Digital Sanskrit Buddhist Canon

द्वितीयः परिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Dvitīyaḥ parivartaḥ

द्वितीयः परिवर्तः।



यद्भूयसा राष्ट्रपाल बोधिसत्त्वयानीयानां पुद्गलानामिमे दोषा भविष्यन्ति-अनभियुक्ता अनभियुक्तान् पूजयिष्यन्ति, शठाः शठान् पूजयिष्यन्ति, अज्ञा अज्ञान् सत्कर्तव्यान् मन्यन्ते, आमिषप्रियाश्च भविष्यन्ति। अध्यवसाने बहुलाः कुलमत्सराः शठा ध्वाङ्क्षा मुखराः कुहकाः क्षात्रगुरुकाः। अन्योन्यवर्णभाषणतया लाभं निष्पादयिष्यन्ति। लाभपर्येष्ट्यर्थं च ते ग्रामं प्रवेक्ष्यन्ति, न सत्त्वपरिपाकार्थं न सत्त्वानुकम्पार्थम्। ते अज्ञानिनो ज्ञाननिमित्तमात्मानं प्रतिज्ञास्यन्ति-कथं मां परे विजानीयुः ? बहुश्रुतः कल्याणधर्म इति। अगौरवाश्च भविष्यन्ति यथात्रानभियुक्ताः। भिन्नभाजनीभूता भविष्यन्ति अन्योन्यस्खलितगवेषिणः। नष्टप्रयोगा अज्ञाः कुसीदाज्ञाना नवकल्पनबहुलाः। अन्योन्यभिन्नधर्मसंगायनतया स्वच्छन्दा दृढवैरा आकीर्णव्यापादा अयुक्तपरिभाषाञ्जनसंज्ञप्त्या इह शासने चरिष्यन्ति आपरिपृच्छनशीलाः। धर्मश्रवणेनानर्थिकाः। अयुक्तचर्यया दरिद्रकुलेषूपपत्तिं परिगृहीष्यन्ति। ते दरिद्रकुले प्रव्रजिताः समाना लाभमात्रकेनेह शासने तुष्टिमुत्पादयिष्यन्ति। तेषामत्ययदेशनापि न भविष्यति किं पुनर्ज्ञानाभिसमयः। ते बुद्धगुणान् रिचित्वा ज्ञात्रलाभमात्रकेन श्रव(म)णाः स्म इत्यात्मानं प्रतिज्ञास्यन्ति। नाहं राष्ट्रपाल तेषां तथारूपाणां पुद्गलानामानुलोमिकामपि क्षान्तिं वदामि कुतः पुनर्बुद्धज्ञानम्। सुगतिस्तेषां दूरे, किं पुनर्बोधिः। तेषां पुना राष्ट्रपाल तथारूपाणां पुद्गलानामष्टौ बोधेः परिपन्थकरान् धर्मान् वदामि। कतमानष्टौ ? अपायोपपत्तिः दरिद्रकुलोपपत्तिः प्रत्यन्तजनपदोपत्तिः नीचलुकोपपत्तिर्दुर्वर्णतान्धत्वगतिकाः पापमित्रसमवधानं बहुमान्यता विषमापरिहारेण कालक्रियाः। इमान् राष्ट्रपाल अष्टौ धर्मान् बोधेः परिपन्थकरान् वदामि।तत्कस्य हेतोः ? नाहं राष्ट्रपाल वचनप्रतिज्ञस्य बोधिमिति वदामि। न कुहकस्य चर्यापरिशुद्धिं वदामि। न शठस्य बोधिचर्यां वदामि। नामिषगुरुकस्य बुद्धपूजां वदामि। नाभिमानिनः प्रज्ञापरिशुद्धिं वदामि। नाहं दुष्प्रज्ञसमन्वागतस्य संशयच्छेदनं वदामि। नाहं मत्सरिण आशयपरिशुद्धिं वदामि। नाहमनधिमुक्तिबहुलस्य धारणीप्रतिलाभं वदामि। नाहमसद्गुणपर्येषकस्य सुगतिप्रतिलाभं वदामि। न कुलमत्सरस्य कायपरिशुद्धिं वदामि। नाहमकल्पितार्यपथस्य बुद्धसमवधानं वदामि। न कुलाध्यवसितस्य वाक्परिशुद्धिं वदामि। न गौरवस्य चित्तपरिशुद्धिं वदामि। नाहममात्रज्ञस्य धर्मकामतां वदामि। न कायजीवितसापेक्षस्य धर्मवेष्टिं वदामि। नाहं राष्ट्रपाल षटशास्तॄंस्तथा विगर्हामि यथा तान् मोहपुरुषान् विगर्हामि। तत्कस्य हेतोः ? अन्यथावादिनस्ते अन्यथाकारिणः, विसंवादकाः सदेवकस्य लोकस्य॥

