Digital Sanskrit Buddhist Canon

११ अभिरतिलोकधात्वादानं तथागताक्षोभ्यसन्दर्शनं च

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
११ अभिरतिलोकधात्वादानं तथागताक्षोभ्यसन्दर्शनं च



अथ भगवाँल्लिच्छवि विमलकीर्तिमेतदवोचत्‌-"कुलपुत्र, यदा तथागतं द्रष्टुमिच्छसि, तदा कथं पश्यसि तथागतम्‌ ?" एवमामन्त्रयते स्म। लिच्छविर्विमलकीर्तिभगवन्तमेतदवोचत्‌-

"भगवन्‌, यदाऽहं तथागतं द्रष्टुकामः, तदाध्रुवं तथागतादर्शनेन ( तं ) पश्यामि। ( तथागतं ) पूर्वान्तादनुत्पन्नं चापरान्तमगच्छन्तंच प्रत्युत्पन्नेऽध्वन्यप्यप्रतिष्ठितं पश्यामि। तत्‌ कस्य हेतोः ?

"( तथागतो ) रूपतथतास्वभावश्च रूपापगतः, वेदना-........ संज्ञा ...... संस्कार........विज्ञानतथता स्वभावश्च विज्ञानापगतः। चतुर्धात्वप्रतिष्ठितस्‌ ( तथागत ) आकाशधातुसमः, षडायतनानुत्पन्नः, चक्षुः श्रोत्रघ्राणजिह्वाकायमनोमार्गसमतिक्रान्तः। ( तथागतस्‌- ) त्रैधातुकासंकीर्णः, मलत्रयरहितः, विमोक्षत्रयानुगतः, त्रिविद्याप्राप्तः, अप्रतिलब्ध(श्च) सम्प्रतिलब्धः।



" स ) सर्वधर्मेष्वश्लेषनिष्ठागतः, भूतकोट्यपगतः, तथतासुप्रतिष्ठितः सोऽन्योन्यविगतः। ( तथागतो ) हेत्वनुत्पादितोऽप्रत्ययप्रतिबद्धः, लक्षणापगतः, असलक्षणः, न चैकलक्षणो न च भिन्नलक्षणः, अकल्पितः, असंकल्पितः, अविकल्पितः। (तथागतः) पारे नास्ति, अपारे च नास्ति, नास्ति मध्येऽपि; इह वा तेन वा तत्र वाऽन्यत्र वा नास्ति। विज्ञानेन (सो)ऽज्ञातव्यः, विज्ञानस्थानन्नास्ति; ( स) न च तमो न चालोकः।



"( तथागतो ) नामापगतो निमित्तापगतः, ( स ) नास्ति दुर्वलो वा बलवान्‌ वा, न च देशस्थो न च पक्षस्थितः, कुशलाकुशलापगतः, संस्कृतासंस्कृतापगतः, कश्चिदभिलाप्योऽर्थो नास्ति; दानमात्सर्यशीलदौः शील्यक्षान्तिव्यापादवीर्यकौसीद्यध्यानौद्धत्यप्रज्ञादौष्प्रज्ञासु ( सो )ऽनभिलाप्यः। ( तथागतो ) नास्ति सत्यं वा मृषा वाऽवधारणं वाऽनवधारणं वा, न च जगद्विधिर्न च जगदबिधिः, सर्ववादचर्याऽत्यन्तसमुच्छिन्नः। (स) क्षेत्रभावो वा क्षेत्राभावो वा नास्ति, न च दक्षिणीयो न च दानानुपभोगः, न ग्राहितव्यं वा स्पृशेयं वा निमित्तं वा। (सो)ऽसंकृतः, संख्याविगतः, समतासमः, धर्मतासमासमः, अतुल्यवीर्यः, तुलनासमतिक्रान्तः, गमनं वा, आपन्नं वा, समतिक्रान्तं वा (स) नास्ति।

"(तथागतो)ऽदृष्टः, अश्रुतः, अमतः, अविज्ञातः, सर्वग्रन्थापगतः, सर्वज्ञज्ञानसमताप्राप्तः, सर्वधर्मसम(ता)निर्विशेषप्राप्तः, सर्वत्र निरवद्यः, अकिञ्चिनः, कषायरहितः, अकल्पः, अविकल्पः, अकृतः, अनुत्पन्नः, अजातः, अभूतः, असंभूतः; अभावी, अनभावी, अभयः, अनालयः; अशोकः अनानन्दः, अतरंगः, सर्वव्यवहारनिर्देशावक्तव्यः।

