Digital Sanskrit Buddhist Canon

३ श्रावकबोधिसत्त्वप्रेषणोक्तम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 3 śrāvakabodhisattvapreṣaṇoktam
३ श्रावकबोधिसत्त्वप्रेषणोक्तम्



ततो लिच्छवेर्विमलकीर्तेरेतदभूत्-"मयि ग्लाने दुःखिते च मञ्चस्योपरि सन्ने, तथागतेनार्हता सम्यक्सम्बुद्धेन, मान्न समन्वाहृत्यानुकम्पान्नोपादाय, रोगपृच्छनन्न किञ्चिदप्युत्सृष्टम्" इति।



अथ भगवांल्-लिच्छवेर्विमलकीर्तेरीदृशं चित्तसङ्कल्पं बुद्ध्वा, आयुष्मन्तं शारिपुत्रमामन्त्रयते स्म-"शारिपुत्र, लिच्छवेर्विमलकीर्ते रोगपृच्छनाय गच्छ"॥



एवमुक्ते, भगवन्तमायुष्मांशारिपुत्र एतदवोचत् -"भगवन्, लिच्छवेर्विमलकीर्ते रोगपृच्छनगमनन्नोत्सहे। तत् कस्य हेतोः ? भगवन्, अभिजानामि-



"एकस्मिन् समय एकस्मिन् वृक्ष मूले माम् प्रतिसंलीनं लिच्छविर्विमलकीर्तिरपि, येन तस्य वृक्षस्य मूलं तेनोपसंक्रम्यैतद्वदति स्म-'भदन्त शारिपुत्र, यथा त्वं प्रतिसंलीनस्तादृशे प्रतिसंलयने न प्रतिसंलयितव्यम्'।



" 'यथा त्रैधातुककायश्च चित्तंच न प्रज्ञायेते, तथा हि प्रतिसंलय। यथा निरोधान्नोत्तिष्ठति सर्वत्रापीर्यापथमाविर्भवति, तथा हि प्रतिसंलय। यथा प्राप्तिलक्षणानुत्सृजनातायाम् पृथग्जनलक्षणमेवापि दृश्यते, तथा हि प्रतिसंलय। यथा पुनस्तव चित्तमध्यात्ममनवस्थितम्, बाह्यरूपेऽपि नानुविचरति, तथा प्रतिसंलय। यथा सर्वदृष्टिगतेष्वचलोऽपि च सप्तत्रिंशद्बोधिपाक्षिकधर्माभासं गच्छति, तथा हि प्रतिसंलय। यथा संसारावचरक्लेशाप्रहाणे निर्वाणसमवसरणमपि गच्छति, तथा हि प्रतिसंलय। भदन्त शारिपुत्र, य एवम् प्रतिसंलयने प्रतिसंलीनाः, तान् भगवान् प्रतिसंलयन आमन्त्रयते स्म'।



"इत्युक्ते, भगवन् , तं धर्ममेव श्रुत्वा, तस्मै प्रतिवादविसर्जनस्यासमर्थस्तूष्णीभूतोऽभूवम्। एतस्मात् कारणात् तस्य सत्पुरुषस्य रोगपृच्छनगमनन्नोत्सहे"।



अथ भगवानायुष्मन्तम् महामौद्‍गल्यायनम् आमन्त्रयते स्म-"मौद्गल्यायन, लिच्छवेर्विमलकीर्ते रोगपृच्छनाय गच्छ"। मौद्‍गल्यायनोऽपि त्ववोचत्-"भगवन् , तस्य सत्पुरुषस्य रोगपृच्छनगमनन्नोत्सहे।तत् कस्य हेतोः ? भगवन् , अभिजानामि-



"एकस्मिन् समये वैशाल्या महानगर्या एकस्मिन् वीथीद्वारे गृहपतिभ्यो धर्ममदेशयम्। तस्मिन् समिपे लिच्छविर्विमलकीर्तिरुपसंक्रम्य, मामेतद्वदति स्म-'भदन्त मौद्‍गल्यायन, यथाऽवदातवस्त्रेभ्यो गृहिभ्यो देशयसि, तथा हि धर्मोऽव्यपदेश्यः। भदन्त मौद्‍गल्यायन, स धर्मो यथाधर्म दर्शयितव्यः।



" 'धर्मो हि, भदन्त मौद्‍गल्यायन, निःसत्त्वः सत्त्वरजोऽपगतः। निरात्मकः (स) रागरजोऽपगतो निर्जीव उपपत्तिच्युत्यपगतः योऽनाश्रवः, पूर्वान्तापरान्तपरिच्छिन्नः (सः)। शान्तोपशमलक्षणस्(स)रागरहितः ऽनालम्बनगामी(सो)ऽनक्षरस्सर्ववाच्छिन्नोऽनभिलाप्यस्सर्वतरंगरहितः। सर्वानुगत आकाशसमो वर्णलिङ्गाकारविगतः सर्वचरणापगतो ममाभावो ममकारापगतस् ( सः )।( सो )ऽविज्ञप्तिकश्चित्तमनोविज्ञानविगतः, प्रतिपक्षाभावकारणादतुल्यः। हेतुप्रतिकूलः ( स) प्रत्ययाव्यवस्थितः।



" 'धर्मधातुसमवसरणात्-(स) सर्वधर्मान् हि समादधात्यननुगमननयेन तथताऽनुगतः। ( सो ) ऽत्यन्ताकम्प्यः ; अतः स्थितो भूतकोट्यां षड्‍विषयेष्वाश्रयरहितत्वेनाकम्प्यः, अप्रतिष्ठितेन यत्र यत्र गमनागमनव्यपगतः, शून्यतासमवसरणः। अनिमित्तेन सुस्फुटितः (सो)। अप्रणिहितलक्षण एव, कल्पना अपनयापगतः। अपकाररहितः (सो)ऽप्रक्षेप उत्पादव्ययापगतोऽनालयश्चक्षुः-श्रोत्रघ्राणजिह्वा-कायमनः पद्धतिसमतिक्रान्तोऽनुन्नतोऽनवनतोऽवस्थितोऽचलभूतः।



" 'सर्वचर्याविगते, भदन्त महामौद्‍गल्यायन, एवं धर्मे देशना कथम् भवति ? भदन्त महामौद्‍गल्यायन, सापि धर्मदेशना नामारोपितवचनम्। यच्छ्रवणम्, तदप्यारोपितश्रवणम्। भदन्त मौद्गल्यायन, यत्रारोपितवचनन्नास्ति, नास्ति तत्र धर्मदेशना, श्रवणं च ज्ञानं च न स्तः। तद्यथापि नाम मायापुरुषेण मायापुरुषेभ्यो धर्मो देश्येत।



" 'अनेन चित्तस्थानेन धर्मो दर्शयितव्यः-त्वया सत्त्वेन्द्रियकौशल्यम् करणीयम्। प्रज्ञाचक्षुषा सुदर्शिना च महाकरुणाऽभिमुखीभूतेन च महायानवर्णवादिना च बुद्धकृतज्ञेन च परिशुद्धाशयेन च धर्मनिरुक्तिविज्ञानेन त्रिरत्नगोत्राच्छिन्नकरणार्थाय त्वया धर्मो दर्शयितव्यः'।



"इत्युक्ते, भगवन्, तथैवम् तद्धर्मोपदेशेन तस्या गृहपतिपरिषदोऽष्टाभिर्गृहपति शतैरनुत्तरसम्यक्संबोधिचित्तमुत्पादितम्। अहं तु, भगवन्, प्रतिभानापगतोऽभूवम्। एतस्मात्कारणात्तस्य सत्पुरुषस्य रोगपृच्छनगमनन्नोत्सहे"।



ततो भगवानायुष्मन्तं महाकाश्यपमामन्त्रयते स्म-"काश्यप, लिच्छवेविमलकीर्ते रोगपृच्छनाय गच्छ"। महाकाश्यपोऽपि त्ववोचत् "भगवन्, तस्य सत्पुरुषस्य रोगपृच्छनगमनन्नोत्सहे। तत् कस्य हेतोः? अभिजानामि-