अथ खलु भगवंस्तस्यां वेलायामिमा गाथा अभाषत -

असंयता उद्धत उन्नताश्च अगौरवा मानिन लाभौत्सदा।

क्लेशाभिभूताः सखिलाः सकिंचनाः सुदूर ते तादृश अग्रबोधये॥ २१७॥

लाभाभिभूतस्य कुसीद वर्धते कुसीदभूतस्य प्रनष्ट श्रद्धा।

श्रद्धाविपन्नस्य प्रनष्ट शील दुःशीलभूतस्य प्रनष्ट संगतिः॥ २१८॥

दरिद्रभूताश्च हि प्रव्रजित्वा दारिद्य्रमुक्तां समवाप्य पूजाम्।

तैः काञ्चनो भारमिवापविद्धः स सस्यभारः पुनरुद्गृहीतः॥ २१९॥

लाभार्थिकोअरण्यमुपैति वस्तुं गवेषते तत्र गतश्च ज्ञातीन्।

अभिज्ञविद्याप्रतिभानसंपदो विहाय गृह्णाति स चापि ज्ञातीन्॥ २२०॥

अपायभूमिं गतिमक्षणेषु दरिद्रतां नीचकुलोपपत्तिम्।

जात्यन्धदौर्बल्यमथाल्पस्थामतां गृह्णन्ति ते मानवशेन मूढाः॥ २२१॥

ते वृत्तिचर्यापरिहीनभावाः प्रमादलाभेन स्मृतिप्रनष्टाः।

घोरं प्रयास्यन्ति महाप्रपातं यतो न मोक्षोऽस्त्यपि कल्पकोटिभिः॥ २२२॥

यदीह लाभिन भवेत बोधिस्तद्देवदत्तोऽपि लभेत बोधिम्।

वैरम्भवातेन यथैव पक्षी क्षिप्यन्ति लाभेन तथा अयुक्ताः॥ २२३॥

पुण्यैर्विहीनाः परदारगृद्धा अशुद्धशीलाः कुशलेषु बोद्दरः।

ते शासनेऽनर्थश्मशानदारुवत् ये बोधिचित्तेन अलब्धज्ञानाः॥ २२४॥

बोध्यर्थिकोऽन्वेषति बुद्धधर्मान् न तिष्ठते चापि यथा समोक्षः।

दृढाः स लेपेन कृतः कपिर्वा मानाभिभूतस्य तथैव बोधिः॥२२५॥

बोध्यर्थिकेनापि मया स्वजीवं त्यक्तं प्रियं धर्मपदस्य हेतोः।

त्यक्त्वा च धर्मांस्त अयुक्तयोगाः निरर्थभूता निपतन्ति शासनम्॥ २२६॥

महाप्रपातं ज्वलितं हुताशनं सुभाषितार्थे पतितोऽस्मि पूर्वे।

श्रुत्वा च तस्मिन् प्रतिपत्तिये स्थितो विहाय सर्वाणि प्रियाप्रियाणि॥ २२७॥

श्रुत्वा गुणाढ्यं च विचित्रशासनं तेषां स्पृहा नैकपदेऽपि जायते।

अधर्मकामस्य कुतोऽस्ति बोधिः यथैव चान्धस्य पथि प्रकाशनम्॥ २२८॥ इति॥

भूतपूर्वं राष्ट्रपाल अतीतेऽध्वन्यसंख्ययैः कल्पैरसंख्येयतरैरचिन्त्यैरतुल्यैरप्रमाणैर्विपुलैरप्रमेयैर्यदासीत्। तेन कालेन तेन समयेन सिद्धार्थबुद्धिर्नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां च बुद्धो भगवान्। तेन च समयेन अर्चिष्मान्नाम राजाभूत्। अर्चिष्मतः पुना राष्ट्रपाल राज्ञो जम्बूद्वीपे राज्यमभूत्षोडशयोजनसहस्राणि। तेन च राष्ट्रपाल कालेन तस्मिन् जम्बूद्वीपे विंशतिनगरसहस्राण्यभूवन् सर्वाणि कुलकोटिसहस्रिकाणि। तस्य खलु पुना राष्ट्रपाल राज्ञोऽर्चिष्मतो रत्नप्रभासं नाम नगरमभूद्राजधानी यत्र स राजा अर्चिष्मान् प्रतिवसति द्वादशयोजनान्यायामेन पूर्वेण पश्चिमेन च, सप्त योजनानि विस्तरेण दक्षिणेनोत्तरेण च, सप्तानां रत्नानां च सप्तप्राकारमष्टापदसुकृतम्। तेन च समयेन दशवर्षकोटिनियुतानि सत्त्वानामायुःप्रमाणमभूत्। राज्ञः पुना राष्ट्रपाल अर्चिष्मतः पुण्यरश्मिर्नाम पुत्रोऽभूदभिरूपः प्रासादिको दर्शनीयः परमशुभवर्णपुष्कलतया समन्वागतः। तस्य जातमात्रस्यैव निधानसहस्रं प्रादुर्भूतम्। सप्तानां रत्नानामेकं चात्र निधानं राज्ञः प्रासादे प्रादुर्भूतं दशपौरुषप्रमाणं सप्तानां रत्नानाम्। तस्य खलु पुना राष्ट्रपाल पुण्यरश्मे राजकुमारस्य जातामात्रस्यैव सर्वे जाम्बूद्वीपकाः सत्त्वा आत्तमनसोऽभूवन्। ये च सत्त्वा बन्धनगतास्तेषां बन्धनमोक्षोऽभूत्। तेन खलु पुना राष्ट्रपाल पुण्यरश्मिना राजकुमारेण सप्तभिर्दिवसैः सर्वशिल्पान्यधिगतानि यावन्ति लौकिकानि॥

अथ खलु राष्ट्रपाल पुण्यरश्मे राजकुमारस्य शुद्धावासकायिका देवता अर्धरात्रकालसमये संचोदयन्ति स्म-अप्रमत्तेन ते कुमार सदा भवितव्यम्। अनित्यताप्रत्यवेक्षणकुशलेन भवितव्यम्। अल्पं हि कुमार जीवितं मनुष्याणाम्। गमनीयः संपरायः। परलोकभयदर्शिना च ते भवितव्यं न सर्मक्रियोद्धुरेण। तस्यां वेलायामिमा गाथा अभाषत-

