Digital Sanskrit Buddhist Canon

१. बुद्धक्षेत्रपरिशुद्धिनिदानम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

1. buddhakṣetrapariśuddhinidānam

आर्यविमलकीर्तिनिर्देशो नाम महायानसूत्रम्



१. बुद्धक्षेत्रपरिशुद्धिनिदानम्

नमः सर्वातीतप्रत्युत्पन्नानागतेभ्यो बुद्धबोधि-

सत्त्वार्यश्रावकप्रत्येकबुद्धेभ्यः।



एवं मया श्रुतम्-एकस्मिन् समये भगवान् वैशाल्यां विहरति स्म आम्रपालीवने महता भिक्षुसंघेन सार्धम् अष्टाभिर्भिक्षुसहस्रैः, सर्वैरर्हद्भिः क्षीणास्रवैर्निःक्लेशैर्वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैराजानेयैर्महानागैः कृतकृत्यैः कृतकरणीयैरपहृतभारैरनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सभ्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशितापरमपारमिताप्राप्तैः।



द्वात्रिंशदा च बोधिसत्त्वसहस्त्रैः सार्धम्-अभिज्ञानाभिज्ञातैर्बोधिसत्त्वैर्महाभिज्ञापरिकर्मनिर्यातैर्बुद्धाधिष्ठानाधिष्ठितैर्धर्मनगरपालैः सद्धर्मपरिग्राहकैर्महासिंहनादिभिर्दशदिक्षु सुगर्जितनादैरनध्येषितं सर्वसत्त्वानाम् कल्याणमित्रभूतैस्त्रिरत्नगोत्रानाच्छेद्यकारिभिर्निबृतमारप्रत्यर्थिकैः सर्वपरप्रवाद्यनभिभूतैः स्मृतिबुद्ध्यवबोधसमाधिधारणीप्रतिभानसम्पन्नैः सर्वावरणपर्युत्थान-विगतैरनावरणविमोक्ष उपस्थितैरनाच्छेद्यप्रतिभानैर्दानदमनियमसंयमशीलक्षान्तिवीर्यध्यानप्रज्ञोपायकौशल्यप्रणिधानबलज्ञानपारमितानिर्यातैरनुपलब्धिधर्मक्षान्ति-समन्वागतैरवैवर्तिकधर्मचक्रप्रवर्तयद्भिरलक्षणमुद्रामुद्रितैः सर्वसत्त्वेन्द्रियज्ञानकुशलैः सर्वपर्षदनभिभूतस्य बैशारद्येन बिक्रामिभिर्महापुण्यज्ञानसंभारसंचितवद्भिः सर्वलक्षणानुव्यंजनालंकृतकायैर्वरिष्ठरूपधारिभिश्चालंकारापगतैः सुमेरून्नतशिखर इव यशःकीर्त्यभ्युद्गतैर्वज्रदृढाध्याशयेन बुद्धधर्मसंघेऽभेद्यश्रद्धाप्रतिलब्धैर्धर्मरत्न‍रश्म्याऽमृतवृष्टिं सुप्रवर्षयद्भिः सर्वसत्त्वानां शब्दवागंगस्वरशब्दविशुद्‍ध्युपेतस्वरैर्गम्भीरधर्मप्रतीत्यसमुत्पादे प्रतिपद्यान्तानन्तदृष्टिवासनानां संधिसमन्तच्छेदैर्निर्भयसिंहसदृशैर्घोषाभिनिर्नादिभिर्महाधर्ममेघस्वरनादिभिः समविसमधर्मसमतिक्रान्तैर्धर्मरत्नस्य प्रज्ञापुण्यसंभारसमुदागमस्य महासार्थवाहैः; उत्थापनस्य च शान्तसूक्ष्मश्लक्ष्णस्य च दुर्दृशस्य दुरवगाह्यस्य धर्मस्य नये विचक्षणैः; सर्वसत्त्वागमनिर्गमसत्त्वाशयगत्यनुप्रवेश ज्ञानविषयसमर्पितैः; असमसमबुद्धज्ञानेऽभिषेकेणाभिषिक्तैर्दशबल वैशारद्य आवेणिकबुद्धधर्मे (ष्व-) अध्याशयेन प्रतिपन्नैः; सर्वापायभैरवदुर्गति बिनिपातभयस्य परिखाया उत्तीर्य, संचिन्त्य सम्भवस्य गत्युत्पत्तिदेशिकैर्महावैद्यराजैः सर्वसत्त्वविनयस्य विधिविद्वद्भिः सर्वसत्त्वानां सर्वक्लेशरोगावबोधैः; यथायोगं धर्मभैषज्ययुक्तिसुप्रयुक्तवद्भिर्गुणानन्त् आकरसमर्पितैरनन्तबुद्धक्षेत्राणि गुणव्यूहेन स्वालंकृतवद्भिरमोघदर्शनश्रवणैरबन्ध्यपादोत्सर्गैः; कोटिनयुतशतसहस्राप्रमेयकल्पे(ष्व-)पि गुणान् परिवर्णयेत्, गुणौघोऽनन्तोऽधिगतः। तद्यथा-