"एकस्मिन् समये मम दरिद्रवीथ्यां पिण्डपाताय स्थितं लिच्छविर्विमलकिर्तिः, तेनोपसंक्रम्य, एतद्वदति स्म-'तथा हि महासत्त्वगृहा (णि) हित्वा, दरिद्रगृहाणि गच्छतो भदन्तस्य महाकाश्यपस्य भवन्त्येकदेशमैत्री।



" 'तस्मात्, महाकाश्यप, धर्मसमतायां स्थातव्यम्। सर्वकाले सर्वसत्त्वान्त्समन्वाहृत्य, पिण्डपातः पर्येष्टितव्यः। निराहाराहारः पर्येष्टितव्यः। परिपिण्डग्राहविनोदनार्थाय पिण्डपाताय चरितव्यम्। शून्यग्रामाधिष्ठितेन त्वया ग्रामं प्रवेष्टव्यम्। पुंस्त्रीपरिपाचनार्थाय ग्रामं प्रवेष्टव्यम्। बुद्धविद्यया त्वयान्तर्गृहे गन्तव्यम्।



" 'अनादानेन पिण्डपात उपादेयः, जात्यन्धोपमेन रूपाणि द्रष्टव्यानि, प्रतिश्रुत्कानिभाः शब्दाः श्रोतव्याः, वायुतुल्या गन्ध घ्रातव्याः, अविज्ञप्तिकेन रसा अनुभवितव्याः, ज्ञानस्पर्शाभावेन स्प्रष्टव्यानि स्पर्ष्टव्यानि, मायापुरुषस्य विज्ञानेन धर्मा वेदितव्याः। यौ न च स्वभावो न च परभावस्तौ नोज्ज्वलौ। यदज्वलनम्, तन्न शाम्यति।



" 'यदि, स्थविर महाकाश्यप, अष्टमिथ्यात्वाव्यतिक्रमणे चाष्टविमोक्षसमापत्त्यांच मिथ्यात्वसमतया सम्यक्त्व-समताम् प्रविशसे, एकपिण्डपातमपि सर्वसत्त्वेभ्यो ददत्, सर्वबुद्धेभ्यश्च सर्वार्येभ्योऽप्यनुप्रयच्छसि चोपनाभ्य, पुरत आत्मना भोजनं दृष्टं स्यात्, यथा न च क्लेशसंप्रयुक्तो न च क्लेशविप्रमुक्तस्तथा हि परिभोक्ष्यसि; न समाहितो वा (समाधि-) समुत्थितो व परिभोक्ष्यसि संसारनिर्वाणाप्रतिष्ठितः।



" 'भदन्त, ये केचन तुभ्यं पिण्डपातं ददति , तेभ्यो महाफलं वाल्पफलं वा न भवतः, न च मध्य (-फलं) विशेष (-फलं) वा। (ते) बुद्धप्रवृत्तिं समवसरन्ति, न तु श्रावकगतिं। स्थविर महाकाश्यप, तथा ह्यमोघराष्ट्रपिण्डम् परिभोक्ष्यसि'।



"इत्युक्ते, भगवन्, अहमिमं धर्मोपदेशं श्रुत्वा, आश्चर्याद्‍भुतप्राप्तः सर्वबोधिसत्त्वेभ्यः प्रणाममकार्षम्। 'यदि गृहस्थोऽप्येवंप्रतिभानसंपन्नः कोऽनुत्तरसम्यक्संबोधिचित्तन्नोत्पादयेद्' [इति]चिन्तयित्वा, पूर्वम् महायानेऽप्राप्ते, तदर्वांमया न कश्चित्सत्त्वः श्रावकप्रत्येकबुद्धयानयोर्विवेशितः। भगवन्, एतस्मात्कारणात्तस्य सत्युरुषस्य रोगपृच्छनगमनन्नोत्सहे"।



अथ भगवानायुष्मन्तं सुभूतिमामन्त्रयते स्म-"सुभूते .......गच्छ"। सुभूतिरपि त्ववोचत्- "भगवन्, .........नोत्सहे।



"एकस्मिन् समये वैशाल्याम्महानगर्यां लिच्छवेर्विमलकीर्तेर्गेहं पिण्डपातायागतस्य लिच्छविर्विमलकिर्तिर्मे पात्रमिष्ट्वा, (तत्) प्रणीताहारेण पूरयित्वा, एतद्‍वदति स्म-



" 'भदन्त सुभुते, त्वंचेदामिषसमतया सर्वधर्मसमतान्वयश्च सर्वधर्मसमतया बुद्धधर्मसमतान्वयः, साम्प्रतमिमं पिण्डपातं भुंधि। (भुंधि,) भदन्त सुभूते, यदि त्वं लोभद्वेषमोहान्न प्रतिनिसृज्य तैस्सार्थं त्वप्रतिष्ठितः; सत्कायदृष्त्यनुच्चाल्य, एकायनमार्गं गतः; त्वयापि त्वविद्याभव तृष्णयोरहतयोर्विद्याविमुक्ती पुनरनवरोपिते (यदि), पंचानन्तरियाणि च तव विमुक्तिश्च समानि, त्वन्न च विमुक्तो न चापि बद्धः, त्वया चत्वार्यार्यसत्यानि न च दृष्टानि सत्यंच नादृष्टम्, फले त्वप्राप्ते पृथग्जनोऽपि नासि, पृथग्जनधर्मात् पुनरनिवृत्तस्त्वन्न चार्यो न चानार्यः, भूयोऽपि सर्वधर्मप्रतिसंयुक्तस्तु सर्वधर्मसंज्ञाविप्रमुक्तः, (इमं पिण्डपातं भुंधि)।



" '(भुंधि, यदि) त्वया शास्ता चादृष्टोऽश्रुतश्च धर्मार्धश्च संघोऽपर्युपासितः। ये ते षट् शास्तारः यदिदम्-पूरणः काश्यपः, मस्करी गोशालीपुत्रः, संजयी वैराडीपुत्रः ककुदः कात्यायनः, अजितः केशकम्बलश्च निर्ग्रन्थो ज्ञातिपुत्रस्-तान् भदन्तस्य शास्तॄन्निश्राय, त्वम् प्रव्रजित (श्चेद्‍भुंधि)।



" 'येन ते षट् शास्तारो गच्छन्ति तेन् आर्यः सुभूतिरपि गामि (चेत्); सर्वदृष्टिगतेषु प्रविशन्, त्वमपि त्वन्तमध्याप्रतिलब्धः; त्वं (चेत्) पुनरष्टाक्षणप्रतिपन्नः क्षणाप्राप्तः, संक्लेशसम्भूतस्त्वं व्यवदानानुपगतः; यत्सर्वसत्त्वानामरणं, तद्‍भदन्तस्यारणं (चेत्);त्वद्दानेऽविशोधिते, भदन्त, ये केचित्तुभ्यं पिण्डपातं ददति, ते परं तु (चेत्स्व-) विनिपातकराः; (यदि) त्वं सर्वमारसहगतश्च सर्वक्लेशास्त्वत्सहायीभवं गताः; यः क्लेशस्वभावः सोऽपि (चेद्-) भदन्तस्य स्वभावो भवति, त्वया सर्वसत्त्व-घातकचित्तम् उपस्थापितम्, त्वया सर्वबुद्धानुध्वंसनम् (कृतं स्यात्), सर्वबुद्धधर्माकीर्ति कृत्वा , संघे चाप्रतिसरणस्त्वञ्चेन्न कदाचि परिनिर्वासि, तत इमं पिण्डपातं भुंधि।



"इत्युक्ते, इमं तन्निर्देशं श्रुत्वा, भगवन्, माम् 'तं किम् भासिष्येऽहं, किं वक्ष्यामि, किं करणीयम् ?' (इति) चिन्तयमानं, दशदिक्षु तमोभूतासु, तत् पात्रमुत्सृज्य, गेहात् प्रतिनिःसरन्तं लिच्छविर्विमलकीर्तिरेतद्वदति स्म-



