Digital Sanskrit Buddhist Canon

२.अचिन्त्योपायकौशल्यम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 2. acintyopāyakauśalyam
२.अचिन्त्योपायकौशल्यम्



अपि च तेन कालेन वैशाल्याम्महानगर्याम् एको विमलकीर्तिर्नाम लिच्छविरासीत्, पूर्वजिनकृताधिकारोऽवरोपितकुशलमूलोऽनेकबुद्धपर्युपासितः क्षान्तिप्रतिलब्धः प्रतिभानलब्धो महाभिज्ञाविक्रीडितो धारणीप्रतिलब्धो वैशारद्यप्राप्तो निहतमारप्रत्यर्थिको गम्भीरधर्मनेत्री सुप्रतिपन्नः प्रज्ञापारमिता निर्यात उपायकौशल्यगतिंगतः प्रतिभानवत् सत्त्वाशयचर्याविज्ञः सत्त्वेन्द्रियवरावरज्ञाननिर्यातो यथाप्रत्यर्हं धर्मशास्ता। अस्मिन् महायाने प्रयत्य, ज्ञातः सुनिश्वितः कर्मकरो बुद्धस्येर्यापथे विहारी परमबुद्धिसागरानुगतः सर्वबुद्धैः संस्तुतः स्तोभितः प्रशंसितः सर्वशक्रब्रह्मलोकपालनमस्कृतः सः।



उपायकौशल्येन सत्त्वपरिपाचनार्थाय वैशाल्याम्महानगर्या विहरन्, (सो) ऽनाथदरिद्रसत्त्वसंग्रहायाक्षयभोगः। दुःशीलसत्त्वसंग्रहाय परिशुद्धशीलः। द्विष्टातिद्विष्टव्यापादि दुःशीलक्रोधनसत्त्वसंग्रहाय क्षान्तिदमप्राप्तः। अलससत्त्वसंग्रहायोत्तप्तवीर्यः। विक्षिप्तचित्तसत्त्वसंग्रहाय ध्यानस्मृतिसमाधिविहारी। दौष्प्रज्ञसत्त्वसंग्रहाय प्रज्ञाविनिश्चयलाभी। यद्यप्यवदातवस्त्रपरिवेष्टिताः (स) श्रमणचरित सम्पन्नः। गृहावासे यद्यपि विहरन्, कामरूपारूपधात्वसंसृष्टः। पुत्रदारान्तःपुरेऽपि नित्यम् ब्रह्मचारी। परिवारपरिवृतो यद्यपि दृश्यमानः प्रविवेकचारी। भूषणालंकृतो दृश्यमानः, किं तु लक्षणोपेतः। यद्यप्याहारपानभोजनं दृश्यमानो भुञ्जन्, सदा ध्यानस्य प्रीतिभोजनं परिभुङ्क्ते स्म। सर्वक्रीडाद्यूतकोणेषु दृश्यमानोऽपि, क्रीडाद्यूतरक्तान् सत्त्वान् परिपाचयति स्म नित्यममोघचारी। सर्वपाषण्डिकान् यद्यपि गवेषी, बुद्धेऽभेद्याभिप्रायसम्पन्नः। लौकिकलोकोत्तरमन्त्रशास्त्रविज्ञानोऽपि सदा धर्मसम्मोदनन्दाधिमुक्तः। संसर्गसमन्तमध्ये दृश्यमानोऽपि, सर्वमध्ये प्रमुखः पूजितः।



लोकसामग्रीकरणार्थाय ज्येष्ठमध्यकुमाराणां सहायीभावं गच्छति स्म धर्मभाणकः। सर्वव्यवहारप्रतिपन्नो यद्यपि, लाभभोगनिराकाङ्क्षः। सत्त्वधर्षणार्थाय सर्वपथचत्वरशृङ्गाटकेषु दृश्यमानोऽपि, सत्त्वरक्षणार्थाय राजकार्येषु च प्रयुक्तः। हीनयानाधिमुक्तिवारणाथार्य महायाने च सत्त्वपरिग्रहार्थाय सर्वधर्मश्रवणिकसंवाचकेषु दृश्यते स्म। बालपरिपाचनार्थाय सर्वलिपिशालागाम्यपि। कामादीनवसम्प्रकाशनार्थाय गणिकागाराण्यपि सर्वत्रावक्रामी। स्मृतिसम्प्रतिष्ठापनार्थाय सर्वमद्यविक्रयगृहाणि चावक्रमति स्म।



धर्मश्रेष्ठोपदेशकारणाच्छ्रेष्ठ्यन्तरेऽपि श्रेष्ठिसम्मतीयः। सर्वग्राहकादानपरिच्छेदकारणाद्‍गृहपत्यन्तरे च गृहपतिसम्मतीयः। क्षान्तिसौरत्यबलप्रतिष्ठापनकारणात् क्षत्रियान्तरे क्षत्रियसम्मतीयः। मानमददर्पप्रणाशनकारणाद् ब्राह्मणान्तरेऽपि ब्राह्मणसम्मतीयः। सर्वराजकार्यधर्मानुरूपाज्ञाकारणादमात्यान्तरे चामात्यसम्मतीयः। राजभोगैश्वर्यसङ्गविवर्तनकारणात्कुमारान्तरे च कुमारसम्मतीयः। कुमारीपरिपाचनकारणाद् अन्तःपुरेऽपि कञ्चुकिसम्मतीयः।



