Digital Sanskrit Buddhist Canon

१० क्षयाक्षयन्नाम धर्मयौतकम्‌

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

10 kṣayākṣayannāma dharmayautakam

१० क्षयाक्षयन्नाम धर्मयौतकम्‌



तेन खलु पुनः समय आम्रपालीवने भगवता धर्मे निर्दिश्यमाने, स मण्डलमाडो विस्तीर्णो विशालोऽभूत्‌ ; सा पर्षच्च सुवर्णवर्ण इव संनिविष्टा( ऽभूत्‌ )।

ततः आयुष्मानानन्दो भगवन्तमेतदवोचत्‌-"भगवन्‌, अत्रेदमाम्रपालीवनं विस्तीर्णंच विशालभूतं, सर्वावती पर्षदपि सुवर्णवर्णे दृश्यते। कस्य खल्विदं पूर्वनिमित्तं ?" भगवानवोचत्‌-"आनन्द, इदं लिच्छविविमलकीर्तिमंजुश्रीकुमारभूतयोः प्रभूतपरिवारेण परिवृतयोः पुरस्कृतयोस्तथागतसमीपाऽगमनपूर्वनिमित्तं"।

अथ लिच्छविर्विमलकीर्तिमंजुश्रीकुमारभूतमेतदवोचत्‌-"मंजुश्रीः, इमे महासत्त्वा अपि नमस्यन्ति तथागतं दृश्यमानाः, तस्माह्वावां तथागतस्य समीपं गमिष्यावः"। मंजुश्रीराह--"कुलपुत्र, गमिष्यावो यस्येदानीं कालं मन्यसे"।



ततो लिच्छविर्विमलकीर्तिरेवंरूपम्‌ ऋद्ध्यभिसंस्कारमभिसंस्करोति स्म, यथा तैस्सिंहासनैस्साकं सर्वावतीं पर्षदं दक्षिणपाणौ प्रतिष्ठाप्य, येन भगवांस्तेनोपसंक्रान्तः। उपसंक्रम्य, पर्षदं भूमौ प्रतिष्ठापयति स्म। भगवतः पादौ शिरसाऽभिवन्द्य, सप्तकृत्वः प्रदक्षिणीकृत्यैकान्तेऽस्थात्‌।

अथ तेऽपि सुगन्धकूटस्य तथागतस्य बुद्धक्षेत्रादागता बोधिसत्त्वाः सिंहासनेभ्योऽवतीर्य, भगवतः पादौ शिरसाऽभिवन्द्य, भगवते कृताञ्जलिभूता नमस्कुर्वन्त एकान्तेऽस्थुः। सर्वे तेऽपि बोधिसत्त्वा महासत्त्वाश्च महाश्रावकाश्च सिंहासनेभ्योऽवर्तीय, भगवतः पादौ शीरसाऽभिवन्द्य, एकान्ते ऽस्थुः। एवमेव सर्वे ते शक्रब्रह्मलोकपालदेवपुत्रा भगवतः पादौ शिरसाऽभिवन्द्य, एकान्तेऽस्थुः।



ततो भगवान्‌, तान्‌ बोधिसत्त्वान्‌ धर्मकथया संप्रहर्षयित्वा, एतदवोचत्‌--"कुलपुत्राः, स्वकस्वकसिंहासनेषु निषीदत"। भगवतैतदुक्ते, ते न्यषीदन्‌।

अथ भगवांशारिपुत्रमामन्त्रयते स्म--"शारिपुत्र, बोधिसत्त्वानां वरसत्त्वानां विकुर्वणानि ननु त्वया दृष्टानि ?" आह-'ध्रुवं, भगवन्‌, दृष्टानि"। भगवानवोचत्‌-"ततस्ते कीदृशा संज्ञोत्पन्ना ?" आह-"ध्रुवं, भगवन्‌ ततो मेऽचिन्त्यसंज्ञोत्पन्ना। तेषां करणमेवमचिन्त्य दृष्टं, यथा चिन्तातुलनागणना अशक्याः"।