समदर्शिनाम बोधिसत्त्वेन च समासमदर्शिना च समाधिविकुर्वितराजेन च धर्मेश्वरेण च धर्मकेतुना च प्रभाकेतुना च प्रभाव्यूहेन च रत्नव्यूहेन च महाव्यूहेन च प्रतिभानकूटेन च रत्नकूटेन च रत्नपाणिना च रत्नमुद्राहस्तेन च नित्यप्रलम्बहस्तेन च नित्योत्क्षिप्तहस्तेन च नित्यतपसा च नित्यनन्दहासेन्द्रियेण च प्रामोद्यराजेन च देवराजेन च प्रणिधानव्यसनानुप्राप्तेन प्रतिसंवित्प्रसाधनप्राप्तेन च गगनगंजेन च रत्नप्रदीपधरेण च रत्नवीरेण च रत्ननन्दिना च रत्नश्रिया चेन्द्रजालेन च जालिनीप्रभेण चानुपलब्धिध्यानेन च प्रज्ञाकूटेन च रत्नमुक्तेन च मारहन्त्रा च विद्युद्देवेन च बिकुर्वणराजेन च निमित्तकूटसमतिक्रान्तेन च सिंहगर्जिताभ्यवघोषणस्वरेण च गिर्यग्रसमुद्‍घातराजेन च गन्धहस्तिना च गन्धकुंजरनागेन च नित्योद्युक्तेन चानिक्षिप्तधुरेण च प्रमतिना च सुन्दरजातेन च पद्मश्रीगर्भेण पद्मव्यूहेन चावलोकितेश्वरेण च महास्थामप्राप्तेन च ब्रह्ममजालकेन च रत्नश्वेतासनेन च मारजिता च समक्षेत्रालङ्कारेण च मणिरत्नच्छत्रेण च मणिचूडेन च मैत्रेयेण च मञ्जुश्रीकुमारभूतेन च तैरित्यादिभिर्द्वात्रिंशदा बोधिसत्त्वसहस्रैः (सार्धम्)



चतुष्क महाद्विपाशोक-(नाम)-नामलोकधातोर्ब्रह्मशिख्यादयो दशसहस्रम् ब्रह्मणां भगवतो दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय चागताः। तेऽपि तस्यां पर्षद्येव संनिपतिताः। नानाचतुष्कमहाद्वीप्(एभ्यो)ऽपि द्वादशसहस्रं शक्राणाम् आगतम्। तेऽपि तस्यां पर्षद्येव संनिपतिताः। एवम् अन्यच्च महेशाख्यमहेशाख्या ब्रह्मा कौशिकश्च लोकपालदेवनागयक्षगन्धर्वासुरगरूडकिन्नरमहोरगा अपि तस्यां पर्षद्येव संनिपतिता अभूवन्। एवमेव चतुष्परिषद् भिक्षुभिक्षुण्युपासकोपासिका अपि तत्र संनिपतिता आसुः।



