Digital Sanskrit Buddhist Canon

५ अचिन्त्यविमोक्षनिर्देशः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

5 acintyavimokṣanirdeśaḥ

५ अचिन्त्यविमोक्षनिर्देशः



अथायुष्मतः शारिपुत्रस्यैवं भवति स्म-'यद्यस्मिन्‌ गृह आसनान्यपि न स्युः, इमे बोधिसत्त्वाश्च महाश्रावकाः कुत्र निषीदन्ति ?' ततो लिच्छविर्विमलकीर्तिरायुष्मतः शारिपुत्रस्य चित्तवितर्क ज्ञात्वा, आयुष्मन्तं शारिपुत्रमेवमवोचत्‌-



"भदन्त शारिपुत्र, कि धर्मार्थिक आगतोऽसि ? आहोस्विदासनार्थिकः ?" आह-"धर्मार्थिक आगतः, नास्म्यासनार्थिकः"। अवोचद्‌-"भदन्त शारिपुत्र, यद्यतो यो धर्मार्थिकः सो ऽपि स्वकायार्थिको न स्यात्‌ , आसनछन्दीक्षणं कुत आगतम्‌ ? भदन्त शारिपुत्र, यो धर्मकामः, स हि रूपवेदनासंज्ञासंस्कारविज्ञानकामो नास्ति, स्कन्धधात्वायतनकामो नास्ति। यो धर्मकामः, स कामरूपारूप्यधातुकामो नास्ति,। यो धर्मकामः, स बुद्धभिनिवेशकामो नास्ति, धर्मसंघाभिनिवेशकामो नास्ति।

"भदन्त शारिपुत्र, पुनरपरं यो धर्मकामः, स दुःखपरिज्ञानकामो नास्ति, समुदयप्रहाणकामो नास्ति, निरोधसाक्षात्कारकामो नास्ति, मार्गभावनाकामो नास्ति। तत्‌ कस्य हेतोः ? धर्मो ह्यप्रपञ्चऽनक्षरः; ततो यद्‌-'दुःखं परिज्ञातव्यम्‌, समुदायः प्रहातव्यः, निरोधः साक्षात्कर्तव्यः, मार्गो भावयितव्य' इत्युत्तरिकरणीयं, तद्धर्मकामो नास्ति, तधि प्रपञ्चकामः।

"भदन्त शारिपुत्र, धर्मो ह्युपशान्तश्च प्रशान्तः, ततो य उत्पादविनाशनसमुदाचारः, स धर्मकामो नास्ति, विवेककामो नास्ति; स उत्पादविनाशकामः। भदन्त शारिपुत्र, पुनरपरं धर्मोऽ रजो विरजः; ततः कश्चिद्धर्मश्चेद्‌ यस्मिन्‌ अनुनयस्‌-( स्याद्‌- ) अन्तमशो निर्वाणेऽपि, स हि धर्मकामो नास्ति; स 'रागरजः कामः'। धर्मो विषयो नास्ति। या विषयगणना, सा धर्मकामो नास्ति; स विषयकामः। धर्मो ह्यनाव्यूहोऽनिर्व्युहः; कश्चिद्धर्मो यस्मिनभिग्रहणं चोत्सर्गः, स धर्मकामो नास्ति; स ह्यभिग्रहणोत्सर्गकामः।



"धर्मोऽनालयः; य आलयारामाः, ते न धर्मकामाः, ते ह्यालयकामाः। धर्मोऽनिमित्तः शून्यः; येषां विज्ञाननिमित्तानुगमनम्‌, ते न धर्मकामाः, ते निमित्तकामाः। धर्मोऽसहवासः; ये केचिद्धर्मेण सह विहरन्ति, ते न धर्मकामाः, ते विहारकामाः। धर्मो दृष्टश्रुतमतविज्ञातन्नास्ति; ये दृष्टश्रुतमतविज्ञाते चरन्ति ते दृष्टश्रुतमतविज्ञातकामाः, न तु धर्मकामाः।



"भदन्त शारिपुत्र,, धर्मस्संस्कृतासंस्कृतन्नास्ति; ये संस्कृतावचराः ते न धर्मकामाः, ते संस्कृरग्रहणकामाः। भदन्त शारिपुत्र, अत इच्छेश्चेद्धर्म, त्वया सर्वधर्मा अप्रतिकांक्षितव्याः"।



अस्मिन्‌ धर्मोपदेशे निर्दिश्यमाने, देवपुत्राणाम्‌ पञ्चशत( स्य ) धर्मेषु विशुद्धं धर्मचक्षुरुदपादि।

