Digital Sanskrit Buddhist Canon

७ तथागतगोत्रम्‌

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

7 tathāgatagotram

७ तथागतगोत्रम्‌



ततो मंजुश्रीकुमारभूतो लिच्छवि विमलकीर्तिमेतदवोचत्‌-"कुलपुत्र, अथ कथम्‌ बोधिसत्त्वो बुद्धधर्मेषु गति गच्छति ?" आह-'मंजुश्रीः; यदा बोधिसत्त्वोऽगति गच्छति तदा बोधिसत्त्वो बुद्धधर्मेषु गति गच्छति"। अब्रवीत्‌-"बोधिसत्त्वस्य आगतिगमनं किम्‌ ?"

आह-"यदा ( बोधिसत्त्वः ) पंचानन्तरीयाणां गतिगामी, व्यापादविहिंसाप्रद्वेषोऽपि न भविष्यन्ति। नरकगतिगामी ( सः ), परं तु सर्वक्लेशविरजाः। तिर्यग्गतिगामी तु ( स ) मौर्ख्यान्धकारापगतः। ( सो )ऽसुरगतिगामि च मानमददर्पविगतः ; यमलोकगतिगामी सर्वपुण्यज्ञानसंभारोपात्तवान्‌ ; अनिज्याऽरूप्यगतिगामी, परं तु तद्गतिन्न समवक्रमति।

"(स) रागगतिगामि च सर्वकामसंभोगवीरतरागः ; द्वेषगतिगामी सर्व सत्त्वाप्रतिहतः ; मोहगतिगामी सर्वधर्मेषु प्रज्ञानिध्यप्तिचित्तसमर्पितः।

"मात्सर्यगतिगामी कायजीवितनिरपेक्षः ( स ) आध्यात्मिकबाह्यानि वस्तू(-न्य्‌-) उत्सृजति। दुःशीलगतिगामी, परं त्वल्पावद्येऽपि भयदर्शी ( स ) सर्वधूतगुणसंलेखेषु सन्तिष्ठते; व्यापादखिलप्रतिघगतिगामी चात्यन्ताव्यापन्नो मैत्रीविहारी; कौसीद्यगतिगामि चाप्रतिप्रस्रब्धो वीर्यमारभमाणः सर्वकुशलमूलपर्येषणाभियुक्तो भवति। इन्द्रियव्यभिचारगतिगामि स्वभावसमापन्नोऽमोघध्यानः, दौष्प्रज्ञगतिगामी प्रज्ञापारमितागतिमुपसंक्रम्य, ( स ) सर्वलौकिकलोकोत्तरशास्त्रपण्डितः।

"कुहनलपनाकारगतिगामी च सन्ध्याभाष्येषु कुशलः (स) उपायकौशल्यचर्यानिर्यातः; मानगति दर्शयन्‌ (स) सर्व लोकसेतुवेदिका भवति, क्लेशगतिगामी, परं त्वत्यन्तसंक्लेशरहितः स्वभावपरिशुद्धः।

"मारगतिगामी च सर्वबुद्धधर्मेष्वपरप्रणेयः; श्रावकगतिगामि (स) सत्त्वांस्त्वश्रुतधर्म श्रावयति, प्रत्येकबुद्धगतिगामी सर्वसत्त्वपरिपाचनार्थम्महाकरुणादुत्पन्नः, दरिद्रगतिगामी त्वक्षयपरिभोगरत्नपाणिः ; उपहतेन्द्रियगतिगामि ( स ) त्वभिरूपो लक्षणसमलंकृतः, हीनकुलीनगतिगामी पुण्यज्ञानसंचयेन तथागतवंशात्‌ प्रजायते ; दुर्बलदुर्वर्णमन्दगतिगामी दर्शनीयो नारायणप्रतिरूपककायलाभी।

"सर्वसत्त्वेभ्य आतुरदुःखचर्या देशयमानो मरणभयसमतिक्रान्त्तस्‌( स ) सुमारित( भयः ); परिभोगगतिगामी सर्वाण्वेषणरहितोऽनित्यतासंज्ञायाम्‌ बहुप्रत्यवेक्षणः, बोधिसत्त्वो-ऽन्तःपुरानेकरसान्‌ देशयमानः कि तु विवेकचारी कामकर्दमोत्तीर्णः। धात्वायतनगतिगामी(स) धारणीप्रतिलब्धो नानाप्रतिभानविभूषितः ; तीर्थिकगतिगामी तीर्थ्यः ( स ) न भवति, सर्वलोकगतिगामि सर्वग्त्यप्रतिनिर्वर्ती, निर्वाणगतिगामी संसारप्रबन्धं नोत्सृजति। मंजुश्रीः, इत्येवं बोधिसत्त्वोऽगति गच्छन्‌ बुद्धधर्मेषु गति गच्छति"।