अथ भगवांश्रीगर्भे सिंहासने निषण्णोऽनेकशतसहस्रपर्षदा परिवृतः पुरस्कृतो धर्म देशयति स्म। सुमेरूरिव पर्वतराजः समुद्राभ्युद्गतः सर्वाः पर्षदोऽभिभूय भासते तपति विरोचते स्म श्रीगर्भे सिहासने निषण्णः।



ततो लिच्छविकुमारो रत्नाकरो बोधिसत्वो लिच्छविकुमाराणाम् पञ्चशतमात्रञ्च सप्तरत्नच्छत्रं समादाय, वैशाल्या महानगर्या निश्वर्य, येनाम्रपालीवनंच येन भववांस्तेनोपसंक्रान्ताः। उपसंक्रम्य भगवतः पादयोः शिरसा वन्दित्वा, भगवति सप्तकृत्वः प्रदक्षिणीकृत्य ते रत्नच्छत्रं यथा धारिणो भगवन्तम् अभित्रायन्ते स्म। अभिपालयित्वैकान्ते स्थुः।



तानि निर्यातितानि रत्नच्छत्राणि समनन्तरं सद्यो बुद्धानुभावेनैकीभूत्वा, तेन रत्नच्छत्रेणायं सर्वत्रिसाहस्रमहासाहस्रलोकधातुः संछादितः प्रतिभाति स्म। स त्रिसाहस्रमहासाहस्रलोकधातुपरिणाहश्व तस्यैव महारत्नच्छत्रस्य मध्ये प्रभासितो(ऽभूत्) (ये)ऽस्मिन् त्रिसाहस्रमहासाहस्रलोकधातौ केचन(पर्वताः)- स्युः सुमेरुः पर्वतराजश्व हिमवन्तपर्वतश्च मुचिलिन्दपर्वतश्व महामुचिलिन्द पर्वतश्च गन्धमादनश्च रत्नपर्वतच्च कालपर्वतश्च चक्रवाडश्च महाचक्रवाडश्च-सर्वे तेऽपि तस्यैव महारत्नच्छत्रस्य मध्ये प्रभासिता(अभूवन्)। यदस्मिन् त्रिसाहस्रमहासाहस्रलोकधातौ किंचिज् (जल) स्यात् महासमुद्रसरस्तडागपुष्करणीनदीकुनदीपल्वलनिम्नं-सर्वम् तदपि तस्यैव महारत्नच्छत्रस्य मध्ये प्रभासितम् (अभूत्)। अस्मिन् त्रिसाहस्रमहासाहस्रलोकधातावादित्यचन्द्रविमानाश्व तारकारूपाणि देवभवनानि च नागपुराणि च यक्षगन्धर्वासुरगरुडकिंनरमहोरगावासाश्व चतुर्महाराजप्रासादाश्व ग्रामनगरनिगमराष्ट्रराजधान्यो यावतकाः स्युः; सर्वास्ता अपि तस्यैवैकाकिनो महारत्नच्छत्रस्याभासं गच्छन्ति स्म। दशदिग्लोके भगवताम् बुद्धानां या धर्मदेशनोत्पन्ना, साऽपि तस्मादेकाकिनो महारत्नछत्रान् निर्गते स्वरे नदति स्म।



अथ भगवतोऽस्मिन् एवं रूपे महाप्रातिहार्ये दृष्टे, सा सर्वावती पर्षदाश्चर्यप्राप्ताऽभूत्। तुष्टोदग्रात्तमनाः प्रमुदिता प्रीतिसौमनस्यजाता तथागतम् अभिवन्द्यानिमिषाभ्यां नेत्राभ्यां पश्यत्यस्थात्।



ततो रत्नाकरो लिच्छविकुमारो भगवत इदं एवं रूपं महाप्रातिहार्य दृष्ट्वा, दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य, येन भगवांस्तेनांजलिं प्रणम्य, भगवन्तम् आभिर्गाथाभिरभ्यनन्दत्-



