Digital Sanskrit Buddhist Canon

८ अद्वयधर्ममुखप्रवेशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 8 advayadharmamukhapraveśaḥ
८ अद्वयधर्ममुखप्रवेशः



अथ लिच्छविर्विमलकीर्तिस्तान्‌ बोधिसत्त्वानेतदवोचत्‌-"सत्पुरुषाः, किमस्ति बोधिसत्त्वानामद्वयधर्ममुखप्रवेशः ? अस्तु स्वभिधानम्‌"।

धर्मविकुर्वणो नाम बोधिसत्त्वस्तत्र तस्मिन्‌ संनिपात एतदवोचत्‌- "कुलपुत्र, उत्पादभङ्गौ हि द्वयम्‌ ; यदनुत्पन्नमजातम्‌ तस्मिन्‌ कश्चिद्भङ्गो नास्ति। अनुत्पत्तिकधर्मक्षान्ति प्राप्तिरस्यद्वयप्रवेशः"।

बोधिसत्त्वः श्रीगुप्तोऽभाषत-" 'अहञ्च ममे' -ति तधि द्वयम्‌। आत्मसमारोपाभावे मम ( भावो ) नास्ति। यः समारोपाभावः, स ह्यद्वयप्रवेशः"।

बोधिसत्त्वः श्रीकूटोऽब्रवीत्‌-"संक्लिष्टञ्च व्यवदानन्नाम ते द्वयम्‌। संक्लिष्टपरिज्ञाने व्यवदानमन्यना नास्ति। सर्वमन्यनासून्मूलनानुगतिमार्गः सोऽद्वयप्रवेशः"।

बोधिसत्त्वो भद्रज्योतिराह- "चलश्च मन्यना तौ हि द्वयम्‌। योऽचलः, ( तत्‌- ) मन्यनाऽकरणम्‌ , अमनसिकारोऽनधिकारः। अधिकारविप्रयोगः सोऽद्वयप्रवेशः"।

बोधिसत्त्वः सुबाहुरवोचत्‌-"बोधिचित्तं च श्रावकचित्तन्नाम-ते हि द्वयम्‌। यन्मायाचित्तसमदर्शनं तन्न च बोधिचित्तन्न च श्रावकचित्तम्‌। या चित्तस्य समलक्षणता, सा ह्यद्वयप्रवेशः"।

बोधिसत्त्वोऽनिभिष आह-"आदानञ्चानादानं, ते द्वयम्‌। यदनुपादानं, तन्नोपलभ्यते। यन्नोपलभ्यते, तस्मिन्‌ कल्पनाऽपकर्षणाकरणम्‌। सर्वधर्माकरणमनाचारः, स ह्यद्वयप्रवेशः"।

बोधिसत्त्वः सुनेत्रो ऽवोचत्‌-"एकलक्षणत्वञ्चालक्षणत्वन्नाम, ते द्वयम्‌। यत्‌ कल्पनाऽकरणं सङ्कल्पाकरणम्‌ , ( तद्‌ ) एकलक्षणत्वालक्षणत्वाकरणम्‌। यो लक्षणाविलक्षणे समलक्षणताप्रवेशः, सोऽद्वयप्रवेशः"।

बोधिसत्त्वस्तिष्योऽब्रवीत्‌-"कुशलाकुधलम्‌ इति, ते द्वयम्‌। यत्‌ कुशलाकुशलानुत्थापनम्‌ , निमित्तानिमित्तयोरद्वयावबोधः, ( तद्‌- ) अद्वयप्रवेशः"।

बोधिसत्त्वः सिहोऽभाषत-"सावद्यञ्चानवद्यमिति, ते द्वयम्‌। यत्‌ प्रभेदज्ञानबज्रेणाबन्धनानिःसरणं, तदद्वयप्रवेशः"।

बोधिसत्त्वः सिहमतिरवोचत्‌-"इदं सास्रवम्‌, इदमनास्रवमिति-ते हि द्वयम्‌। यत्‌ समताधर्मप्राप्त्याऽऽस्रवानास्त्रवसंज्ञाऽकरणञ्चसंज्ञाऽभावः, ( यः ) समतायां न च समताप्राप्तिर्‌ न च संज्ञाग्रन्थिः, य एवमवतारः, तदद्वयप्रवेशः"।