" 'भदन्त सुभुते, अक्षरेभ्योऽभयेनेदं पात्रं प्रतीच्छ। भदन्त सुभूते तत् किं मन्यसे तथागतस्य निर्माणे तदुक्तं स्यात्, तस्मात् किं भवेर्भीतः ?'-तं- 'नो हीदं कुलपुत्र' इत्यवचम्। स मामब्रवीत्-'भदन्त सुभूते, मायानिर्माणस्वभावेभ्यः सर्वधर्मेभ्यो मा भैषिः। तत् कस्य हेतोः ? तेषु सर्वेष्वपि वचनेषु तत्स्वभावेषु तस्माहु नाम पण्डिता अक्षरेष्वसङ्गास्तेभ्योऽत्रस्ताः तत् कस्य हेतोः ? तेषु सर्वेष्वक्षरेषु ह्यनक्षरेषु, (सर्वं)स्थापयित्वा, विमोक्षः सर्वधर्मा हि विमोक्षलक्षणाः।'



"अस्मिन्निर्देशे देशिते, देवपुत्राणां द्विशतं धर्मेषु विरजं वीतमलं विशुद्धं धर्मचक्षुश्च देवपुत्राणां पञ्चशतमनुलोमिकीम् क्षान्ति प्राप्नुवन्ति स्म। अहं तु प्रतिभानापगतस्तस्मै पुनर्विसर्जनस्यासमर्थो ( ऽभूवम् )। एतस्मात् कारणात् , भगवन् तस्य सत्पुरुषस्य रोगपृच्छनगमनन्नोत्सहे।"



ततो भगवानायुष्मन्तं पूर्णमैत्रायणीपुत्रमामन्त्रयते स्म-"पूर्ण,..... गच्छ"।-पूर्णोऽपि त्ववोचत्-"भगवन्..... नोत्सहे.....।



"एकस्मिन् समये माम् महावनस्यैकस्मिन् पृथिवीप्रदेशे स्थितमादिकर्मिकेभ्यो भिक्षुभ्यो धर्म देशयन्तं लिच्छविर्विमलकीर्तिस्तेनागत एदद् वदति स्म-



" 'भदन्त पूर्ण, समापत्तिमनुप्राप्यैषां भिक्षूणाञ्चित्तम् पश्य, ( दृष्ट्वा ) च धर्म प्रतिवेदस्यस्व। महारत्नभाजनं पूतिकेनौदनेन मा पीपरः। एषां भिक्षूणाम्, जानीहि, अध्याशयः कीदृशः। वैडूर्यमणिरत्नं काचकमणिना मोपमाहि।



" 'भदन्त पूर्ण, सत्त्वेन्द्रियेष्वनिश्चितेषु, प्रादेशिकेन्द्रियम् मोपसंहर। अव्रणस्य व्रणम् मा प्रसूष्व। महामार्गावतारार्थिक् ( -एभ्यो ) वीर्थीमञ्जरीम् मा परिग्रहीः। महासमुद्रेण गोखुरपदं मा पीपरः। सुमेरु सर्षपफले मा निक्षिप। दिनकरस्य प्रभां खद्योतकेन मा निराकुरु। सम्यक्‌सिंहनादार्थिक ( -एभ्य ) शृगालरुतम् मा परिग्रहीः।



" 'भदन्त पूर्ण, एषां सर्वभिक्षूणां हि महायानसम्प्रतिपन्ननां बोधिचित्तं भ्रान्तं केवलम् ; भदन्त पूर्ण, एभ्यः श्रावकयानम् मा प्रकाशय। श्रावकयानं ह्यभूतम्; सत्त्वेन्द्रियक्रमज्ञान इमे श्रावका मया जात्यन्धसदृशा मताः'।



"अथ लिच्छवौ बिमलकीर्तौ तेन कालेन तादृशं समाधि समापन्ने, यथा तेभ्यो भिक्षुभ्यो विविधपूर्वनिवासानुस्मृतिर्भवति, तेभ्यः सम्यक्सम्बोध्यर्थाय बुद्धानाम् पञ्चशतम् पर्युपासितेभ्यः कुशलमूलसमन्वागतेभ्यः स्व बोधिचित्तमभिमुखीभूत्वा, ते सत्पुरुषस्य पादयोः शिरसा प्रणिपत्य प्रगृहीताञ्जलयोऽभूवन्।( यथा ) पुनस्तेऽनुत्तरसम्यक्सम्बोध्या अविनिवर्तनीया भवन्ति, तस्मिंस्तथा धर्म दर्शितवति, भगवन्, चिन्तयतोममैवमभूत्-



" 'श्रावकेण, परचित्ताशयानविविच्य, न कस्मैचिद्धर्मो निर्देश्यः। तत् कस्य हेतोः ? श्रावकस्तु सर्वसत्त्ववरावरेन्द्रियविज्ञो नास्ति' यथा तथागतोर्हन् सम्यक्सम्बुद्धस्तथा नित्यसमाहितो नास्ति'। भगवन्, एतस्मात्कारणात्तस्य सत्पुरुषस्य रोगपृच्छनगमनन्नोत्सहे।"



ततो भगवानायुष्मन्तम् महाकात्यायनमामन्त्रयते स्म-"कात्यायन,..... गच्छ"। कात्यायनस्त्ववोचत्-"भगवन्,..... नोत्सहे.....।



"एकस्मिन् समये भगवता भिक्षुभ्योऽववादकसूत्रेऽमन्त्रिते, तस्य सूत्रस्य वचननिर्णयाय मां धर्म तद्यथा -'अनित्यतादुःखनैरात्म्य शान्त्यर्थम्' देशयमानं लिच्छविर्विमलकीर्तिस्तेनोपसंक्रम्य, एतद्‍वदति स्म -



" 'भदन्त महाकात्यायन, प्रचारसम्प्रयुक्तामुत्पादभङ्गसहगतां धर्मतां मा शाधि। यदत्यन्ततोऽनुत्पादितम्, नोत्पद्यते, सञ्जनितन्न भविष्यति; ( यदत्यन्ततो )ऽनिरुद्धम्, न निरुध्यते, निरुद्धन्न भविष्यति, तद्‍ह्यनित्यताया अर्थः। यः पञ्चस्कन्धेषु शून्यताधिगमेनानुपपत्त्यवबोधार्थः, स हि दुःखस्यार्थः। यात्मनैरात्म्ययोरभावता, सा नैरात्म्यस्यार्थः। यत्स्वभावपरभावापगतं, तद्‍ह्यज्वलनम्, यदज्वलनम्, तन्न शाम्यति; यदप्रशान्तम् , तच्छान्त्या अर्थः'।



"अस्मिनुपदेशे देशिते, तेषां भिक्षुणामनुपादायास्रवेभ्यश्चित्तानि विमुक्तान्यभूवन्।भगवन्, एतस्मात्..... नोत्सहे"।



अथ भगवनायुष्मन्तमनिरुद्धमामन्त्रयते स्म-"अनिरुद्ध,..... गच्छ"। अनिरुद्धोऽपि त्ववोचत्-"भगवन्, .....नोत्सहे.....।.....।



"एकस्मिन् समये मामेकस्मिम्स्ःचंक्रमणे चंक्रम्यमाणं, येनाहं तेनागम्य, शुभव्यूहो नाम महाब्रह्मा ब्रह्मणां दशसहस्रेण सार्ध तं देशमवभास्य, मम पादौ शिरसाभिवन्द्य, एकान्ते स्थित एतदवोचत्-'भदन्तानिरुद्ध, त्वं भगवताग्रदिव्यचक्षुर्वानाख्यातः; आयुष्मतोऽनिरुद्धस्य दिव्यचक्षुषा कियदर्वाग् दृश्यते ?'-तम् एवमवचम्-'मित्र, तद्यथापि नाम पुरुषस्य चक्षुर्वतः करतले संनिहितमाम्लफलं दृश्यते, तथा भगवतः शाक्यमुनेर्बुद्धक्षेत्रम्, त्रिसाहस्रमहासाहस्रलोकधातुम् पश्यामी'ति।



"मामेतद्‍वदन्तं लिच्छविर्विमलकीर्तिस्तं देशमुपसंक्रम्य, मम पादौ शिरसाभिवन्द्य, एतदवोचत्-'भदन्तस्यानिरुद्धस्य दिव्यचक्षुः किमभिसंस्कारलक्षणं वानभिसंस्कारलक्षणं वा ? तद्यद्यभिसंस्कारलक्षणम्, स्याद् बाह्य पञ्चाभिज्ञासमम्। यद्यनभिसंस्कार ( -लक्षणम् ), अनभिसंस्कारः स्यादसंस्कृतः। स दर्शनस्याशक्तश्चेत्, स्थविरः कथम् पश्येत् ?'



