Digital Sanskrit Buddhist Canon

९ निर्माणभोज्याऽदानम्‌

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

9 nirmāṇabhojyā'dānam

९ निर्माणभोज्याऽदानम्‌



अथाऽयुष्मतः शारिपुत्रस्यैतदभूत्‌-"मध्याह्न आपन्ने, इमे महाबोधिसत्त्वाश्चेन्नोत्तिष्ठन्ति, इमेऽन्नं कुत्र भुञ्जन्त" इति।

ततो लिच्छविर्विमलकीर्तिरायुष्मतः शारिपुत्रस्य चित्तवितर्क चेतसा ज्ञात्वा, आयुष्मन्तं शारिपुत्रमेतदवोचत्‌--"भदन्त शारिपुत्र, तथागतेन येऽष्टौ विमोक्षा आख्याताः, तेषु विमोक्षेषु तिष्ठ, आमिषसम्मिश्रितविचारेण धर्मम्मा श्रौषीः। भदन्त शारिपुत्र, मुहूर्त प्रतीक्षस्व; अननुभूतपूर्वाऽहारं भक्षयिष्यसि"।

ततस्तदा लिच्छविर्विमलकीर्तिस्तथारूपं समाधि समापद्यते स्म, ईदृशद्‌ र्ध्यभिसंस्कारमभिसंस्करोति स्म, ( यथा तद्‌ ) ऊर्ध्वदिशि बुद्धक्षेत्रम्‌ , इतो द्विचत्वारिशद्‌गङ्गानदीवालुकासमानि बुद्धक्षेत्राण्य्‌) अतिक्रम्य, यत्‌ सर्वगन्धसुगन्धा नाम लोकधातुः, तेभ्यो बोधिसत्त्वेभ्यश्च तेभ्यो महाश्रावकेभ्यो दर्शयति स्म। तत्र सुगन्धकुटो नाम तथागतोऽद्य तिष्ठिति, ध्रियते, यापयति। तस्मिल्लोकधातौ( यो ) दशदिक्षु सर्वबुद्धक्षेत्राणाम्‌ मनुष्यदेव्‌ (एभ्यो ) गन्ध उत्पद्यते, तस्माद्विशिष्टतरो ( गन्धस्‌ ) तस्य लोकधातोर्दारुण उत्पद्यते। तस्मिल्लोकधातौ श्रावकप्रत्येकबुद्धानां नामधेयमपि नास्ति। केवलं बोधिसत्त्वानां गणसन्निपाताय स सुगन्धकूटस्तथागतो धर्म देशयति। तस्मिल्लोकधातौ सर्वाणि कूटागाराणि धूपमयानि; सर्वचंक्रमणोद्यानविमानानि च धूपमयानि। यत्तेषां बोधिसत्त्वानां जुष्टान्नं, तस्य गन्धेनाप्रमेयलोकधातवः स्फ़ुटाः।

तेन खलु समयेन भगवान्‌ सुगन्धकूटस्तथागतस्तैर्बोधिसत्त्वैस्सहभोजनखादनार्थ निषण्णो (ऽभ्वत्‌ )। तत्र महायानसम्प्रस्थितो गन्धव्यूहतर्पणो नाम देवपुत्रो भगवतश्च तेषां बोधिसत्त्वानाम्‌ उपस्थाने च पर्युपासनेऽभियुक्तो ( ऽभूत्‌ )। ततस्तया सर्वावत्या पर्षदा तस्मिलोकधातौ स भगवांश्च ते बोधिसत्त्वा भोजनाय रचिता निषण्णा दृश्यन्ते स्म।

अथ लिच्छविर्विमलकीर्तिः सर्वान्‌ तान्‌ बोधिसत्त्वानेतदवोचत्‌-"सत्पुरुषाः, युष्मन्मध्ये कस्तस्माद्‌ बुद्धक्षेत्रादाहाराऽदानायोत्सहते ?" अत्र मंजुश्रियोऽधिष्ठानेन न कश्चिदुत्सहते स्म। ततो लिच्छविर्विमलकीर्तिमंजुश्रीकुमारभूतमेतदवोचत्‌-"मंजुश्रीः, ईदृशस्ते परिवारो ननु न लज्जा ( करः ) ? आह- "कुलपुत्र, तथागतेन 'नाशिक्षिताय्‌ आतिमन्यना कर्तव्ये' ति ननु न प्रोक्तम्‌ ?"