अथ लिच्छविर्विमलकीर्तिर्मञ्जुश्रीकुमारभूतमेतदवोचत्‌-"मञ्जुश्रीः, कि तथागतगोत्रम्‌ ?" अब्रवीत्‌-

"कुलपुत्र, सत्कायो हि गोत्रं तथागतानाम्‌। अविद्याभवतृष्णा हि गोत्रम्‌। रागद्वेषमोहचतुर्विपर्यास पञ्चनीवरणषडायतनसप्तविज्ञानस्थित्य-अष्टमिथ्यात्वनवाऽघात-वस्तु दशाकुशलकर्मपथा हि गोत्रम्‌। कुलपुत्र, इदं तथागतगोत्रम्‌ ; संक्षेपात्‌ , कुलपुत्र, द्वाषष्टिर्दृष्टिगतानि हि तथागतगोत्रम्‌"।

आह-"मञ्जुश्रीः, कस्मात्‌ समन्वाहृत्यैद्भाषसे ?" अब्रवीत्‌-"कुलपुत्र, असंस्कृतदर्शनसमव्रक्रान्तिस्थानेनानुत्तरसम्यक्सम्बोधिचित्तोत्पादोऽशक्यः।

क्लेशाकरसंस्कृतस्थानसत्यादर्शनेनानुत्तरसम्यक्सम्बोधिचित्तोत्पादः शक्य।



"कुलपुत्र, तद्यथापि नाम जांगल प्रदेशे कुसुमानि-उत्पलपद्मकुमुदपुण्डरीकसौगन्धीकानि नोत्पद्यन्ते; पंकपुलिन उत्पादितानि चेत्‌, कुसुमानि-उत्पलपद्मकुमुदपुण्डरीकसौगन्धिकान्युत्पद्यन्ते। कुलपुत्र, एवमेवासंस्कृतनियतप्राप्तिसत्त्वेभ्यो बुद्धधर्मा नोत्पद्यन्ते। क्लेशपंकपुलिनोपपन्नसत्त्वेभ्यो बुद्धधर्मा उत्पद्यते।



"तद्यथापि नामाऽकाशे बीजन्न विरोहति, भुवि परंतु वर्तमानं बिरोहति ; एवमेवासंस्कृतनियतप्राप्तिसत्त्वेभ्यो बुद्धधर्मो नोत्पद्यते ; सुमेरुसमां सत्कायदृष्टिमुत्पाद्य बोधिचित्तमुत्पद्यते ततश्च बुद्धधर्मा विरोहन्ति।

"कुलपुत्र, अनेन पर्यायेण सर्वे क्लेशास्तथागतगोत्रं द्रष्टव्याः। कुलपुत्र, तद्यथापि नाम महासमुद्रेऽप्रविष्टे, अनर्ध्यरत्नमनुप्राप्तुमशक्यम्‌; एवमेव, क्लेशसागरेऽप्रविष्टे, सर्वज्ञताम्‌ तस्मादुत्पादयितुमशक्यम्‌"।

अथ महाकाश्यपः स्थविरो मंजुश्रीकुमारभूताय साधूकारमदात्‌-"साधु, साधु। मंजुश्रीः, इदं वचनं सुप्रभाषितम्‌ , इदं तत्त्वम्‌। क्लेशा-स्‌ तथागतगोत्रम्‌ , अस्मद्विधेभ्यस्‌-तु बोधिचित्तोत्पादश्च बुद्धधर्ममभिसम्बोद्‌धुं कथं शक्यम्‌ ? पञ्चानन्तरीयसंयोगेन हि बोधिचित्तोत्पादः शक्यश्च बुद्धधर्मा अप्यभिसम्बोधनीयाः। तद्यथापि नाम विकलेन्द्रियपुरुषाय पञ्च कामगुणा निर्गुणाश्चासमर्थाः एवमेव परिवर्जितसर्वसंयोजनाय श्रावकाय सर्वे बुद्धधर्मा निर्गुणश्चासमर्था ः ; तस्मै प्रत्यालम्बनमसमर्थम्‌।

"मंजुश्रीः, अतः पृथग्जनास्तथागते कृतज्ञाः, कि तु श्रावका अकृतज्ञाः। तत्‌ कस्य हेतोः ? यदर्थं पृथग्जनो बुद्धगुणश्रवणेन त्रिरत्नगोत्रमनुच्छिन्नकरणार्थमनुत्तरसम्यक्सम्बोधिचित्तोत्पादं करोति; श्रावकस्तु यावज्जीवम्‌ बुद्धधर्मबलवैशारद्यानि श्रुत्वाऽप्यनुत्तरसम्यक्सम्बोधिचित्तोत्पादेऽसमर्थः"।