मा कुमार भव सुप्रमत्तको मा प्रमादवशमभ्युपेष्यसे।

अप्रमाद सुगतेन वर्णितो निन्दिता हि सुगतैः प्रमत्तकाः॥ २२९॥

अप्रमत्त इह ये च सूरता दानसंयमरता अमत्सराः।

सर्वसत्त्वकृपमैत्रमानसा ते भवन्ति नचिरान्नरोत्तमाः॥ २३०॥

येऽप्रमेय सुगता अतीताः सांप्रतं च हि येऽप्यनागताः।

सर्वव कुशलैस्त उद्गता अप्रमादपथ एव सुस्थिताः॥ २३१॥

अन्नपानमथ वस्त्रभोजनं हेमरूप्यमणिभूषणम्।

दत्तं तैरपि च कल्पकोटियः प्रार्थयद्भिरिह बोधिमुत्तमाम्॥ २३२॥

हस्तपादमथ कर्णनासिका याचिता ददति संप्रहर्षिताः।

सर्वबोधिगुणपूरिताशयाः ते भवन्ति नचिरान्नरोत्तमाः॥ २३३॥

रज्यसौख्यविभवांश्च सर्वशो विप्रहाय दयिताः स्रियोऽपि च।

रङ्गमायसदृशं हि संस्कृतं संश्रयस्व वनमेव निःस्पृहः॥ २३४॥

जीवितं चपलमध्रुवं सदा मृत्तिकाघटक एव भेदि च।

याचितोपममशाश्वतं सदा नात्र नित्यमशुभं कुमारक॥ २३५॥

नेह मात्र न पिता न बान्धवा धारयन्ति यतमान दुर्गतिम्।

यत्कृतं हि शुभाशुभं तत्प्रायन्तमनुयाति पृष्ठतः॥ २३६॥

कामहेतु बहुकल्पसागरा अन्यमन्यवधिता निरर्थकाः।

कस्यचिन्न च कृतं त्वया हितं व्यर्थ एव च निवेशितः श्रमः॥ २३७॥

अद्य ते जगत एषतो हितं बोधिशान्तमतुलं पदोत्तमम्।

मज्जमांसमपि चर्म शुष्यते यद्यपि त्वमपि मा कृथा श्रमम्॥ २३८॥

दुर्लभो हि सुगतस्य संभवः शान्तधर्मश्रवणं सुदुर्लभम्।

मारपक्षमवधूय यत्नतो बुद्धज्ञान नचिरेण लप्स्यसे॥ २३९॥

भद्रमित्रपरिसेवकः सदा पापमित्रपरिवर्जको भव।

सत्पथे उपनयन्ति ते सदा दुष्पथा च सततं निवारकाः॥ २४०॥

साधु वीर्यमपि कृत्व सुस्थिरं कायजीवितस्पृहां विहाय च।

वज्रकल्पहृदया दृढाश्रया बुद्धमार्गमिममेव सुश्रुतम्॥ २४१॥

दुर्लभं पदवरं ह्यनुत्तरं सर्व एव पुरिमा नरोत्तमा।

अरण्यगोचररताः प्रभंकराः तेष त्वं चर पथेऽनुवर्तकः॥ २४२॥

अरण्यवासनिरतः सदा भव मातृपुत्रपितृबान्धवान् प्रियान्।

विप्रहाय सकलं सुहृज्जनं कायजीवितकृतामपि तृष्णाम्।

एषताद्य विपुलं सुगतज्ञानसंचयम् एषता पदवरं ह्यनुत्तरम्॥ २४३॥

अथ खलु राष्ट्रपाल पुण्यरश्मी राजकुमारस्तत उपादाय दशभिर्वर्षैर्न जातु स्त्यानमिद्धमवक्रामितवान्, न जातु हसितवान्, न क्रीडितो न रमितः, न परिचारितो न जातूद्यानभूमिं गतो न जातु सखायान् दृष्ट्वा विस्मितः। न जातु गीताभिलाष्यभूत्। न राज्यधनगृहनगरेषु स्पृहामुत्पादितवान्।एवं सर्ववस्तुषु अनपेक्षोऽभूत्। एकः प्रध्यायमानः स्थितोऽभूत् प्रतिसंलीनः परमदौर्बल्यभावं विचिन्तयन्। असारमित्वरं च लोकमनाश्वसन्। अप्रियसमवधानं प्रियविनाभावं बालोल्लापनं संसाररतिनिरास्वादं राज्यसुखं विमोघधर्मं भवाभीष्टं शमतृप्तं पृथग्जनत्वं सदा विरुद्धम्। बालायुक्तजनमध्यगतोऽस्मि यन्न्वहं तूष्णीभावेनातिनामध्येयम्। स एकान्ते तूष्णीभूतः अप्रमादं विचिन्तयन् प्रियविनाभावमेकाकी विहरति स्म॥



अथ खलु राष्ट्रपाल राज्ञार्चिष्मता अन्यतरस्मिन् पृथिवीप्रदेशे रतिप्रधानं नाम नगरं मापितमभूत् कुमारस्य परिभोगार्थम्। दक्षिणेनोत्तरेण च सप्त वीथीशतानि, सप्तभिः प्राकारैः समन्ततोऽनुपरिक्षिप्तमभूत्सप्तरत्नमयैः किङ्किणीजालसमुच्छ्रितैर्मुक्ताजालरत्नयष्टिवितानैः। सर्वेषु च वीथीमुखेषु अशीतिरत्नयष्टिसहस्राणि स्थापितान्यभूवन्। सर्वस्या च रत्नयष्टयां यष्टिरत्नसूत्रसहस्राणि निबद्धान्यभूवन्। सर्वत्र च रत्नसूत्रे चतुर्दश तालपङ्क्तिकोट्यो निबद्धान्यभूवन्, यासां वातेनेरितानां वातसंघट्टितानां तद्यथापि नाम तूर्यशतसहस्रस्य घोषशब्दः स्यात्। सर्वेषु च वीथीमुखेषु पञ्च पञ्च कन्याशतानि स्थापितान्यभूवन् गीतकुशलानि नृत्तकुशलानि प्रथमयौवनप्राप्तानि सर्वजगत्परिभोग्यानि। तासां च राज्ञार्चिष्मता आज्ञा दत्ताभूत्-रात्रिदिवं भवन्तीभिर्नान्या क्था कार्यां अन्यत्र नृत्तगीतवादितेन। सर्वे रञ्जयितव्या ये केचिच्चतुर्षु दिक्ष्वागच्छन्ति। अप्येवं नाम कुमारस्य रतिचित्तमुत्पद्येत। न च कस्यचित् सत्त्वस्यापनायं वक्तव्यम्। तेषु च पुनः सर्ववीथीमुखेषु अन्नमन्नार्थिकेभ्यो दीयते, पानं पानार्थिकेभ्यः, यानं यानार्थिकेभ्यो यावद्वद्वस्त्रगन्धमाल्यविलेपनशय्योपाश्रयजीवितपरिष्कारं सुवर्णरूप्यमणिमुक्तावैडूर्य शङ्खशिलाप्रवालजातरूपरजत हस्त्यश्वशोधनं सर्वाभरणं रत्नराशयश्च स्थापिता अभूवन् सर्वजनपरिभोगार्थम्।



तेन च समयेन मध्ये नगरस्य समन्ततो योजनं गृहं कुमारस्य मापितमभूत्परिभोगाय सप्तानां रत्नानामष्टापदनिबद्धं तोरणसप्तप्रतिमण्डितम्। तत्र चैकः प्रासादः कारितोऽभूत्, यत्र चतस्रः शयनकोट्यः प्रज्ञप्तमभूत्कुमारस्य परिभोगार्थम्। तत्र च मध्ये उद्यानं मापितमभूत्सर्वपुष्पवृक्षसर्वफलवृक्षसर्वरत्नवृक्षप्रतिस्फुटं संछादितमभूत। तस्य खलु पुना राष्ट्रपाल उद्यानस्य मध्ये पुष्करिणि कारिताभूत् सप्तरत्नमयी चतूरत्नसोपानी, तद्यथा सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य। अष्टोत्तरं च सिंहमुखशतं येन गन्धोदकं प्रविशति तस्याः खलु पुनः पुष्करिण्याः। अष्टशतमेव सिंहमुखानां येन पुनरेव तद्वारि निर्वहति। उत्पलपद्मकुमुदपुण्डरीकैः सततसमितं संपुष्पिता समन्ततश्च रत्नवृक्षपरिवारिता सर्वकालिकैश्च पुष्पफलवृक्षैः परिस्फुटा। तस्याः पुष्करिण्याः तीरे अष्टशतं रत्नवृक्षाणां मापितमभूत्। सर्वस्मिन् रत्नवृक्षे षष्टिषष्टि रत्नसूत्राणि निबद्धानि। सर्वत्र च तालपङ्क्तिकोट्यो निबद्धाः। तासां च वातेनेरितानां वातसंघट्टितानां शब्दो निश्चरति तद्यथापि नाम तूर्यशतसहस्रस्य संप्रवादितस्य। सा च पुष्करिणि उपरिरत्नजालसंछादिताभूत्, मा कुमारस्य रजो पांशुर्वा शरीरे निपतिष्यतीति॥