अथ लिच्छविर्विमलकीर्तिस्तस्याः शय्याया अनुत्थाय, तेषां बोधिसत्त्वानाम्‌ अभिमुखं निर्मितबोधिसत्त्वस्य सुवर्णवर्णप्रतिरूपकं लक्षणानुव्यञ्जस्वलङ्कृतं कायं निर्मिमीते स्म। येन स सर्वपरिवारो ध्यामीकृतः, तादृशो रूपे अवभासमागच्छति स्म।

ततो लिच्छविर्विमलमीर्तिस्तं निर्मितबोधिसत्त्वमेतदवोचत्‌-"कुलपुत्र, ऊर्ध्वदिशि गच्छ; द्वाचत्वारिशद्‌गङ्गनदीवालुकोपमानि बुद्धक्षेत्राण्यतिक्रभ्य, ( तत्र्‌ ) अस्ति सर्वगन्धसुगन्धा नाम लोकधातुः। तत्र सुगन्धकूटो नाम तथागतो ऽद्य भोजनखादनार्थ निषण्णः। तत्रोपसंक्रम्य, तस्य तथागतस्य पादौ शिरसाऽभिवन्द्य, एतन्निवेदय-'लिच्छविर्विमलकीर्तिर्भगवतः पादौ शतसहस्रकृत्वः शिरसाऽभिवन्द्य, भगवत्यल्पाबाधताम्‌ अल्पातङ्कतां लघूत्तथानतां यत्रां बलं सुखम्ह् अनवद्यतां सुखस्पर्शविहारतां रोग्‌ ( आभावं ) पृच्छति चैवमपो कथयति। भगवान्‌ भोजनस्यावशेषम्‌ मे ददातु। तेन सहालोकधातौ ( विमलकीर्ति-) र्बुद्धकार्य करिष्यति। ( ये ) हीनाधिमुक्तिकसत्त्वाः, त उदाराधिमुक्ति जनयिष्यन्ति, तथागतलक्षणान् च वर्धन्त' इति"।

अथ स निर्मितबोधिसत्त्वो लिच्छविविमलकीर्तये 'साध्व्‌' इति कृत्वा, प्रत्यश्रौषीत्‌। उल्लोकितमुखस्तेषां बोधिसत्त्वानाम्‌ अभिमुखादपक्रामाति स्म, ते बिधिसत्त्वास्तु तद्गमनन्न पश्यन्ति स्म। ततः स निर्मितबोधिसत्त्वो ( येन ) सर्वगन्धसुगन्धा नाम लोकधातुः; तेनोपगम्य, तस्य भगवतः सुगन्धकूटस्य तथागतस्य पादौ शिरसाऽभिवन्द्य, एतदवोचत्‌-



"भगवन्‌, बोधिसत्त्वो विमलकीर्तिर्भगवतः पादौ शिरसाऽभिवन्द्य, भगवत्यल्पाबाधताम्‌ अल्पातङ्कतां लघूत्थानतां यात्रां बलं सुखम्‌ अनवद्यतां सुखस्पर्शविहारतां रोग्‌( आभावं ) पृच्छति। स भगवतः पादौ सतसहस्रकृत्वः शिरसाऽभिवन्द्य, एतद्‌ याचति-'भगवान्‌ भोजनस्य भोज्यावशेषम्मे ददातु। तेनास्मिन्‌ सहालोकधातौ ( विमलकीर्ति- ) र्बुद्धकार्य करिष्यति। ( ये ) हीनाधिमुक्तिकसत्त्वाः, ते बुद्धधर्मोदारमत्यधिमुक्ति जनयिष्यन्ति, तथागतलक्षणानि च वर्धन्त'-इति"।



अथ ते भगवतः सुगन्धकूटस्य तथागतस्य बुद्धक्षेत्रस्य बोधिसत्त्वा आश्चर्याद्‌भुतप्राप्ताः तं भगवन्तं सुगन्धकूटं तथागतमेतदवोचन्‌-"भगवन्‌ एवंरूपो महासत्त्वः कुत आगतः ? स सहालोकधातुः क्वास्ति ? "हीनाधिमुक्तिका" नाम तदस्ति किम्‌ ?" इति ते बोधिसत्त्वास्तं भगवन्तमेवं पृच्छन्ति स्म।