बोधिसत्त्वः सुखाधिमुक्तोऽभाषत-"इदं हि सुखम्‌ इदं सुखन्नास्तीति-ते द्वयम्‌। सुविशुद्धज्ञानतः सर्वसंख्याविगता चाकाशसमालिप्ता बुद्धिः, साऽद्वयप्रवेशः"।

बोधिसत्त्वो नारायणोऽब्रवीत्‌-"इदं हि लौकिकम्‌, इदं लोकोत्तरमिति ते द्वयम्‌। या लोकस्य स्वभावशून्यता, तस्यां किञ्चिदप्युत्तरणन्नास्ति, अवतारो नास्ति, न चाधिगति र्न चानधिगतिः। यस्यानुत्तरणम्‌ अनवतारोऽनधिगतिश्चानधिगत्यभावः, तध्यद्वयप्रवेशः"।

बोधिसत्त्वो विनयमतिराह "संसारश्च निर्वाणमिति-ते द्वयम्‌। संसारस्वभावदर्शनेन संसारश्च परिनिर्वाणन्न स्तः। यदेवं ज्ञातं, तदद्वयप्रवेशः"।

बोधिसत्त्त्वः प्रत्यक्षदर्शनोऽवोचत्‌-"क्षयाक्षयौ नाम-तौ द्वयम्‌। क्षयोहि सुक्षीणः। यः सुक्षीणस्तस्मिन्न ( किञ्चित्‌ ) क्षपयितव्यम्‌ ; अतोऽक्षय उच्यते। योऽक्षयः स क्षणिकश्च, क्षणिके क्षयो नास्ति। तदेवनमुप्रविष्टम्‌ अद्वयधर्मद्वारावगाहो नाम"।

बोधिसत्त्वः समन्तगुप्तोऽब्रबीत्‌-"आत्मनैरात्भ्यमिति-ते द्वयम्‌। आत्मभावेऽनुपलभ्यमाने, किं नैरात्म्यं कुर्यात्‌ ? ( तत्‌- ) तयोः स्वभावदर्शनेनाद्वयम्‌ अद्वयप्रवेशः"।

बोधिसत्त्वो विद्युद्देवोऽभाषत-"विद्याऽविद्ये 'ति-ते द्वयम्‌। अविद्यायाः स्वभाव इव, तथैव विद्याऽपि। याऽविद्या भवति, साऽव्याकृता, असंख्येया, संज्ञापथातिक्रान्ता। अस्यां योऽभिसमयः, सोऽद्वयप्रवेशः"।

बोधिसत्त्वः प्रियदर्शन आह-"रूपं खलु शून्यम्‌। रुपन्नाशनेन न शून्यम्‌, अपि खो पन रूपस्वभावः शून्यः। एवमेव वेदनासंज्ञासंस्कारविज्ञानं ( -च ) शून्यते 'ति-ते द्वयम्‌। विज्ञानं खलु शून्यता। विज्ञानन्नाशनेन न शून्यम्‌, अपि खो पन विज्ञानस्वभावः शून्यः। योऽस्मिन्‌ पञ्चोपादानस्कन्धे ( ष्व्‌ ) एवमेव जानाति , एवं ज्ञानेन विज्ञः, सोऽद्वये प्रविशति"।

बोधिसत्त्वः प्रभाकेतुरवोचत्‌-"चतुर्धातुनोऽन्यत्राकाशधातुरन्य इति-ते द्वयम्‌। चतुर्धातु पुनराकाशस्वभावम्‌। पूर्वान्तोऽप्याकाशस्वभावः। अपरान्तश्चाकाशस्वभावः। एवमेव प्रत्युत्पन्नम्‌। यत्‌ तथा धात्ववतारज्ञानम्‌, तदद्वयप्रवेशः"।

बोधिसत्त्वोऽग्रमतिरभाषत-"चक्षुश्च रूपन्नाम-ते द्वयम्‌। ये चक्षुःपरिज्ञानेन रूपेऽलोभो ऽद्वेषोऽमोहः तधि शान्तिर्नाम। एवमेव श्रोत्रशब्दो, घ्राणगन्धौ, जिह्वारसौ, कायस्प्रष्टव्ये, मनोधर्मौ-ते द्वयम्‌। ये च मनः परिज्ञानाद्धर्मे ( -ष्व्‌ ) अलोभोऽद्वेषोऽमोहः-तधि शान्तिर्नाम। एवं शान्तिविहारोऽद्वयप्रवेशः"।