अथ भगवन्तमायुष्मानानन्द एतदवोचत्‌--"भगवन्‌, अपूर्वघ्रातो गन्धः श्रूयमाणः, ईदृशोऽस्ति कस्य गन्धः ?" भगवान्‌ अवोचत्‌-"आनन्द, ते बोधिसत्त्वाः कायस्य सर्वरोमकूपेभ्य(इदृशं) गन्धं निःश्वसन्ति"। शारिपुत्रोऽप्याह-"आयुष्मनानन्द, अस्मत्कायस्य सर्वरोमकूपेभ्योऽपीदृशो गन्धो निश्चरति"। आह- "कुतो गन्ध आगतः ?" आह-"अयं लिच्छविर्विमलकीर्तिः सुगन्धकूटस्य तथागतस्य सर्वगन्धसुगन्धालोकधातोर्बुद्धत्राद्भोजनमादत्ते स्म। परिभुक्त्वा, सर्वेषां, कायादीदृशो गन्धो निश्चरति"।

तत आयुष्मानानन्दो लिच्छवि विमलकीर्तिमेतदवोचत्‌-"अयं गन्धः कियच्चिरमाविष्करणमायाति ?" आह-"यावदन्नमजीर्णम्‌।

आनन्द आह-"कियच्चिरचरितं तदन्नं जीर्ण भविष्यति ?" आह-"सप्ताहरात्रान्तरे जीर्ण भविष्यति। ततोऽपि यावत्सप्ताहमेवभोजः परिस्फ़ुटं भविष्यति। अजीर्णेऽपि ( भोजने ), न काचित्‌ पीडा जायते।



"यैश्च भदन्त आनन्द भिक्षुभिरनवक्रान्तनियामैरेतद्‌भोजनं भुक्तम्‌ , तेषामेवावक्रान्तनियामानां परिणंस्यति। यैरवक्रान्तनियामैरेतद्‌भोजनं भुक्तं, यावत्तेऽपरिमुक्तचित्ताः" ( तेषान्‌- ) न परिणंस्यति। यैरनुत्पादितबोधिर्चित्तैः सत्त्वै परिभुक्तम्।' तेषामुत्पादितबोधिचित्तानां परिणंस्यति। यैरुत्पादितबोधिचित्तैर्भुक्तम् ' तेषां नाप्रतिलब्धक्षान्तिकानां परिणंस्यति। यैः प्रतिलब्धक्षान्तिकैर्भुक्तम् , तेषामेकजातिप्रतिबद्धानां परिणंस्यति।



"भदन्तानन्द,तद्यथापि नामसरन्नाम भैषज्यमुदरेऽवतीर्य, यावत्‌ सर्वाणि विषाण्यनपगतानि, (तावन्‌-) न परिणंस्यति; तद्‌भैषज्यं पश्चात्‌ परिणंस्यति। एवमेव, भदन्तानन्द, यावत्‌ सर्वक्लेशविषाण्यनपगतानि, तद्‌भोजनन्न परिणंस्यति। तद्‌भोजनं पश्चात्‌ केवलं परिणंस्यति।"

तत आयुष्मानानन्दो भगवन्तमेतदवोचत्‌--"इदम्‌, भगवन्‌, भोजनं हि बुद्धकार्य करोति"। आमन्त्रयते स्म-"तत्‌ तथा, आनन्द; यथा वदसि, तत्‌ तथेति।