ततो भगवांस्तान्‌ बोधिसत्त्वानेतदवोचत्‌--

"कुलपुत्राः, इतोऽधोदिशि द्विवचत्वारिशद्‌गङ्गानदीवालुकासमानि बुद्धक्षेत्राण्य्‌ अतिक्रम्य, अस्ति सहा नाम लोकधातुः। तत्र शाक्यमुनिर्नाम तथागतः पञ्चकषायबुद्धक्षेत्रे हीनाधिमुक्तिकेभ्यः सत्त्वेभ्यो धर्म देशयति। तत्र सोऽचिन्त्यविमोक्षविहारी विमलकीर्तिर्नाम बोधिसत्त्वः बोधिसत्त्वेभ्यो धर्म देशयति। स मन्नामपरिकीर्तन्‌ ( आर्थाय ) चास्य लोकधातोः प्रशंसासम्प्रकाशना ( -ऽर्थाय) च तेषां बोधिसत्त्वानां कुशलमूलसुतप्तकरणार्थाय निर्मितबोधिसत्त्वं प्रेषयति"।



ततस्ते बोधिसत्त्वा एतदवोचन्‌-"भगवन्‌, तस्य बोधिसत्त्वस्य माहात्म्यम्‌ , यावदिदं निर्माणञ्च तस्यैवंरूपर्धिबलवैशारद्यानि भूतानि"। स भवानवोचत्‌--"तस्य बोधिसत्त्वस्येदृशाम्‌ माहात्म्यम्‌ , ( यथा ) दशदिक्षु सर्वबुद्धक्षेत्रेषु निर्माणा ( नि ) प्रेषयति, तानि निर्माणानि च तेषां बुद्धक्षेत्राणां सर्वसत्त्वकार्य-( आर्थ ) बुद्धकार्येण प्रत्युपस्थितानि भवन्ति"।



अथ भगवान्‌ सुगन्धकूटस्तथागतः सर्वगन्धसमन्वागते भाजने सर्वगन्धवासितं भोजनं छोरयति स्म; तत्तस्मै निर्मितबोधिसत्त्वायादात्‌। ततस्तदा बोधिसत्त्वानां नवतिशतसहस्राणि तेन गमिकानि--"भगवन्‌, वयमपि तां सहां लोकधातुं, तं भगवन्तं शाक्यमुनि दर्शनाय, वन्दनाय, पर्युपासनाय. तं च विमलकीर्ति च तान्‌ बोधिसत्त्वान्‌ दर्शनाय गच्छामः "। स भगवानवोचत्‌--"कुलपुत्राः, गच्छत यस्येदानीं कालं मन्यध्वे।



"कुलपुत्राः, ते सत्त्वा उन्मादाश्च प्रमत्ताः खल्व्‌ अभविष्यन्‌; तेन गच्छत गन्धापगतभूताः। तस्य सहालोकधातोस्ते सत्त्वा अवसादमासादयन्ति; तस्माहु स्वरूपान्‌ निवर्तध्वम्‌। तस्मिल्लोकधातौ हीनसंज्ञाम्‌ उत्पाद्य, प्रतिघसंज्ञाम्‌ मोत्पादयत। तत्‌ कस्य हेतोः ? कुलपुत्राः, बुद्धक्षेत्रें ह्याकाशक्षेत्रम्‌। सत्त्वपरिपाचनार्थाय भगवन्तो बुद्धाः सर्वान्‌ बुद्धगोचरान्न दर्शन्ति"।



अथ स निर्मित बोधिसत्त्वस्तत्‌ ( सर्वगन्धवासितं ) भोज्यं समादाय, बोधिसत्त्वानां नवतिशतसहस्रैः सार्ध बुद्धानुभावेन च विमलकीर्तेरधिष्ठानेन एकक्षणलवमुहूर्तेन तत्रैव तस्याः सर्वगन्धसुगन्धालोकधात्वा अन्तर्हितश्च लिच्छविविमलकीर्तेर्गृहे निषीदति स्म।

अथ लिच्छविर्विमलकीर्तिर्यादृशानि पूर्वसिंहासनानि, तादृशानां नवतिशतसहस्राण्यधितिष्ठति स्म। तेषु ते बोधिसत्त्वा न्यषीदन्‌।