"तथागतकायो हि, भगवन्‌, ईदृशः; स एवं द्रष्टव्यः। य एवं पश्यति, सम्यक्‌ पश्यति सः। योऽन्यथा पश्यति, स मिथ्या पश्यति"।

तत आयुष्मांशारिपुत्रो भगवन्तमेतदवोचत्‌-"स कुलपुत्रो विमलकीर्तिः, भगवन्‌, कस्माद्‌बुद्धक्षेत्राच्च्युत्वा, अस्मिन्‌ बुद्धक्षेत्र आगतः ?" भगवानामन्त्रयते स्म-"शारिपुत्र, इमं सत्पुरुषं 'त्वं कस्माच्च्युत्वा, इह जात ?' इति पृच्छ"। तत आयुष्मांशारिपुत्रो लिच्छवि विमलकीर्तिमेतदवोचत्‌-"कुलपुत्र, त्वं कस्माच्च्युत्वा, इह जातः ?" विमलकीर्तिराह-



"यः स्थविरेण साक्षात्कृतधर्मः, किं तस्मिश्च्युत्युत्पत्ती स्तःकेचित्‌ ?" आह-"तस्मिन्‌ धर्मे केचिच्च्युत्युत्पत्ती न स्तः"। आह-"भदन्त शारिपुत्र, सर्वेषु धर्मेष्वेवमेव च्युत्युत्त्यपगतेषु, कस्मादेवं ' त्वं कस्माच्च्युत्वा, इह जात ?' इति मन्यसे ? भदन्त शारिपुत्र, मायाकारनिर्मितौ चेत्‌ स्त्रीं वा पुरुषं वा 'त्वं कस्माच्च्युत्वा, इह जात?' इति पृच्छेत्‌ , तत्समाधानं किम्‌ ( अभविष्यत्‌ ) ?" आह-"निर्माणञ्चेच्च्युत्युत्पत्त्यपगतं, तत्‌ किं व्यसर्जयिष्यत्‌ ?" आह-"भदन्त शारिपुत्र, ननु न 'सर्वधर्मा निर्माणस्वभावा' इति तथागतेनाऽख्यातम्‌ ?" आह-"तत्‌ तथेति, कुलपुत्र"। आह-"सर्वेषु धर्मेषु, भदन्त शारिपुत्र, निर्माणस्वभावेषु, कस्मादिदं 'त्वं कस्माच्च्युत्वा, इह जात ?' इति मन्यसे ? भदन्त शारिपुत्र, च्युतिर्नामाभिसंस्कारसंवर्त लक्षणा; उत्पत्तिर्नाम-साऽभिसंस्कारसन्ततिलक्षणा। ततो बोधिसत्त्वो यद्यपि म्रियते, कुशलमूलाभिसंस्कारन्न क्षपयति। स यद्यपि जायते, अकुशलसन्ततिन्न प्रतिसन्दधाति"।

अथ भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्‌--"शारिपुत्र, अयं सत्पुरुष इहाऽगतोभिरतिलोकधातोरक्षोभ्यस्य तथागतस्यान्तिकात्‌"। आह-"आश्चर्यम्‌, भगवन्‌, ( यथा ) ऽयं सत्पुरुषः, एतावद्विशुद्धबुद्धक्षेत्रादागतो ( ऽस्मिन्‌ ) बहुलात्ययदुष्टे बुद्धक्षेत्रेऽभिनन्दति"। ततो लिच्छविर्विमलकीर्तिरब्रवीत्‌-

"शारिपुत्र, तत्‌ कि मन्यसे ? सूर्यप्रभासाः किमन्धकारसहिताः ?" आह-"नो हीदं, कुलपुत्र"। "ननु तौ न सहितौ ?" आह-"तौ, कुलपुत्र, असहितौ। सूर्यमण्डल अभ्युद्गतमात्रे, सर्वान्धकारा विगच्छन्ति"। आह-"कस्माज्जम्बुद्वीपे सूर्य उदयति ?" आह-"तध्यालोककरणार्थंचान्धकारापकर्षणार्थम्‌"। आह-"एवमेव, भदन्त शारिपुत्र, बोधिसत्त्वः सत्त्वपरिशोधनार्थं च ज्ञानाऽलोककरणार्थ च महाऽन्धकारापकर्षणार्थ संचिन्त्यापरिशुद्धक्षेत्रेषु जायते। क्लेशैः सार्धन्न विरहति, सर्वसत्त्वानां तु क्लेशान्धकारं विनोदयति"।

