Digital Sanskrit Buddhist Canon

४ ग्लानसंमोदन ( कथा )

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

4 glānasaṁmodana ( kathā )

४ ग्लानसंमोदन ( कथा )



ततो भगवान्‌ मंजुश्रीम्‌ कुमारभूतमामन्त्रयते स्म--"मंजुश्रीः, लिच्छवेर्विमलकीर्ते रोगपृच्छनाय गच्छ"। मंजुश्रीरप्यवोचत्‌--

"भगवन्‌, लिच्छविर्विमलकीर्तिर्दुरासदो गम्भीरनये प्रतिभानप्रतिपन्नः, व्यत्यस्तपदपुष्कलपदनिष्पादनकुशलः, अनाच्छेद्यप्रतिभानस्सर्वसत्त्वेष्वप्रतिहतबुद्धिसमर्पितः, सर्वबोधिसत्त्वकर्मनिर्यातः, सर्वबोधिसत्त्वप्रत्येकबुद्धगुह्यस्थाने सुप्रतिपन्नस्सर्वमारस्थानविनिवर्तकुशलः, महाऽभिज्ञाविक्रीडित उपायप्रज्ञानिर्यातोऽद्वयधर्मधात्वसंभेदगोचरस्य वराग्रप्राप्तो धर्मधात्वेकव्यूहानन्ताकारव्यूहधर्मदेशनाकोविदः, सर्वसत्त्वेन्द्रियसम्प्रापकव्यूहज्ञो विचक्षणः, उपायकौशल्यगतिगतः प्रश्ननिर्णयप्रतिलब्धः। स परीत्तवर्मसन्नाहसन्तोषस्यासमर्थः, कि तु बुद्धाधिष्ठानेन तेन गतो यथाभूतं यथानुभावं भाषितुकामो( ऽस्मि )"।



अथ तस्याम्‌ परिषदि तेषां बोधिसत्त्वमहाश्रावकशक्रब्रह्मलोकपालानां च देवपुत्राप्सरसामेतभूत्‌-"( यत्र ) मंजुश्रीः कुमारभूतश्चा सत्पुरुषस्तावुभावभिलापिनौ, तत्र महाधर्मकीर्तिकथा नियतं भविष्यती" -ति। ततो बोधिसत्त्वानां लक्षं श्रावकाणांच पञ्चशतमात्रं बहुशक्रब्रह्मलोकपालाश्च बहुशतसहस्राणी देवपुत्राणांच धर्मश्रवणार्थं मंजुश्रियः कुमारभूतस्य पृष्ठितोऽगच्छन्‌। अथ मंजुश्रीः कुमारभूतः सर्वैस्तैर्बोधिसत्त्वमहाश्रावकशक्रब्रह्मलोकपालदेवपुत्रैः परिवृतः पुरस्कृतो वैशालीम्महानगरीम्‌ प्रविशति स्म।



ततो लिच्छवेविमलकीर्तेरेतदभूत-"मंजुश्रीः कुमारभूतश्च बहुपरिवार आगच्छन्ति; तेनेदम्मे गृहमधिष्ठा( -नेन ) शून्यं ( भवत्व्‌ )-" इति। ( ततः ) तद्‌गृहं शून्यं अध्यतिष्ठत्‌। तत्र द्वारिकोऽपि नाभवत्‌। मंचो यस्मिन्‌ विमलकीर्तिग्लानः शायी, आसीदेकासनम्‌। तं स्थापयित्वा तत्र मंचो वा पीठिका वाऽऽसनं किञ्चिन्नादृश्यत।



अथ मंजुश्रीः सपरिवारो येन विमलकीर्तेरावासस्तेनागच्छत्‌ ; उपसंक्रम्य च प्रविश्य, तद्‌गृहं शून्यमद्राक्षीत्‌। तत्र द्वारिकोऽपि नाभवत्‌। तस्मात्‌, ( यस्मिन्‌ ) विमलकीर्तिः शाय्यासीत्‌ , एकाकिमंचागन्यमञ्चं पीठिकं वाऽऽसनं वा नाद्राक्षीत्‌। ततो लिच्छविर्विमलकीर्तिर्मजुश्रियम्‌ कुमारभूतमदर्शत्‌; दृष्ट्वैदवोचत्‌-