"संविद्यन्ते, आनन्द, बुद्धक्षेत्राणि, येषु बोधिसत्त्वा बुद्धकार्य कुर्वन्ति; संविद्यन्ते बुद्धक्षेत्राणि, येषु प्रभया बुद्धकार्य कृतं, ..... येषु बोधिवृक्षेण... , .....तथागतलक्षणरूपदर्शनेन....,..... ......चीवरेण....., भोज्येन....... , .... जलेन..... , ...... उद्यानेन......, ..... विमानेन..... , .... कूटागारेण बुद्धकार्य कृतं; संविद्यन्ते च आनन्द, बुद्धक्षेत्राणि, येषु निर्माणेन बुद्धकार्य कृतं। आनन्द, संविद्यन्ते पुनर्बुद्धक्षेत्राणि, ( येष्व्‌ ) आकाशेन बुद्धकार्य कृतं। एवमेवाऽकाशान्तरीक्षं बुद्धकार्य कृतं। अनेन ते सत्त्वा वैनेयिका भवन्ति"।

"एवमेव, आनन्द, स्वप्नप्रतिबिम्बोदकचन्द्रप्रतिश्रुत्कामायामरीच्युदाहरणाक्षरनिरुक्तिदर्शनेन तेभ्यः सत्त्वेभ्यो बुद्धकार्य कृतं। संविद्यन्तेऽपि बुद्धक्षेत्राणि, येष्वक्षरविज्ञप्त्या बुद्धकार्य कृतं। आनन्द, यत्रावचनानभिलापानिदर्शनानुदाहारेण तेभ्यः सत्त्वेभ्यो बुद्धकार्य कृतं, (तत्र) एवं परिशुद्धबुद्धक्षेत्राणि संविद्यन्ते।



"भगवताम्‌, आनन्द बुद्धानाम्‌ ईर्यापथोपभोगपरिभोगेन सत्त्वदमनार्थमकृतबुद्धकार्य किञ्चिन्नास्ति। आनन्द, तैश्चतुर्भिर्मारैश्च चतुरशीतीशतसहस्रैश्च क्लेशमुखैः, (यैः) सत्त्वाः संक्लिष्टाः, सर्वैस्तैर्बुद्धा भगवन्तो बुद्धकार्य कुर्वन्ति।



"इदं ह्यानन्द, सर्वबुद्धधर्ममुखप्रवेशो नाम धर्ममुखम्‌। तेऽस्मिन्‌ धर्ममुखे प्रविष्टा बोधिसत्त्वाः सर्वोदारगुणव्यूहान्वितबुद्धक्षेत्रेषु न च दीना वोत्तमा वा। सर्वोदारगुणव्यूहान्वितबुद्धक्षेत्रेषु ( ते ), न चोदग्रा वा गर्विता वा, तथागतेषु प्रतिमानम्‌ उत्पादयन्ति। भगवन्तो बुद्धा ( यथा ) सर्वधर्मसमताऽधिगताः सत्त्वपरिपाचनार्थाय नानाप्रकारबुद्धक्षेत्राणि दर्शयन्ति, तदाश्चर्यम्‌।



"आनन्द, तद्यथापि नाम बुद्धक्षेत्राणां गुणा अन्योऽन्यं नानाविधाः, कि तु क्रियामार्गेण प्रसारितबुद्धक्षेत्राण्याकाशंच्‌ आभिन्नानि। एवमेव, आनन्द, तथागतानां रूपकाया नानाविधाः, परं तु तथागतानामसंगज्ञानं ह्याभिन्नम्।



"आनन्द, सर्वबुद्धानां रूपवर्णतेजः कायलक्षणाभिजातशीलसमाधिप्रज्ञाविमुक्तिज्ञानदर्शनबलवैशारद्या-(ऽवेणिक-) बुद्धधर्ममहामैत्रीमहाकरुणाहिताभिप्रायेर्यापथचर्यामार्गाऽयुष्प्रमाणधर्मदेशनासत्त्वपरिपाचनसत्त्वविमोचन-( बुद्ध- )क्षेत्रपरिशोधनानि सर्वबुद्धधर्मपरिनिष्पन्ने समानि। अतस्‌ ( तथागताः ) सम्यक्संबुद्ध इत्युच्यन्ते, (उच्यन्ते) तथागता बुद्धा इति।