ततः सर्वासां तासां पर्षदां 'साऽभिरतिलोकधातुश्च सोऽक्षोभ्यस्तथागतश्च ते बोधिसत्त्वाश्च ते महाश्रावका अस्माभिर्द्रष्टव्या' इति भावनाऽभूत्‌।



अथ भगवान्‌ सर्वासां तासां पर्षदां चेतसैव चेतःपरिवितर्कमाज्ञाय, लिच्छवि विमलकीर्तिमेतदवोचत्‌--"कुलपुत्र, इयं हि पर्षत्तामभिरतिलोकधातुं चाक्षोभ्यं तथागतं द्रष्टुमिच्छति; तेन तस्यै पर्षदे देशय"। अथ लिच्छवये विमलकीर्तय एवं भवति स्म-

"अस्मात्‌ सिंहासनाद्‌ अनुत्थाय, तामभिरतिलोकधातुं च बोधिसत्त्वानाम्‌ अनेकशतसहस्राणि च सचक्रवाड पर्वतपरिवृतभवनान्‌ देवनागयक्षगन्धर्वासुरांश्च ( तां लोकधातुं ) सनदीतडागोत्ससरस्समुद्रपरिखां च ससुमेरुगिर्यल्पहर्म्या च सचन्द्रसूर्यतारकां च सदेवनागयक्षगन्धर्वस्थानां च सब्रह्मभवनपरिवारां च सग्रामनगरनिगमजनपदराष्ट्रनरनरीगृहां च सबोधिसत्त्वश्रावकपर्षदं चाक्षोभ्यस्य तथागतस्य बोधिवृक्षं चापि पर्षत्सागरे निषण्णं च धर्म देशयन्तमक्षोभ्यं तथागतं च तानि पद्मानि, दशदिक्षु यानि सत्त्वेषु बुद्धकार्य कुर्वन्ति, ( तत्सर्वम्‌ उपादास्यामि )। ( यास्‌ )तिस्रो रत्ननिःश्रेण्यो जम्बुद्वीपाद्यावत्‌ त्रयास्त्रिशभवनं, तास्वभ्यार्यनिःश्रेणीषु त्रयस्त्रिंशा देवा अक्षोभ्यस्य तथागतस्य दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च जम्बुद्वीपम्‌ उपयान्ति, ( तासु च ) जम्बुद्वीपस्य मनुष्यास्त्रयस्त्रिंशानां देवानां दर्शनाय त्रयस्त्रिंशभवनम्‌ आरोहन्ति, ( ताश्च ) तामेवंरुपाम्‌ अप्रमाणगुणसञ्चयाम्‌ अभिरतिलोकधातुम्‌ आप्स्कन्धाद्यावदकनिष्ठभवनं कुम्भकारस्य चक्रमिवोपादाय, केवलं छित्त्वा, दक्षिणपाणिना च पुष्पमालामिव गृहीत्वा, अस्यां च सहालोकधातौ प्रक्षेप्स्यामि। प्रक्षिप्य, अस्यै सर्वपर्षदे निर्देक्ष्यामि"।

ततो लिच्छविर्विमलकीर्तिरेतादृशं समाधि समापद्यते स्मैतादृशं चद्‌ध्र्यभिसंस्कारमभिसंस्करोति स्म, ( यथा-)ऽभिरतिलोकधातुं, तां केवलं छित्त्वा, दक्षिणपाणिना गृहीत्वा, अस्यां सहालोकधातौ प्रक्षिपति स्म।



तत्र ये श्रावकबोधिसत्त्वदेवमनुष्या दिव्यचक्षुरभिज्ञाप्राप्ताः, ते क्रन्दति स्म--"भगवन्‌, उपादीयामहे। सुगत, उपादीयामहे। सुगत, अस्मभ्यं शरणं कुर्व"-इति याचन्ते स्म।

विनयार्थ भगवान्‌ तानेतदवोचत्‌-"बोधिसत्त्वेन विमलकीर्तिनोह्यध्वे; स हि मद्गोचरो नास्ति"।

तत्रान्यदेवमनुष्यादिभिः-कुत्रोह्यामहे-ह्यज्ञातमदृष्टम्‌। साऽभिरतिलोकधातुरस्यां सहालोकधातौ प्रक्षिप्यमाणाऽपि, अस्यां लोकधातौ पूर्णत्वं वोनत्वं वा न ज्ञायेते स्म, न च संबाधो वा बन्धनं वा। साऽप्यभिरतिलोकधातुरनूनत्वा यथापूर्व, पश्चात्तथा दृश्यते स्म।