अथ लिच्छविर्विमलकीर्तिर्मजुश्रीकुमारभूतमब्रवीत्‌-"मंजुश्रीः, दशदिक्षु शतसहस्राण्यसंख्येयानि बुद्धक्षेत्राणि बुद्धक्षेत्रचारिकां चरित्वा, कस्मिन्‌ बुद्धक्षेत्रे सर्वोत्तमानि सर्वगुणसम्पन्नानि सिंहासनानि त्वया दृष्टानि?" एवमवोचत्‌।



मंजुश्रीकुमारभूतो लिच्छवि बिमलकीर्तिमेतदवोचत्‌-"कुलपुत्र, इतः पूर्वास्मिन्‌ द्वात्रिशद्‌-गङ्गानदीवालुकासमानि बुद्धक्षेत्राण्यतिक्रम्य, अस्ति मेरुध्वजो नाम लोकधातुः। तत्रमेरुप्रदीप राजो नाम तथागतस्तिष्ठिति ध्रियते यापयति। तस्य तथागतस्य काय( प्रमाणं ) चतुरशीतिर्योजनशतसहस्राणी। तस्य भगवतस्सिंहानप्रमाणमष्टषष्टिर्योजनशतसहस्राणि। तेषां बोधिसत्त्वानां काय( प्रमाणम्‌ ) अपि द्विचत्वारिंशद्योजनशतसहस्राणि। तेषां बोधिसत्त्वानां सिंहासन( प्रमाणम्‌ ) अपि चतुर्त्रिशद्योजनशतसहस्राणि। कुलपुत्र, तस्मिंस्तस्य मेरुप्रदीपराजस्य तथागतस्य बुद्धक्षेत्रे मेरुध्वजे लोकधातौ सिंहासनानि सन्ति सर्वोत्तमानि सर्वगुणसम्पन्नानि"।



ततस्तेन खलु समयेन तादृशमभिप्रायं सञ्चिन्त्य, लिच्छविना विमलकीर्तिनाऽस्या एवंरुपर्द्विविध्या अभिसंस्कारोऽभिसंस्कृतः, ( यथा ) मेरुध्वजाल्लोकधातोर्भगवता मेरुप्रदीपराजेन तथागतेत द्वात्रिशत्सिंहासनसहस्राण्यनुप्रेषितानि-एतावदुन्नतारोहाण्येतावद्विशालान्येतावद्दर्शनीयानि, यानि तैर्बोधिसत्त्वैश्च तैर्महाश्रावकैश्च तैःशक्रब्रह्मलोकपालदेवपुत्रैरदृष्टपूर्वाणि। तान्युपरिविहायस आगत्य, लिच्छवेर्विमलकीर्तेर्गृहे प्रतिष्ठानानि। द्वात्रिंशन्नानासिहासनसहस्रेष्वनायातेन वहमानेषु, तध्गृहमप्येतावद्विशालं दृष्यते स्म। वैशाल्यपि महानगर्यनिवृताऽभूत ; जम्बुद्वीपश्चतुर्द्वीपको ( लोकधातु-) श्चानिवृताः, सर्वे तेऽपि यथापूर्व दृश्यन्ते स्म।



अथ लिच्छविर्विमलकीर्तिर्मञ्जुश्रीकुमारभूतमेतदवोचत्‌-"मंजुश्रीः, सिंहासनानुरुपकायाधिष्ठितास्तवमिमे च बोधिसत्त्वाः सिहासने ( षु ) निषीदत"। ततो येऽभिऽज्ञालाभिबोधिसत्त्वाः, ते द्विचत्वारिंशद्योजनशतसहस्रकायाधिष्ठिताः सिहासने( षु ) निषीदन्ति स्म। ये बोधिसत्त्वाआदिकर्मिकाः, ते तेषु सिहासनेषु नीषीदितुन्नाशकन्‌।

ततो लिच्छविर्विमलकीर्तिर्यथा ते बोधिसत्त्वाः पञ्चाभिज्ञायां सिध्येयुस्तथा ह्येवं तेभ्यो बोधिसत्त्वेभ्यो धर्म देशयि। तेऽभिज्ञाम्‌ प्राप्य, ( ऋद्‌ध्या ) द्विचत्वारिशद्योजनशतसहस्रशरीराण्यभिनिर्माय, तेषु सिहासनेषु निषिदन्ति स्म।