"मंजुश्रीः, एहि स्वागतः, मंजुश्रीः, एहि सुस्वागतः। पूर्वमनागतोऽदृष्टोऽश्रुतो दृश्यसे"। मंजुश्रीरब्रवीत्‌-"गृहपते, यथा वदसि तथा यदागतम्‌, तधि पुनर्नागच्छति। यद्‌ गतं तदपि पुनर्न गच्छति। तत्‌ कस्य हेतोः ? अनागत आगमोऽपि न प्रज्ञायते, गतेऽपि गमनन्न प्रज्ञायते, यत्कारणाद्‌ यद्‌दृष्टम्‌, तत्‌ पुनरपि द्रष्टव्यन्नास्ति।



"कच्चित्ते, सत्पुरुष, क्षमणीयं, कच्चिद्‌ यापनीयं, कच्चित्ते धावतो न क्षुभ्यन्ते, कच्चिद्‌ दुःखा वेदनाः प्रतिक्रामन्ति नाभिक्रामन्ति ? भगवानपि --'ननु तुभ्यमल्पाबाधता, अल्पातंकता, अल्पातुरः लघूत्त्थानतापि, यात्राबलसुखानवद्य (-ता-) सुखस्पर्शविहार(-ते-)' त्यख्यत्‌। गृहपते, अयं ते रोगः कस्मादुत्पन्नः ? उत्पन्नः कियच्चिरं ? किमाश्रितः? कदा शाम्यति ?"



विमलकीर्तिरवोचत्‌-"मंजुश्रीः, अविद्या च भवतृष्ण यावत्‌ , तावदयम्मे रोगोऽपि। यावत्‌ सर्वसत्त्वानां रोगः, तावदपि मे रोगः। यदा सर्वसत्त्वा वीतरोगाः, तदा रोगो ममापि न सम्भवति। तत्‌ कस्य हेतोः ? मंजुश्रीः, बोधिसत्त्वस्य संसारस्थानं हि सत्त्वाः ); रोगो हि संसारस्थानम्‌। यदा सर्वसत्त्वा वीतरोगाः, तदा बोधिसत्त्वोऽप्यरोगो भवति।



"मंजुश्रीः, तद्यथापि नाम श्रेष्ठिन एकपुत्रो ग्लानो भवेत्‌ ; तद्वाधकारणादुभावपि मातापितरौ ग्लानौ भवतः। यावत्स एकपुत्रोऽरोगोऽभूतः, तावदुभावपि मातापितरौ दुःखितौ भवतः। मंजुश्रीः, एवमेव बोधिसत्त्वः सर्वसत्त्वेष्व्‌ एकपुत्र इव प्रियः; सर्वसत्त्वेषु ग्लानेषु सोऽपि ग्लानो भवति। सत्त्वे (-ष्व्‌- ) अरोगे ( -षु ), सोऽप्यग्लानः। यदपि, मंजुश्रीः-'अयं ते रोगः कस्मादुत्पन्न ?' इति वदसि-बोधिसत्त्वानां हि रोगो महाकरुणायाः सन्भवति"।



मंजुश्रीरवोचत्‌-"गृहपते, किमस्मिंस्ते शून्यागारे न कश्चित्‌ परिवारोऽस्ति ?"-अब्रवीत्‌-"मंजुश्रीः, सर्वबुद्धक्षेत्राण्यपि शून्यानि"।- अभाषत-"केन शून्यानि ?"-आह-"शून्यतया शून्यानि"।-अभाषत- "शून्यतायां शून्यम्‌ कीम्‌ ?" -आह- "सङ्कल्पो हि शून्यता शून्यः"।-अभाषत-"शून्यता कि सङ्कल्पायासमर्था ?" -आह-"तस्मिन्‌ परिकल्पे शून्ये, शून्यता हि शून्यतायां निर्विकल्पा"। -अभाषत- "गृहपते' शून्यता यत्रान्वेष्टुं ( युज्जते ) ?" -आह- "मंजुश्रीः, शून्यतान्वेष्टुं ( युज्जते ) द्विषष्टिदृष्टिगतेभ्यः"। -अभाषत- "द्विषष्टोदृष्टिगतानि कुतोऽन्वेष्टुं ( युज्यते ) ?" -आह- "तान्यन्वेष्तुं (युज्जते) तथागतस्य विमुक्त्याः"।- अभाषत-"इयं तथागतस्य विमुक्तिः कुतोऽन्वेष्टुं ( युज्यते ) ?" -आह- "अन्वेष्टुं ( युज्यते ) सर्वसत्त्वानाम्‌ प्रथमचित्तचर्यायाः।



