Digital Sanskrit Buddhist Canon

६ देवी

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

6 devī

६ देवी



अथ मंजुश्रीकुमारभूतो लिच्छवि विमलकीर्तिम्‌ एवमवोचत्‌-"सत्पुरुष, बोधिसत्त्वेन सर्वसत्त्वाः कथं द्रष्टव्याः ?"-

अब्रवीत्‌-"मंजुश्रीः, तद्यथापि नाम विज्ञः पुरुष उदकचन्द्रं प्रक्षेते, एवमेव बोधिसत्त्वेन सर्वसत्त्वा द्रष्टव्याः। मंजुश्रीः, तद्यथापि नाम मायाकारो मायाकारनिर्मितमनुष्यं प्रेक्षते, एवमेव बोधिसत्त्वेन सर्वसत्त्वा द्रष्टव्याः। मंजुश्रीः, तद्यथापि नामाऽदर्शमण्डले मुखं दृश्यम्‌ , एवमेव बोधिसत्त्वेन सर्वसत्त्वा द्रष्टव्याः। मंजुश्रीः, तद्यथापि नाम मृगतृष्णिकाजलम्‌ बोधिसत्त्वेन सर्वसत्त्वा द्रष्टव्याः। मंजुश्री, तद्यथापि नाम प्रतिश्रुत्काघोषनादिः॥॥॥॥। आकाशमेघराशिः॥॥ फ़ेनपिण्डस्य

पूर्वान्तः॥। )बुद्‌बुदोदयव्ययौ॥॥॥॥ कदलीसारापेक्षेव॥॥॥॥॥। विद्युच्च्युतिरिव॥॥॥॥ पंचमधातुसदृशाः॥॥॥ सप्तमाऽयतनसदृशाः॥॥॥॥। आरुप्येषु रूपदर्शनसदृशा॥।दग्धबीजाद्‌॥॥अङ्कुरनिष्पत्तिरिव॥॥॥॥। मण्डूकस्य रोमाऽच्छादनं यथा॥॥॥मरणार्थिकस्य क्रीडारतिरिव॥।स्रोताऽपन्नस्य सत्कायदृष्टिर्यथा॥॥सकृदागामिनि तृतीयभव इव॥॥॥। अनागामिनि गर्भावक्रान्तिः॥॥॥॥॥। अर्हति रागद्वेषमोहाः॥॥क्षान्तिलाभिबोधिसत्त्वे मात्सर्यदौःशील्यव्यापादविहिसाचित्तम्‌॥॥॥॥ तथागते वासना॥॥ जात्यन्धजनेन रूप दर्शनम्‌॥॥॥। निरोधसमापत्ति( लाभिन ) आनापानः॥॥। अकाशे शकुनेः पदम्‌॥॥॥॥॥ पण्डकलांगुलरोहणः॥॥॥॥ वन्ध्यापुत्रप्राप्तिः॥॥॥तथागतनिर्भितस्य क्लेशोत्पत्तिः॥॥।विबोधे स्वप्नदृष्टदर्शनम्‌॥॥॥॥। असङ्कल्पे क्लेशः॥॥॥। अहेतुकत्वादग्न्योत्पादः परिनिर्वृतस्य प्रतिसन्धिरिव बोधिसत्त्वेन सर्वसत्त्वाः प्रत्यवेक्ष्याः। मंजुश्रीः, एवम्‌ परमार्थत एव नैरार्म्यप्रबोधेन सर्वसत्त्वाः प्रत्यवेक्ष्याः"।



अब्रवीत्‌-"कुलपुत्र, यदि बोधिसत्त्वेन सर्वसत्त्वा एवम्‌ प्रत्यवेक्ष्याः, कथमथ सर्वसत्त्वेषु महामैत्र्युपपत्स्यते ?"-