तेष्वापि महाश्रावकेषु तेषु सिहासनेषु निषीदितुमसमर्थेषु, लिच्छविर्विमलकीर्तिस्तत आयुष्मन्तं शारिपुत्रमब्रवीत्‌-"भदन्त शारिपुत्र, सिहसने निषीद"। अवोचत्‌-"सत्पुरुष, एषु सिहासनेषूत्कृष्टेषु चातिमात्रेषु, निषीदितुन्न शक्रोमि"। अब्रवीत्‌-" भदन्त शारिपुत्र, तस्मै भगवते तथागताय मेरुप्रदीपराजाय कुरु प्रणामञ्च निषीदितुं शक्ष्यसि"। अथ ते महाश्रावकास्तस्मै भगवते तथागताय मेरुप्रदीपराजायाभिवन्दनं कृत्वा पुरतस्ते सिहासने( षु ) न्यषीदन्‌।



अथाऽयुष्मांशारिपुत्रो लिच्छवि विमलकीर्तिमेतदवोचत्‌-"कुलपुत्र, आश्चर्य ( यथै-)वमुत्कृष्टातिमात्राणीदृशनानासहस्राणि सिंहासनान्येतावदल्पगृहं प्रविशन्ति चैभिरपि वैशाली महानगरी निवृता नाति, जम्बूद्वीपस्य ग्रामनगरनिगमराष्ट्रराजधानी च चतुर्महाद्वीपकोऽपि (लोकधातु-)श्च न किचिन्निवृताः, अपि च देवनागयक्षगन्धर्वासुर्गरुड किन्नरमहोरगस्थानान्यनिवृतानि पूर्व यादृशान्यायत्यपि दृश्यन्ते तथा"।



लिच्छविर्विमलकीर्तिरब्रबीत्‌-" भदन्त शारिपुत्र, तथागतेभ्यश्च बोधिसत्त्वेभ्योऽचिन्त्यो नाम विमोक्षोऽस्ति। तस्मिनचिन्त्यविमोक्षे विहरन्‌ बोधिसत्त्व एतावदुन्नतातिरेकविपुलं सुमेरुं पर्वतराजं सर्षपाभ्यन्तरम्‌ प्रक्षिपन्‌ तस्मिन्‌ सर्षपेऽवर्धमाने च सुमेरावव्यये, ( तादृशां ) क्रीयां देशयति। चातुर्महाराजकायिकदेवाश्च त्रयस्रिंशदेवा अपि 'कुत्र वयम्‌ प्रक्षिप्ताः', न जानन्ति। अन्यैस्त्वृद्विविधिनेयिकसत्त्वैः स पर्वतराजस्सुमेरुः सर्षपाभ्यन्तरम्‌ प्रक्षिप्तम्‌ प्रज्ञायते च दृश्यते। स हि, भदन्त शारिपुत्र, बोधिसत्त्वानाम्‌ अचिन्त्यविमोक्षविषयप्रवेषः।



"भदन्त शारिपुत्र, भूयोऽप्यचिन्त्यविमोक्षविहारिबोधिसत्त्वस्य चतुर्महासमुद्रस्य स्कन्धान्‌ एकोरोमकूपं प्रवर्तयः, मत्स्यकूर्मशिशुमारमण्डूकान्यजलजप्राणिभ्य उपघातो नास्ति। नागक्षगन्धर्वासुराणामप्येवं 'वयं कुत्र विवेशयिता' इति न भवति; तस्याम्‌ क्रियायां दृश्यमानायां, तेभ्यस्सत्त्वेभ्य उपघातश्च संक्षोभो नास्ति।



"अयमप्य-( चिन्त्यविमोक्षविहारिबोधिसत्त्वस्‌। त्रिसाहस्रमहा-साहस्रलोकधातुं कुम्भकारस्य चक्रमिव दक्षिणहस्तेनाऽदाय च प्रवर्तय्य, गङ्गानदीवालुकोपमलोकधा( तूनां दूरं क्षिपति ); क्षिप्त (श्च) सत्त्वा 'वयं कुत्रोद्‌धृताः, कुत आगता' न जानन्ति। पुनरेव गृहीताः ( स्व ) स्थानमेव प्रतिष्ठापिता आगमनगमनन्न जानन्ति, यद्यपि सा क्रिया संदृशयते।

"भदन्त शारिपुत्र, भूयोऽप्यप्रमेयकालवैनेयिकसत्त्वा विद्यन्ते, विद्यन्ते च संक्षेप्य कालवैनेयिकाः।



तत्राचिन्त्यविमोक्षविहारिबोधिसत्त्वोऽप्रमेयकालवैनेयेकसत्त्ववैनेयार्थाय सप्ताहं कल्पात्ययेन, संक्षेप्यकालवैनेयिकसत्त्वेभ्यः कल्पं सप्ताहात्ययेन दर्शयते। तत्राप्रमेयकालवैनेयिकसत्त्वाः सप्ताहे कल्पात्ययं जानन्ति। ये संक्षेप्यकालवैनेयिकसत्त्वाः, ते कल्पं सप्ताहेनातीतं जानन्ति।