ततस्स निर्मित बोधिसत्त्वस्तद्भोज्यपूर्णभाजनं विमलकीर्तयेऽदात्‌।



ततस्तस्य भोज्यस्य गन्धो वैशालीम्‌ महानगरीं संन्यविक्षत्‌ ; साहस्रलोकधातुं यावच्च घ्रायते स्माऽस्वाद्यगन्धः। ये वैशाल्या ब्राह्माणगृहपतयश्च लिच्छव्यधिपो लिच्छविचन्द्रच्छत्त्रश्च तं गन्धमाघ्राय, आश्चर्यप्राप्ता अद्भुतप्राप्ताः प्रसन्नकायचित्ता लिच्छवीनां चतुरशीतिसहस्रैः परिपूर्णैः सह विमलकीर्तेर्गृहम्‌ प्रविशन्ति स्म।



ते तस्मिन्‌ गृहे बोधिसत्त्वान् सम्पूर्णसिहासनेषु तन्मात्रोन्नतातिमात्रविशालेषु निषण्णान्‌ पश्यन्ति स्म। दृष्ट्वा, तैरधिमुक्तिश्च प्रमुदितोत्पादिताः। सर्वे ते तान्‌ महाश्रावकां च तान्‌ महाबोधिसत्त्वानभिवन्द्य, एकान्तेऽस्थुः। भूम्यवचरदेवपुत्राश्च कामावचररूपावचरदेवपुत्राश्च तेन गन्धेन चोदिता विमलकीर्तेर्गृहं समागच्छन्ति स्म।



अथ लिच्छविर्विमलकीर्तिः शारिपुत्रं स्थविरं च तान्‌ महाश्रावकानेतदवोचत्‌--"भदन्ताः, तथागतभोज्यम्‌ महाकरुणापरिवासितामृतं भक्षयत, प्रादेशिकचित्ततां तु मोपप्रज्ञापयत। दानभोगेऽसमर्था अभविष्यत"।

ततः केचिच्छ्रावका एतन्मन्यन्ते स्म--"स्वल्पभोजनम्‌ इहानयैतादृशपरिषदा कथं भोजनीयम्‌ ?" इति। ततस्स निर्मितबोधिसत्त्वस्तां श्रावकानेतदवोचत्‌--"आयुष्मन्तः, युष्मत्प्रज्ञापुण्ये तथागतस्य प्रज्ञापुण्याभ्याम्‌ मा तोलयत। तत्‌ कस्य हेतोः ? तद्यथापि नाम चतुर्महासमुद्राः क्षीणाः सम्भवेयुः, कि त्वस्मिन्‌ भोजने न किञ्चित्क्षयोऽभविष्यत्‌। ( एवमेव ) सर्वे सत्त्वा तस्य भोजनस्य कल्पं सुमेरुमात्राऽलोपान्‌ भक्षयेयुः, कि त्विदं क्षयन्नायास्यत्‌। तत्‌ कस्य हेतोः ? सोऽक्षयशीलप्रज्ञा समाधिमयस्य तथागतभोजनस्य भाजनावशेषः क्षयं यातुन्न शक्नोति"।



अथ ततो भोजनात्‌ सर्वावती सा पर्षत्‌ तृप्ता भूता। न च तद्भोजनं क्षीयते। यैश्च बोधिसत्त्वैः श्रावकैश्च शक्रब्रह्मलोकपालैस्तदन्यैश्च सत्त्वैस्तद्भोजनं भुक्तम्‌ , तेषां तादृशं सुखं कायेऽवक्रान्तं यादृशं सर्वसुखमण्डितायां लोकधातौ बोधिसत्त्वानां सुखम्‌। सर्वरोमकूपेभ्यश्च तेषां तादृशो गन्धः प्रवाति, तद्यथापि नाम तस्यामेव सर्वगन्धसुगन्धायां लोकधातौ वृक्षाणां गन्धः।



ततस्संप्रजानल्लिँच्छविर्विमलकीर्तिर्भगवतः सुगन्धकूटस्य तथागतस्य बुद्धक्षेत्रादागतान्‌ बोधिसत्त्वानेतदवोचत्‌--"कुलपुत्राः, तस्य तथागतस्य सुगन्धकूटस्य धर्मदेशना कीदृशा" ? तेऽवदन्‌-"स तथागतोऽक्षरनिरुक्तिभ्यां धर्मन्न दर्शयति। तेन गन्धेनैव बोधिसत्त्वा विनिता भवन्ति। ये गन्धवृक्षाः, येषां मूलेषु ते बोधिसत्त्वा निषण्णाः, तेभ्यो ( यादृशो ) गन्धस्तेभ्यो ( बोधिसत्त्वेभ्यः ), तादृशो निश्चरति। घ्रातमात्र एव तस्मिन्‌ गन्धे, सर्वबोधिसत्त्वगुणाऽकरो नाम समाधि (स्तैः) प्रतिलभ्यते। प्राप्तमात्र एव तस्मिन्‌ समाधौ, सर्वेषु तेषु बोधिसत्त्वगुणा उत्पद्यन्ते"।