"इत्युक्तेऽभूवं तूष्णीभूतः। स ब्रह्मा तु तस्मात्सत्पुरुषादिमं निर्देशं श्रुत्वा, आश्चर्यप्राप्तोऽभिवन्दनं कृत्वा, एतदब्रवीत्-'लोके दिव्यचक्षुर्वानस्ति कः ?'-आह-'भगवन्तो बुद्धा हि लोके दिव्यचक्षुर्वन्तः; ते ह्यनुपतसमाहितस्थाने सर्वबुद्धक्षेत्राणि संपश्यन्त्युभाभ्याम् अप्रभाविताः'।



"अथ ब्रह्मा ( च ) दश परिजनसहस्राणीमं निर्देशं श्रुत्वा, अध्याशयेनानुत्तरसम्यक्संबोधिचितं संजनयन्ते स्म।ते मह्यंच तस्मै सत्पुरुषाय नमस्कृत्वा, अभिवन्द्य, तत्रैवान्तरधायिषुः। अहं तु प्रतिभानापगतोऽभूवम्। एतस्मात्.....नोत्सहे"।



ततो भगवानायुष्मन्तमुपालिमामन्त्रयते स्म-"उपाले,.....गच्छ"।-उपालिः पुनरवोचत्-"भगवन्.....नोत्सहे.....।



"एकस्मिन् समये द्वौ भिक्षू आपत्तिमापन्नौ भगवति लज्जमानौ भगवत्समीपमनुपसंक्रम्य, तावुभौ येनाहम् तेनोपसंक्रम्य, मावेवं वदतः- 'भदन्तोपाले, आवमापत्तिमापन्नो च लज्जमानौ भगवत्समीपं त्वनुपसंक्रम्य, आयुष्मानुपालिरावयोः संशयं प्रतिविनोदयतु, आवामापत्त्याः प्रणयतु'।



"इत्युक्ते, भगवन्, येन ताभ्यां भिक्षुभ्यां धर्मकथामदेशयम् तेन स लिच्छविर्विमलकीर्तिरप्युपसंक्रम्य, मामेतद्‍वदति स्म-



" 'भदन्तोपाले, त्वयानयोर्भिक्ष्वोरापत्तिर्भूयो दृढा न कर्तव्या, नाविल (-तरा ) कर्तव्या; अनयोरापत्तिविप्रतिसारं प्रतिविनोदय। भदन्तोपाले, आपत्तिर्ह्यध्यात्ममप्रतिष्ठिता, बहिर्धाऽव्यतिवृत्ता; उभयेष्वसत्सु च ( सा ) नोपलभ्यते। तत् कस्य हेतोः ? भगवानवोचत् चित्तसंक्लेशेन सत्त्वसंक्लेशः; चित्तव्यवदानेन विशुद्धिरिति-



" 'सुभाषितार्थे, भदन्तोपाले, चित्तमध्यात्मं वा बहिर्धा वा नास्ति; उभयेष्वसत्स्वपि ( तन्- )नोपलभ्यते। चित्तं यथा तथाप्यापत्तिः। यथापत्तिस्तथापि सर्वधर्माःतथताया नातिक्रामण्ति।



" 'भदन्तोपाले, यश्चित्तस्वभावः-स भदन्तस्य विमुक्तचित्तस्य चित्तस्वभावो येन केन चित्तस्वभावेन कि कदाचन संक्लिष्टोऽभूत् ?' अब्रवम्- 'नो हीदं'।-आह- 'भदन्तोपाले, सर्वसत्त्वचित्तं हि तत्स्वभावः।



" 'भदन्तोपाले, संकल्पो हि क्लेशः, निर्विकल्पोऽविकल्पना स्वभावः। विपर्यासः संक्लेश, अविपर्यासः स्वभावः। आत्मसमारोपः संक्लेशः, नैरात्म्यं स्वभावः।



" 'भदन्तोपाले, सर्वधर्मा ह्युपपद्य, विनश्यन्तोऽप्रतिष्ठिता मायाभ्रविधुदुपमाः। सर्वधर्मा अनवस्थिताः क्षणमात्रमपि न तिष्ठन्ति। सर्वधर्मा हि स्वप्नमरीचिनिभा अभूतदर्शनम्। सर्वधर्मा उदकचन्द्रप्रतिबिम्बकल्पाश् चित्तसंकल्पात् समुछ्रिताः। यैः कैश्चन तथाहि प्रज्ञायते, ते विनयधरा नामोच्यन्ते; ये केचनैवं दांतास्ते सुदांताः'।



"अथ तौ भिक्षू एतदवदताम्-'अयं गृहपतिः सुप्रज्ञावान्; विनयधराणां भगवतैष ह्यग्र आख्यातो भदन्तोपालिस्तादृशः ( सुप्रज्ञावान् ) नास्ति'। ताभ्यामेवमवचम्-'भिक्षू, इमं युवां गृहपतिम्मा प्रतिजानीतम्। तत् कस्य हेतोः ? स्थापयित्वा तथागतम्, ये केचनास्य प्रतिभानप्रतिप्रस्रब्ध्याः समर्थाः श्रावका वा बोधिसत्त्वा वा, ते केचिन्न विद्यन्ते। अस्य प्रज्ञालोकस्तज्जातीयः'।



"ततस्तौ भिक्षू विचिकित्साम् प्रतिनिसृज्य, तत्रैवाध्याशयेनानुत्तरसम्यक्सम्बोधिचित्तं संजनयमानौ, तं सत्पुरुषमभिवन्द्य, एतदवदताम्-'सर्वसत्त्वा अपि चैवंरूपं प्रतिभानं लभेरन्', इति। एतस्मात् .....नोत्सहे"।



अथ भगवानायुष्मन्तं राहुलमामन्त्रयते स्म-"राहुल,..... गच्छ"। राहुलस्त्ववोचत्-"भगवान्,..... नोत्सहे.....।



"एकस्मिन् समयेऽनेकलिच्छविकुमारा येनाहं तेनोपसंक्रम्य, मामेवं वदन्ति स्म-'भदन्त राहुल, त्वं भगवतोऽसि पुत्रः। चक्रवर्तिराज्यं हित्वा, प्रव्रज्य, कि त्वयोपलब्धम् , प्रव्रज्याया गुणानुशंसं किम् ?' इत्युक्ते, मां तेभ्यो यथायोगम् प्रव्रज्यागुणानुशंसं देशयन्तं लिच्छविर्विमलकीर्तिरपि, येनाहं तेनोपसंक्रान्तो मह्यन्नमस्कृत्वा, एतदवोचत्-



" 'भदन्त राहुल, यथा प्रव्रज्या गुणानुशंसं देशयसि तथा न देशयेः। तत् कस्य हेतोः ? प्रवज्या हि गुणरहिता, अनुशंसापगता। भदन्त राहुल, यस्मै संस्कृतम् प्रवर्तते तस्मै गुणानुशंसम्; प्रव्रज्या त्वसंस्कृतयोगश्चासंस्कृते गुणानुशंसन्नास्ति।