"मंजुश्रीः यत्‌ 'किन्ते न कश्चित्‌ परिवारो ऽस्ती ?' -ति वदसि- सर्वमाराश्च सर्वपरप्रवादिनः सन्ति मे परिवारः। तत्‌ कस्य हेतोः ? मारा हि संसारस्य वर्णवादिनः, संसारश्च बोधिसत्त्वस्य परिवारः। परप्रवादिषु दृष्टिगतानां वर्णवादोषु, बोधिसत्त्वः सर्वदृष्टिगतेभ्योऽनिंज्यः। तस्मात्‌ सर्वमाराश्च सर्वपरप्रवादिनो मम परिवारः"।



मंजुश्रीरभाषत-"गृहपते, रोगस्ते कीदृशः ?" - आह- " आरुप्योऽसनिदर्शनः"। -अभाषत- "स रोगः किं कायाप्रतिसंयुक्त आहोस्विच्चित्तप्रतिसंयुक्तः ?" -आह- "कायविवेकतया ( स ) कायप्रतिसंयुक्तो नास्ति, चित्तमायाधर्मतया चित्तप्रतिसंयुक्तो नास्ति"।-अभाषत-"गृहपते, एषां चतुर्णा, यदिदम्‌-पृथिव्यप्तेजोवाय्वाकाशधातूनाम्‌, को धातुर्हन्यते ?" -आह- "मंजुश्रीः, यः कश्च सर्वसत्त्वानां रोगधातुः, तेनाहमपि ग्लानः। मंजुश्रीः, कथम्‌ बोधिसत्त्वेन ग्लानो बोधिसत्त्वः सम्मोद्पनीयः ?"



मंजुश्रीरभाषत "कायोऽनित्य इति-( संमोदपनीयः ), न हि निर्विद्विरागेन। कायो दुःख इति-निर्वाणरसेन हि न ( संमोदपनीयः )। कायो नैरात्म्य इति-अथ च पुनः सत्त्वपरिपाचनेन ( संमोदपनीयः )। कायः शान्त एवेति-किन्तूपशमेन (संमोदपनीयो ) नास्ति। सर्वदुश्चरित्‌ उपनीते, संक्रान्त्या न ( संमोदपनीयः )। स्वातुरेणान्येशु ग्लानेषु सत्त्वे( षु )कारुण्यपूर्वान्तपर्यान्त दुःखानुस्मृतिसत्त्वार्थ कार्यानुस्मृतिकुशलमूलसाक्षात्कारादिविशुद्ध्यतृष्णानित्योद्योगं समारभ्य, सर्वरोगाभावकारणभैषज्यराजो भवेद्‌-इति। तथा हि बोधिसत्त्वेन ग्लानो बोधिसत्त्वः संमोदपनीयः"। मंजुश्रीरभाषत-"कुलपुत्र, ग्लानेन बोधिसत्त्वेन कथं स्वचित्तं निध्यायितव्यम्‌ ?"