अथ ते बोधिसत्त्वा लिच्छवि विमलकीर्तिमेतदवदन्‌--"इह भगवां शाक्यमुनिः कीदृशां धर्मदेशनां प्रकाशयति ?" आह- "सत्पुरुषाः, इमे सत्त्वा हि दुर्विनेयाः; एभ्यः खटुंकदुर्विनेयसत्त्वेभ्यः खटुंकदुर्विनेयविनेयकथाः प्रकाशयति। के खटुंकदुर्विनेयाः विनेयाः ? खटुंकदुर्विनेयकथा कतमा ? तद्यथा--

"इमे हि नैरयिकाः, इयं हि तिर्यग्योनिः, अयं यमलोकः, इमानि ह्यक्षणानि, इमे विहीनेन्द्रियाः।

"इदं हि कायदुश्चरितं, अयं हि कायदुश्चरितस्य विपाकः। इदं वाग्दुश्चरितं, अयं वाग्दुश्चरितस्य विपाकः। इदं मनोदुश्चरितं, अयं मनोदुश्चिरितस्य विपाकः।

"अयं हि प्राणातिपातः, इयमदत्तादानं, अयं काममिथ्याचारः, अयं मृषावादः, अयं पैशुन्यवादः, अयं पारुष्यवादः, अयं संभिन्नप्रलापः, इयं ह्यभिध्या, अयं व्यापादः, इयं मिथ्यादृष्टिः, अयं हि तेषां विपाकः।

"इदं मात्सर्य, इदं मात्सर्यस्य फ़लं; इदं दौःशील्यम्‌ ,( इदं दौःशील्यस्य फ़लं ); अयं क्रोधः, ( इदं क्रोधस्य फ़लम्‌ ); इदं कौसीद्यम्‌ , इदं कौसीद्यस्य फ़लम्‌ ; इयं हि दौष्प्रज्ञा, इदं दौष्प्रज्ञाफ़लम्‌।

"अयं शिक्षापदसमतिक्रमः, अयं हि प्रातिमोक्षः ; इदं कार्यम्‌ , इदमकार्यम्‌ ; अयं योगाचारः ; इदं प्रहाणम्‌ ; इदमावरणम्‌ , इदमनावरणम्‌ ; इयमापत्तिः, इदमापत्तिव्युत्थानं; अयं मार्गः, अयं कुमार्गः ; इदं कुशलम्‌, इदमकुशलम्‌; इदं सावद्यम्‌ , इदमनवद्यम्‌ ; इदं सास्रवं इदमनास्रवम्‌ ; इदं लौकिकम्‌ ' इदं लोकोत्तरम्‌ ; इदं संस्कृतम्‌ , इदमसंस्कृतम्‌ अयं हि संक्लेशः, इदं व्यवदानम्‌; अयं संसारः, इदं निर्वाणम्‌ इति।

"एवमनेकविद्यं धर्म देशयन्‌ , ( शाक्यमुनिस्तथागतः सत्त्वानाम्‌ ) अश्वखटुंकचित्तं प्रतिष्ठापयति। तद्यथापि नाम खटुंकाश्वो वा हस्ती वा ऽर्वाक्‌ मर्महता विनीता भवन्ति, एवमेव खटुंकदुर्विनेयाः सत्त्वा अपि सर्वदुःखप्रकाशनकथाया विनीता भवन्ति"।



ते बोधिसत्त्वा अवदन्‌--"तथा भगवतो बुद्धस्य शाक्यमुनेर्माहात्म्यं प्रतिष्ठापितम्‌। आश्चर्य हि हीनदरिद्रखटुंकसत्त्वदमनं। ये ( च ) बोधिसत्त्वा एवंविध औदारिके बुद्धक्षेत्रेऽवस्थिताः, तेषामचिन्त्यमहाकरुणा"।