" 'भदन्त राहुल, अरूपिणी हि प्रव्रज्या रूपापगता, अवराग्रान्तदृष्टिविगता निर्वाणपथः, पण्डितैर्वर्णिता, आर्यैः परिगृहीता सर्वमारपराजयकरा, पञ्चगति निःसरणम्, पञ्चचक्षुः शोधना, पञ्चबलप्राप्तिः, पञ्चेन्द्रियाश्रयः; ( सा )ऽन्येभ्योऽपीडा पापधर्मासंसृष्टा परतीर्थिकसुदमनं, प्रज्ञप्तिसमतिक्रान्ता कामपंके गम्भीरः, आधारणरहिता ममाभावा वीताहङ्कारा; अनुपादानम्, अनुपायासः, संक्षोभप्रतिनिःसर्गः, स्वचित्तविनयश्च परचित्तरक्षणम्, शमथसामग्री, सर्वत्र निरवद्य ( -त्वम् )-सा हि प्रव्रज्या नाम। ये केचन तथा हि प्रव्रजितास्ते सुप्रव्रजिताः।



" 'कुमाराः, एतादृशे स्वाख्याते धर्मे प्रव्रजत। बुद्धोत्पादो दुर्लभः, क्षणसम्पदपि च दुर्लभा, दुर्लभा पुनर्मनुष्यगतिः'।



"ते कुमारा एतदवदन्-'गृहपते, अस्माभिर्यथा श्रुतम् तथागतेन ( ओक्तम् )-मातापितृभ्यामनुत्सृष्टः प्रव्राजको न ( भवती'- )ति। स तानब्रवीत्-'कुमाराः, अनुत्तरसम्यक्सम्बोधिचित्तं संजनयमानाः प्रयत्नेन प्रतिपत्स्यथ।( तथा हि ) यूयं तत्त्वतः प्रव्रजिताश्चोपसम्पन्नाः'।





"अथ त्रिसहस्रं द्विशतं लिच्छविकुमारा अनुत्तरसम्यक्सम्बोधिचित्तमुत्पादयन्ति स्म। भगवन्, एतस्मात्.....नोत्सहे"।



ततो भगवानायुष्मन्तमानन्दमामन्त्रयते स्म-"आनन्द,.....गच्छ"। आनन्द; पुनरवोचत्-"भगवन्,.....नोत्सहे.....।



"एकस्मिन् समये भगवतः काय एको रोगो निश्चार्य, तस्मै क्षीरमाकाङ्क्षमाणोऽहमेकस्य ब्राह्माणमहाशालकुलस्य द्वारसमीपे पात्रधारी स्थितो ( ऽभूवम् )।लिच्छविर्विमलकीर्तिरपि तद्देशमुपसंक्रम्य, मह्यन्नम स्कृत्वा, एवं वदति स्म-



" 'भदन्तानन्द, किमर्थम् कल्यमेव पात्रमादाय, अस्य कुलस्य द्वारसमीपे स्थितोऽसि ?'-तमेवमवचम्-'भगवतः काय एको रोगो निश्चार्य, तस्मै क्षीरेण प्रयोजनात्तद् ( -भैषज्यं ) पर्येष' इत्यवादिषम्। स मामेतदवोचत्-



" ' भदन्तानन्द, एवम्मा वग्धि। भदन्तानन्द, तथागतस्य हि कायो वज्रकठिनः, सर्वाकुशलवासनाप्रहीणः। तस्मै सर्वकुशलधर्मोपेताय रोगः कुतो भवेत् ? आतंकस्तस्मै कुतः ?



" 'भदन्तानन्द, भगवतेऽनुध्वंसनाकरणाय तूष्णीम् प्रतिगच्छ। कञ्चिदन्यमेतन्मा वग्धि। महामहौजस्का देवपुत्राश्च बुद्धक्षेत्रसमागता बोधिसत्त्वा हि श्रोष्यन्ति। भदन्तानन्द, यदि परीत्तकुशलमूलोपेतश्चक्रवर्तिराजोऽप्यरोगः, तस्मा अप्रमाणकुशलमूलसहगताय भगवते रोगः कुतः ? तत् स्थानन्न बिद्यते।



" 'भदन्तानन्द, मां लज्जितकरणाय प्रतिगच्छ। अन्यतीर्थिकाः, मीमांसकाः, परिब्राजकाः, निर्ग्रन्थाः, आजीविकाश्च हि श्रोष्यन्ति। त एवम्-'अहो यद्येषां शास्ता स्वातुरत्राणस्याप्यसमर्थः, सत्त्वातुराणां त्राणमिव ( दातुं ) कुतः शक्रोती' ( -ति ) चिन्तयिष्यन्ति। भदन्तानन्द, प्रतिच्छादयमानोऽन्तर्धानं गच्छेः, कश्चिच्छृणुयात्।



" 'भदन्तानन्द, तथागता हि धर्मकायः, न (स) आहारपोषितं देहम्। तथागताः सर्वलोकधर्मसमतिक्रान्तो लोकोत्तरकायः। तथागतस्य कायोऽनुपद्रवो विनिवृत्तास्रवः। तथागतस्य कायो ह्यसंस्कृतः सर्वसंस्कारापगतः। भदन्तानन्द, ईदृशाय व्याधिमेष्टुम् , अयुक्तिश्चासदृशम्'।

" 'इत्युक्ते, तत्र 'किम् मया भगवतो मिथ्या श्रुतम्, मिथ्योद्‍गृहीतम् ?' (इति ) चिन्तयमानोऽतिलज्जितो भूत्वा, अथान्तरीक्षात्स्वरमश्रौषम्-'आनन्द, गृहपतिर्यथा देशयति, तत्तथा; अपि तु भगवति पञ्चकषाय काल उत्पन्ने, अतः सत्त्वा हीनेन प्रदानचरितेन दम्याः। ततः, आनन्द, अलज्जितः क्षीरमाहृत्य प्रतिगच्छे'-त्यवादीत्।



"भगवन्, लिच्छवेर्विमलकीर्तेः प्रश्नसमाधानोपदेशस्तादृशो ( ऽभुत् )। एतस्माद्‍भगवन्,..... नोत्सहे"।



एवमेव पञ्चशतमात्राः श्रावका अनुत्सहमानाः "स्वप्रतिभानम्" भगवन्तमवोचन्। यल्लिच्छविना विमलकीर्तिना सह कथितं, तत्सर्वं भगवन्तमवोचन्।



अथ भगवान् बोधिसत्त्चं मैत्रेयमामन्त्रयते स्म -"मैत्रेय,..... गच्छ"। मैत्रेयस्त्ववोचत्-"भगवन्,..... नोत्सहे.....।



"एकस्मिन् समये सन्तुषितदेवपुत्रगणेन (च) तुषितवंशदेवपुत्रैः सार्ध ( येनाहं ), बोधिसत्त्वमहासत्त्वानामवैवर्तिकभूमिमारभ्य, तथा हि धर्मकथां कथयमानः, तेन लिच्छविर्विमलकीर्तिरूपसंक्रम्य, मामेतदवोचत्-



" 'मैत्रेय, यदि त्वं भगवतानुत्तरायां सम्यक्सम्बोध्यामेकजातिप्रतिबद्धो व्याकृतः, स मैत्रेयः कया जात्या व्याकृतः ? अतीतेन किम् ? अहो स्विदनागतेन ? अहो स्वित्प्रत्युपन्नेन ? तत्र याऽतीतजातिः, सा हि क्षीणा। यदनागतम्, तदननुप्राप्तम्। प्रत्युत्पन्नजात्यां तु स्थानन्नास्ति। तद् यथा भगवता-'तथा हि भिक्षो, एकक्षणे त्वं जायसे, जीर्यसे, म्रियसे, च्यवसे, उपपद्यस' इति सुभाषितम्। अनुत्पादे नियामावक्रान्तिः, अजातिख्याकृता।



" 'अनुत्पद्यमानश्चेन्नाभिसम्बुध्यसे; मैत्रेय, कथं व्याकृतोऽसि ? तथताजात्या वा तथतानिरोधेन वा ? तथतोत्पादनिरोधापगता, अनुपत्स्यमाना चानिरोत्स्यमाना।