ततस्सर्वरूपसन्दर्शनो नाम बोधिसत्त्वस्तस्याम्‌ पर्षदि सन्निपतितो निषण्णो ( ऽभूत्‌ )। स लिच्छवि विमलकीर्तिमेतदवोचत्‌-"गृहपते, क्व ते मातापितरौ च पुत्रदाराश्च दासदासीकर्मकरपौरुषेयाः ? क्व ते मित्रज्ञातिसालोहिताः ? तव परिवाराश्वहस्तिरथपत्तिवाहनानि क्व ?" एवमब्रवीत्‌। लिच्छविर्विमलकीर्तिः सर्वरूपसन्दर्शनं बोधिसत्वमिमा गाथा अभाषत-

"विशुद्धबोधिसत्त्वानां। माता हि प्रज्ञापारमिता।

पिताऽस्त्युपायकौशल्यम्‌। ताभ्यां जायन्ते परिणायकाः॥

धर्मप्रीतिरस्ति पत्नी। मैत्रीकरुणे दुहितरौ ( तेषां )।

उभे धर्मसत्ये स्तः पुत्रौ। शून्यताऽर्थचित्तिर्गृहम्‌॥

एवं हि सर्वे क्लेशास्‌ ( तेषां )। यथेष्टवशवर्तिशिष्याः।

मित्राणि बोध्यंगानि। तैर्हि बोधिर्वराग्रोत्पद्यते॥

सहायास्‌- तेषां सदासंवासाः। सन्ति षट्‌ पारमिताः।

संग्रहा नारीभवनानि। संगीतिस्‌ ( तेषां ) धर्मदेशना॥

तेषामुद्यानं भूतिकानि। बोध्यङ्गपुष्पितम्‌।

विमुक्तिज्ञानम्‌ फ़लम्‌। धर्ममहाधनं ( सन्ति ) वृक्षाः॥

विमोक्षा भवन्ति पुष्करिणी ( तेषां )। पूरिता समाधिजलेन।

विशुद्धपद्मेनाऽच्छादिता। ( येषां ) तस्यां प्रक्षालनं विमलास्ते॥

अभिज्ञास्‌- तेषा वाहनम्‌। महायानमनुत्तरम्‌।

सारथि ( -र्भवति ) बोधिचित्तं। मार्गो ह्यष्टाङ्गिकशान्तिः॥

तेषां बिभूषणं ( सन्ति ) लक्षणानि। अशीतिरनुव्यञ्जनानि च।

कुशलाऽशयो ह्रीरपत्रपा। सन्ति वस्त्राणि तेषाम्‌॥

सद्धर्मधनवन्तस्ते। प्रयोगस-( तेषां ) धर्मदेशना।

पवित्रा प्रतिपत्तिर्महालाभः। परिणामं ( तेषां ) बोध्यर्थं॥

शयनञ्च भवन्ति चत्वारि ध्यानानि। शुद्धाऽजीवेन संस्तृतास्ते।

ज्ञानं तत्प्रबोधः। सदा श्रवणसमापन्ना ( स्ते )॥

तदाहारश्च भवत्यमृतं। पानं विमुक्तिरसः।

बिशुद्धाभिप्रायोऽस्ति स्नानं। ( तेषां ) शीलं गन्धविलेपनम्‌॥

क्लेशशत्रूपघातेनाथ। अजितवीरास्ते।

चतुरोऽपि मारान्‌ प्रधर्षितवन्तः। उच्छ्रितवन्तो बोधिमण्डलध्वजं॥

सञ्चिन्त्यं दर्शयन्ति जातिं। कि चापि ( ते ) ऽजन्मानुत्पादाः।

सर्वक्षेत्रेषु चाऽभासन्ते। सूर्यो यथा समुदितः॥

विनायके ( भ्यः ) सर्वपूजनैः। बुद्धानां कोट्यै पूजां कृत्वा।

न कदाचिद्‌ ( एतद्‌ भवति ) -।

'अस्मा (-भि) र्बुद्धेभ्यः परिसेवितव्यम्‌'॥

कि चापि सत्त्वहिताय। बुद्धक्षेत्रावचरा ( स्ते )।

(ज्ञात्वा) ऽऽकाशोपमानि क्षेत्राणि। सत्त्वे (-षव्‌-) असत्त्वसंज्ञिनः॥

सर्वसत्त्वान ये रूपा रुतघोषाश्च ईरिताः।

एकक्षणेन दर्शन्ति बोधिसत्त्वा विशारदाः॥

मारकर्माणि कि चापि जानन्ति। मारानुबन्धिनः।

उपायपारं गतास्‌ ( -ते )। तत्सर्वक्रिया दर्शयन्ति॥

ते जीर्णव्याधिता भोन्ति मृतमात्मान दर्शयी।

सत्त्वानां परिपाकाय मायाधर्म विक्रीडिताः॥