तेन च समयेन तस्मिन् प्रासादे चतस्र आसनकोट्यः प्रज्ञप्ता अभूवन् सप्तरत्नमय्यः। सर्वस्मिंश्चासने पञ्च पञ्च दूष्यशतानि प्रज्ञ्प्तान्यभूवन्। तत्र च मध्ये आसनं प्रज्ञप्तं सप्तरत्नमयं सप्तपौरुषमुच्चत्वेन अशीतिदूष्यकोटिभिः प्रज्ञप्तम्, यत्र पुण्यरश्मी राजकुमारो निषेत्स्यत इति। सर्वत्र चासनमूले अगरुगन्धघटिका धूप्यते। त्रिष्कृत्वो दिवसस्य त्रिष्कृत्वो रात्रेः पुष्पसंस्तरः क्रियते। सुवर्णछदनाच्छादितं सुवर्णपद्मप्रलम्बितं मुक्ताजालविततं मणिरत्नप्रभावभासितमशीतिसहस्रप्रलम्बितम्। सर्वत्र च रत्नवृक्षे पताकाशतानि प्रलम्बितान्यभूवन्। सर्वत्र चोद्याने नवतिर्मणिरत्नशतसहस्राणि योजनप्रभाणि स्थापितान्यभूवन्, तेषां च प्रभया सर्वलोकोऽवभासितोऽभूत्। तस्मिन् पुना राष्ट्रपाल उद्याने शुकसारिकक्रोञ्चकोकिलमयूरहंसचक्रवाककुनालकलविङ्कजीवंजीवका मनुष्यप्रलापिनः पक्षिणोऽभूवन्। येषां निकूजितानि नदतां नन्दने देवानामिव मदनीयः शब्दो निश्चरति। कुमारस्य च परिभोगार्थं पञ्चरसशतप्रकाराणि भोजनानि सततसमितमभिसंस्कृतान्यभूवन् सर्वाकारसंपन्नानि॥



तेन च पुनः समयेन विंशवर्षाः समानाः षोडशवर्षातिक्रान्ताः कुमारकाः सर्वनगरेभ्यः समुदानीय तत्र च नगरे प्रवेशिता अभूवन् सर्वशिल्पस्थानकर्मस्थानविधिज्ञाः। सर्वलोकिकरत्युपकरणविधिज्ञानामशीतिकोट्यः तस्मिन्नगरे प्रवेशिता अभूवन्। तस्य मातापितृभ्यां कोटिः कन्यानां दत्ता, ज्ञातिसंघेन कोटिः, नैगमज्ञानपदैः कोटिः, सर्वराजेन कोटिः कन्यानां दत्ता अभूवन्। ताश्च सर्वा अभुरूपाः प्रासादिका दर्शनीयाः सर्वाः षोडशवर्षप्रमाणा जात्या गीतकुशला वाद्यकुशला नृत्तकुशला हसितकुशलाः पुरुषोपसंक्रमणकुशला आर्जवाः शिशवा मधुरा वृद्धयः पूर्वाभिलापिन्यः स्मितमुखाशोपचारकुशलाः सर्वकलासु विधिज्ञा नातिदीर्घा नातिह्रस्वा नातिस्थूला नातिगौर्यो नातिश्यामाः। यासामुत्पलगन्धो मुधात् प्रवाति, चन्दनगन्धो गात्रेभ्यः प्रवाति। व्यक्तां इव देवकन्यकाः, एकान्तमनामयचारोण्यः। तासां मध्यगतः पुण्यरश्मी राजकुमारः संगीतिसंप्रभाणितेन तत्र च संगीतिशब्दे चैवं चित्तमुत्पादयति-महानमित्रसंघो बतायं मम प्रादुर्भुतः कुशलधर्मपरिमोषकः। हन्त अनपेक्षो भविष्यामि। स तस्मिन् समये स्याद्यथापि नाम वध्यः पुरुषो दृष्ट्वा न विस्मयचित्त मुत्पादयति, एवमेव पुण्यरश्मी राजकुमारः तां प्रमदां दृष्ट्वा न विष्मयति, नापि तत्र नगरे, न च सखीभिंर्विस्मयति स्म। तैश्च दशभिर्वर्षैर्न जातु रूपनिमित्तमुद्गृहीतवान्। न शब्दनिमित्तं न गन्ध निमित्तं न रसनिमित्तं न स्पर्शनिमित्तमुद्गृहीतवान्।

अन्यत्रैवंरूपं चित्तं प्रवर्तयते स्म-कदा तावदेवंरूपादमित्रसंघमध्यान्मम मोक्षो भविष्यति ? कदाहमप्रमादचर्यां चरिष्यामि येन मे मोक्षो भविष्यति ? अथ खलु ताः कन्यकाः राज्ञोऽर्चिष्मत आरोचयन्ति स्म-न देव कुमारः क्रीडति, न रमते, न परिचारयति ? अथ खलु राष्ट्रपाल राजा अर्चिष्मानशीतिभी राजसहस्रैः सार्धं येन पुण्यरश्मी राजकुमारस्तेनोपसंक्रामत्। उपसंक्रम्याश्रुमुखः प्रवेपमानेन कायेन शोचमानो धरणितले प्रपतितः। स उत्थाय धरणितलात्पुण्यरश्मिं राजकुमारं गाथाभिध्यभाषत -