आह-"मंजुश्रीः, यदा बोधिसत्त्वस्तथा हि प्रत्यवेक्षते-'एवं धर्म परिज्ञाय, एभ्यः सत्त्वेभ्यो दर्शयामि'- ति ततः सर्वसत्त्वेषु सम्यक्‌शरणमैत्र्युपपद्यते-



"अनुपादानकारणादुपशान्तमैत्री, क्लेशाभावेनातापमैत्री, त्र्यध्वसमताकारणाद्यद्यदुपमता मैत्री, पर्युत्थानाभाव कारणादविरोधमैत्री, आध्यात्मिकबाह्यासम्भेदकारणादद्वयमैत्री, सुनिष्ठाकारणादक्षोभ्यमैत्री, अभेद्याभिप्रायवज्रकारणाद्‌दृढमैत्री, स्वभावविशुद्धिकारणाद्‌ विशुद्धिमैत्री, आशयसमताकारणात्‌ समतामैत्री, अरिहननकारणादर्हन्मैत्री, अनाच्छेद्यसत्त्वपरिपाचनकारणाद्‌ बोधिसत्त्वमैत्री, भूयोऽपि तथताऽधिगमकारणात्‌ तथागतमैत्री, सत्त्वापस्वापनसुप्रबोधनकारणाद्‌ बुद्धमैत्री, स्वयमभिसंबोधिकारणात्‌ स्वयंभूमैत्री, तुल्यरसकारणाद्‌ बोधिमैत्री, अनुनयप्रतिघप्रहाणकारणादनारोपमैत्री, महायानपर्यवभासकरणतो महाकरुणामैत्री, शून्यतानैरात्म्यप्रत्यवेक्षणकारणादपरिखेदमैत्री, आचार्यमुष्ट्यभावकारणादधर्मदानमैत्री, दुःशीलसत्त्वापेक्षाकारणात्‌ शील-मैत्री, स्वपररक्षाकारणात्‌ क्षान्तिमैत्री, सर्वसत्त्वभारवहनकारणाद्‌ वीर्यमैत्री, अनास्वादकारणाद्‌ ध्यानमैत्री, कालेनासाधनकारणात्‌ प्रज्ञामैत्री, समन्तद्वारदर्शनकारणादुपायमैत्री, अभिप्रायपरिशुद्धिकारणादकुहनमैत्री, पश्चात्तापकरणतो निश्चलमैत्री, अनङ्गणकारणादध्याशयमैत्री, अकृत्रिमकारणादमायाविमैत्री, बुद्धसुखप्रतिष्ठापनकारणात्‌ सुखमैत्री। मंजुश्रीः, सा हि बोधिसत्त्वस्य मैत्री।"



अब्रवीत्‌-"तस्य महाकरुणा किम्‌ ?" आह-"यद्यत्‌ कुशलमूलं स्यात्‌ कुशलमूलं स्यात्‌ , ( तत्‌ ) सर्वसत्त्वेभ्य उत्सृजति"। अब्रवीत्‌-"तस्य महामुदिता किम्‌ ?"। आह-"यः (स) दानात्‌ प्रीतिमनोभूतोऽविप्रतिसारः"। अब्रवीत्‌-"तस्योपेक्षा किम्‌ ?" आह- "यः (स) उभयार्थोत्पादः"।-



अब्रवीत्‌-"संसारभयभीतेन कि प्रतिसर्तव्यम्‌ ?" आह- "संसारभयभीतेन मंजुश्रीर्बोधिसत्त्वेन बुद्धमाहात्म्यं प्रतिसर्तव्यम्‌"।

आह- "बुद्धमहात्म्ये स्थातुकामेन कुत्र स्थातव्यम्‌ ?" आह- "बुद्धमहात्म्ये स्थातुकामेन सर्वसत्त्वसमतायां स्थातव्यम्‌।" आह-"सर्वसत्त्वसमतायां स्थातुकामेन कुत्र स्थातव्यम्‌" आह- "सर्वसत्त्वसमतायां स्थातुकामेन सर्वसत्त्वप्रमोक्षाय स्थातव्यम्‌"।