" 'या सर्वसत्त्वानां, सर्वधर्माणाञ्च सर्वार्याणांच तथता, सा हि, मैत्रेय, तवापि तथाता। त्वञ्चेदेवंव्याकृतः, सर्वसत्त्वा अप्य्-( एवं- ) व्याकृताः। तत् कस्य हेतोः ? तथता हि द्वयाप्रभाविता, नानात्वाप्रभाविता। तेन हि, मैत्रेय, यदा त्वं बोधिमभिसम्भोत्स्यसे, तदा सर्वसत्त्वा अपि तादृशां बोधिमभिसम्भोत्स्यन्ते। तत् कस्य हेतोः ? बोधिर्हि सर्वसत्त्वान्वया। मैत्रेय, यदा त्वं परिनिर्वृतस्तदा सर्वसत्त्वा अपि परिनिर्वायिष्यन्ति। तत् कस्य हेतोः ? ( यदि ) सर्वसत्त्वाः ( स्युर् ) अपरिनिर्वृताः, तथागतः ( स्याद् ) अपरिनिर्वृतः। सर्वे ते सत्त्वाः सुपरिनिर्वृतास्तेन हि निर्वाणजातीया दृश्यन्ते। मैत्रेय, तस्मादिमान् देवपुत्रान् मा विप्रलम्भस्व, मा वञ्चयस्व।



" 'बोध्यान्न कश्चित् प्रतिष्ठिते( वा ) विवर्तते( वा )। तस्मान्मैत्रेय, इमान् देवपुत्रांस्तां बोधिसङ्कल्पदृष्टिमुत्सर्जय। बोधिन्न कायेन नापि चित्तेनाभिसम्बुध्यति।बोधिर्हि सर्वनिमित्तव्यूपशमः। बोधिः सर्वालम्बनारोप रहिता, सर्वमनसिकारप्रचारापगता, सर्वदृष्टिगतपरिच्छिन्ना, सर्वपरितर्कविगता; बोधिः सर्वेञ्जितचेतश्चलनविसंयुक्ता, सर्वप्रणिधानाप्रवृता, सर्वोद्‍ग्रहणविरहिता, अश्लेषप्रतिपन्ना, धर्मधातुनिश्रयनिश्रिता, तथतान्वया भूतकोट्यवस्थिता मनोधर्माभावेनाद्वया, आकाशसमसमा, उत्पादव्ययस्थित्यन्यथात्वाभावेनासंस्कृता।



" 'बोधिः सर्वसत्त्वानाञ्चित्तचर्याऽध्याशयपरिज्ञा, आयतनानां द्वाराभूता सर्ववासनाप्रतिसन्धिक्लेशविप्रमुक्तासंसृष्टा, स्थानास्थानविसंयोगेन विषयाप्रतिष्ठिता, -ऽ-समन्ततोदेशानवस्थिता, प्रादुर्भाविनी तथतानुपस्थिता। बोधिर्नाममात्रा, तन्नामाप्यचलम्। आयूहनिर्यूहविगता बोधिरतरङ्गा। बोधिर्निरुपायासा, प्रकृत्या परिशुद्धा, प्रभासः स्वभावविशुद्धा। बोधिरनुद्‍ग्रहणा स्वनालम्बना, सर्वधर्मसमताऽधिगमेनाभिन्ना। बोधिरुदाहरण विश्लेषेणानुपमा, सुदुरवबोधा-यतः सूक्ष्मा।



" 'बोधिश्चेदाकाशस्वभावेन सर्वत्रगा, सा हि कायेन वा चित्तेन वाऽभिसम्बुद्धनाय् आसमर्था। तत् कस्य हेतोः ? कायो हि तृणकाष्ठकुड्यपथप्रतिभासनिभः। चित्तमरूपमसनिदर्शनमनिश्रयमविज्ञप्तिकम्"।



"भगवन्, अस्मिनुपदेशे प्रकाशिते, तस्याः परिषदो द्वे शते देवपुत्राणामनुत्पत्तिकधर्मक्षान्तिम् प्राप्नुवन्। अहं त्वपगतप्रतिभानोऽभूवम्। एतस्मात्.....नोत्सहे"।



ततो भगवाल्लिँच्छविकुमारं प्रभाव्यूहमामन्त्रयते स्म-"प्रभाव्यूह,..... गच्छ"। प्रभाव्यूहोऽप्यवोचत्-"भगवन्,..... नोत्सहे.....।



"एकस्मिन् समये वैशाल्या महानगर्या निर्गतोऽहं लिच्छविंविमलकीर्तिम् प्रविशन्तं समागमम्। स मामभिवाद्य, ( तम् ) एतदवादिषम्-'गृहपते, कुत आगतः ?' स मामब्रवीत्-'आगतो बोधिमण्डात्'। तमब्रवम्-'तद्वोधिमण्डन्नाम किमधिवचनम् ?' -स मामेतदवोचत्-'कुलपुत्र, बोधिमण्डन्नामतद्‍ह्यकृत्रिमकारणादाशयमण्डम्, व्यापारकर्मोत्तारणकारणात्तद् हि योगमण्डम्, विशेषाधिगमकारणात्तद् ह्यध्याशय मण्डम्, समविस्मारणकारणात्तद् हि बोधिचित्तमण्डम्।



" 'विपाकाप्रतिकाङ्क्षणताकारणात्तद् हि दानमण्डम् ; तच्छीलमण्डं प्रणिधानपरिपूरणात्; सर्वसत्त्वेषु प्रतिघचित्ताभावेन क्षान्तिमण्डम् ; अविनिवर्तनीयकारणाद्वीर्यमण्डम् ; चित्तकर्मण्यताकारणाद् ध्यानमण्डम् ; प्रत्यक्षदर्शनात् प्रज्ञामण्डम्।



" 'सर्वसत्त्वेषु समचित्तकारणान्मैत्रीमण्डम् ; सर्वोपक्रमसहनकारणात् करुणामण्डम् ; धर्मानन्दाभिरत्यधिमुक्तिकारणान्मुदितामण्दम् ; अनुनय प्रतिघप्रतिनिसर्गात् तध्युपेक्षामण्डम्।



"षडभिज्ञ ( -प्रात्प्या )ऽभिज्ञामण्डम्, निर्विकल्पाद्विमोक्षमण्डम्, सत्त्वपरिपाचनादुपायामण्डम्, सर्वसत्त्वसंग्रहकारणात्संग्रहवस्तुमण्डम् , प्रतिपत्तिसाख्यापाराच्छ्रवणमण्डम्, योनिशः प्रत्यवेक्षणान्निध्यप्तिमण्डम्, संस्कृतासंस्कृतप्रहाणकारणाद्वोधिपाक्षिपाक्षिकधर्ममण्डम्, सर्वलोकावंचनात्सत्यमण्डम्, अविद्यास्रवक्षयाज्जरामरणं यावदास्रवक्षयकारणात् प्रतीत्यसमुत्पादमण्डम्, यथाभूतमभिसम्बोधिकारणात्सर्वक्लेशप्रशममण्डम्।



"सर्वसत्त्वनिःस्वभावात् तधि सर्वसत्त्वमण्डम् , शून्यताभिसम्बोधिकारणात्तद् हि सर्वधर्ममण्डम् , अचलकारणात्सर्वमारप्रमर्दनमण्डम्, प्रवेशवियोगात्त्रैधातुकमण्डम्, अभयासन्त्रासकारणात् सिंहनादनादिनो वीर्यमण्डम् , सर्वत्रानिन्दितकारणात्तद् हि सर्वबलवैशारद्यावेणिकबुद्धधर्ममण्डम्, क्लेशाशेषकारणात्त्रैविद्यतामण्डम्, सर्वज्ञज्ञानसमुदागमात् तध्येकचित्तक्षणे सर्वधर्मनिरवशेषाधिगममण्डम्।



" 'यावत्तथा हि, कुलपुत्र, बोधिसत्त्वाः पारमितासमन्वागताः, सत्त्वपरिपाचनसमर्पिताः, सद्धर्माधारणप्रतिसंयुताः ( तादृशानां ) कुशलमूलसहगतानां सर्वाणि पादनिःक्षेपणोत्क्षेपणानि, बोधिमण्डादागतानी, बुद्धधर्मेभ्य आगतानि, बुद्धधर्मेषु प्रतिष्ठितानि'।