प्रक्षस्व पुत्रवररत्न मम प्रलापं

शोकार्दितो निपतितोऽस्मि भुवि क्षपान्ते।

केनाप्रियं तव कृतं मम् तद्ब्रवीहि

ज्येष्ठं ददामि यदिहास्य क्षणेन दण्डम्॥ २४४॥

प्रेक्षस्व मेऽद्य नगरं सुरसंघरम्यं

मनसा मयाभिरचित्तं यदिदं त्वदर्थे।

किमिहाङ्गमद्य विकलं मम तद्वदाशु

शक्रस्य वाद्य विभवं तव दर्शयामि॥ २४५॥

शोकार्दितं कमललोचनचारुनेत्रं

स्त्रीसंघमप्सरसमं विलपन्तमीक्ष।

एताभिरन्यैश्च रमस्व विनीय शोकं

किं शल्यविद्ध इव ध्यायसि दीनवक्रः॥ २४६॥

एताः स्वरङ्गरुचिराः सुरतेर्विधिज्ञाः

संगीतितालसमये च विनिश्चयज्ञाः।

कालस्तवाद्य सुरतस्य न शोचितस्य

म्लानं सरोरुहमिवासि किमद्य दीनः॥ २४७॥

उद्यानपुष्पफलपत्रविकीर्णशाखा।

उद्विद्धचित्रमिव चित्ररथं सुराणाम्।

संचिन्तयस्व प्रथमं हि वयस्तवेदं

कालो रते रम इहाद्य सुत प्रसीद॥ २४८॥

तुल्या तवेयमपि पुष्करिणी सुराणां

स्नानार्थमुत्पलसरोजवनाभिकीर्णा।

पद्मानि मत्तवरषट्पदभूषितानि

संचिन्त्य तां क इह नाभिरमेत पुत्र॥ २४९॥

हंसा मयूरशुकसारिककोकिलाश्च

कोणालजीवकलविङ्क मनोज्ञघोषाः।

गन्धर्वमादन इवा हिमवत्समीपे

श्रुत्वा नरः क इह नात्र रतिं लभेत॥ २५०॥

एता विमानमणिचूडसमुक्तजाला

वैडूर्यकाञ्चनचिता इव वैजयन्ते।

रत्नासनानि च वराणि वरास्तृतानि

चारुस्वरा कनककङ्कणतालपङ्क्त्यः॥ २५१॥

गम्भीरधीरवरतूर्यनिनादघुष्टा

वीथीषु दानविसरास्तव चापि हेतोः।

कन्याः सहस्रबहुगीतरुताः क्रियन्ते

श्रूयन्ति नन्दनवनेऽप्सरसां यथव।

कस्मान् त्रिविष्टपसमे भवने मनोज्ञे

विक्षिप्तचित्त इह किं न रतिं करोषि॥ २५२॥

एते कुमार तव देवसमानगर्भाः

क्रीडासखाय सह पुत्र रमस्व चैभिः।

माता पिता च तव संस्थित साश्रुकण्ठाः

किं दुःख नास्ति करुणा च जने तवास्मिन्॥ २५३॥

सोऽथाब्रवीद्गुणचितो भवदोषदर्शी

निर्विण्ण संस्कृतमनर्थिक कामभोगैः।

संसारपञ्चरगतं जगदीक्ष्यं चेदं

मोक्षार्थिकः पितरमाह शृणुष्व देव॥ २५४॥

देवाप्रियं मम् कृतं न हि केनचिन्मे

किं त्वस्ति मेऽद्य न हि कामगुणेषु छन्दः।

सर्वे प्रियां रिपुसमा हि निरानुरक्ता

ये क्लेशदुर्गतिप्रपात प्रपातयन्ति॥ २५५॥

एताः स्त्रियो ह्यबुधबालजनाभिरामा

मारस्य पाशगुणबद्ध महाप्रपाताः।

नित्यं तथा विगर्हित आर्यजनेन चैताः

सेवामि किं नरकदुर्गतिशोकमूलाः॥ २५६॥

एताः स्त्रियो हि छविमात्रकरूपरभ्याः

स्नाय्वस्थियन्त्रमशुचीभि निरर्थकोऽहम्।

प्रस्राविणी रुधिरमूत्रशकृन्मलानां

व्यक्तं श्मशानसदृशीषु कथं रमेयम्॥ २५७॥

गीतं न श्रोष्यमपि वाद्यरुतं न ग्राह्यं

स्वप्नाय माभिरतयोऽबुधमोहनाश्च।

संकल्पलालस गता अबुधा तु नाशं

किं क्लेशदास इव बालजनो भविष्ये॥ २५८॥

सर्वे इमे द्रुमलता शिशिरे प्रवृत्ते

कान्तारवृक्षसदृशा हि भवन्त्यरम्याः।

सर्वश्रियो विधमनी हि अनित्यतेयं

मोहात्प्रमादमुपयामि चले तु जीवे॥ २५९॥

चित्तं समुद्र इव तर्पयितुं न शक्यं

तृष्णाप्रवृत्तिनिरतः पुनरेव काङ्क्ष।

अन्योन्यघाति जगदीक्ष्य हि कामहेतोः

मेरुर्यथैव पवनैरहमप्रम्प्यः॥ २६०॥

न त्वं पिता न सहजा मम नापि भार्याः

त्राता न बान्धवजना नृपते ह्मपायात्।

सर्वे वयं तृणगता इव बिन्दुलेखा

मा तात चित्तवशगा भवतां प्रमत्ताः॥ २६१॥

धिग्यौवनेन मनुजेश्वर यन्न नित्यं

धिग्जीवितस्य गमनं गिरितोयशीघ्रम्।

धिक्संस्कृतं क्षयमिदं तडिदभ्रलोलं

धिक्कण्डितस्य त्रिभवे नृप कामरागः॥ २६२॥

संचोदितोऽस्मि विबुधैर्भव अप्रमत्तो

नो बोधिसत्त्व भवते विषयाभिलग्नः।

बुद्धो भवेयमिह लोकहितानुकम्पी

नास्ति प्रमादचरितस्य नरेन्द्र बोधिः॥ २६३॥

कामातुरो भवति यो नृप चित्तदासः

स हि पुण्यनाशनिरतो विनिवृत्तस्वर्गः।

हिंसासमिद्धमपि नाभिचरेत जातु

पक्षीव पञ्जरगतः कथमाश्वसेत॥ २६४॥

धातूश्च सर्पसदृशा वधकाश्च स्कन्धाः

चित्तं च सास्रवमनर्थक शून्य ग्रामः।

विषस्तम्बपुष्पित इवेह नरेन्द्र कायः

ओघेऽतिरुह्यति कथं नु रतिर्ममात्र॥ २६५॥

संप्रेक्षसे जगदिदं कुगतिप्रपन्नं

व्यक्तं पदं गगनतुल्यमपि ज्वलन्तम्।

तेषां प्रमोक्षणनिमित्तमिहाद्य राजन्

शिवधर्मनाव समुदानयितास्मि शीघ्रम्॥ २६६॥

सुप्तान् विबोधयितुमातुर जीवितार्थं

शल्य निमूलयितुमुत्पथगान् विनेतुम्।

प्रोद् घुष्य बन्धनबिमोक्ष महासहस्रे

संतर्पयंश्चिरदरिद्र सुभाषितेन॥ २६७॥

सीदन्त दुर्गतिपथादपि चोद्धरिष्ये

अन्धे चक्षुरपि तृष्णलताविशोषी।

प्रज्ञार्चिरुत्तमविमुक्तिकृतप्रदीपो

द्रक्षन्ति येन त्रिभवं नटरङ्गकल्पम्॥ २६८॥

मेघं कृपाकरुणपारमिताभ्रकूटं

सत्त्वार्थगर्जित विपश्यनविद्युमाली।

बोध्यङ्गधारसुखशीतलवृष्टिजालैः

शीतीकरोमि च जगच्चिरकालतप्तम्॥ २६९॥

एतत्स्मरन्नहमिह क्षितिशोपविष्टो

नास्तीह मे प्रणिधि संस्कृतसर्वकामैः।

बोध्यर्थिको हि विचरामिह सत्त्वहेतोः

एकांशिको न हि भवाभिरतौ ममेच्छा॥ २७०॥

जानन् वसेत्क इह पार्थिव शत्रुमध्ये

को बुद्धिमान् सभयमार्गपथं व्रजेत।

को वा सचक्षुरिह तात पतेत्प्रपाते

को बोधिमार्गमधिगम्य भवेत्प्रमत्तः॥ २७१॥

अनुस्रोत सर्वजगती प्रतिस्रोता सोऽहं

वाचा न शक्यमिह पार्थिव बोधि प्राप्तुम्।