अब्रवीत्‌-"सर्वसत्त्वप्रमोक्षाय कर्तुकामेन कथं करणीयम्‌ ?" आह- "सर्वसत्त्वप्रमोक्षाय कर्तुकामेन क्लेशप्रमोक्षः करणीयः"। अब्रवीत्‌- "क्लेशप्रहातुकामेन कथं प्रयोक्तव्यम्‌ ?" आह- "क्लेशप्रहातुकामेन योनिशः प्रयोक्तव्यम्‌"। अब्रवीत्‌- "कथं प्रयुज्यमानो योनिशः प्रयुज्यते ?" आह- "अनुत्पादानिरोधयोः प्रयोगो हि योनिशः प्रयोगोऽस्ति"। अब्रवीत्‌- "अनुदयः किम्‌, किम्‌ अनिरोधः ?" आह- "अकुशलानुदयश्च कुशलानिरोधः"। अब्रवीत्‌-"कुशलाकुशलमूलं किम्‌ ?" आह-"सत्काय -(दृष्टि ) र्मूलम्‌"। अब्रवीत्‌-"सत्काय - ( दृष्टि ) मूलं किम्‌ ?" आह- "सत्काय - ( दृष्टि ) मूलं रागः"। अब्रवीत्‌- "कि रागमूलम्‌ ?" -आह- "रागस्य मूलं ह्यभूतपरिकल्पः"।



अब्रवीत्‌-"अभूतपरिकल्पस्य किं मूलम्‌ ?" आह-" अभूतपरिकल्पस्य हि ) विपर्यस्ता संज्ञा मूलम्‌"। आह-"विपर्यस्तायाः संज्ञायाः कि मूलम्‌ ??" -( आह- "विपर्यस्तायाःसंज्ञाया) अप्रतिष्ठानं मूलम्‌"। आह-"अप्रतिष्ठायाः किं मूलम्‌ ?" आह-"यन्मंजुश्रीरप्रतिष्ठानं, न तस्य किंचिन्मूलम्‌। इति ह्यप्रतिष्ठानमूलप्रतिष्ठिताः सर्वधर्माः"।



अथ तस्मिन्‌ गृहे कस्यचित्स्थानस्य देवी, तेषां बोधिसत्त्वानाम्‌ महासत्त्वानामिमां धर्मदेशनां श्रुत्वा, हृष्टोदग्रा चात्तमनाः, औदारिकमात्मभावमभिसंदृश्य, दिव्यपुष्पैस्तान्‌ बोधिसत्त्वान्‌ महासत्त्वांश्च महाश्रावकानभिकिरति स्म। यानि च बोधिसत्त्वानां कायेऽभ्यवकीर्णानि पुष्पानि, तानि भूमौ प्रपतन्ति स्म। यानि महाश्रावकानां काय आपन्नानि पुष्पानि, तानि तत्रैव प्रसक्तानि भूमौ न प्रपतन्ति स्म। ततस्ते महाश्रावका ऋद्धिविधिप्रातिहार्येण पुष्पान्याधुनन्ति स्म, अपि खो पन तानि न प्रपतन्ति स्म।



अथ सा देवयायुष्मन्तं शारिपुत्रमेतदवोचत्‌-"भदन्त शारिपुत्र, इमानि पुष्पान्याधूय किं करिष्यसि ?" आह-"देवि, इमानि पुष्पानि न युज्यन्ते; तस्मादिमानि पुष्पानि रिंचामि"। देव्यब्रवीत्‌ - " भदन्त शारिपुत्र, एवम्मा वादीः। तत्‌ कस्य हेतोः ? युज्यन्त इमानि पुष्पानि। तत्‌ कस्य हेतोः ? यतस्तानि पुष्पानि निर्विकल्पानि। निर्विकल्पेषु शारिपुत्रः स्थविर एव कल्पयति च विकल्पयति। भदन्त शारिपुत्र, यत्‌ स्वाख्याते धर्मविनये प्रव्रजिताः कल्पयन्ति च विकल्पयन्ति, तधि न युज्यते।