"विशालनेत्र शुद्धरुचिरपद्मदलवत्। शुभाभिप्राय शमथपारगत परमप्राप्त॥ कुशलकर्माचितवनप्रमेयगुणसागर। नमस्तुभ्यं श्रमणाय शान्तिमार्गसंनिश्रिताय॥ पुरुषवृषभस्य यूयन्नायकस्यर्द्धिविधिम् पश्यत। सुगतस्य सर्वाण्यपि क्षेत्राणि प्रवरव्यक्तानि दृश्यन्ते॥ तव धर्मकथोदारामृतगा।तानि सर्वाण्यस्मिन् गगनतले दृश्यन्ते॥ तवोत्तमधर्मराज्यम् इदम्, धर्मराज। जिनेन च जगद्भयो धर्मधनम् प्रदलितम्॥ धर्मप्रभेदनविज्ञाय परमार्थसंदर्शकाय। धर्मेश्वराय धर्मराजाय तुभ्यं शिरसा नमः॥ 'अस्तिनास्त्य पगताः सर्व इमे धर्मा हेतून् प्रतीत्यसमुत्पन्नाः। एष्वात्मवेदककारका न सन्ति। कुशलपापकर्म किंचिदविप्रणाशम्' इति वचनेनोपदर्शयसि॥ त्वया मुनीन्द्र, मारातिबलबलं संजित्य। परमप्रशान्तबोध्यमरणक्षेमं प्राप्तम्॥ तत्तत्र निर्वेदनचित्तमनोऽप्रचारैः। सर्वतीर्थिककुगणैरज्ञातम्॥ अद्भुतं धर्मराजदेवमनुष्याणामभिमुखम्। त्रिपरिवर्त बह्वाकारं प्रशान्तस्वभावविशुद्धं धर्मचक्रं प्रवर्तयसि। तदनन्तरं त्रिरत्नम् उपदिश्यते॥ ये धर्मरत्नेन सुविनीताः। तेऽवितर्का नित्यप्रशान्ताः॥ त्वं हि जातिजरामरणान्तगो वैद्यो वरः। अप्रमेयगुणसागराय शिरसा नमः॥ सत्कारसुकृतैस्सुमेरुरिवाप्रकम्प्यः। शीलवत्सु च दुःशीलेषु च समम् मैत्री॥ समतासंप्रस्थितो मनश्वाकाशवत्। अस्मै सत्त्वरत्नाय कुर्यात् पूजान्न कः ? महामुने इमा हि पर्षदः संनिपतिताः। तव मुखं सुप्रसादमनसा प्रेक्षन्ते॥ सर्वैरपि जिनः स्वाभिमुखे दृष्टः। तद्‍ध्रुवम् जिनस्यावेणिकबुद्धलक्षणम्॥ भगवत एकवाक् प्रवर्तिता, परं तु (सा)। पर्षद्भिर्नानावाक्षु विज्ञायते॥ विज्ञायते सर्वजगता स्वकार्थो यथा। तद्‍ध्रुवम् जिनस्यावेणिकबुद्धलक्षणम्॥ तेनैकवाक्स्ववघोषणकार्येण। केचित् वासनापरिभाविताः केचित् प्रतिपन्नः॥ (या) विमत्याकांक्षाः, ता नायकः प्रतिप्रस्रभ्भयति म। तद्‍ध्रुवम् जिनस्यावेणिकबुद्धलक्षणम्॥ दशबलनायकविक्रामिणे तुभ्यं नमः। नमस्तेऽभयाय भयविप्रमुक्ताय॥ आवेणिकधर्मानवस्यं सुप्रतिपन्नाय। सर्वजगन्नेत्रे तुभ्यं नमः। नमः सर्वसंयोजनबन्धनच्छेदकाय॥ पारगताय स्थलस्थिताय नमः। खिन्नजगत्तारकाय तुभ्यं नमः। नमः संसारप्रबृत्त्याम् अप्रतिष्ठिताय॥ सत्त्वगतिसंप्रस्थितः सर्वसहचरः। परं तु (ते) सर्वगतिविमुक्तमनः॥ परिशुद्धपद्ममुदके जातमुदकेन पर्यनुपलिप्तम्। मुनिपद्मेन शून्यता भाविता ध्रुवम्॥ सर्वाकारनिमित्तानि संप्रवान्तानि। त्वं कस्मिंश्वित् प्रणिधानकारी नासि॥ परिशुद्धस्य बुद्धस्य महानुभावोऽचिन्त्यः। आकाशसदृशम् अप्रतिष्ठितं वन्दाम्यहम्"॥।