"तथा ह्यचिन्त्यविमोक्षविहारिबोधिसत्त्वः सर्वबुद्धक्षेत्रगुणव्यूहानेकबिद्धक्षेत्रे दर्शयते। चापि सर्वसत्त्वान्‌ दक्षिणकरतल आधाय, चित्तजवनर्द्धिविध्या गच्छन्त्यसर्वबुद्धक्षेत्राण्यादर्शयति, कि चाप्येकबुद्धक्षेत्रादचलितः। दशदिक्षु भगवते बुद्धाय यावत्‌ पूजनानि, सर्वाणि तान्येकरोमकूपे देशयति। दशदिक्षु यावच्चन्द्रश्चादित्यश्च तारकारूपाणि, सर्वाणि तान्यप्येकरोमकूपे दर्शयते।



"दशदिक्षु वायुमण्डलानि यावदुत्तिष्ठन्ति, सर्वाणि तानि मुखेन पीत्वा, तस्य कायोऽविनष्टश्च तेषां बुद्धक्षेत्राणाम्‌ तृणवनस्पतयोऽप्रपतिताः। दशदिक्षु सर्व तं बुद्धक्षेत्रदहन कल्पोद्दाहाग्निराशि स्वोदरं प्रक्षिप्य, यत्‌ कर्म तेन करणीयं, तत्‌ करोति। अधस्ताद्‌गङ्गानदीवालुकासम( अनि ) बुद्धक्षेत्रा( ण्य ) अतिक्रम्य, स ( एकं ) बिद्धक्षेत्रमूर्ध्वमुत्क्षिप्य चाऽरुह्य, ऊर्ध्व गङ्गानदीवालुकासमा( नि ) बुद्धक्षेत्रा( ण्य ) अतिक्रम्य, उपरिष्टात्‌-तद्यथापि नाम महास्थाम्ना पुरुषेण सूच्यग्रेण बदरपत्रमुच्छ्रितम्‌-एवमेवोत्क्षिप्तं ( बिद्धक्षेत्रन्‌ ) निक्षिपति।



"तथा ह्यचिन्त्यविमोक्षविहारिबोधिसत्त्वः सर्वसत्त्वरुपमधितिष्ठति। चक्रवर्तिराजस्य रूपमधितिष्ठति; एवमेवाधितिष्ठति लोकपालशक्रब्रह्मश्रावकप्रत्येकबुद्धबोधिसत्त्वसर्वसत्त्वबुद्धरूपम्‌।



"( स बोधिसत्त्वो ) दशदिक्षु सत्त्वानां सर्वाग्रमध्यहीनशब्दप्रसिद्धः। याः काश्चन शब्दप्रज्ञप्तयः, ताः सर्वा बुद्धघोषरुतंच बुद्धधर्मसंघशब्दमधितिष्ठिति, तस्मात्‌ शब्दस्वराद्‌ अनित्यतादुःखशून्यनैरात्म्यशब्दस्वरं निश्चारयति; दशदिक्षु भगवान्‌ बुद्दो यावदाकारमुपदेशेन दर्शयति, तेभ्यः सर्वेभ्यः शब्दस्वरेभ्यो निश्चारयति।



"भदन्त शारिपुत्र, अयं ह्यचिन्त्यविमोक्षविहारिबोधिसत्त्वविषयप्रवेशः किंचिन्मात्रं केवलं दर्शितः। भदन्त शारिपुत्र, ( तत्त्वतः ) कल्पाभ्यधिकं वा तदतिक्रान्तं वाऽचिन्त्यविमोक्षविहारिबोधिसत्त्वविषयप्रवेशोपदेशम्‌ दशनीयम्‌ ( अभविष्यत्‌ )।

अथ महाकाश्यपः स्थविर इमं बोधिसत्त्वाचिन्त्यविमोक्षोपदेशं श्रुत्वा, आश्चर्याद्भुतप्राप्तः शारिपुत्रं स्थविरमेतदवोचत्‌-



"आयुष्मंशारिपुत्र, तद्यथापि नाम जात्यन्धपुरुषस्याभिमुखं सर्वरूपोपपन्नानाम्‌ क्रियाणाम्‌ दर्शितानामपि तेन जात्यन्धेनैकरुपमपि तु न दृश्यते; एवमेवाऽयुष्मंशारिपुत्र, अस्याचिन्त्यविमोक्षमुखस्य देशनाकाले सर्वश्रावकप्रत्येकबुद्धेभ्यो जात्यन्धसमेभ्यश्चक्षुर्नास्ति चैकमात्राचिन्त्यद्वारमप्यनभिमुखीभूतम्‌। इममचिन्त्यविमोक्षं श्रुत्वा, को विचक्षणोऽनुत्तरसम्यक्संबोधिचित्तन्न जनयेत्‌ ?