स्थवीरे कल्पयति च विकल्पयति, यन्निर्विकल्पं तधि युज्यते।



"पश्य, भदन्त शारिपुत्र-तथा हि कल्पविकल्पप्रहाणकारणाद्‌ बोधिसत्त्वानां महासत्त्वानां काये पुष्पानि न सज्जन्ति। तद्यथापि नाम भयजातीयमनुष्येऽमनुष्यैरवतारो लभ्यते, एवमेव संसारभयभीतेषु रूपशब्द गन्धरसस्प्रष्टव्येभ्योऽवतारः प्रतिलभ्यः। ये सर्वसंस्कारक्लेशभयापगताः, तेभ्यो रूपशब्दगन्धरसस्प्रष्टव्यानि कि करिष्यन्ति ? येषु वासनाऽप्रहीणा, तेषु पुष्प (अन्य ) पि सज्जन्ति; येषां तु वासना प्रहीणा, तेषां काये पुष्प( अनि ) न सज्जन्ति। तस्मात्‌ सर्ववासनाविघातकानां काये पुष्पान्य सक्तानि"।



तत आयुष्मांशारिपुत्रस्तां देवीमेतदवोचत्‌-"देवि, त्वमिमं गेहं प्रविश्य कियच्चिरचरितम्‌ ?" देव्याह-"स्थविरो विमोक्षं प्रविष्टो यावत्‌, ( तच्‌-)चिरम्‌"। अब्रवीत्‌- "देवि, त्वमस्मिन्‌ गेहे स्थित्वा, अचिरं दृष्टा"। आह-"स्थविरो विमोक्षं प्रविष्टः कियच्चिरम्‌ ?"-अथ स्थविरस्तूष्णीभूतोऽभूत्‌। आह-"महाप्रज्ञावतामग्र्यः स्थविरः कस्मान्मौनी चेदानीं सहसा प्रश्नन्न परिहरसि ?" अब्रवीत्‌- "देवि, विमोक्षऽनभिलाप्यश्च स यथा वक्तव्यः, ( तन्‌ ) न जानामि"। आह- "यानि स्वविरेणाक्षराण्युक्तानि, सर्वाणि तानि विमोक्षलक्षणानि। तत्‌ कस्य हेतोः ? यो विमोक्षः, स ह्यनन्तरगतश्च न बहिर्धा नोभयश्चानुपलब्धः। एवमेव तान्यक्षराण्यनन्तरगतानि न च बहिर्धा नोभयानि चानुपलब्धानि। तस्मात्‌, भदन्त शारिपुत्र, अक्षरापकर्षणेन विमोक्षम्माप्रतिवेदयस्व। तत्‌ कस्य हेतोः ? यतः सर्वधर्मसम( ता )ऽऽर्यविमोक्षः"। अब्रवीत्‌ - "देवि, रागद्वेषमोहापगतेषु विमोक्ष ननु नास्ति ?" देव्याह- " 'रागद्वेषमोहापगतेषु विमोक्ष' इति स ह्यभिमानिकेभ्य उपदेशः। येऽनभिमानिकाः, तेभ्यो हि रागद्वेषमोहस्वभावता विमोक्षः"।



अथाऽयुष्मांशारिपुत्रस्तां देविमेतदवोचत्‌-"साधु, देवि; कि प्राप्य, कि साक्षात्कृत्य त्वमेवंप्रतिभानवती ?"। आह- "भदन्त शारिपुत्र, मया न किञ्चित्‌ प्राप्तं वा साक्षात्कृतं वा। अतो मे प्रतिभान ईदृशः। येषामेवम्‌ 'अस्माभि प्राप्तञ्च साक्षात्कृतम्‌' इति, ते हि स्वाख्यातधर्मविनये 'ऽतिमानिका' उच्यन्ते"।