मेरुप्रयातमपि सागरमुत्सहेयं

न त्वेव मे मन इहाभिरमेत कामैः॥ २७२॥

गच्छाशु पार्थिव वरस्वजनेन सार्धं

सर्वां हि राष्ट्ररतिमुत्सृज सर्वलोके।

आदाय गच्छतु यथाभिमतं हि यस्य

गृह्याप्रमाद मम तात न राज्यकोट्या॥ २७३॥

शक्या न नारिगणमध्यगतेन बोधिः।

प्राप्तुं शिवं पदमनुत्तरयोगक्षेमम्।

गच्छाम्यहं गिरिवनान्तरमाश्रयामि

प्राप्ता ह्यरण्यनिरतेन जिनेन बोधिः॥ २७४॥



अथ खलु राष्ट्रपाल पुण्यरश्मी राजकुमारः प्रासादतलगत एव ताभिः प्रमदाभिः सार्धं चंक्रमन्नुद्विग्नमनाः संस्त्रिभिरीर्यापथैर्विहरति। कतमैस्त्रिभिः ? स्थानेन चंक्रमेण निषद्यया। स्त्यानमिद्धपरिवर्जितः उपरिप्रासादतलगतोऽष्टम्यां भूमौ स्थितः। सोऽर्धरात्रकालसमये अश्रोषीत्-अन्तरीक्षाच्छुद्धावासकायिका देवता बुद्धस्य वर्णं भाषमाणा गच्छन्ति, विस्तरेण धर्मस्य संघस्य वर्णं भाषमाणा गच्छन्ति। श्रुत्वा च राष्ट्रपाल पुण्यरश्मी राजकुमारः संहृष्टरोमकूपजातः अश्रु निपातयति। स संवेगजातोऽञ्जलिं कृत्वा तां देवतां गाथाभिरध्यभाषत -

मयि करुण जनित्वा देवता दुःखितेऽस्मिन्

यदि न कुरुत मन्युं किंचिदेवाभिपृच्छे।

कस्य गुण वदन्तो गच्छेतात्रान्तरीक्षे

सुखितमिह मनो मे वाक्यमेतं निशाम्य॥ २७५॥

अथ खलु राष्ट्रपाल ता देवताः पुण्यरश्मिराजकुमारं गाथाभिरध्यभाषन्त -

श्रवणमुपगतस्ते किं न बुद्धः कुमार

शरणमशरणानां नाम सिद्धार्थबुद्धिः।

परचरिकुशलोऽसौ पुण्यप्रज्ञागुणढ्यो

दशनियुतसहस्राध्यायिनां तस्य संघः॥ २७६॥

पुण्यरस्मिराह -

अहमपि जिन दृक्ष्ये कीदृशं तस्य रूपं

वदत अपि च सर्वे कीदृशो चास्य वर्णः।

अहमपि परिपृच्छे कीदृशी बोधिचर्या

भवति यथ चरन् वै सर्वसत्त्वैकनाथः॥ २७७॥

अथ खलु ता देवताः पुण्यरश्मिं राजकुमारं गाथाभिरध्यभाषन्त -

स्नुग्धरुचिकेशा दक्षिणावर्तजाता

गिरिततमिव हैम शोभते चास्य चोष्णि।

गगन इव च शून्यो भासते चास्य ऊर्णा

स्फटिकमणिविशुद्धा दक्षिणा नाभि जाता॥ २७८॥

भ्रमरगणविशुद्धा नेत्र नीलोत्पलाभा

सिंहहनु नरेन्द्र बिम्ब ओष्ठः स्वयंभूः।

सृजति च सहस्रं वै रश्मिकोटीरनन्तान्

स्फुरति च त्रिसहस्रान् दुर्गतीः शोषयंश्च॥ २७९॥

समसहितसुवृत्ता दन्त चित्र सुशुक्ला

हिमरजतविशुद्धा विंशति द्वेगुणास्य।

जिनवरप्रवरस्य तस्य दंष्ट्राश्चतस्रः

स्वकमुखप्रतिच्छादा तस्य जिह्वा प्रभूता॥ २८०॥

गिरि वरसहितार्था तस्य प्रल्हादनीया

सहित अकुटिला च ब्रम्हघोषा सुयुक्ता।

तूर्यशतसहस्रैर्वाग्जिनस्यार्हतुल्या

विमतिशमकरी सा तोषणी अर्थिकानाम्॥ २८१॥

अविकलगुणचित्रा बोधि अङ्गानुकूला

हारशतसहस्रा गुम्फिता धर्ममाला।

तूर्यरतिविघुष्टा देवतागीतरम्या

अमररुचिस्वरा वै ह्लादनी वाग्जिनस्य॥ २८२॥

कीन्नरकलविङ्काकोकिलाचक्रवाका

बर्हिणकलहंसाघोष कोनालकानाम्।

ब्रम्हरुतनिर्घोषा किन्नराणां स्वराङ्गा

अखलितमनवद्या सर्वार्थानुबोधा॥ २८३॥

चित्रस्फटिकश्लक्ष्णा पण्डितानां मनापा

चोदनी विनयनीया बोधनी प्रेमणीया।

परचरिमनकूला तोषणी पृच्छमाना

इमगुण वचना चैतस्य धर्मेश्वरस्य॥ २८४॥

कम्बुरुचिर ग्रीवा शान्तसंवृत्तस्कन्धः।

दीर्घपरिघ बाहू तस्य सप्तोत्सदाङ्गम्।

कर रुचिरसुवृत्ता दिर्घवृत्ताङ्गुलीकाः

तपितकनकवर्णं तस्य गात्रं जिनस्य॥ २८५॥

रोम परिणताश्च दक्षिणो चैकजाता

नाभि निखिल दुर्गा गुह्यकोशो हयो वा।

ऊरु गजकरो वा एणजङ्घः स्वयंभूः

करतल सुविचित्रा स्वस्तिकाश्चक्रचित्राः॥ २८६॥

गजपतिगतिगामी सिंहविक्रान्तगामी

वृषभललितगामी इन्द्रयष्टिप्रवृद्धः।

गगनकुसुमवृष्टिः पुष्पछत्रा भवन्ति

व्रजतिमनुव्रजन्ति धर्म एतेऽद्भुतस्य॥ २८७॥

लाभ अथ अलाभे सौख्यदुःखे जिनस्य

अयशसि यश एवं निन्दशंसासु चैवम्।

जलरुहमिव तोयैः सर्वतो नोपलिप्तः

एवमिह नृसिंहो नास्ति सत्त्वः समोऽस्य॥ २८८॥

अथ खलु राष्ट्रपाल पुण्यरश्मी राजकुमारः बुद्धस्य वर्णं श्रुत्वा, विस्तरेण धर्मस्य संघस्य वर्णं श्रुत्वा, तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातोऽभूत्। अथ खलु राष्ट्रपाल पुष्परश्मे राजकुमारस्यैतदभवत्-यादृशः संबुधो भगवान्, यादृशी चास्य संघसंपत्, यादृशश्च तेन धर्मः साक्षात्कृतः, यादृशी चास्य शिष्यसंपत्, यथा विषयसमवधानश संसारः, यथाकृतज्ञश्च संसारः, यथाकॄतज्ञाश्च बालपृथग्जनाः, यथा विषमा च सत्कायदृष्टिः, यथा बह्वादीनवश्च गृहावासः, यथा बहुदोषाश्च कामाः, यथा गर्हितश्च पण्डितैः प्रमादः, यथा संमोहं चाविद्यान्धकारम्, यथा दुःप्रतिवेधाश्च संस्काराः, यथा दुर्दमं चित्रम्, यथा गम्भीरं नामरूपम्, यथानास्वादं षडायतनम्, यथा दुःखविपाकश्चापरिज्ञातः स्पर्शः, यथा बह्वादीनवा वेदनाः, यथा गाढबन्धना तृष्णा, यथा दुःप्रतिनिःसरणं चोपादानम्, यथानार्या भवतृष्णा, भवे सति यथा दुःखसमुच्छेद्या च जातिः, यथा विकारकरी च जरा, यथा विलोपकारकश्च व्याधिः, यथा निरुवुरक्तं च मरणम्, यथाल्पास्वादा च प्रवृत्तिः, यथा बह्वादीनवा च भवाभिनिर्वृत्तिः, यथा रमणीयं च तथागतशासनम्, नेदं शक्यं कामदासेन क्लेशसंमोहितेन चित्तखिलेन प्रमादाभिरतेन बालमध्यगतेनायोनिशश्चित्तेन

