादि विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धोभगवान्‌ विचारणे कल्पे महाव्यूहायां लोकधातौ। तस्य भैषज्यराजस्य तथागतस्यार्हतः सम्यक्सम्बुद्धस्य विशत्यन्तरकलपानायुष्प्रमाणमभूत्‌। तस्य षट्‌त्रिशत्कोटिनयुताः श्रावक( संनिपातो )ऽभूत्‌ द्वादशकोटिनयुता बोधिसत्त्व( संनिपातो ) ऽभूत्‌।



"तेन खलु पुनः समयेन रत्नच्छत्त्रो नाम राजोदपादि चक्रवर्ती चातुर्द्वीपः सप्तरत्नसमन्वागतः। पुर्ण चास्याभूत्‌ सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरुपिणां परसैन्यप्रमर्दकानाम्‌।



"स रत्नच्छत्त्रो राजा पञ्चान्तरकल्पान्‌ सर्वसुखोपधानैर्भगवन्तं भैषज्यराजं तथागतं सपरिवारं मानयति स्म। तेषु पञ्चान्तरकल्पेष्वतीतेषु, देवेन्द्र, रत्नच्छत्त्रो राजा सहस्रं पुत्रानेतसवोचत्‌-'हे, वित्त। अहं तथागतमपूजयम्‌। अत इदानीं यूपमपि पूजयत तथागतम्‌'। ततस्ते राजकुमाराः पित्रे रत्नच्छत्त्राय राज्ञे साधुकारं दत्त्वा, तस्मै प्रत्यश्रौषुः। ते च सह गणेन तथागतं भैषज्यराजं पञ्चान्तरकल्पान्‌ सर्वसुखोपधानैः सत्करोन्ति स्म।



"तेषु चन्द्रच्छत्त्रस्य नाम राजपुत्रस्य रहोगतस्यैवं भवति स्म- 'तस्याः पूजाया अन्या विशिष्टतरोदारा पूजा ननु भवती' ति। बुद्धाधिष्ठानेनान्तरीक्षाद्देवा एतदाहुः-'धर्मपूजा हि, सत्पुरुष, सर्वपूजासूत्तमा'। स आह-'सा धर्मपूजा किमस्ति ?' देवा आहुः-'तस्य, सत्पुरुष, तथागतस्य भैषज्यराजस्य समीपं गत्वा, सा धर्मपूजा किमस्तीति पृच्छ। भगवांस्ते व्याकरिष्यति'।



"अथ, देवेन्द्र, चन्द्रच्छत्त्रो राजकुमारो येन भगवान्‌ भैषज्यराजस्तथागतोऽर्हन्‌ सम्यक्संबुद्धस्तेनोपसंक्रान्तः। उपसंक्रम्य, भगवत्पादौ शिरसा वन्दित्वा, एकान्तेऽस्थात्‌। एकान्तस्थितश्चन्द्रच्छत्त्रो राजपुत्रो भगवन्तं भैषज्यराजं तथागतमेतदवोचत्‌-'धर्मपूजा नाम, भगवन्‌, सा किमस्ति ?'



"स भगवानामन्त्रयते स्म-'कुलपुत्र, धर्मपूजा हि तथागतभाषिता गम्भीरसूत्रान्ताः गम्भीरावभासाः सर्वलोकविप्रत्यनीका दुर्विगाह्या दुर्दृशा दुरवबोधाः सूक्ष्मा निपुणा अतर्कावचराः । ( ते सूत्रान्ता) बोधिसत्त्वपिटकान्तर्भूता धारणीसूत्रान्तराजमुद्रामुद्रिता अवैवर्तिक(धर्म-) चक्रसंदर्शकाः षट्‌पारमितासम्भूताः सर्वग्राहापरिगृहीताः।

" '( ते सूत्रान्ता ) बोधिपक्ष्यधर्मद्समन्वागता बोध्यङ्गनिष्पादनापर्यापन्नाः सत्त्वमहाकरुणाऽवतारणा महामैत्रीसंदर्शकाः सर्वमारदृष्टिगतापगताः प्रतीत्यसमुत्पादसंदर्शकाः।