अब्रवीत्‌-"देवि, त्वं कि श्रावकयानीया प्रत्येकबुद्धयानीया वा महायानीया वा ?" आह- "श्रावकयानं दर्शयती, अहं श्रावकयानिनी। द्वादश(अंग) प्रतीत्यसमुत्पादेद्वारेणावतारणेन्‌-आहं प्रत्येकबुद्धयानिनी। अनुत्सृष्टायाम्महाकरुणायाम्‌ अहम्महायानीया।

"भदन्त शारिपुत्र, अपि तु खलु पुनर्यथा चम्पकवने प्रविष्टे, एरण्डगन्धो न घ्रायते, चम्पकवने प्रविष्टेऽपि खो पन चम्पकगन्धो घ्रायते; एवमेव, भदन्त शारिपुत्र, अस्मिन्‌ बुद्धधर्मगुणगन्धोपेते गेहे विहारिणा श्रावकप्रत्येकबुद्धगन्धो न घ्रायते।

"भदन्त शारिपुत्र, ये शक्रब्रह्मलोकपालदेवनागयक्षगन्धर्वासुगरुडकिंनरमहोरगा अस्मिन्‌ गेहे निविष्टाः, ते।पयस्य सत्पुरुषस्य धर्म श्रुत्वा, बुद्धधर्मगुणगन्धेन बोधिचित्तमुत्पाद्य प्रक्रान्ताः।

"भदन्त शारिपुत्र, अस्मिन्‌ गेहे द्वादश वर्षाणि महामैत्रीमहाकरुणा समर्पितां चाचिन्त्यबुद्धधर्मसम्प्रपुक्तां ( कथां ) स्थापयित्वा, श्रावकप्रत्येकबुद्धसहगतां कथां पुरा नाश्रौषम्‌। भदन्त शारिपुत्र, अस्मिन्‌ गृहेऽष्टविधा आश्चर्यद्‌भुतप्राप्ता धर्माः सततसमितमाभासं गच्छन्ति।

कतमेऽष्टौ ?



"अस्मिन्‌ गृहे सततसमितं सुवर्णवर्णप्रभा। अतो रात्रीदिवन्न प्रज्ञायते। अस्मिन्‌ गृहे चन्द्रसूर्यौ न च दृश्येते। अयं प्रथम आश्चर्याद्भुतो धर्मः।



"पुनरपरं, भदन्त शारिपुत्र, ये प्रविशन्ति इदं गृहं, तेषां समनन्तरप्रविष्टानां सर्वक्लेशा न बाधन्ते। अयं द्वितीय आश्चर्याद्‌भूतो धर्मः।



"पुनरपरं, भदन्त शारिपुत्र, अस्मिन्‌ गृहे सदा शक्रब्रह्मलोकपालाश्च सर्वबुद्धक्षेत्रागता बोधिसत्त्वा अविरहिताः। अयं तृतीय आश्चर्याद्‌भूतो धर्मः।



"पुनरपरं, भदन्त शारिपुत्र, अस्मिन्‌ गृहे सततसमितं धर्मावधोषणञ्च षट्‌पारमिताप्रतिसंयुक्ता कथा चावैवर्तिकधर्मचक्रकथा ऽविरहिताः। अयं चतुर्थ आश्चर्याद्‌भुतो धर्मः।



"पुनरपरं, भदन्त शारिपुत्र, अस्मिन्‌ गृहे सदा दिव्यमानुष्यदुन्दुभिसङ्गीतवाद्यं क्रीयते; तेभ्यो दुन्दुभिभ्यो बुद्धधर्म( स्य ) आप्रमेयबिधिघोषः सर्वकालेषूत्पद्यते। आयं पञ्चम आश्चर्याद्‌भूतो धर्मः।