विमलकीर्तिराह-"मंजुश्रीः, ग्लानेन बोधिसत्त्वेन हि स्वचित्तमेवं निध्यायितव्यम्‌-व्याधिः पूर्वान्ताभूतविपर्यासकर्मपर्युत्थानान्निश्ररति। अभूतसंकल्पक्लेशोत्पन्नो य आतुरो नाम धर्मः, त( स्य ) परमार्थत इह न किंचिदुपलभ्यते। तत्‌ कस्य हेतोः ? अयं कायश्चतुर्महाभूतेभ्यो भूतः ; एषु धातुषु कश्चदधिपतिर्वा जनको वा नास्ति। अस्मिन्‌ कायेऽनात्मके, आत्माभिनिवेशं स्थापयित्वा, इह परमार्थतो यो रोगो नाम सोऽनुपलम्भः ; तस्मादात्मनि ह्यभिनिवेशेऽसति, रोगमूलाज्ञायां विहरितव्यम्‌-इति ; तेन, आत्मसंज्ञायां प्रतिप्रस्रब्धायां, धर्मसंज्ञोत्पादयितव्या।



"अयं हि कायोऽनेकधर्मसंनिपातः ; उत्पद्यमानो धर्मा एवोपद्यन्ते; निरुध्यमानो धर्म एव निरुध्यन्ते। धर्माः परस्परन्न वेदयन्ति न जानन्ति। ते धर्मा उत्पत्त्यामेवम्‌-'अहमुपपद्य' इति-न चिन्तयन्ति; निरोधऽप्येवम्‌-'अहन्निरिध्य' इति-न चिन्तयन्ति।



"तेन धर्मसंज्ञाऽऽज्ञाकरणार्थ चित्तमुत्पादयितव्यम्‌-'यन्मयैवं धर्मेषु संज्ञायते, तदपि विपर्यासः। विपर्यासो हि महारोगः। मया रोगविसंयोगः करणीयः, व्याधिप्रहाणायोद्योगः करणीयः'। तत्र तद्‌व्याधिवर्जनं किम्‌ ? यदुत-अहंकारममकारवर्जनम्‌। तदहंकारममकारवर्जनं किम्‌ ? यदुत-देवयविसंयोगः। तत्रा ध्यात्मबहिर्धासमुदाचाराभावः किम्‌ ? यदुत-समताया अचलं, स्वचलं, व्यचलम्‌।

"समता किम्‌ ? मत्समताया यावन्निर्वाणसमताम्‌। तत्‌ कस्य हेतोः ? यदिदम्‌-मन्निर्वाणयोरुभयोरपि शून्यताकारणात्‌। ताभुबौ केन शून्यौ ? नामव्यवहारोभौ शून्यौ; तस्मात्तावपरिनिष्पन्नौ। तथा हि तेन समतादर्शनेन रोग एवानन्यः। शून्यताऽन्यथाकारेऽसति, रोग एव शून्यता।



"वेदना निर्वेदन द्रष्टव्या। तेन वेदनानिरोधो न साक्षात्करणीयः। परिसमाप्तबुद्धधर्म उभे वेदने उत्सृजेत्‌ , किं तु सर्वदुर्गतिसत्त्वेषु महाकरुणाऽनुत्थापनन्नास्ति ; तथा हि करणीयं , यथैषु सत्त्वेषु योनिशो निध्यप्त्या व्याधिर्निराकृतो भवति।



"एषु ( सत्त्वेषु ) कश्चिद्धर्मो नोपसंहर्तव्यो वा निराकरणीयो वा।तदाधारपरिज्ञानार्थ , यस्माद्‌ रोग उत्पन्नः, तेषु धर्मो देशयितव्यः। स आधारः किम्‌ ? यदिदम्‌-अध्यालम्बनम्‌ आधारः। अध्यालम्बनाधारे यावदालमम्बनम्‌, तावद्‌ रोगाधारः। कस्मिनध्यालम्बनम्‌ ? त्रैधातुकाध्यालम्बनम्‌। अध्यालम्बनाधारपरिज्ञा किम्‌ ? यदुतनालम्बनं चानुपलब्धिः। याऽनुपलब्धिस्तध्यनध्यालन्बनम्‌। अनुपलब्धिः किम्‌ ? यदिदम्‌-आत्मदृष्टिश्च परदृष्टिः-उभे दृष्टी नोपलभ्येते। अतोऽनुपलब्धिर्नामोच्यते।