"भगवन्, अस्मिन्निर्देशे देशिते, देवमनुष्याणां पञ्चशतमात्रेण बोधिचित्त उत्पादिते, अहं तु ततोऽपगतप्रतिभानोऽभूवम्। एतस्मात्.....नोत्सहे"।



अथ भगवान् बोधिसत्त्वं जगतींधरमामन्त्रयते स्म-"जगतींधर,.....गच्छ"।-जगर्तीधरस्त्ववोचत्-"भगवन्,.....नोत्सहे.....।



"एकस्मिन् समये स्वस्थाने स्थितिकाले येनाहं, मारः पापीमानप्सरसां द्वादशसहस्रैः परिवृतः शक्रस्य वेषेण तूर्यञ्च सङ्गीतिमुपादाय, तेनोपसंक्रम्य मम पादौ शिरसाभिवन्द्य, स सपरिवारो माम् पुरस्कृतवानेकान्तेऽस्थात्।



"तन्तु शक्रम् देवेन्द्रं चिन्तयमानस्तमेतदवचम्-'कौशिक, तुभ्यं स्वागतम्। सर्वकामरसेष्वप्रमादं कुरु। कायजीवभोगात् सारादानानित्यतासंकल्पं बहुलीकुरु'।



"अथ स मामेतदवादीत्-'सत्पुरुष, इमानि द्वादशसहस्राण्यप्सरसाम् मद्गृहाण च इमास्तव परिवारं कुर्व-' इति वदति स्म।तमेवम्-'कौशिक, अयोग्यवस्तु श्रमणाय शाक्यपुत्राय मा दाः। तध्यस्मभ्यमयोग्यम्' इत्यवदम्।तस्यां कथायां कथितायाम्, स लिच्छविर्विमलकीर्तिरुपसंक्रम्य, मामेवम्-'कुलपुत्र, अस्मिञ्शक्र एवं संज्ञाम्मोत्पादय। अयं हि मारः पापीमान्। त्वयि विडम्बनार्थमागतः, ( स ) शक्रो नास्ती'- त्यवदीत्।



"अथ लिच्छविर्विमलकीर्तिस्तं मारं पापीमन्तमेवम्-'मार पापीमन् इमा अप्सरसः श्रमणाय शाक्यपुत्रायायोग्याः; तेन मह्यं ताः प्रयच्छे'- त्यवोचत्। ततो मारस्य पापीमतो भयभीतस्य संविग्नस्य-'अयं लिच्छविर्विमलकीर्तिर्मद्‍वञ्चनाया आगच्छती'-त्य (भूत्)। अन्तर्धानं कर्तुकामः सोऽसमर्थः; सर्वर्द्धिविधीर्दर्शयित्वा, पुनरन्तर्धानस्यासमर्थोऽभूत्।



"अथान्तरीक्षाद् घोषोनिश्चरति स्म-'पापीमन्, इमा अप्सरसोऽस्मै सत्पुरुषायोपनामय, पुरतश्च स्वस्थानं गन्तुं शक्ष्यसि'। -ततो मारः पापीमान् भयभीतोऽनाकाङ्क्षमाणस्तथा ता अप्सरस उपनामयति स्म।



"अथ विमलकीर्तिस्ता अप्सरसः प्रतिगृह्य ता एतदब्रवीत्-'यूयम् पापीमता मह्यं दत्ताः; तेनानुत्तरसम्यक्सम्बोधिचित्तमुत्पादयत'। स ताभ्यो बोधिपरिपाकावहानुलोमिकाभ् कथामकार्षीत्; ताश्च बोधिचित्तमुत्पादयन्ति स्म। ततः स पुनस्तासु-'यूयमेतर्हि बोधिचित्तमुत्पाद्य, इतो धर्मसम्मोदे हृष्टाधिमोक्षयत, कामे ( षु ) च हृष्टा माधिमोक्षयते' त्याज्ञापयति स्म। ता अब्रुवन्-'सा धर्मसम्मोदरतिः किम् ?'



"सोऽब्रवीत्-'( सा ) रतिर्बुद्धेऽभेद्यश्रद्धा, धर्मश्रवणछन्दो रतिः, सङ्घपर्युपासने रतिः, निर्माणता च गुरुसत्कारे रतिः, धातुसमुदये च विषयास्थाने च रतिः घातकोपमस्कन्धप्रेक्षणे रतिः, सर्पविषमधातुप्रेक्षणे, शून्यग्रामनिभेष्वायतनेषु विवेकरतिः, बोधिचित्तसंरक्षे सत्त्वहितङ्कररतिः, दानसंविभागे शीलास्रंसनेरतिः, क्षान्त्यां क्षमणदमे, वीर्ये कल्याणसम्प्रतिपत्त्यां, ध्यानपरिभोगे च प्रज्ञायाम् क्लेशनिराभासे च बोध्यामुदाररतिः, मारनिग्रहरतिः, क्लेशसंवधे बुद्धक्षेत्रविशोधने, लक्षणानुव्यञ्जनसमुत्थापनतार्थं सर्वकुशलसन्निचये, गम्भीरधर्मश्रवणात्रासरतिः, त्रिषु विमोक्षमुखेषु परिचयकरणे निर्वाणाध्यालम्बने बोधिमण्डालङ्कारे चाकालप्राप्त्यै निर्व्यापारे च सभागजनाय सेवने चासभागेष्वद्वेषे चाप्रतिघे रतिः, कल्याणमित्रेभ्यः सेवने, पापमित्रविवर्जने च धर्मे चाधिमुक्तिः, सा श्रद्धा, प्रामोद्यरतिश्रोपायसंग्रहरतिश्चाप्रमादे बोधिपक्षयधर्मनिषेवणे च रतिः। एवं हि बोधिसत्त्वधर्मसम्मोदाभिरधिमुक्तिः'।



"अथ मारः पापीमांस्ता अप्सरस एतदब्रवीत्-'इदानीमस्माकमावासं गच्छत।-ता अब्रुवन्-'त्वया वयमस्मै गृहपते दत्ताः; तेन साभ्प्रतं धर्मसम्मोदाभिरत्यधिमुक्तिः करणीया।कामे ( षु ) त्वभिरत्यधिमुक्तिरकरणीया'। ततो मारः पापीमाल्लिँच्छवि विमलकीर्तिमेतदवोचत्-'यदि बोधिसत्त्वो महासत्त्वः सर्वस्वपरित्यागी च चित्तग्राहको नास्ति, गृहपते, इमा अप्सरसाः प्रेषय'। विमलकीर्तिरब्रवीत्-'इमाः प्रेष्याः; तेन पापीमन् सपरिवारोऽपगच्छ। सर्वसत्त्वधर्माशयः परिपूर्यताम्'। अथ ता अप्सरसो विमलकीर्तयेऽभिवन्दनं कृत्वा, एतदवदन्- 'गृहपते, कथमस्माभिर्मारस्थाने विहरितव्यम् ?

" अवोचत्- 'भगिन्यः, अस्त्यक्षयप्रदिपो नाम धर्ममुखम्।तेन प्रतिपद्यत। तदपि, भगिन्यः, किम्?