"पुनरपरं, भदन्त शारिपुत्र, अस्मिन्‌ गृहे सर्वरत्नसम्पूर्णाश्चतुरक्षयमहानिधयो विद्यन्ते। तदनुभावेन सर्वैर्दरिद्रैश्च व्यसनिभिः प्रपन्नम्‌, ( महानिधि-) कुण्डमपि त्वक्षयम्‌। अयं षष्ठ आश्चर्याद्‌भुतो धर्मः।



"पुनरपरं, भदन्त शारिपुत्र, अस्मिन्‌ गृहे तथागताः शाक्यमुनिश्चामिताभश्चाक्षोभ्यश्च रत्नश्रीश्च रत्नार्चिश्च रत्नचन्द्रश्च रत्नव्यूहश्च दुष्पहश्च सर्वार्थसिद्धश्च महारत्नश्च सिहप्रसिद्धिश सिहस्वरश्चाऽदयो दशदिक्ष्वपरिमाणतथागता अस्य सत्पुरुषस्य सहचित्तमात्रेण समागच्छन्ति चागतास्तथागतगुह्यन्नाम धर्ममुखप्रवेशं निदर्श्य प्रतिगच्छन्ति। अयं सप्तम आश्चर्याद्‌भूतो धर्मः।

"पुनरपरं, भदन्त शारिपुत्र, अस्मिन्‌ गृहे सर्वदेववेश्मव्यूहाश्चसर्वबुद्धक्षेत्रगुणालङ्कारा आभासं गच्छन्ति। अयमष्टम आश्चर्याद्‌भूतो धर्मः।

" भदन्त शारिपुत्र, अस्मिन्‌ गृहे तेष्वष्टास्वाश्चर्याद्‌भुतेषु धर्मेष्वाभासं गच्छत्सु चेदृशाचिन्त्यधर्मे दृश्यमाने, कः श्रावकधर्ममिच्छेत्‌ ?"

अब्रवीत्‌-"देवि, यदि ते स्त्रीभावात्‌ स्याद्विकारः, किमपराधः ?" आह-"यावद्‌ द्वादश वर्षाणि स्त्रीभावम्मे मृग्यमाणा, ( सो )- ऽद्यापि (मया) नोपलभ्यते। भदन्त शारिपुत्र, तस्यै मायाकारेण निर्मितायै स्त्रियै एवं 'यदि ते स्त्रीभावात्‌ स्याद्विकारः, किमपराध ?' इत्युक्ते, तत्‌ कि कथयेत ?" अब्रवीत्‌-"तत्र किचित्संपरिनिष्पन्नन्नास्ति"। आह-"भदन्त शारिपुत्र, एवमेव सर्वधर्मेष्वपरिनिष्पन्नेषु च मायानिर्माणस्वभावेषु, त्वं 'यदि स्त्रीभावात्‌ स्याद्विकारः, किमपराध ?' इति ( पृच्छन्‌ )-तत्‌ कि मन्यसे ?"

अथ सा देव्येतादृशाधिष्ठानाधिष्ठिताऽभूत्‌, यथा शारिपुत्रः स्थविरो यादृश सा देवी तादृशा दृश्यते स्म; सा देव्यपि यादृशः शारिपुत्रः, स्थविरस्तादृशो दृश्यते स्म।

ततः सा शारिपुत्रस्य रूपमापन्ना देवी तं देवीरूपापन्नं शारिपुत्रमेवम्‌-"भदन्त शारिपुत्र, यदि स्त्रीभावात्‌ स्याद्विकारः, किमपराध ?" इति पृच्छति स्म। देवीरूपापन्नः शारिपुत्र एतदवोचत्‌-"मम पुरुषरूपस्यान्तर्हितस्य, स्त्रीकायापन्नो यो विकारस्तन्न जानामि"।