"मंजुश्रीः, आतुरेण तथा हि बोधिसत्त्वेन जराव्याधिमरणजातिवर्जनाय स्वचित्तं निध्यायितव्यम्‌। मंजुश्रीः, बोधिसत्त्वानांरोग एवं रूपः। यद्येवन्न भवेत्‌, व्यवसायो निरार्थकोऽभविष्यत्‌। तद्यथापि नाम प्रत्यर्थिकोपघातेन वीरो नामोच्यते, एवमेव जराव्याधिमरणदुःखशमनेन बोधिसत्त्वो नामोच्यते।



"तेन ग्लानेन बोधिसत्त्वेनैवं -'यथा मम रोगोऽभूतोऽसन्‌, तथा हि सर्वसत्त्वानां रोगोऽप्यभूतोऽसन्‌-' इत्युपलक्षितव्यम्‌। एवं प्रेक्षमाणः सोऽनुशंसदर्शनाभ्रष्टः सत्त्वेषु महाकरुणामुत्पादयति, ( अन्यत्‌ ) स्थापयित्वा चागन्तुकक्लेशप्रहाणाय सत्त्वेष्वभियोगमहाकरुणामुत्पादयति। तत्‌ कस्य हेतोः ? अनुशंसदर्शनपतितया महाकरुणया हि जातिषु बोधिसत्त्वो निर्विद्यते। अनुशंसदर्शनपर्युत्थानापगतया महाकरुणा बोधिसत्त्वो जातिषु न निर्विद्यते। दृष्टिपर्युत्थाने समुत्तिष्ठति, स न जायते। चित्तपर्युत्थानापगतो जायमानः स मुक्त इव जायते, स मुक्त इवोत्पद्यते। मुक्त इव जायमानो मुक्त इवोत्पद्यमानो बुद्धसत्त्वबन्धनमुक्तिधर्मदेशनायै समर्थश्च प्रतिबलो भवति। यदिदम्‌ भगवता-आत्मना बद्धेन परं बन्धनाद्विमोचयेत्‌, तधि स्थानन्न विद्यते। आत्मना मुक्तेन परं बन्धनाद्विमोचयेत्‌ , तत्स्थानं विद्यत-इति भाषितम्‌। तस्माद्‌ बोधिसत्त्वो मुक्त्यै कुर्यान्न बन्धनाय।



"तत्र बन्धनं किम्‌ ? किम्मुक्तिः ? अनुपाये भवमुक्तिपरिग्रहो बोधिसत्त्वस्य बन्धनम्‌। उपायेन भवप्रवृत्त्यवक्रांतिर्मुक्तिः। अनुपायेन ध्यानसमाधिसमापत्त्यास्वादो बोधिसत्त्वस्य बन्धनम्‌। उपायेन ध्यानसमाध्यास्वादो मुक्तिः। उपायेनानुद्दिष्ट प्रज्ञा हि बन्धनम्‌। उपायेन निष्ठितप्रज्ञाः मुक्तिः। प्रज्ञाऽनुद्दिष्टोपायो बन्धनम्‌। प्रज्ञया निष्ठितोपायो मुक्तिः।



"तत्रोपायानुद्दिष्टप्रज्ञाबन्धनं किम्‌ ? यदुत-शून्यताऽनिमित्ताप्रणिहितनिध्यप्तिश्च लक्षणानुव्यंजन बुद्धक्षेत्रालंकारसत्त्वपरिपाचनानिध्यप्तिर्ह्युपायानुद्दिष्टप्रज्ञा च बन्धनम्‌। तत्रोपायनिष्ठितप्रज्ञामुक्तिः किम्‌ ? यदुतलक्षणानुव्यंजनबुद्धक्षेत्रालङ्कारसत्त्वपरिपाचनचित्तनिध्यप्तिश्च शून्यताऽनिमित्ता प्रणिहितपरिजयकरणम्‌ , इदं ह्युपायनिष्ठितप्रज्ञा च मुक्तिः। तत्र प्रज्ञाऽनुद्दिष्टोपायबन्धनं किम्‌ ? यदिदं-सर्वदृष्टिक्लेशपर्युत्थानानुशयानुनयप्रतिघावस्थितस्य सर्वकुशलमूलव्यापारबोध्यपरिणामना हि प्रज्ञाऽनुद्दिष्टोपायश्च बन्धनम्‌। तत्र प्रज्ञानिष्ठितोपायमुक्तिः किम्‌ ? यदिदम्‌- तया सर्वदृष्टिक्लेशपर्युत्थानानुशयानुशयानुनयप्रतिघपरिवर्जकस्य सर्वकुशलमूलव्यापारबोधिपरिणामनयाऽपरामृष्टिः, सा हि बोधिसत्त्वस्य प्रज्ञानिष्ठितोपायश्च मुक्तिः।