"सुखमवगन्तुम्‌ , आनन्द, तेषां त्रयाणां वाक्यानां यदर्थव्यासश्च वचनविभजनं, तन्न सुकरम्‌ , यद्यप्यायुष्प्रमाणन्ते कल्पसंनिहितं (स्यात्‌)। (ये) त्रिसाहस्र ( महासाहस्रलोकधात्व्‌ - ) अन्तर्भूताः सत्त्वाः ( स्युः ), त्वमिवाऽनन्दो बहुश्रुतानां स्मृतिधारणीप्राप्तानामग्रतां प्राप्ताः, सर्वे त आनन्दप्रतिरूपकसत्त्वाः कल्पमपि दर्श्यमानास्तेषां त्रयाणां वाक्यानां--'सम्यक्संबुद्धः, तथागतः, बुद्ध, इति-नियतार्थम्‌ अवगन्तुमसमर्थाः। तथा ह्यानन्द, बुद्धबोधिरप्रमाणा, अचिन्त्ये तथागतानां प्रज्ञा प्रतिभानञ्च"।



अथ भगवन्तमायुष्मानानन्द एतत्‌वोचत्‌--"भगवन्‌, अद्याग्रेण 'बहुश्रुतानाम्‌ अग्र्योऽहम्‌' इति न प्रतिजानामि "। भगवानवोचत्‌--"दैन्यम्‌, आनन्द, मोत्पादय। तत्‌ कस्य हेतोः ? श्रावकेषु, न किन्तु बोधिसत्त्वेषु, त्वां समन्वाहृत्य, 'बहुश्रुतानामग्र्यो (ऽसी-)' त्याख्यातम्‌ मया। आनन्द, बोधिसत्त्व्‌ एक्षणं तु निक्षिप; ते हि पण्डितैः प्रमाणग्राह्याः। सर्वसमुद्राणाम्‌ , आनन्द, गम्भीरतां प्रमातुं शक्यम्‌, परं तु बोधिसत्त्वानां प्रज्ञाज्ञानस्मृतिधारणीप्रतिभानगम्भीरतां प्रमातुन्न शक्यम्‌।



"आनन्द, उपेक्षाऽस्तु ते बोधिसत्त्वचर्यासु। तत्‌ कस्य हेतोः ? (यः), आनन्द, अनेन लिच्छविर्विमलकीर्तिनैकपूर्वाह्णे दर्शितो व्यूहः, सर्व ऋद्धिप्राप्तश्रावकाश्च प्रत्येकबुद्धाः कल्पानामपि शतसहस्रकोटीः सर्वर्द्धिनिर्माणप्रातिहार्यैः ( तं ) दर्शयितुन्न शक्नुवन्ति।"



ततस्सर्वे ते तथागतस्य सुगन्धकूटस्य बुद्धक्षेत्रादागताः प्रगृहीताञ्जलिबोधिसत्त्वास्तथागतमभिवन्दित्वा, एतद्‌वचनमवोचन्‌--"भगवन्‌, वयमत्रास्मिन्‌ बुद्धक्षेत्र अवरोपितहीनसंज्ञामनसिकारान्‌ प्रहातुमिच्छामः। तत्‌ कस्य हेतोः ? भगवतां बुद्धानाम्‌, भगवन्‌, बुद्धविषय्‌ ओपायकौशल्यमचिन्त्यम्‌। ते सर्वसत्त्वपरिपाचनार्थ यथा कामः, तथा तथा क्षेत्रव्यूहान्‌ देशयन्ति। अस्मभ्यम्‌, अस्मत्सर्वगन्धसुगन्धालोकधातुं गत्वा, भगवान्‌ भगवदनुस्मृत्यावहधर्मयौतकं ददातु"। एतदवोचन्‌।