बोधिसत्त्वोऽक्षयमतिराह-"दानसर्वज्ञतापरिणामने-ते द्वयम्‌। दानस्वभावः सर्वज्ञता। सर्वज्ञतास्वभावः परिणामना। एवमेव शीलक्षान्तिवीर्यध्यानप्रज्ञासर्वज्ञतापरिणामने-ते द्वयम्‌। सर्वज्ञता हि ( शीलक्षान्तिवीर्यध्यान-) प्रज्ञास्वभावः; परिणामना च सर्वज्ञतास्वभावः। तस्मिन्‌ एकनयेऽवतारः, सोऽद्वयप्रवेशः"।

बोधिसत्त्वो गम्भीरमतिरभाषत-"शून्यताया अन्यत्रानिमित्ताप्रणिहितमप्यन्यमिति-ते द्वयम्‌। यच्छून्यम, तस्मिन्न किञ्चिन्निमित्तम्‌। अनिमित्तेऽप्रणिहितम्‌। अप्रणिहिते चित्तमानोविज्ञानासञ्चारः। यत्‌ सर्वविमोक्षमुखेषु द्रष्टव्यमेक विमोक्षमुखं, तदद्वयमुखप्रवेशः"।

बोधिसत्त्वः शान्तेन्द्रियोऽब्रवीत्‌-"बुद्धधर्मसङ्घा इति-ते द्वयम्‌। बुद्धस्य स्वभावो हि धर्मः, धर्मस्य च स्वभावः सङ्घ। सर्वे ते पुनरसंस्कृताः। असंस्कृतं ह्याकाश ( समम्‌ ) सर्वधर्मनय आकाशतुल्यः। यदेवमनुगमनं, तध्यद्वयप्रवेशः"।

बोधिसत्त्वोऽप्रतिहतेक्षणोऽभाषत-"सत्कायश्च सत्कायनिरोध इति-तौ द्वयम्‌। सत्काय एव निरोधः। तत्‌ कस्य हेतोः ? सत्कायदृष्ट्यनुत्पादेऽसति यत्‌ तथा दृष्टया 'सत्काय' इति वा 'सत्कायनिरोध' इति तद्कल्प्यम्‌ ; अकल्प्यं निर्विकल्पम्‌। अत्यन्ताकल्पनया निरोधस्वभावो भवति। असम्भवोऽविनाशस्‌-सोऽद्वयप्रवेशः"।

बोधिसत्त्वः सुबिनीतोऽवोचत्‌-"कायवाक्चित्तसंवरो नाम तदद्वयम्‌। तत्‌ कस्य हेतोः ? इमे धर्मा अनभिसंस्कारलक्षणाः। तत्‌ कायानभिसंस्कारं, तल्लक्षणेऽपि वागनबिसंस्कारञ्च चित्तानभिसंस्कारम्‌। तत्‌ सर्वधर्मानभिसंस्कारं, तदिति ज्ञातव्यमनुवेदितव्यम्‌। तत्‌ तदनभिसंस्कारज्ञानम्‌, तध्यद्वयप्रवेशः"।

बोधिसत्त्वः पुण्यक्षेत्र आह-"पुण्यापुण्यानिज्याभुसंस्काराभिसंस्कारणते 'ति - ते द्वयम्‌। यत्‌ पुण्यापुण्यानिज़्यानभिसंस्कारम्‌ , तदद्वयम्‌। पुण्यापुण्यानिज्याभिसंस्काराणां स्वलक्षणं शून्यता। तस्या पुण्यं वापुण्यं वाऽनिज्यं वा न भवन्ति। अभिसंस्करणताऽपि च न भवति य एवमनभिनिर्हारः, स ह्यद्वयप्रवेशः"।

बोधिसत्त्वः पद्मव्यूहोऽब्रबीत्‌--"आत्मपर्युत्थानादुत्पादः, तधि द्वयम्‌। आत्मपरिज्ञा द्वयानुत्थापनम्‌। तथाऽद्वयस्थानेऽविज्ञप्तिकेनाविज्ञाप्तिकम्‌-तध्यद्वयप्रवेशः"।

बोधिसत्त्वः श्रीगर्भोऽभाषत "उपलम्भेन प्रभेदः-तद्‌द्वयम्‌। योऽनुपलम्भस्‌-तद्द्वयम्‌। ततो यावनुपादाननोत्सर्गौ, तध्यद्वयप्रवेशः"।