अथ भगवन्तं ताभिर्गाथाभिरभिनन्द्य, रत्नाकरेण लिच्छविकुमारेण भगवन्तम् एवमुक्तम्- "भगवन्, एभ्यो लिच्छविकुमारेभ्यः पंचशतमात्रेभ्यः सर्वेभ्योऽनुत्तरसम्यक् संबोध्यां संप्रतिपन्नेभ्यो 'बोधिसत्त्वानां परिशुद्धं बुद्धक्षेत्रं किम्'- इति परिशुद्धं बुद्धक्षेत्रं पृच्छद्‍भ्यो भगवता तथागतेनैभ्यो बोधिसत्त्वेभ्यः परिशुद्धं बुद्धक्षेत्रं सूक्तम् देशितं स्यात्।



एवमुक्ते, भगवान् रत्नाकराय लिच्छविकुमाराय साधुकारम् अदात्- "साधु साधु कुमार। साधु (यथा) त्वं परिशुद्दं बुद्धक्षेत्रम् आरभ्य, तथागतम् पृच्छसि। तेन हि कुमार त्वं शृणु साधु च सुष्ठु च मनसि कुरु। बोधिसत्त्वानाम् परिशुद्धं बुद्ध क्षेत्रम् आरभ्य भाषिष्येहं ते"। -"साधु भगवन्"। -इत्युक्त्वा लिच्छविकुमारो रत्नाकरश्व पंचमात्राणि लिच्छविकुमारशतानि भगवते प्रत्यश्रौषुः।



भगवांस्तानेवम् आमन्त्रयते स्म- "कुलपुत्र (।), सत्त्वक्षेत्रः हि बोधिसत्त्वस्य बुद्धक्षेत्रम्। तत्कस्य हेतोः ? यावद्बोधिसत्त्वः सत्त्वानुपबृंहयति तावद्‍बुद्धक्षेत्रस्य परिग्राहकः। ईदृशस्य बुद्धक्षेत्रस्य परिग्राहको यथा सत्त्वा विनीता भवन्ति। बुद्धक्षेत्रप्रवेशं यथा सत्त्वा बुद्धज्ञानप्रवेशं गच्छन्त्येवं रूपं बुद्धक्षेत्रम् परिगृह्णाति। एवं रुपं बुद्धक्षेत्रम् परिगृह्णाति यथा बुद्धक्षेत्रप्रवेशम्-आर्यजातेन्द्रियोत्पादं सत्त्वा गच्छन्ति । तत् कस्य हेतोः ? कुलपुत्राः, बोधिसत्त्वानां बुद्धक्षेत्रं हि सत्त्वार्थक्रियोत्पत्तिहेतोः। रत्नाकर, तद्यथा- आकाशसमे किचित् कर्तुकामस्तथा कुर्यात् किंचाप्याकाशे हि करणे चालंकारे च तथा न युज्यते। रत्नाकर सर्वधर्मान् आकाशमान् ज्ञात्वा, बोधिसत्वो यथा सत्त्वपरिपाचनार्थाय बुद्धक्षेत्रं कर्तुकामस्तथा बुद्धक्षेत्रं कुर्यात् किंचापि बुद्धक्षेत्रम् आकाशे हि करणे न युज्यते, अलंकारे न युज्यते।