" '(धर्मेषु ते सूत्रान्ता) अनात्मका निःसत्त्वा निर्जीवा निष्पुद्गलाः शून्यताऽऽनिमित्ताप्रणिहितानभिसंस्कारानुत्पादासम्भवसम्प्रयुक्ताः। ( ते ) बोधिमण्डं समुदागच्छन्ति धर्मचक्रप्रवर्तकाः। प्रशंसितास्‌-( ते ) वर्णिता देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाधिपतिभिः। (सूत्रान्तास्ते) सद्धर्मवंशास्रंसना धर्मकोशग्राहका धर्मपूजावराऽपन्नाः। सर्वाऽर्यजनैः परिगृहीतास्‌ ( ते ) सर्वबोधिसत्त्वचर्याः सम्प्रकाशयन्ति भूतार्थधर्मप्रतिसंविदापन्नाः। धर्मसूत्रान्ता अनित्यतादुःखनैरात्म्यशान्ति ( -निर्देश-) नैर्यानिकाः।



" 'मात्सर्यदौःशील्यव्यापादकौसीद्यमुषितस्मृतिदुष्प्रज्ञाऽवसाद परप्रवादिकुदृष्टिसर्वाऽलम्बनाभिनिवेशां जहति (ते) सर्वबुद्धस्तोमिताः, संसारपक्षप्रतिपक्षा निर्वाणसुखं सम्प्रकाशयन्ति। ये तादृशसूत्रान्ताः सम्प्रकाशनधारणप्रत्यवेक्षणसद्धर्मसंग्रहाः, सा हि धर्मपूजा नाम।



" 'पुनरपरं, कुलपुत्र, धर्मपूजा हि धर्मा-( नु- ) धर्मनिध्यप्तिर्धर्मा-( नु- ) धर्मप्रतिपत्तिः प्रतीत्यसमुत्पादसमादानं; (सा) सर्वान्तग्राहदृष्टिरहिता, अनुत्पादानोपपत्तिक्षान्तिः, नैरात्म्यनिःसत्त्वप्रवेशः, हेतुप्रत्ययो रविरोधोऽविवादोऽकलहः, अहंकारमम( कारा-)पगता।



" '( धर्मपूजा ) ह्यर्थप्रतिसरणन्न व्यञ्चनप्रतिसरणम्‌, ज्ञानप्रतिसरणन्न विज्ञानप्रतिसरणम्‌, नीतार्थ सूत्रप्रतिसरणन्न नेयार्थसंवृत्यभिनिवेशः, धर्मताप्रतिसरणन्न पुद्गलदृष्ट्युपलब्धिग्रहणाभिनिवेशः; यथाबुद्धधर्ममवबोधः, अनालयप्रवेशः, अलयसमुद्धातः; प्रतीत्यसमुत्पादस्य द्वादशांगे(षु) तद्यथा-अविद्यानिरोधाद्‌ यावज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्त इत्यक्षयसत्त्वदृष्ट्यभिनिर्हारेणाभिसम्पन्नं सर्वदृष्ट्यदर्शनं च-सा हि, कुलपुत्र, अनुत्तरा धर्मपूजा नाम'।



"ततस्स राजपुत्रश्चन्द्रच्छत्त्रः, देवेन्द्र, भगवतो भैषज्यराजात्तथागताद्धर्मपूजामेवं श्रुत्वा, अनुलोमिकीं धर्मक्षान्ति प्राप्नोति स्म। सर्ववस्त्रविभूषणेषु तस्मै भगवत उपनामितेषु, एतद्वचनमवोचत्‌-'भगवति तथागते परिनिर्वृते, सद्धर्मपरिग्रहपूजनार्थ सद्धर्म परिग्रहीतुम्‌ उत्सहे। अधितिष्ठतु मामेवं भगवान्‌, यथाऽहं मारपरप्रवादिनो निहत्य, सद्धर्म परिगृह्णीयाम्‌'।

"तथागतस्तस्याध्याशयं बुद्‌ध्वा, 'पश्चिमकाले पाश्चिमसमये सद्धर्मनगरं पालयिष्यसे रक्षिष्यसि परिग्रहीष्यसी'-(ति) व्याकरोति स्म।