भगवानामन्त्र्यते स्म--"कुलपुत्राः, अस्ति क्षयाक्षयन्नाम बोधिसत्त्वविमोक्षः। तस्मिन्‌ युष्माभिः शिक्षितव्यम्‌। स कतमः ? क्षयो नाम हि संस्कृतम्‌, असंस्कृतम्‌ ह्यक्षयः। तस्मिन्‌ बोधिसत्त्वेन संस्कृतन्न क्षपयितव्यम्‌, असंस्कृते न स्थातव्यम्‌।



"तस्मिन्‌ संस्कृताक्षयो हि तद्यथा-महामैत्र्यविनाशः, महाकरुणाऽनुत्सर्जनम्‌, अध्याशयसंविवेशितस्य सर्वज्ञचित्तस्यासम्प्रमोषः, सत्त्वपरिपाचनेऽखेदः, संग्रहवस्तूनामनुत्सर्गः, सद्धर्मपरिग्रहार्थ कायजिवितोत्सर्गः, कुशलमूलेष्वसंतुष्टिः, परिणामनाकौशल्ये नियोजनम्‌ , धर्मपर्येषणायामकौसीद्यम्‌, धर्मदेशनायामाचार्यमुष्टयकरणम्‌ , तथागतदर्शनपूजाऽर्थोद्योगः, संचिन्त्योपपत्त्याऽत्रासः., संपत्त्यां च विपत्त्यामनुन्नतिरनवनता, अशिक्षितेष्वनतिमन्यना च शिक्षितेषु शस्तरीव प्रियचिन्ता, स्फ़ीतक्लेशेषु योनिश उपसंहारः, विवेक आरमश्च तस्मिनश्लेषः, स्वसुख अनस्सक्तिश्चाऽसक्तिः परसुखे, ध्यानसमाधिसमपत्तिष्ववीचिसंज्ञा, संसार उद्याननिर्वाणसंज्ञा, याचकेषु कल्याणमित्रसंज्ञा, सर्वस्वपरित्यागे सर्वज्ञतापूरणसंज्ञा, दुःशीलेषु गुप्तिसंज्ञा, पारमितासु मातृपितृसंज्ञा, बोधिपक्ष्यधर्मेषु स्वामिसेवासंज्ञा सर्वकुशलमूलसंचयेनासन्तुष्टिश्च सर्वबुद्धक्षेत्र गुणैः स्वक्षेत्रनिष्पादना, लक्षणानुव्यञ्जनपरिपूरणार्थम्‌ अनर्गडयज्ञविसर्जनम्‌, सर्वपापाकरणेन कायवाक्‌चित्तालङ्कारः, कायवाक्‌चित्तपरिशुद्‌ध्याऽसंख्येयकल्पान्‌ संसरणम्‌, चित्तपराक्रमेणाप्रमाणबुद्धगुणश्रवणेऽनवलीनता, क्लेशशत्रुनिग्रहाय तीक्ष्णप्रज्ञाशस्त्रधारणम्‌, सर्वसत्त्वभारहरणाय स्कन्धधात्वायतनाऽज्ञा, मारसेनां हन्तुं वीर्य्यज्वलनम्‌, निरधिमानतायै ज्ञानैषणा, धर्मोद्‌ग्रहणार्थम्‌ अल्पेच्छता च सन्तुष्टिः, सर्वलोकसन्तोषणाय सर्वलोकधर्मासंभेदः, लोकेन सह सामग्रीकरणार्थ सर्वेर्यापथाविनाशः, सर्वक्रियासम्प्रकाशनायाभिज्ञोपसंहारः, सर्वश्रुतधारणाय धारणीस्मृतिज्ञानानि, सर्वसत्त्वसंशयच्छेदनायेन्द्रियवरावरज्ञानम्‌, धर्मदेशनाया अप्रतिहताधिष्ठानम्‌, प्रतिभानप्राप्तिसुलाभेनाप्रतिहतप्रतिभानम्‌, कुशलकर्मपथपरिशुद्‌ध्या देवमनुष्यसम्पत्त्यास्वादनम्‌ चतुरप्रमाणप्रभावनया ब्रह्ममार्गप्रतिष्ठापनम्‌ , धर्मदेशनाऽभ्यर्थनया चानुमोदनासाधुकारेण बुद्धस्वरप्रतिलभ्भः, कायवाग्मनः संवरेण विशेषगामितया च सर्वधर्माश्लेषेण बुद्धेर्यापथप्रतिलम्भः, बोधिसत्त्वसंघसंग्रहेण महायानावतारणता, सर्वगुणाविप्रणाशेनाप्रमादः। कुलपुत्राः, (यो) बोधिसत्त्व एवं हि धर्माभियुक्तः, (स) बोधिसत्त्वः संस्कृतन्न क्षपयन्ति।