अथ भगवांशाक्यमुनिस्ताः सर्वाः पर्षद आमन्त्रयते स्म-"हे मित्राणि, पश्यताभिरतिलोकधातुं चाक्षोभ्यं तथागतं चेमान्‌ बुद्धक्षेत्रश्रावकबोधि सत्त्वव्यूहान्‌"। तेऽवोचन्‌-"ध्रुवम्‌, भगवन्‌, पश्यामः"। आह--"( यो ) बोधिसत्त्व एतादृशं बुद्धक्षेत्रं परिग्रहीतुकामः, (तेन) तथागतस्याक्षोभ्यस्य बोधिसत्त्वानां सर्वचर्या अनुशिक्षितव्याः"।



तथा ह्यभिरतिलोकधातुसंदर्शनस्यार्द्धिप्रातिहार्येण चाक्षोभ्यतथागतसंसर्शनेनास्याः सहालोकधातोश्चतुर्दशदेवमनुष्यप्रजाऽयुतैरनुत्तरसम्यक्‌सम्बोधिचित्तान्युत्पादितानि। सर्वेऽपि तस्यामभिरतिलोकधातौ जनितुं प्रणिधानमकार्षुः, भगवांश्च सर्वेषां तेषामभिरतिलोकधातावुपपत्ति व्याकरोति स्म।

लिच्छविर्विमलकीर्तिस्तथा हि सर्वास्तान्‌, यावत्‌ परिपाचनीयानस्यां सहालोकधातौ, सत्त्वान्‌ विपाच्य, तामभिरतिलोकधातुं यथास्थानं पुनः प्रतिष्ठापयति स्म।

ततो भगवानायुष्मन्तं शारिपुत्रमेतदवोचत्‌-"ननु पश्यसि, शारिपुत्र, तामभिरतिलोकधातुं चाक्षोभ्यं तथागतम्‌ ?" आह-

"ध्रुवम्‌, भगवन्‌ पश्यामि। सर्वसत्त्वेभ्योऽस्तु तादृशो बुद्धक्षेत्रगुणव्यूहः। सर्वे सत्त्वाश्च भवन्तु कुलपुत्रो लिच्छविर्विमलकीर्तिर्यथा तादृशर्द्धिसम्पन्नाः। लाभा नः सुलब्धा यद्वयं तादृशं सत्पुरुषं पश्यामः। ये सत्त्वाः प्रत्युपन्नस्य वा परिनिर्वृततथागतस्य वेमं धर्मपर्यायं शृण्वन्त्यन्तशः, लाभास्तेषामपि सुलब्धा भवेयुः। कः पुनर्वादो य ( इमं धर्मपर्यायं ) श्रुत्वा, अधिमुच्यन्ते पत्तीयन्त्युद्‌ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्त्यधिमुच्य, देशयिष्यन्ति प्रपटन्ति परेभ्यश्च संप्रकाशयिष्यन्ति भावनाऽधिगमानुयुक्ता ( भविष्यन्ति ) ?

"ये सुलब्धा इमं धर्मपर्यायं, धर्मरत्ननिधि ते प्रतिलप्स्यन्ते। य इमं धर्मपर्यायं स्वाध्यायन्ति, ते भवन्ति तथागतस्य सहायाः। य एतद्धर्माधिमुक्तन्‌ सत्कुर्वन्ति पर्युपासन्ति च, ते हि भूता धर्मपालाः। य इमं धर्मपर्यायं सम्यग्‌ लिखन्ति धारयिष्यन्ति मानयिष्यन्ति, तेषां गृहे तथागतो विहरिष्यति। येऽस्मिन्‌ धर्मर्यायेऽनुमोदन्ते, ते परिरक्षन्ति सर्वपुण्यानि। ये केचिदितो धर्मपर्यायादन्तशश्चतुष्पादिकामपि गाथामुद्‌गृह्य, परेभ्यो देशयेयुः, ते हि महाधर्मयज्ञं कुर्युः। ये( षाम्‌ ) अस्मिन्‌ धर्मपर्याये क्षान्तिश्च छन्दश्च बुद्धिश्चासावबोधनादर्शनाधिमुक्तयः, तेभ्यस्तदेव व्याकरणम्‌।



अभिरतिलोकधत्वादानस्य तथागताक्षोभ्यसंदर्शनस्य च परिवर्त एकादशः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project