कल्पोद्दाहं च दर्शेन्ति उद्दहित्वा वसुन्धराम्‌।

नित्यसंज्ञिन सत्त्वानाम्‌ अनित्यमिति दर्शयी॥

सत्त्वैः शतसहस्रेभिरेकराष्ट्रे निमन्त्रिताः।

सर्वेषां गृह भुञ्जन्ति सर्वान्नामन्ति बोधये॥

ये केचिन्मन्त्रविद्या वा शिल्पस्थाना बहूविधाः।

सर्वत्र पारमिप्राप्ताः सर्वसत्त्वसुखावहाः॥

यावन्तो लोकपाषण्डाः सर्वत्र प्रव्रजन्ति ते।

नानादृष्टिगतं प्राप्तांस्ते सत्त्वान्‌ परिपाचति॥

चन्द्रा वा भोन्ति सूर्या वा शक्रब्रह्मप्रजेश्वराः।

भवन्ति आपस्तेजश्च पृथिवी मारुतस्तथा॥

रोग अन्तरकल्पेषु भैषज्यं भोन्ति उत्तमाः।

येन ते सत्त्व मुच्यन्ते सुखी भोन्ति अनामयाः॥

दुर्भिक्षान्तरकल्पेषु भवन्ती पानभोजनम्‌।

क्षुधा पिपासामपनीय धर्म देशेन्ति प्राणिनाम्‌॥

शस्त्र अन्तरकल्पेषु मैत्रीध्यायी भवन्ति ते।

अव्यापादे नियोजेन्ति सत्त्वकोटिशतान्‌ बहून्‌॥

महासंग्राममध्ये च समपक्षा भवन्ति ते।

सन्धिसामग्री रोचेन्ति बोधिसत्त्वा महाबलाः॥

ये चापि निरयाः केचिद्‌बुद्धक्षेत्रेष्वचिन्तिषु।

संचिन्त्य तत्र गच्छन्ति सत्त्वानां हितकारणात्‌॥

यावन्त्यो गतयः कश्चित्तिर्यग्योनौ प्रकाशिताः।

सर्वत्र धर्म देशेन्ति तेन उच्यन्ति नायकाः॥

कामभोगां (-श्च ) दर्शेन्ति ध्यानं च ध्यायिनां तथा।

विध्वस्तमारं कुर्वन्ति अवतारं न देन्ति ते॥

अग्निमध्ये यथा पद्ममभूतं तं विनिर्दिशेत्‌॥

एवं कामांश्च ध्यानं च अभूतं ते विदर्शयी॥

संचिन्त्य गणिकां भोन्ति पुंसामाकर्षणाय ते।

रागाङ्कुरं च संलोभ्य बुद्धज्ञाने स्थापयन्ति ते॥



ग्राभिकाश्च सदा भोन्ति सार्थवाहाः पुरोहिताः।

अग्रामात्याथ चामात्यः सत्त्वामां हितकारणात्‌॥

दरिद्राणां च सत्त्वानां निधाना भोन्ति अक्षयाः।

तेषां दानानि दत्वा च बोधिचित्तं जनेन्ति ते॥

मानस्तब्धेषु सत्त्वेषु महानग्ना भवन्ति ते॥

सर्वमानसमुद्धतं बिधि प्रार्थेन्ति उत्तमाम्‌॥

भयादितानां सत्त्वानां सन्तिष्ठन्तेऽग्रतः सदा।

अभयं तेषु दत्वा च परिपाचेन्ति बोधये॥

पञ्चभिज्ञाश्च ते भूत्वा ऋषयो ब्रह्मचारिणः।

शीले सत्त्वान्‌ नियोजेन्ति क्षान्तिसौरत्यसंयमे॥

उपस्थानगुरन्‌ सत्त्वान्‌ पश्यन्तीह विशारदाः।

चेटा भवन्ति दासा वा शिष्यत्वमुपयान्ति च॥

येन येनैव चांगेन सत्त्वो धर्मरतो भवेत्‌।

दर्शेन्ति हि क्रियाः सर्वा महोपायसुशिक्षिताः॥

येषाम्‌ अनन्ता शिक्षा हि अनन्तश्चापि गोचरः।

अनन्तज्ञानसम्पन्ना अनन्तप्राणिमोचकाः॥

न तेषां कल्पकोटीभिः कल्पकोटिशतैरपि।

बुद्धैरपि वदद्भिस्तु गुणान्तः सुवचो भवेत्‌॥

येऽप्रज्ञहीनसत्त्वाः। स्थापयित्वा ( तान्‌ )।

अस्मिन्‌ धर्मे श्रुते। कोविदः को न प्रणिदधात्युत्तमबोध्यै ?"॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project