आह-"यदि स्थविरः स्त्रीरूपात्‌ प्रतिविकारस्य समर्थः स्यात्‌ , सर्वाः स्त्रियः स्त्रीभावात्‌ परिवर्तेरन्‌। यथा स्थविरः स्त्री-( रूपे ) दृश्यते, तथा सर्वाः स्त्रियोऽपि स्त्रीरूपेषु दृश्यमानाः स्त्र्यभावात्‌ स्त्रीरूपेषु दृश्यन्ते। ततो भगवता 'सर्वे धर्माः स्त्रीपुरुषाभावा' इति संघाय भाषीतम्‌"।



अथ सा देवी तदधिष्ठानमुत्सृजति स्म, आयुष्मांश्च शारिपुत्रः पुनः स्वरूपोपसंहितोऽभूत्‌। अथ सा देवी शारिपुत्रमेतदवोचत्‌-"भदन्त शारिपुत्र, क्व ते स्त्रीपुत्तली ?" अब्रवीत्‌-"( सा ) मया न च कृता न चापि विकृता । आह-"एवमेव सर्वधर्मा अप्यकृताश्चाविकृताः। यदकृतंचाविकृतंच-तधि बुद्धवचम्‌"।

अब्रवीत्‌-"देवी, इतश्च्युत्वा कुत्रोपपत्स्यसे ?" आह-"यत्र तथागतनिर्माणान्युत्पद्यन्ते, तत्राहमप्युपपत्स्ये"। अब्रवीत्‌-"तथागतनिर्माणेषु न भवतश्च्युत्पत्ती"। आह-"सर्वे धर्माश्च तथैव च्युत्युपत्त्यपगताः"।



अब्रवीत्‌-"देवि, केव चिरेण त्वं बोधिमभिसंभोत्स्यसे ?" आह- "यदा, स्थविर, पृथग्जनधर्मसंपन्नो भविष्यसि, तदाऽपि बोधिमभिसम्बुद्धामि"। अब्रवीत्‌-"देवि, ( यद्‌-) अहं पृथग्जनधर्मसंपन्नो भवेयम्‌, तदस्थानम्‌"। आह-"भदन्त शारिपुत्र, एवमेव( यद्‌- ) अहमपि बोधिमभिसंबुध्यामि, तदस्थानम्‌। तत्‌ कस्य हेतोः ? बोधिरस्थाने प्रतिष्ठिता; अतोऽस्थाने न कश्चिदभिसंबुद्धति"।



शारिपुत्रः स्थविरोऽवोचत्‌-"तथागतेनाऽख्यातम्‌-'गंगानदीवालुकासमास्तथागता अभिसंबुद्धाः, अभिसंबुध्यन्त्यभिसंभोत्स्यन्त' इति"। देव्याह- "भदन्त शारिपुत्र, 'अतीतानागतप्रत्युत्पन्ना बुद्धा' इति तध्यक्षरगणनासंकेताधिवचनम्‌। अतीतानागतप्रत्युत्पन्नेषु बुद्धेष्वभूतेषु, बोधिस्त्र्यध्वसमतिक्रान्ता। स्थविरः किम्‌ अर्हत्त्वलाभी?" अब्रवीत्‌- "अप्राप्तिहेतोर्लाभी"। आह- "एवमेवाभिसंबोध्यभावहेतोरभिसंबोधिः"।

ततो लिच्छविर्विमलकीर्तिरायुष्मन्तं शारिपुत्रं स्थविरमेतदवोचत्‌-"भदन्त शारिपुत्र, इयं देवी बुद्धानां द्विनवतिकोटिनयुतानि पर्युपास्य, अभिज्ञाज्ञानविक्रीडिता प्रणिधानसंभूता क्षान्तिलाभिनी, अवैवर्तिक- संप्रस्थिता सत्त्वपरिपाचनार्थाय प्रणिधानवशेन यथेष्टं तथाऽवस्थिता"।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project