"अथ स राजपुत्रश्चन्द्रच्छत्त्रस्तथा तथागतप्रतिष्ठितश्रद्धयाऽऽगारदनागारिकां प्रव्रजितः कुशले(षु) धर्मे(षू) वीर्यमारभते स्म। आरब्धिवीर्यः स्थित्वा, कुशलेषु धर्मेषु सुप्रतिष्ठितः सोऽचिरेण धारणीगतिगतः पञ्चभिज्ञा उत्पादयति स्म। सोऽनाच्छेद्यप्रतिभानप्रतिलाभी, भगवति भैषज्यराजे तथागते परिनिर्वृते, अभिज्ञाधारणीवशेन धर्मचक्रं प्रवर्तयति स्म। स भगवान्‌ भैषज्यराजस्तथागतो यथा, तथा दशान्तरकल्पान्‌ ( धर्मचक्रम्‌ ) अनुप्रवर्तयति स्म।

"तथा हि, देवेन्द्र, चन्द्रच्छत्त्रस्य भिक्षोः सद्धर्मपरिग्रहाभियोगेन कोटिदशशतं सत्त्वा अनुत्तरसम्यक्संबोधि( मार्ग्‌- ) आवैवर्तिका अभूवन्‌। प्राणिनां चत्वारिशन्नयुतानि श्रावकप्रत्येकबुद्धयाने विनीतान्य्‌ ( अभूवन्‌ )। अप्रमाणसत्त्वाः स्वर्गेषूत्पद्यन्ते स्म।

"मन्येथाः, देवेन्द्र, अन्यः स तेन कालेन तेन समयेन रत्नच्छत्त्रो नाभाभुद्राजा चक्रवर्ती। न खलु पुनस्त्वयैवं द्रष्टव्यम्‌। तत्‌ कस्य हेतोः ? अयमेव स रत्नार्चिस्तथागतस्तेन कालेन तेन समयेन रत्नच्छत्त्रो नाम राजा चक्रवर्त्यभूत्‌। ( ये ) तस्य रत्नच्छत्त्रस्य राज्ञः पुत्राः सहस्रमभूवन्‌, ते सन्तीमे वर्तमानस्य भद्रकल्पस्य बोधिसत्त्वाः। अस्मिन्‌ भद्रकल्पे पूर्णबुद्धानां सहस्रमुत्पद्यन्ते। तेषां चत्वारो हि-क्रकुच्छन्दादय उत्पन्नपूर्वाः। अवशिष्टा अपि प्रादुर्भविष्यन्ति-ककुत्सुन्दादयो यावद्रोचं। अन्ते रोचो नाम तथागत उत्पद्यते।

"मन्येथाः, देवेन्द्र, अन्यः स तेन कालेन तेन् समयेन चन्द्रच्छत्त्रो नाम राजपुत्रोऽभूत्‌ तस्य भगवतो भैषज्यराजस्य तथागतस्य सद्धर्मपरिग्राहकः। न खलु पुनस्त्वयैवं द्रष्टव्यम्‌। तत्‌ कस्य हेतोः ? अहमेव स, देवेन्द्र, तेन कालेन तेन समयेन चन्द्रच्छत्त्रो नाम राजपुत्रोऽभूवम्‌।



"अनेन पर्यायेण, देवेन्द्र, वेद्यम्‌-यावत्तथागतपूजाः, ( तासु ) धर्मपूजा ह्युत्तमा नाम, वरा परमा वराग्रा प्रणीतोत्तरानुत्तरेति। तस्मात्तर्हि, देवेन्द्र, नामिषेण धर्मपूजया पूजा मे कर्तव्या। नामिषेण सत्कारो मे कर्तव्यः, धर्मसत्कात्रेण मानयितव्यम्‌"।