"रत्नाकर, अथ चाशयक्षेत्रं हि बिधिसत्त्वस्य बुद्धक्षेत्रं; तद्बोधिप्राप्तिबुद्धक्षेत्रे शाठ्यमायापगताः सत्त्वा उपपत्स्यन्ते। कुलपुत्र, अध्याशयक्षेत्रं हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तद्बोधिप्राप्तिबुद्धक्षेत्रे सर्वकुशलमूलसंभारोपचितवन्तः सत्त्वा उपपत्स्यन्ते। प्रयोगक्षेत्रं हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तद्बोधिप्राप्तिबुद्धक्षेत्रे सर्वकुशलधर्मोपस्थिताः सत्त्वा उपपत्स्यन्ते। बोधिसत्त्वस्योदारचित्तोत्पादो बोधिसत्त्वस्य बुद्धक्षेत्रं; तस्मिस्तद्बोधिप्राप्तिबुद्धक्षेत्रे महायानांप्रस्थिताः सत्त्वा उपपत्स्यन्ते। दानक्षेत्रं हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तस्मिंस्तद्बोधिप्राप्तिबुद्धक्षेत्रे सर्वस्वपरित्यागिनस्सत्त्वा उपपत्स्यन्ते। शीलक्षेत्रं हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तस्मिस्तद्बोधिप्राप्तिबुद्धक्षेत्र सर्वाशयसहगता दशकुशलकर्मपथपरिरक्षन्तः सत्त्वा उपपत्स्यन्ते। क्षान्तिक्षेत्रं हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तस्मिंस्तद्बोधिप्राप्तिबुद्धक्षेत्रे द्वात्रिंशल्लक्षणलंकृताः क्षान्तिदमपरमशमथपारमिताः सत्त्वा उपपत्स्यन्ते। वीर्यक्षेत्रं हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तस्मिस्तद्बोधिप्राप्तिबुद्धक्षेत्रे सर्वकुशलधर्मेष्वारब्धवीर्याः सत्त्वा उपपत्स्यन्ते। ध्यानक्षेत्रं हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तस्मिस्तद्बोधिप्राप्तिबुद्धक्षेत्रे स्मृतिसंप्रजन्यसमाहिताः सत्त्वा उपत्स्यन्ते; प्रज्ञाक्षेत्रं हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तस्मिंस्तद्बोधिप्राप्तिबुद्धक्षेत्रे सम्यक्त्वनियतसत्त्वा उपपत्स्यन्ते। चत्वार्यप्रमाणानि हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तस्मिंस्तद्बोधिप्राप्तिबुद्धक्षेत्रे मैत्रीकरुणामुदितोपेक्षाविहारिणस्सत्त्वा उपपत्स्यन्ते। चत्वारि संग्रहवस्तूनि हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तस्मिंस्तद्बोधिप्राप्तिबुद्धक्षेत्रे सर्वविमुक्तिपरिगृहीताः सत्त्वा उपपत्स्यन्ते। उपायकौशल्यं हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तस्मिंस्तद्बोधिप्राप्तिबुद्धक्षेत्रे सर्वोपायचर्याविचक्षणाः सत्त्वा उपपत्स्यन्ते। सप्तत्रिशद्बोधिपक्ष्यधर्मा हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तस्मिस्तद्बोधिप्राप्तिबुद्धक्षेत्रे स्मृत्युपस्थानसम्यक्‌प्रधानर्द्धिपादेन्द्रियबलबोध्यंगमार्गप्रतिपत्तिज्ञाः सत्त्वापपत्स्यन्ते। परिणामना चित्तं हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तद्बोधिप्राप्तिबुद्धक्षेत्रे सर्वगुणालंकारा आविर्भवन्ति। अष्टाक्षणप्रशान्त्युपदेशो हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तद्बोधिप्राप्तिबुद्धक्षेत्रे सर्वापाया अत्यन्तसमुच्छिन्नाः; अष्टाक्षणा अपगता भवन्ति। प्रत्यात्मशिक्षापदस्थितिश्व परस्यापच्यनालापो हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तस्मिंस्तद्‍बोधिप्राप्तिबुद्धक्षेत्र आपत्तिशब्दोऽपि तु न नद्यते। दशकुशलकर्मपथपरिशुद्धिर्हि बोधिसत्त्वस्य बुद्धक्षेत्रं; तस्मिंस्तद्‍बोधिप्राप्तिबुद्धक्षेत्रे ध्रुवायुर्महाभोगब्रह्मचर्यसत्यानुवर्तनवचनालंकारमञ्जुवाक्याभेद्यपर्षन्निर्भिन्निनिवेशनकौशल्येर्ष्या- विप्रयोगाव्यापादचित्तसम्यग्दृष्टिसमन्वागताः सत्त्वा उपपत्स्यन्ते।