"( अस्माभिः ) प्रणष्टेन्द्रियैर्दग्धपूतिकबीजसदृशैरस्मै महायानाय भाजनाभूतैरिदानीम्‌ कथं करणीयम्‌? ( अस्माभिर्‌ ) इमं धर्मोपदेशं श्रुत्वा, आर्तस्वरं क्रन्दित्वा, सर्वश्रावकप्रत्येकबुद्धैस्त्रिसाहस्रमहासाहस्रलोकधातौ शब्दमादातव्यम्‌। सर्वबोधिसत्त्वैरिममचिन्त्यविमोक्षं श्रुत्वा, युवको राजपुत्रो यथा मुकुटं गृहणीयाच्च प्रामोद्येन मूर्ध्नि प्रतिग्रहीष्यति, चास्मिन्‌ स्वाधिमुक्तिबलमुत्पादयितव्यम्‌। याऽस्मिन्‌ अचिन्त्यविमोक्षऽधिमुक्तिः, तस्यां सर्वमारा अपि कि कुर्युः ?"



महाकाश्यपेन स्थविरेनास्मनुपदेशे देशिते, द्वात्रिंशद्देवपुत्रसहस्राण्यनुत्तरसम्यक्संबोधिचित्तमुत्पादयन्ति स्म।

ततो लिच्छविर्विमलकीर्तिर्महाकाश्यपं स्थविरमेतदवोचत्‌-"भदन्त महाकाश्यप, दशदिक्ष्वपरिमाणलोकधातुषु ये केचिन्मारा मारकारिणः, सर्वे तेऽचिन्त्यविमोक्षविहारिबोधिसत्त्वाश्चोपायकौशल्येन सत्त्वपरिपाचनार्थम्मारकारिणः।

"भदन्त महाकाश्यप, दशदिक्ष्वपरिमाणलोकधातुषु बोधिसत्त्वे ( भ्यो ) ये हस्तपदश्रोत्रघ्राणलोहितस्नाय्वस्थिमज्जाचक्षुः पूर्वकायशीर्षाङ्गप्रत्यंगराज्यराष्ट्रप्रदेशभार्यापुत्रदुहितृदासदास्यश्वहस्तिरथवाहनसुवर्णजातरूपमणिमुक्ताशङ्खस्फ़टिकशिला-प्रवाडवैडूर्यानर्घणिरत्नाऽहारपानरसवस्त्रयाचकाः संबाधं कुर्वन्ति, सर्वे तेऽपि याचका यद्‌भूयसाऽचिन्त्यविमोक्षविहारिबोधिसत्त्वा उपायकौशल्येनेमां ( बोधिसत्त्व- )अध्याशयदृढतां देशयन्ति। तत्‌ कस्य हेतोः ? भदन्त महाकाश्यप, बोधिसत्त्वेषु कटुकतपसैवं देशयत्सु, अकृतावकाशे जनकायाय बोधिसत्त्वसंबाधकरणानुभावो नास्ति। अकृतावकाशे ( जनकायेन ) हननोत्थापनम्‌ अशक्यम्‌।

"भदन्त काश्यप, तद्यथापि मान खद्योतकेन सूर्यमण्डलाभासोऽनाक्रमणीयः; एवमेव भदन्त काश्यप, अकृतावकाशे ( जनकायेन ) बोधिसत्त्वाक्रमणोत्थापनमशक्यम्‌। भदन्त महाकाश्यप, तद्यथापि नाम कुञ्जरमातङ्गाय नागराजाय गर्दभेत प्रहारदानमक्षमणीयम्‌ ; एवमेव भदन्त महाकाश्यप, बोधिसत्त्वाभावेन बोधिसत्त्वसम्बाधकरणशक्यम्‌। ( यद्य ) अपि खो पन बोधिसत्त्वः खलु बोधिसत्त्वाय सम्बाधं कुर्यात्‌ ( तद्‌- ) बोधिसत्त्वसम्बाधकरणं बोधिसत्त्वः क्षमते।

"भदन्त महाकाश्यप, अयं ह्यचिन्त्यविमोक्षविहारिबोधिसत्त्वानामुपायज्ञानबलप्रवेशः"।



अचिन्त्यविमोक्षनिर्देशस्य परिवर्तः पंचमः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project