प्राकृतस्य पुण्यं विशेषेणाध्यालम्बनतो जनकायेन सार्धं सामग्रीमापन्नः। ईश्वराधिपतय उपदेशकारणाच्छक्रान्तरे च शक्रसम्मतीयः। ज्ञानविशेषशासनकारणाद्‍ब्रह्मान्तरेऽपि ब्रह्मसम्मतीयः। सर्वसत्त्वपरिपाचनाल् (लोकपालेषु) लोकपालसम्मतीयः। तथा हि लिच्छविर्विमलकीर्तिरप्रमाणोपायकौशल्यज्ञानसम्पन्नो वैशाल्याम्महानगर्यां विहरति स्म।



स उपायकौशल्येनात्मानं ग्लाननिभं देशयित्वा, तस्य रोगप्रश्नार्थाय वैशाल्या महानगर्या राजामात्यधिपकुमारमण्डलब्राह्मणगृहपतिश्रेष्ठिनैगमजानपदाः, नो हीदं-प्राणिनाम् बहुसहस्रं रोगपृच्छनायागतम्। तेभ्यस्तत्र समागतेभ्यो लिच्छविर्विमलकीर्तिरिममेव चतुर्महाभूतकायम् आरभ्य, धर्मं देशयति स्म-



"मित्राः, अयं हि काय एवमनित्य एवमध्रुवोऽनाश्वासः। (स ह्य्-) एवं दुर्बलोऽसारस्तथा हि लुप्तः परीत्तकालो दुःखो बहुरोगो विपरिणामधर्मः। मित्राः, तथा ह्यस्मिन् काये बहुरोगभाजने हि-तस्मिन् पण्डितोऽसंवासिकः।



"मित्राः, अयं कायो धारणन्-न क्षममाणः फेनपिण्डोपमः। अयं हि कायोऽचिरस्थितिको बुद्‍बुदोपमः। अयं कायः क्लेशतृष्णोत्पन्नो मरीच्युपमः। असारोऽयं कायः कदलीस्तम्भोपमः। अस्थिरस्नायुबन्धो वतायं यन्त्रोपमः। अयं कायो हि विपर्यासोत्पन्नो मायोपमः। अभूतदर्शनं ह्ययं कायस्स्वप्नोपमः। प्रतिबिम्बोपमोऽयं कायः पूर्वकर्मप्रतिबिम्बो दृश्यमानः। अयं कायः प्रत्ययाधीनः, प्रतिश्रुत्कोपमस्तत्। विक्षिप्तचित्तो (यथा) ह्ययं कायः पतनलक्षणो मेघोपमः। अयं कायः क्षणविनाशनसहगतश्चानवस्थितो विद्युत्तुल्यः। अस्वामिकोऽयं हि कायो नानाप्रत्ययोत्पन्नः।



"निर्व्यापारो ह्यं कायः पृथिवीसदृशः। आपसदृशोऽयं कायोऽनात्मकः। अयं कायस्तेजस्सदृशो निर्जीवः। अयं कायो वायुसदृशो निष्पुद्गलः। आकाशसदृशोऽयं कायो निःस्वभावः।



"अयं कायो महाभूतस्थानोऽभूतः। आत्मात्मीयरहितोऽयं कायः शून्यः। तृणकाष्ठाभित्तिलोष्टप्रतिभासोपमोऽयं कायो जडः। अयं हि कायो वातयन्त्रसमन्वागमेन (यथ्-) ओत्पन्नो वेदनारहितः। अयं हि पूयमीढसंचितः कायस्तुच्छः। नित्यलेपपरिमर्दनभेदनविध्वंसनधर्मोऽयं कायो रिक्तः। अयं हि कायश्चतुरधिकचतुःशतरोगोपद्रुतः। सदा जराभिभूतो ह्ययं कायो जरोदपानसदृशः। मरणान्तोऽयं कायोऽन्तानिश्रितः। अयं हि कायः स्कन्धधात्वायतनपरिगृहीतो वधकाशिविषशून्यग्रामोपमः। तस्मिन् युष्माभिरेवंकाये निर्विदुद्वेगयोरुत्पादितयोस्तथागतकायाधिमुक्तिरुत्पादयितव्या।



"मित्राः, तथागतकायो हि धर्मकायो ज्ञानजः। तथागतकायः पुण्यजो दानजश्शीलजस्समाधिजः प्रज्ञाजो विमुक्तिजो विमुक्तिज्ञानदर्शनजो मैत्रीकरुणामुदितोपेक्षोत्पन्नोदानदमसंयमोत्पन्नो दशकुशलकर्मपथजः क्षान्तिसौरत्यजस्थिरवीर्यकुशलमूलजो ध्यानविमोक्षसमाधिसमापत्तिजश्श्रुतप्रज्ञोपायजस्सप्तत्रिंशद्बोधिपाक्षिकधर्मजश्श्मथविपश्यनाजो दशबलजश्चतुर्वैशारद्यजोऽष्टादशावेणिकबुद्धधर्मजस्सर्वपारमितोत्पन्नोऽभिज्ञा-(त्रि-) विद्योत्पन्नस्सर्वाकुशलधर्मप्रहाणसर्वकुशलधर्मसंग्रहजः सत्यजस्सम्यक्त्वजोऽप्रमादजः।



"मित्राः, तथागतकायो ह्यप्रमाणकुशलकर्मजः। तस्मिन् युष्माभिरवंकायेऽधिमुक्तिरुत्पादयितव्या। सर्वसत्त्वक्लेशरोगप्रजहनार्थाय आनुत्तरसम्यक्सम्बोधिचित्तमुत्पादयितव्यम्"।



एवमेव लिच्छविर्विमलकीर्तिस्तथा हि तस्मै रोगप्रश्नगणाय, यथा बहुशतानां सत्त्वसहस्राणामनुत्तरसम्यक्सम्बोधिचित्तमुत्पादितम्, तथा ह्येवं धर्मं देशयति स्म।



अचिन्त्योपायकौशल्यस्य परिवर्तो नाम द्वितीयः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project