"किम्‌ असंस्कृतेऽस्थानम्‌ ? यदा शून्यतायां व्यन्तीकरणम्‌, शून्यतासाक्षात्करणन्तु नास्ति; अनिमित्तव्यन्तीकरणम्‌, परं त्वनिमित्तसाक्षात्करणन्नास्ति; अप्रणिहितव्यन्तीकरणम्‌, कि त्वप्रणिहितसाक्षात्करणन्नास्ति; अनभिसंस्कारव्यन्ती-करणम्‌ , अनभिसंस्कारसाक्षात्करणन्तु नास्ति।



"अनित्यताप्रत्यवेक्षा, परं तु कुशलमूलासन्तुष्टिः; दुःखप्रत्यवेक्षा, किं तु संचिन्त्योपपत्तिः; नैरात्म्यप्रत्यवेक्षा, आत्मपरित्यागस्तु नास्ति।



"शान्तिप्रत्यवेक्षा, परं तूपशमानुत्थापनम्‌; विवेकप्रत्यवेक्षा, कि तु कायचित्तेनौत्सुक्यम्‌; अनालयप्रत्यवेक्षा, अपि तु शुचिधर्मालयप्रतिक्षेपो नास्ति; अनुत्पादप्रत्यवेक्षा, सत्त्वानां तु भारादानधारणम्‌; अनास्रवप्रत्यवेक्षा, परं तु संसारप्रबन्धोत्थापनकरणम्‌ ; अप्रचारप्रत्यवेक्षा, सत्त्वपरिपाचनार्थ प्रचारोत्पादः ; नैरात्म्यप्रत्यवेक्षा, अपि तु सत्त्वमहाकरुणाऽनुत्सर्गः; अप्ररोहणप्रत्यवेक्षा, अपि तु खलु पुनः श्रावकनियत्यपातः।



"(सर्वधर्मेषु ) तुच्छरिक्तनिःसारास्वामिकानिकेतप्रत्यवेक्षा, परं त्वतुच्छपुण्ये चारिक्तज्ञाने च परिपुर्णसंकल्प्‌ ( एषु ) च स्वयम्भूज्ञानाभिषेके च स्वयम्भूज्ञानाभियोगे च नीतार्थबुद्धगोत्रे प्रतिष्ठा।



कुलपुत्राः, एवं हि तादृशधर्माधिमुक्तबोधिसत्त्वोऽसंस्कृते न तिष्ठति, संस्कृतञ्चापि न क्षपयति।



पुनरपरं, कुलपुत्राः, बोधिसत्त्वः पुण्यसम्भारस्य समभिनिर्हारार्थम्‌ असंस्कृते न तिष्ठति, ज्ञानसम्भारसमभिनिर्हारार्थ संस्कृतन्न क्षपयति।

महामैत्री समन्वागतः ( सो )ऽसंस्कृते न तिष्ठति, महाकरुणासमन्वागतः (स) संस्कृतन्न क्षपयति।