"मंजुश्रीः, तत्र ग्लानेन बोधिसत्त्वेनैवं तेषु धर्मेषु निध्यायितव्यं-यः कायचित्तरोगेऽनित्यतादुःखशून्यननैरात्म्यसंबोधः, स तत्प्रज्ञा। यः कायस्य रोगविवर्जनेनानुत्पाद्श्च संसारास्रंसने सत्त्वार्थप्रयोगानुयोगः, अयं हि तदुपायः। भूयोऽपि यः 'कायचित्तरोगाः परस्परं परंपरया न च नवा न च जीर्णा' ( इत्य्‌ ) अवबोधः, स तत्प्रज्ञा। यच्च कायचित्तरोगोपशमनिरोधयोरनुत्थापनं, तत्तदुपायः।



"मंजुश्रीः, तथा हि ग्लानेन बोधिसत्त्वेन स्वचित्तं निध्यायितव्यम्‌; किं तु तेन निध्यप्त्यनिध्यप्त्योर्न बिहरितव्यम्‌। तत्‌ कस्य हेतोः ? यदि निध्यप्त्यां बिहरेत्‌ , स हि पृथग्जनस्य धर्मः। अथानिध्यप्त्यां बिहरेत्‌ , स श्रावकधर्मः। तस्माद्‌ बोधिसत्त्वेन निध्यप्त्यनिध्यप्त्योर्न विहरितव्यम्‌। यत्तत्राप्रतिष्ठितं, तद्वोधिसत्त्वगोचरः।



"यः पृथग्जनगोचरश्चाऽर्यगोचरश्च नास्ति, स हि बोधिसत्त्वगोचरः। यः संसारगोचरेऽपि क्लेशगोचरस्तु नास्ति, स बोधिसत्त्वस्य गोचरः। यो निर्वाणावबोधगोचरेऽप्यत्यन्तपरिनिर्वाणगोचरस्तु नास्ति, स बोधिसत्त्वस्य गोचरः। यश्चतुर्मारदेशनागोचरेऽपि सर्वमारविषयसमतिक्रान्तगोचरः, स बोधिसत्त्वस्य गोचरः। यः सर्वज्ञज्ञानैषणागोचरेऽप्यकालज्ञानप्राप्तिगोचरस्तु नास्ति, स हि बोधिसत्त्वस्य गोचरः। यश्चतुःसत्यज्ञानगोचरेऽप्यकालसत्यप्रतिपादनगोचरस्तु नास्ति, स हि बोधि सत्त्वस्य गोचरः। योऽध्यात्मप्रत्यवेक्षणगोचरेऽपि संचिन्त्यभवप्रतिकांक्षिपरिग्रहगोरस्तु नास्ति, स बोधिसत्त्वस्य गोचरः।

योऽनुत्पादप्रत्यवेक्षणगोचरऽपि नियतप्राप्त्यवक्रान्तिगोचरस्तु नास्ति, स बोधिसत्त्वस्य गोचरः।

यः प्रतीत्यसमुत्पादगोचरेऽपि सर्वदृष्टिविष्यगोचरस्तु नास्ति, स बोधिसत्त्वस्य गोचरः।