ततो लिच्छविर्विमलकीर्तिरब्रवीत्‌--"तत्‌ तथेति, सत्पुरुषाः; यथा वदथ ( तत्‌ ) तथा। ये बोधिसत्त्वा इहोत्पन्नाः, एषाम्‌ महाकरुणा सुदृढा। तेऽतस्मिल्लोकधातावेकस्यां जात्यां सत्त्वेभ्यो बह्वर्थ कुर्वन्ति। तस्यां सर्वगन्धसुगन्धायां लिकधातौ कल्पानामपि सतसहस्राणि सत्त्वेभ्य ईदृशमर्थ कर्तुन्न शक्नुवन्ति। तत्‌ कस्य हेतोः ? सत्पुरुषाः, अस्यां सहायां लोकधातौ दश परिग्रहाऽवहाः कुशलसंनिचयधर्माः संविद्यन्ते। तेऽन्यस्मिन्‌ बुद्धक्षेत्रे न भवन्ति। कतमे दश ? तद्यथा--

"दानेन दरिद्रसंग्रहः; शीलेन दुःशीलसंग्रहः; क्षान्त्या कटुकसंग्रहः; वीर्येण कुसीदसंह्ग्रहः; ध्यानेन विक्षिप्तचित्तसंग्रहः; प्रज्ञया दुष्प्रज्ञसंग्रहः; अक्षणप्राप्तेभ्योऽष्टाभ्योऽक्षणेभ्योऽतिक्रमणदेशना; प्रदेशकारिभ्यो महायानदेशना कुशलमूलेनानवरोपितकुशलमूलसंग्रहः; चतुर्भिः संग्रहवस्तुभिः सततसमितं सत्त्वपरिपाचनम्‌। ते दश प्रग्रहाऽवहाः कुशलसंनिचयधर्मा अन्यस्मिन्‌ बुद्धक्षेत्रे न संविद्यन्ते"।

बोधिसत्त्वा अवदन्‌--"अन्विताः कतिभिर्धर्मैर्बोधिसत्त्वाः, अस्याः सहाया लोकधात्वाश्च्युत्वा, अक्षतानुपद्रुताः परिशुद्धबुद्धक्षेत्रं गमिष्यन्ति ?" आह- "अन्विता अष्टाभिर्धर्मैर्बोधिसत्त्वाः, अस्याः सहाया लोकधात्वाश्च्युत्वा, अक्षतानुपद्रुताः परिशुद्धबुद्धक्षेत्रं गमिष्यन्ति। कतमेऽष्टौ ? ( बोधिसत्त्वैः प्रत्यवेक्षितव्यम्‌ )--

" 'सर्वसत्त्वा मयाऽनुग्रह्याः, इच्छंस्त्वेभ्यो न किचिद्‌ हितं। सर्वसत्त्वानां सर्वदुःखं क्षाम्यम्‌ , तत्‌-( प्राप्तानि ) सर्वकुशलमूलानि सर्वसत्त्वेभ्य उत्स्रष्टव्यानीति। सर्वसत्त्वेष्वप्रतिहतो ( भवानि )। शास्तरीव सर्वबोधिसत्त्वनन्दी ( भवानि )। श्रुताश्रुतधर्मा श्रुत्वा, (भवान्य्‌- ) अप्रतिक्षेपः। परलाभ ईर्ष्याऽपगतः स्वलाभेनागर्वश्च चित्तनिध्यप्तो (भवानि)। आत्मस्खलितानि प्रत्यवेक्षमाणः परदिषान्न चोदयामि। अप्रमादरतश्च सर्वगुणान्‌ संप्रतीच्छमी'( ति )। तैरष्टाभिर्धर्मैरन्विता बोधिसत्त्वाः, सहाया लोकधात्वाश्च्युत्वा, अक्षतानुपद्रुताः परिसुद्धबुद्धक्षेत्रं गमिष्यन्ति"।



अथ लिच्छविविमलकीर्तिना च मंजुश्रीकुमारभूतेन चैवं तस्यां पर्षदि संनिपतितेभ्यस्तथा हि धर्मे देशिते, शतमात्राणां प्रणिसहस्राणाम्‌ अनुत्तरसम्यक्संबोधिचित्तान्युत्पादितानि। बोधिसत्त्वानां दशभिः सहस्रैरनुत्पत्तिकधर्मक्षान्तिः प्रतिलब्धा।



निर्माणभोज्याऽदानस्य परिवर्तो नवमः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project