अथ भगवान्‌ मैत्रेयं बोधिसत्त्वम्महासत्त्वमामन्त्रयते स्म-"इमामहं मैत्रेयासंख्येयकल्पकोटिसमुदानीतामनुत्तरां सम्यक्संबोधि त्वयि परीन्दामि, यथा पश्चिमे काले पश्चिमे समयेऽयमेवंरूपो धर्मपर्यायस्त्वदधिष्ठानेन परिगृहीतो जम्बुद्वीपे वर्धेत न चान्तर्धीयेत, तत्‌ कस्य हेतोः ? अनागतेऽध्वनि, मैत्रेय, (ये)ऽवरिपितकुशलमूलाः कुलपुत्रकुलदुहितृदेव नागयक्षगन्धर्वासुरा अनुत्तरसम्यक्संबोधिसम्प्रस्थिताः, त इमं धर्मपर्यायन्न श्रुत्वा, ध्वंसिष्यन्ते। एवंरुपं सूत्रान्तं श्रुत्वा, प्रहृष्टाः श्रद्धां प्रतिलप्स्यन्ते शिरसा चा- ( भिवन्द्य, तं ) ग्रहीष्यन्ति। तेषां कुलपुत्रकुलदुहितॄणां रक्षणार्थाय, मैत्रेय, तेन कालेन त्वयाऽयमीदृशः सूत्रान्तः स्फ़रणीयः।



"इमे हि, मैत्रेय, बोधिसत्त्वानां द्वे मुद्रे। कतमे द्वे ? नानापदव्यञ्जनप्रसन्नस्य मुद्रा गम्भीरेण धर्मनयेनात्रस्तस्य यथाभूतं प्रतिपन्नकस्य मुद्रा च। ते, मैत्रेय, बोधिसत्त्वानां द्वे मुद्रे। ततो ये बोधिसत्त्वा नानापदव्यञ्जनप्रसन्नास्तत्पराः, ते ह्यादिकर्मिका अचिरब्रह्मचारिणो वेदितव्याः। ये, मैत्रेय, बोधिसत्त्वा अस्य गम्भीरस्यानुपलिप्तस्य सूत्रान्तस्य यमकव्यत्यस्ताहारस्य ग्रन्थं वा पटलं वा पठन्ति शृणवन्त्यधिमुच्यन्ते देशयन्ति, ( ते ) हि चिरब्रह्मचारिणो वेदितव्याः।



"आदिकर्मिकास्ततः, मैत्रेय, बोधिसत्त्वा द्वाभ्यां कारणाभ्यामात्मानं व्रणयन्ति गम्भीरे च धर्मे न निध्यायन्ति। कतमे द्वे ? अश्रुतपूर्व गम्भीरं सूत्रान्तं श्रुत्वा, त्रस्ताश्च संशयिता नानुमोदन्ते। स एवमस्माभिरश्रुतपूर्वः कुत आगत इति ( पृच्छन्तस्तं ) त्यजन्ति। ये कुलपुत्रा गम्भीरं सूत्रान्तमुद्‌गृह्णन्ति गम्भीरधर्मभाजनभूताश्च गम्भीरं धर्म देशयन्ति, तेभ्यो न सेवन्ति चासमागमा न पर्युपासते तां च न सत्कुर्वन्ति। अन्ततस्तेष्ववर्णमपि निश्चारयन्ति। ताभ्यां कारणाभ्यामादिकर्मिकबोधिसत्त्वा आत्मानं व्रणयन्ति गम्भीरे च धर्मे नावकल्पयन्ति।



"ताभ्यां द्वाभ्यां कारणाभ्यां गम्भीराधिमुक्तिक बोधिसत्त्वा आत्मानं व्रणयन्ति चानुत्पत्तिकधर्मक्षान्तिन्न लभन्ते। कतमे द्वे ? आदिकर्मिकानचिरचरितान्‌ बोधिसत्त्वान्‌ अवमन्यन्ते विमानयन्ति, न ( समा- ) दापयन्ति न ( वि- ) वरन्ति न देशयन्ति। गम्भीरे ( धर्मे )ऽल्पश्रद्धाः शिक्षान्न मानयन्ति, लोकस्य चामिषदानेन न तु धर्मदानेन सत्त्वानुपकुर्वन्ति।

"मैत्रेय, गम्भीरधिमुक्तिकबोधिसत्त्वा आभ्यां कारणाभ्यामात्मानं व्रणयन्ति चानुत्पत्तिकधर्मक्षान्ति शीघ्रन्न लभन्ते"। एवमामन्त्रयते स्म।