संसाररक्तचित्तेन दुर्जनमध्यगतेन न शक्यं सुगतिपन्थानमपि विशोधयितुं कुतः पुनरनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्। तस्यैतदभूत्-यन्न्वहमित एव प्रासादात्प्राङ्भुखः प्रपतेयम्, मा मे द्वारेण निष्क्रमतो ज्ञातिसंघोऽन्तरायं कुर्यात्॥



अथ खलु राष्ट्रपाल पुण्यरश्मी राजकुमारो येन भगवान् सिद्धार्थबुद्धिस्थथागतस्तन्मुखस्ततः प्रासादादात्मानमुत्सृष्टवान्, एवं च भाषते स्म-सचेत्स तथागतः सर्वं जानाति सर्वं पश्यति, समन्वाहरतु मां तथागतः। अथ खलु राष्ट्रपाल सिद्धार्थबुद्धिस्तथागतोऽर्हन् सम्यक्संबुद्धो दक्षिणपाणिं प्रसार्य प्रभां प्रामुञ्चत्, यया पुण्यरश्मि राजकुमारः स्पृष्टोऽभूत्। तस्याश्च प्रभायाः शतसहस्रपत्रं पद्मं शकटचक्रप्रमाणमात्रं प्रादुर्भूतम्। तस्माच्च पद्मात् रश्मिशतसहस्राणि निश्चरन्ति स्म, महांश्चावभासोऽभूत्, येनावभासेन पुण्यरश्मी राजकुमारः स्फुटोऽभूत्। अह्त् खलु राष्ट्रपाल पुण्यरश्मी राजकुमारस्तस्मिन् पद्मे स्थित्वा येन स भगवान् सिद्धार्धबुद्धिस्तथागतोऽर्हन् सम्यक्संबुद्धः, तेनाञ्जलिं प्रणम्य नमो बुद्धायेत्युदानमुदानयति स्म॥

अथ खलु राष्ट्रपाल तेन सिद्धार्थबुद्धिना तथागतेन सा प्रभा प्रतिसंहृता। स च कुमारस्तस्य भगवतः पादमूले छिन्नापादप इव प्रपतितः शतसहस्रकृत्वस्तथागतं वन्दते स्म॥

अथ खलु राष्ट्रपाल पुण्यरश्मी राजकुमारस्तं भगवन्तं गाथाभिरध्यभाषत-

मया चिरादद्य हि वैद्यराजः कृच्छ्रादवाप्तोऽद्य चिरातुरेण।

आचक्ष्व मे नाथ कथं स्थितोऽहं लाभी भवेयं सुगतस्य शासने॥ २८९॥

श्रुतो मया नायक अप्रमादो निशाम्य रात्रौ दिवि देवताभ्यः।

श्रुत्वा च संविग्न हि आगतोऽहं कथं नराणां भवते प्रमादः॥ २९०॥

प्रनष्टमार्गस्य भवाद्य देशिको जात्यन्धभूतस्य भवाद्य चक्षुः।

महाप्रपातादिह मां समुद्धर श्रद्धाकरा कारुणिका चिकित्सका॥ २९१॥

दरिद्रभूतस्य कुरुष्व संग्रहं बद्धस्य मोक्षं कुरु मेऽद्य नाथ।

ससंशयेभ्यो विमतिं च छिन्द चर्यां च मे व्याकुरु बोधिमार्गे॥ २९२॥

तीर्थं च संदर्शय उह्यतो मे दीपं कुरुष्वापि ममान्धकारे।

व्रणीकृतं मां हि कुरुष्व निर्व्रणं शल्यं च मे उद्धर वैद्यराज॥ २९३॥

विमोच्य मां दुर्गतिसंकटात्त्वं भवोपलम्भग्रहणं निकृन्त।

संतार मां शोकमहौघपारम् अष्टाङ्गमार्गेण महापथेन॥ २९४॥

परीत्तमायुः क्षयधर्मि जीवितं बह्वन्तरायं कुशलं भवत्यपि।

पुण्यस्य सिध्यत्यचिराद्विपाकः लब्धक्षणो मेऽद्य वदैकनिश्चयम्॥ २९५॥

एतद्धि मे व्याकुरु लोकनाथ स्याद्बोधिसत्त्वो हि यथाप्रमत्तः।

यथा चरन्नुत्तमबोधिचारिकां प्रमोचयेयं भवबन्धनाज्जगत्॥ २९६॥

अथ खलु राष्ट्रपाल सिद्धार्थबुद्धिस्तथागतः पुण्यरश्मे राजकुमारस्याध्याशयं विदित्वा विस्तरेण बोधिचर्यां संप्रकाशयति, यं श्रुत्वा पुण्यरश्मिना राजकुमारेण विमोक्षा नाम धारणी प्रलब्धा, पञ्चाभिज्ञाः प्रतिलब्धाः। स वैहायसे स्थित्वा पुष्पाण्यभिनिर्माय तं तथागतमभ्यवकिरति स्म, अभिप्रकिरति स्म॥

अथ खलु राष्ट्रपाल पुण्यरश्मि राजकुमारस्तस्मादन्तरीक्षादवतीर्य तं भगवन्तं सिद्धार्थबुद्धिं तथागतं गाथाभिरभ्यष्टावीत् -