"एवं, हि कुलपुत्र, यादृशो बोधिसत्त्वस्य बोधिचित्तोत्पादस्तादृशोऽप्याशयः। यादृश आशयस्तादृशोऽपि प्रयोगः। यावत् प्रयोगस्तावच्चाध्याशयः। तावदध्याशयस्तावच्च निध्यप्तिः। यावन्निध्यप्तितावच्च प्रतिपत्तिः। यावत् प्रतिपत्तिस्तावच्च परिणामना। यावत् परिणामना तावच्चोपायाः। यावदुपायास् तावच्च परिशुद्धक्षेत्रम्। यथा परिशुद्धक्षेत्रम्, परिशुद्धसत्त्वास्तथा। यथा परिशुद्धसत्त्वास्तथापि परिशुद्धज्ञानम्। परिशुद्धज्ञानं यथा, तथापि परिशुद्धशासनम्। यथा परिशुद्धशासनं, तथा च परिशुद्धज्ञानसाधनम्।परिशुद्धज्ञानसाधनं यथा, तथा पुनः परिशुद्धस्वचित्तम्।



:तस्मात्, कुलपुत्र, बोधिसत्त्वेन बुद्धक्षेत्रपरिशुद्धनिश्विकीर्षया स्वचित्तपर्यवदापनाय प्रयत्तव्यम्। तत् कस्य हेतोः ? यथा बोधिसत्त्वस्य चित्तं परिशुद्धम्, तादृशे बुद्धक्षेत्रम् परिशुद्धम् भवति"।



ततो बुद्धानुभावेनायुष्मतः शारिपुत्रस्यैतदभूत्- 'यदि यथा चित्तं परिशुद्धम्, तादृशे बोधिसत्त्वस्य बुद्धक्षेत्रम् परिशुद्धं भवेत्, भगवतः शाक्यमुनेर्बोधिसत्त्वचर्या चरतः, तस्य चित्तन्न परिशुद्धं किम्, यथा बुद्धक्षेत्रम् एवं रुपम् परिशुद्धन्न दृश्यते'?- तस्यैतदभूत्।



अथ भगवानायुष्मतः शारिपुत्रस्य चेतसैव चेतः परिवितर्कम् आज्ञायायुष्मन्तं शारिपुत्रमेतदवोचत्- "शारिपुत्र, तत् किं मन्यसे? सूर्यश्व चन्द्रः किन्न परिशुद्धौ, यथा जात्यन्धैर्न दृश्येते ?"- अब्रवीत्-" नो हीदं, भगवन्। तैर्जात्यन्धैर्दुष्कृतम्, न तु सूर्येण च चन्द्रेण हि दुष्कृतम्"। -अवोचत्- "तथा हि, शारिपुत्र, केनचित् सत्त्वेन तथागतस्य बुद्धक्षेत्रगुणालङ्कारव्यूहो न दृश्यते, स सत्त्वाज्ञानेन हि दोषः, न तु तथागतेन तस्मिन् दोषः। तथागतस्य बुद्धक्षेत्रं हि परिशुद्धम्, किं तु त्वया तन्न दृश्यते"।



ततो ब्रह्मा शिख्यायुष्मन्तं शारिपुत्रमेवमब्रवीत्-"भदन्त शारिपुत्र, तथागतस्य बुद्धक्षेत्रन्न परिशुद्धम्' इति मा ब्रवीः। भदन्त शारिपुत्र, परिशुद्धं भगवतो बुद्धक्षेत्रम्; तद् यथा-परनिर्मितवशर्तिदेवानाम्, भदन्त शारिपुत्र, आवासव्यूहो यथा, भगवतः शाक्यमुनेर्बुद्धक्षेत्रव्यूहोऽपि मयेदृशो दृश्यते"



ततः शारिपुत्रः स्थविरो ब्रह्माणं शिखिनमेवमब्रवीत्। "ब्रह्मन्, अहं त्विमां महापृथिवीमुत्कूलनिकूलकण्टकप्रपातशिखरश्वभ्रगूथोडिगल्ल प्राकीर्णाम् पश्यामि"।