भगवन्तं बोधिसत्त्वो मैत्रेय एतदवोचत्‌-"भगवता यथा सुभाषितम्‌, भगवन्‌, ( तद्‌ ) आश्चर्यम्‌। साधु, भगवन्‌। अद्याग्रेण, भगवन्‌, इमानत्ययान्‌ ( वि- ) वर्जयेयम्‌। ( या ) तथागतेनासंख्येयकोटिनयुतशतसहस्रेभ्यः कल्पेभ्योऽनुत्तरसम्यक्संबोधिः समुदानीता, इमामारक्षिष्यामि धारयिष्यामि।

"( ये )ऽनागते ( ऽध्वनि ) कुलपुत्रा वा कुलदुहितरो वा भाजनभूताः, तेभ्य ईदृशं सूत्रान्तं हस्तगतं करिष्यामि। ( तेषां ) स्मृतिमुपसंहरिष्यामि ययेममेवंरूपं सुत्रान्तम्‌। अधिमुच्योद्‌ग्रहीष्यन्ति धारयिष्यन्ति पर्पवाप्स्यन्ति विवेशयन्ति लिखिष्यन्ति परेभ्यश्च विस्तरेण सम्प्रकाशयिष्यन्ति। तानहं, भगवन्‌, प्रस्थापयिष्यामि। (ये) भगवन्‌, तेन समयेनास्मिनेवंरूपे सूत्रान्तेऽधिमुच्यन्तेऽभिनिविशन्ति च, ते हि, भगवन्‌, मैत्रेयस्य बोधिसत्त्वस्याधिष्ठानेनाधिष्ठिता वेदितव्याः"।



अथ भगवान्‌ मैत्रेयाय बोधिसत्त्वाय साधुकारमदात्‌-"साधु, मैत्रेय, साधु। सुभाषितं तत्ते वाक्यम्‌। तथागतोऽपि तत्ते सुभाषितमनुमोदयति"।



ततस्‌ (सर्वे) ते बोधिसत्त्वा एकनिर्घोषिणैतद्वाक्यमवोचन्‌-"वयमपि, भगवन्‌, तथागते परिनिर्वृते, नानाबुद्धक्षेत्रेभ्य आगतास्तथागतस्य बुद्धस्येमां बोधिमुपबृंहयिष्यामः। तेऽपि कुलपुत्रा अधिमोक्षयिष्यन्ति"।



अथ भगवन्तं चतुर्महाराजिका (देवा) अप्येतदवोचन्‌-"येषु येषु, भगवन्‌, ग्रामनगरमिगमराष्ट्रराजधानीष्वेवंरुपो धर्मपर्यायश्चरितो देशितः सम्प्रकाशितः, तेषु तेषु, भगवन्‌, वयमपि चतुर्महाराजिका ( देवाः ) सबलवाहनपरिवारा धर्मश्रवणार्थम्‌ एष्यामः। तेषां धर्मभाणकानाम्‌ आ योजनापरिसामन्तकाद्रक्षां करिष्यामो यथा न कश्चित्तेषां धर्मभाणकानामवतारप्रेक्ष्यवतारगवेष्यवतारं लप्स्यते"।



अथ भगवानायुष्मन्तमानन्दमेतदवोचत्‌-"उद्‌गृह्णीष्व त्वम्‌, आनन्द, इमं धर्मपर्यायं, धारय परेषां च विस्तरेण सम्प्रकाशय"। आह-"अस्मिन्‌ धर्मपर्याय उद्‌गृहीते, को नामयं भगवन्‌ धर्मपर्यायः , कथं चैनं धारयामि ?"

भगवानामन्त्रयते स्म-"तस्मादानन्द, इमं धर्मपर्यायं 'विमलकीर्तिनिर्देशं' वा 'यमकव्यत्यस्ताभिनिर्हारं' वाऽप्य्‌-'अचिन्त्यविमोक्षपरिवर्तन्नाम' धर्मपर्यायं धारय"।

इदमवोचद्‌ भगवान्‌। आत्तमना लिच्छविर्विमलकीर्तिर्मजुश्रीश्च कुमारभूतः स चायुष्मानानन्दस्ते च बोधिसत्त्वाते च महाश्रावकाः सा च सर्वावती पर्षत्सदेवमानुषासुर गन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति।

पूर्वयोगस्य सद्धर्मपरीनन्दनायाश्च परिवर्तोनाम द्वादशः।



विमलकीर्तिनिर्देशो नाम महायानसूत्रं समाप्तम्‌।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project