यदिदम्--यद्यप्येकप्रदीपात् प्रदीपानां शतसहस्राणि प्रज्वालितानि, स प्रदिपऽपचयन्न गच्छति।एवमेव,भगिन्यः, एकबोधिसत्त्वः सत्त्वानां बहुशतसहस्राणि बोध्यां स्थापयित्वा, स बोधिसत्त्वोऽनपचयचित्तस्मृतिः, पर्यनपचय उपरिवर्धते। तथा च सर्वकुसहलधर्मा यथा यथाऽन्येभ्येः परिभाविताश् चाख्याताः, शासनं तथा तथा सर्वकुशलधर्मैर्विवर्धते। तध्यक्षयप्रदीपो नाम धर्म मुखम्।

तस्मिन् मारस्थाने विहरमाणा अप्रमान्णदेवपुत्रदेवकन्यानां बोधिचित्तमधिमुच्यध्वम्। एवं हि स्यात तथागतकृतज्ञाः, सर्वसत्त्वोपजीव्याः '।

ततस्ता अप्सरसो लिच्छवेर्विमलकिर्तेः पादौ शिरसाभिवन्द्य , मारेण सह प्रत्यगच्छन्। भगवन्, लिच्छवेर्विमलकीर्तेस्तद्विकुर्वणविशेषणं दृस्त्वा, एतस्मात् ........नोत्सहे"।

अथ भगवंश्रेस्थिपुत्रं सुदत्तम् आमन्त्रयते स्म ---- " कुलपुत्र. ...... गच्छ "। सुदत्तः पुनरवोचत् -----" भगवन्, ..... नोत्सहे ....।

" एकस्मिन् समये माम् मत्पितृनिवेशने महायज्ञकरणार्थाय सर्वश्रमणब्राह्मणेभ्यः सर्व दरिद्रदुःखितकृपणवनीयकविह्वलीभूतेभ्यः सप्तदिवसं दानं ददं, तस्मिन् महायज्ञकरणेऽन्तिमदिवसे लिच्छविर्विमलकीर्तिस्ताम्महायज्ञभूमिमुपसंक्रम्य, एतदवदीत्---

'श्रेस्थिपुत्र, यथा त्वं यज्ञं करोषि तथा हि यज्ञं मा कुरुः, धर्म यज्ञं कुरु। अलं त आमिषयज्ञेन। तमेत्दवदम् ---- तद्धर्मयज्ञं कथं देयम् ? '



" स मामब्रवीत्--- 'येन केन धर्म यज्ञेनापूर्वमचरमं सत्त्वा परिपच्यन्ते, तधि धर्म यज्ञम्। तदपि किं ? यदुत-- बोधिव्युपहारस्य महामैत्रि, सद्धर्मसंग्रहेणाभिनिर्हृता महाकरुणा, सर्वसत्त्वप्रामोद्यपलम्भेनाभिनिर्हृता महामुदिता, ज्ञानसंग्रहेणाभिनिर्हृता महोपेक्षा----



' 'शान्तिदमेनाभिनिर्हृता दानपारमिता, दुःशीलसत्त्वपरिपाचनेनाभिनिर्ह्र्रिता शीलपारमिता, नैरत्म्यधर्मेणाभिनिर्हृता क्षान्तिपारमिता, बोध्यारम्भेणाभिनिर्हृता वीर्यपारमिता, कायचित्तविवेकेनाभिनिर्हृता ध्यानपारमिता, सर्वज्ञज्ञानेनाभिनिर्हृता प्रज्ञापारमिता----

" ' सर्वसत्त्वपरिपाचनेनाभिनिर्हृता शून्यताभावना, संस्कृतपरिशोधनेनाभिनिर्हृताऽनिमित्तभावना, संचित्योपपत्त्याऽभिनिर्हृताऽप्रणिहितभावना--



" ' सद्धर्मपर्युद्ग्रहणेनाभिनिर्हृतो बलपराक्रमः, संग्रहवस्तुनाभिनिर्हृतं जीवितेन्द्रियम्, सर्वसत्त्वभृत्यशिष्यभवेनभिनिर्हृता निर्माणता, असरात्सारोपादानेनाभिनिर्हृतः कायजीवभोगलाभाः, षडनुस्मृत्याऽभिनिर्हृत स्मृतिः , संमोदनीयधर्मेणाभिनिर्हृत आशयः, सम्प्रतिपत्याऽभिनिर्हृताऽऽजीवपरिशुद्धिः , श्रद्धाप्रामोद्यसेवनेनाभिनिर्हृतमार्यपर्युपासनम्, अनार्याप्रतिघेनाभिर्हृतोऽध्याशयः, प्रतिपत्याऽभिनिर्हृतं श्रवणकौशल्यम्, अरणाधर्मावबोधेनाभिनिर्हृत आरण्यावासः, बुद्धज्ञानप्रतिलाभेनाभिनिर्हृतं प्रतिसंलयनम्, सर्वसत्त्वक्लेशविमुक्तियोगेनाभिनिर्हृता योगाचाराभूमिः-----



" 'लक्षणानुव्यञ्जनबुद्धक्षेत्रालङ्कारसत्त्वपरिपाचननेनाभिनिर्हृतः पुण्यसम्भार, सर्वधर्मेष्वनुपादेयाहेयैकनयज्ञानेनाभिनिर्हृतः प्रज्ञासम्भारः , सर्वक्लेशावरणाकुशलधर्मप्रहाणेनाभिनिर्ह्ऱ्रितः सर्वकुशलमूल

सम्भारः , सर्वज्ञज्ञानाधिगमेन च कुशलधर्मेण चाभिनिर्हृतः सर्वबोधिपक्षधर्मसमुत्पादः-- तधि , कुलपुत्र, धर्मयज्ञम्। तस्मिन् धर्मयज्ञे प्रतिष्ठितो बोधिसत्त्वो यज्ञदायकः, यज्ञसुकारक, सदेवके लोके भवति दक्षिणीयः '।



" भगवन्, तस्मिन् गृहपताविममेवंनिर्देशं देशितवति, तस्या ब्राह्मण परिषदो ब्राह्मणानां द्विशतानामनुत्तरसम्यक्सम्बोधिचित्तमुत्पन्नम्।



" अहमपि श्राद्ध आश्चर्यप्राप्तः सत्पुरुषस्य पादावभिवन्द्य,मत्कण्ठादवतार्य शतसहस्रमूल्यं मुक्ताहारमनुप्रयच्छामि स्म। स न प्रतीच्छति स्म। अथ खल्वहमेतदवोचम्---- ' प्रतिगृहाण त्वमिम् मुक्ताहारं , यं चाधिमुच्यसे तस्मै देही' ति। स तं मुक्ताहारं प्रतिगृह्य च द्वौ प्रत्यंशौ कृत्वा चैकं प्रत्यंशं तस्मिन् यज्ञस्थाने सर्वलोकनिन्दितेभ्यो नगरदरिद्रेभ्यो ददाति स्म; द्वितियं प्रत्यंशं दुष्प्रसहाय तथागताय निर्यातयामास। एवम् रूपं प्रातिहार्यं दर्शयति स्म , यथा सर्वाभिः पर्षद्भिर्मरीचिर्नाम लोकधातुर्दुष्प्रसहो नाम तथागतश्च दृश्येते स्म। स च मुक्तहार स्तस्य दुष्प्रसहस्य तथागतस्य मुर्ध्निमुक्ताहार्कूटागारः संस्थितोऽभूच्चतुरस्रश्चतुःस्थूणः समभागः सुविभक्तो दर्शनीयो विचित्रः।



" स एवं रूपं प्रातिहार्यं दर्शय्य, वचनमेतदवोचत्----

" ' दायको यो दानपतिर्यथा तथागतं, तथा नगरदरिद्रान् दक्षिणीयान् सञ्जानाति चासंभिन्नं सममहाकरुणाचित्तेन विपाकप्रतिकाङ्क्षी परित्यागी, स हि धर्म यज्ञ परिनिष्पन्न ' इति।



" अथ ते नगरदरिद्रास् तत् प्रातिहार्यं दृष्त्वा, तं धर्मोपदेशमपि श्रुत्वा, अनुत्तरसम्यक्सम्बोधिचित्तमुत्पादयन्ति स्म। भगवन्,

एतस्मात् कारणात्तस्य सत्पुरुषस्य रोगपृच्छनगमन्नोत्सहे "।



तथा हि सर्वे ते बोधिसत्त्वा महासत्त्वा अपि, या तेन सत्पुरुषेण सहावकाशकथा" ये ननोपदेशा उक्ताः तत्सर्वं देशयन्तो गमन्नोत्सहन्ते स्म।

श्रावकबोधिसत्त्वप्रेषणोक्तस्य परिवर्तस्तृतीयः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project