"सत्त्वपरिपाचनार्थाय (सो)ऽसंस्कृते न तिष्ठति, बुद्धधर्माधिमुक्तिकारणात्‌ (स) संस्कृतन्न क्षपयति। बुद्धलक्षणपरिपूरणार्थम्‌ असंस्कृते न तिष्ठति, सर्वज्ञज्ञानपरिपूरणार्थ संस्कृतन्न क्षपयति। उपायकौशल्यकारणादसंस्कृते न तिष्ठति, प्रज्ञासुनिश्चितः (स) संस्कृतन्न क्षपयति। बुद्धक्षेत्रपरिशोधनार्थमसंस्कृते न तिष्ठति, बुद्धाधिष्ठानकारणात्‌ संस्कृतन्न क्षपयति। सत्त्वार्थानुभवकारणादसंस्कृते न तिष्ठति, धर्मार्थ सम्प्रकाशनकारणात्‌ संस्कृतन्न क्षपयति।



"कुशलमूलसंचयार्थायासंस्कृते न तिष्ठति, कुशलमूलवासनाकारणात्‌ संस्कृतन्न क्षपयति। प्रणिधानपरिपूरणार्थमसंस्कृते न तिष्ठति, अप्रणिहितकारणात्‌ संस्कृतन्न क्षपयति। आशयपरिशुद्धिकारणादसंस्कृते न तिष्ठति, अध्याशयपरिशुद्धिकारणात्‌ संस्कृतन्न क्षपयति। पञ्चभिज्ञाविक्रीडनताकारणाद्‌ असंस्कृते न तिष्ठति, बुद्धज्ञानस्य षडभिज्ञाऽर्थाय संस्कृतन्न क्षपययि।



"पारमितासंचयपरिपूरणार्थम्‌ असंस्कृते न तिष्ठति, कालपरिपूरिकारणात्‌ संस्कृतन्न क्षपयति। धर्मधनसंग्रहार्थमसंस्कृते न तिष्ठति, प्रादेशिकधर्मास्पृहणताकारणात्‌ संस्कृतन्न क्षपयति। धर्मभैषज्यसंग्रहार्थमसंस्कृते न तिष्ठति, यथायोगं धर्मभैषज्यप्रयोगार्थाय संस्कृतन्न क्षपयति।



"प्रतिज्ञाधैर्यार्थायासंस्कृते न तिष्ठति; प्रतिज्ञाहान्याः पश्चात्‌ (यथा) अघिगच्छेत, (स) संस्कृतन्न क्षपयति। सर्व धर्मौषध्याधानार्थायासंस्कृते न तिष्ठति, एवम्‌ मृदुधर्मौषधप्रयोगार्थ संस्कृतन्न क्षपयति। स सर्वक्लेशरोगपरिज्ञानकारणादसंस्कृते न तिष्ठति, सर्वरोगसंशमनार्थ संस्कृतक्षयन्नेच्छति। कुलपुत्राः, इत्येवं बोधिसत्त्वः संस्कृतन्न क्षपयति चासंस्कृते न तिष्ठति। स हि बोधिसत्त्वानां क्षयाक्षयन्नाम विमोक्षः। तस्मिन्‌, सत्पुरुषाः, युष्माभिरपि योगः करणीयः"।



अथ ते बोधिसत्त्वाः, इममुपदेशं श्रुत्वा तुष्टा उदग्रा आत्तमनसः प्रमुदिताः प्रीतिसौमनस्यजाताः, भगवत्पूजनार्थच तेभ्यो बोधिसत्त्वेभ्यश्चास्मै धर्मपर्यायाय पूजनार्थं।, सर्वमिमं त्रिसाहस्रमहासाहस्रलोकधातुं सर्वानेकचूर्णगन्धधूपपुष्षैर्जानुमात्रम्‌ आच्छादयन्ति स्म। भगवतः पर्षन्मण्डलमभिकीर्य, भगवतः पादौ शिरसाभिवन्द्य, भगवते त्रिःप्रदक्षिणीकृत्य, उदानमुदानयामासुः। ततस्‌ ( ते )ऽस्माद्‌बुद्धक्षेत्रादन्तर्हिता एकक्षणलवमुहूर्तेन तस्यां सर्वगन्धसुगन्धायां लोकधात्वान्न्यषीदन्‌।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project