बोधिसत्त्वश्चन्द्रोत्तरोऽब्रवीत्‌--"अन्धकाराऽलोकाविति-तौ द्वयम्‌। अन्धकाराऽलोकाभावः-तदद्वयम्‌। तत्‌ कस्य होतोः ? एवं निरोधसमापन्ने न चान्धकारो न चाऽलोकः। सर्वधर्मलक्षणत्वं तथैवापि। योऽस्यां समतायामवतारः, सोऽद्वयप्रवेशः"।

बोधिसत्त्वो रत्नमुद्राहस्तोऽवोचत्‌--"निर्वाणभिरतिश्च संसारारतिस्‌-ते द्वयम्‌। ये निर्वाणानभिरतिश्च संसारनरतिस्‌-तेऽद्वयम्‌। तत्‌ कस्य हेतोः ? यद्‌ बन्धनान्निःसरणमाख्यायते, कि तु यदत्यन्ततोऽबन्धनम्‌, तन्मोक्षं कुतो गवेषी ? ( यद्‌ ) अबन्धनानिःसरणयोर्भिक्षुणा रत्यरती न लभ्येते, न तध्यद्वयप्रवेशः"।

बोधिसत्त्वो रत्नकूटराज आह--"मार्गकुमार्गाविति-तौ द्वयम्‌। मार्गावगाहे कुमार्गानाचारः। अनाचारस्थानम्‌ मार्गसंज्ञा वाऽभूतमार्गसंज्ञा ( वा ) न भवति। संज्ञापरिज्ञा हि मतिद्वयानवतारः। सोऽद्वयप्रवेशः"।

बोधिसत्त्वः सत्यरतोऽभाषत --"सत्यमृषे नाम ते द्वयम्‌। यदि सत्यदर्शनेन सत्यताऽ(पि) न समनुदृश्यते,मिथ्यादृष्टिः कुतो दृश्यते ? तत्‌ कस्य हेतोः? मांसचक्षुषा न दृश्यते, दृश्यते प्रज्ञाचक्षुषा अदर्शनेन यथाऽविदर्शना, तथा ( हि) दृश्यते। यत्र न च दर्शनन्न च विदर्शना तद्द्वयप्रवेशः"।

तथैव ते बोधिसत्त्वाः स्वकस्वकनिर्देशं देशयित्वाः, मंजुश्रीकुमारभूतदमेतवोचन्‌--"मंजुश्रीः, बोधिसत्त्वोस्याद्वयप्रवेशः किम्‌ ?"

मंजुश्रीरब्रवीत्‌--"सत्पुरुषाः, यद्यपि सर्वैर्युष्माभिः सुभाषितम्‌ , सर्व तद्‌ युष्माभिरुक्तं हि द्वयम्‌। स्थापयित्वैकोपदेशम्‌ ( अपि ), ( यद्‌ ) अनभिलाप्यम्‌, अभाष्यम्‌ , अनुक्तम्‌, अनवघोष्यम्‌ , अव्यपदेश्यम्‌, प्रज्ञप्तिरहितम्‌ तध्यद्वयप्रवेशः"।

ततो मंजुश्रीकुमारभूतो लिच्छवि विमलकीर्तिमेतद्‌ अवोचत्‌--"अस्माभिः स्वकस्वकनिर्देशे व्याख्याते, कुलपुत्र, त्वमप्यद्वयधर्ममुखनिर्देशाय स्वभिधानं कुरु"।

अथ लिच्छविर्विमलकीर्तिस्तूष्णीभूतोऽभूत।

ततो मंजुश्रीकुमारभूतो लिच्छविविमलकीर्तये साधुकारम्‌ अदात्‌-"साधु, साधु, कुलपुत्र। अयं हि बोधिसत्त्वानाम्‌ अद्वयप्रवेशः। तस्मिन्‌ अक्षरवचनविज्ञप्तिप्रचारो नास्ति"।

अस्मिन्‌ निर्देशे देशिते, बोधिसत्त्वानाम्‌ पञ्चसहस्रेणाद्वयधर्ममुखप्रवेशेनानुत्पत्तिकधर्मक्षान्तिः प्रतिलब्धा।



अद्वयधर्ममुखप्रवेशस्य परिवर्तोऽस्तमः
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project