यः सर्वसत्त्वसंसर्गगोचरेऽपि क्लेशानुशयगोचरस्तु नास्ति, ......पे।

यो विवेक-गोचरेऽपि कायचित्तक्षयस्थानगोचरस्तु नास्ति, ......पे।

यस्रैधातुकगोचरेऽपि धर्मधातुव्यवच्छेदकरणागोचरस्तु नास्ति, ......पे।

यः शून्यतागोचरेऽपि गूणसर्वथैषणागोचरस्तु, ......पे।

योऽनिमित्तगोचरेऽपि प्रमोचयितव्य सत्त्वावलम्बनव्यवसायगोचरस्तु, ......पे।

योऽप्रणिहितगोचरेऽपि संचिन्त्यभवगतिदर्शनगोचरस्तु, ......पे।

योऽनभिसंस्कारगोचरेऽपि सर्वकुशलमूलाभिसंस्कारास्रंसनगोचरस्तु, ......पे।

यः षट्‌पारमितागोचरे सर्वसत्त्वचित्तचर्यापारायणगोचरः, ...... पे।

यः षडभिज्ञागोचरेऽपि क्षीणास्रवगोचरस्तु नास्ति , ......पे।

यः सद्धर्मस्थानगोचरे कुमार्गानुपलब्धिगोचरः, ......पे।

यश्चतुरप्रमाणगोचरेऽपि ब्रह्मलोकजात्यसंसर्गगोचरेस्तु, ......पे।

यः षडनुस्मृतिगोचरे सर्वास्रवगोचरो नास्ति, ......पे।

यो ध्यानसमाधिसमापत्तिगोचरेऽपि समाधिसमापत्तिवशेनानुत्पादगोचरस्तु, ......पे।

यः स्मृत्युस्थानगोचरेऽपि कायवेदनाचित्तधर्मातिरेकगोचरस्तु नास्ति, ......पे।

यः प्रधान गोचरे कुशलाकुशलद्वयालम्बनगोचरो नास्ति, ......पे।

य ऋद्धिपादनिर्हारगोचरेऽप्यनाभोगर्द्धिपादवशगोचरः, ......पे।

य पंचेन्द्रियगोचरे सर्वसत्त्वेन्द्रियवरावरज्ञानगोचरः, ......पे।

यः पंचबलावस्थानगोचरे तथागतस्य दशबलाभिरतिगोचरः, ......पे

यः सप्तबोध्यंगपरिनिष्पन्नगोचरे बुद्धिप्रविचयज्ञानकौशल्यगोचरः, ......पे।

यो मार्गाश्रयगोचरेऽपि कुमार्गानुपलब्धिगोचरस्तु, ......पे।

यः शमथविपश्यनासमग्रारम्भगोचरेऽप्यत्यन्तोपशमापतनगोचरस्तु, ......पे।

यः सर्वधर्मानुत्थापनलक्षणावबोध्गोचरेऽपि लक्षणानुव्यञ्जनबुद्धकायविभूषणसमुत्थापनतागोचरस्तु, ......पे।

यः श्रावकप्रत्येकबुद्धचारित्र दर्शनगोचरेऽपि बुद्धधर्मानपायिव्यापारगोचरस्तु, ......पे।

यः सर्वस्वभावात्यन्तविशुद्धताऽऽपन्नधर्मानुगमनगोचरेऽपि सर्वसत्त्व( नां ) यथाऽधिमुक्ति तथेर्याक़्पथदर्शनागोचरस्तु, ......पे।

यः सर्वबुद्धक्षेत्रात्यन्तविनाशाऽविष्करणापगता ऽकाशस्वभावाधिगमगोचरे ननाव्युहा नेकव्युहबुद्धक्षेत्रगुणव्युय्हदर्शनागोचरः, ......पे।

यः सद्धर्मचक्रप्रवर्तनमहापरिनिर्वाणासंदर्शनगोचरश्च बोधिसत्त्वचर्या अत्यजनगोचरश्च, अयमपि बोधिसत्त्वस्य गोचरः"।

अस्मिन्‌ उपदेशे निर्दिश्यमाने, तेषाम्‌ मंजुश्रीया कुकारभूतेन सार्धमागतानाम्‌ देवपुत्राणामष्तसहस्रैरनुत्तरसम्यक्सम्बोधिचित्तमुत्पादितम्‌।



ग्लानसंमोदन कथायाः परिवर्तश्चतुर्थः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project