ब्रह्मा शिख्यब्रवीत- "तथा हीदृशं बुद्धक्षेत्रं परिशुद्धन्न दृश्यते। भदन्त शारिपुत्र, उत्कूले निकूले चित्ते बुद्धज्ञानायाशयो नियतमपरिशुद्धः। येभ्यः केभ्यश्वित्, भदन्त शारिपुत्र, सत्त्वेषु समचित्तता च बुद्धज्ञानायाशयः परिशुद्धस्तैर्हीदं बुद्धक्षेत्रम् परिशुद्धं दृश्यते"।



अथ भगवानिमं त्रिसाहस्रमहासाहस्रलोकधातुम् पादाङ्गुष्ठेनाहन्ति स्म। समनन्तरहतोऽयं लोकधातुरनेकरत्नकूटमनेकरत्नशतसहस्रसंभारोऽनेकरत्नशतसहस्रप्रतिव्यूहो भूतस्तद् यथा-रत्नव्यूहस्य तथागतस्यानन्तगुणरत्नव्यूहो लोकधातुरिव, अयं च लोकधातुस्तादृशः। ततः सापि सर्वावती परिषदाश्वर्यप्राप्ता रत्नपद्मव्यूहासन आत्मानमपि च निषण्णाम् चिन्तां करोति स्म।



अथ भगवानायुष्मन्तं शारिपुत्रमवोचत्- "ननु त्वं, शारिपुत्र, इमं बुद्धक्षेत्रगुणव्यूहं पश्यसि?" अब्रवीत्- "ध्रुवम् पश्यामि, भगवन्। सन्दृश्यन्त इमेऽदृष्टाश्रुतपूर्वा व्यूहाः"। अभाषत- "शारिपुत्र, इदं हि बुद्धक्षेत्रन्नित्यमीदृशम्, कि तु हीनसत्त्वपरिपाचनार्थाय तथागतो बुद्धक्षेत्रेमेवं बहुदोषदुष्टं देशयति। शारिपुत्र, तद्यथापि नाम देवपुत्रा एकस्मिन् रत्नभाजने भोजनं भक्षन्ति, अपि तु यथा-पुण्यसंनिचयभेदेन दिव्याहारामृतप्रत्युपस्थिताः, एवमेव, शारिपुत्र, सत्त्वा एकस्मिन् बुद्धक्षेत्र उत्पन्ना यथा-परिशुद्धिर्बुद्धानां बुद्धक्षेत्रगुणव्यूहम् पश्यन्ति"।



अस्मिन् बुद्धक्षेत्रगुणालङ्कारव्यूहे दृश्यमाने, चतुरशीत्या प्राणिसहस्रै- रनुत्तरसम्यक्सम्बोधिचित्तान्युत्पादितान्यभूवन्। ये केचन लिच्छविकुमाराणाम् पञ्चशतं लिच्छविकुमारेण सार्धमुपसंक्रान्ताः तेऽप्यानुलोमिकीम् क्षान्तिम् प्राप्नुवन्।



अथ भगवांस्ता ऋद्विविधीः पिंडयति स्म; ततश्व तद्‍बुद्धक्षेत्रं भूयः पूर्वस्वभावमापन्नं दृश्यते स्म।



तत्र श्रावकयानिदेवमनुष्याणामेतदभूत्- 'अनित्या वत संस्काराः'। विदित्वेति द्वांत्रिशदे प्राणिसहस्रेभ्यः सर्वधर्मेषु विरजो विगतमलं विशुद्धं धर्मचक्षुः; अष्टाभ्यो भिक्षुसहस्रेभ्योऽनुपादायाश्रवेभ्यश्चित्तानि विमुक्तान्यभूवन्। चतुशीत्यापि बुद्धक्षेत्रोदाराधिमुक्तिकप्राणिसहस्रैः, सर्वधर्मान् विठपन-प्रत्युस्थानलक्षणान् विदित्वा, अनुत्तरसभ्यक्‍सम्बोधिचित्तान्युत्पादितानि।



बुद्धक्षेत्रपरिशुद्धिनिदानस्य् अपरिवर्तः प्रथमः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project