वन्दामि ते कनकवर्णनिभा वरलक्षणा विमलचन्द्रमुखा।

वन्दामि ते असमज्ञानधरा सदृशो न तेऽस्ति त्रिभवे विरजः॥ २९७॥

मृदु चारु स्निग्ध शुभ केश जिना गिरिराजतुल्य तव चोष्णिरिह।

नोष्णीषमीक्षितु तवास्ति समो विभ्राजते भ्रुवि वरेऽपि तवोर्ण मुने॥ २९८॥

कुन्देन्दुशङ्खहिमशुभ्रनिभा नीलोत्पलाभशुभनेत्रवरा।

कृपयेक्षसे जगदिदं हि यया वन्दामि ते विमलनेत्र जिना॥ २९९॥

जिह्वा प्रभूत तनु ताम्रनि(भा) वदनं च छादयसि येनस्वकम्।

धर्मं वदन् विनयसे च जगत् वन्दामि ते मधुरस्नुग्धगिरम्॥ ३००॥

दशना शुभाः सुदृढ वज्रनिभाः त्रिंशद्दशाप्यविरलाः सहिताः।

कुर्वन् स्मितं विनयसे च जगत् वन्दामि ते मधुरसत्यकथा॥ ३०१॥

रूपेण चाप्रतिसमोऽसि जिना प्रभया च भासयसि क्षेत्रशतान्।

ब्रम्हेन्द्रपाल जगतो भगवन् जिम्हीभवन्ति तव ते प्रभया॥ ३०२॥

एणेयजङ्घ भगवन्न समा गजराजबर्हिमृगराजगतेः।

ईक्षन् व्रजस्यति युगं भगवन् संकम्पयन् धरणिशैलतटम्॥ ३०३॥

कायश्च लक्षणचितो भगवन् श्लक्ष्ण च्छवी कनकवर्णं तव।

नेक्षन् जगद् व्रजति तृप्तिमिदं रूपं तवाप्रतिमरूपधर॥ ३०४॥

त्वं पूर्व कल्पशतचीर्णतपा त्वं सर्वत्यागदमदानरतः।

त्वं सर्वसत्त्वकृपमैत्रमना वन्दामि ते परमकारुणिक॥ ३०५॥

त्वं दानशीलनिरतः सततं त्वं क्षान्तिवीर्यनिरतः सुदृढम्।

त्वं ध्यानप्रज्ञप्रभतेजधरो वन्दामि ते असमज्ञानधर॥ ३०६॥

त्व वादिशूर कुगणिप्रमथि त्वं सिंहवन्नदसि पर्षदि च।

त्वं वैद्यराज त्रिमलान्तकरो वन्दामि ते परमप्रीतिकर॥ ३०७॥

वाक्कायमानसविशुद्ध मुने त्रिभवेष्वलिप्त जलपद्ममिव।

त्वं ब्रम्हघोष कलविङ्करवा वन्दामि ते त्रिभवपारगतम्॥ ३०८॥

मायोपमं जगदिदं भवता नटरङ्गस्वप्नसदृशं विदितम्।

नात्मा न सत्त्व न च जीवगति धर्मा मरीचिदकचन्द्रसमाः॥ ३०९॥

शून्याश्च शान्त अनुत्पादनय अविजानदेव जगदुद्भ्रमति।

तेषामुपायनययुक्तिशतैरवतारत्यस्यपि कृपालुतया॥ ३१०॥

रागादिभिश्च बहुरोगशतैः संतापितं सततमीक्ष्य जगद्।

वैद्योत्तमो विचरसेऽप्रतिमः परिमोचय सुगत सत्त्वशतान्॥ ३११॥

जातीजरामरणशोकहतं प्रियविप्रयोगपरिदेवशतैः।

सततातुरं च जगदीक्ष्य मुने परिमोचयन् विचरसे कृपया॥ ३१२॥

रथचक्रवद्भ्रमति सर्वजगत् तिर्यक्षु प्रेतनिरये सुगतौ।

मूढा अदेशिक अनाथगताः तेषां प्रदर्शयसि मार्गम्॥ ३१३॥

ये ते बभूव पुरिमाश्च जिना धर्मेश्वरा जगति चार्थकराः।

अयमेव तैः प्रकथितोऽर्यपथो यं देशयस्यपि विभोऽप्रतिमः॥ ३१४॥

स्निग्धं ह्यकर्षय मनोज्ञ वरं ब्रम्हाधिकं परमप्रीतिकरम्।

गन्धर्वकिन्नरवराप्सरसामभिभूय तां गिरमुदाहरसे॥ ३१५॥

सत्यार्जवक्षयमुपायनयैः परिशोधितां गिरमनन्तगुणाम्।

श्रुत्वा हि यां नियुतसत्त्वशता यानत्रयेण जिन यान्ति शमम्॥ ३१६॥

तव पूजया सुखमनेकविधं दिव्यं लभन्ति मनुजेषु तथा।

आढ्यो महाधन महाविभवो भवते जगद्धितकरो नृपतिः॥ ३१७॥

वलचक्रवर्त्यपि च द्वीपपतिः जगदावृणोति दशभिः कुशलैः।

रत्नानि सप्त लभते सुशुभां त्वयि संप्रसादजनकोऽप्रतिम॥ ३१८॥

ब्रम्हापि शक्र अपि लोकपतिः भवते च संतुषितदेवपतिः।

परिनिर्मितोऽपि च सुयामपतिः त्वत्पूजया भवति चापि जिनः॥ ३१९॥

एवं ह्यमोघ तव पूज कृता संदर्शनं श्रवणमप्यसमम्।

भवते जगद्विविधदुःखहरः स्पृशते परं पदवरं ह्यजरम्॥ ३२०॥

मार्गज्ञ मार्गकुशला भगवन् कुपथान्निवारयसि लोकमिमम्।

क्षेमे शिवे विरज आर्यपथे प्रतिष्ठापप्यस्यपि जगद्भगवन्॥३२१॥

पुण्याधिकस्य तव पुण्यनिधेः सतताक्षया भवति पुण्यक्रिया।

बहुकल्पकोटीषु न याति क्षयं यावन्न संस्पृशति बोधिचराम्॥ ३२२॥

परिशुद्ध क्षेत्र लभते रुचिरं परनिर्मिताभ सद प्रीतिकरम्।

शुद्धाश्च कायवचसा मनसा सत्त्वा भवन्त्यपि च क्षेत्रवरे॥ ३२३॥

इत्येवमादिगुण नैकविधान् लभते जिनार्चनकृतान् मनुजः।

स्वर्गापवर्ग मनुजेषु सुखं भवते च पुण्यनिधि सर्वजगे॥ ३२४॥

कीर्तिर्यशश्च प्रसृतं विपुलं तव सर्वदिक्षु बहुक्षेत्रशतान्।

संकीर्तयन्ति सुगताः सततं तव वर्णमाल पर्षत्सु जिना॥ ३२५॥

विगतज्वरा जगति मोक्षकरा प्रियदर्शना परमकारुणिका।

शान्तेन्द्रिया शमरता भगवन् वन्दामि ते नरवरप्रवरा॥ ३२६॥

लब्धा अभिज्ञ जिन पञ्च मया गगने स्थितस्तव निशाम्य गिरम्।

भवितास्मि वीर सुगतौ प्रतिमः विभजिष्य धर्मममलं जगतः॥ ३२७॥

स्तुत्वाद्य सर्वगुणपारगतं नरदेवनागमहितं सुगतम्।

पुण्यं यदर्जितमिदं विपुलं जगदाप्नुयादपि च बुद्धपदम्॥ ३२८॥

अथ खलु राष्ट्रपाल राजा अर्चिष्मांस्तस्या रात्र्या अत्ययेनाश्रोषीत्कुमारस्यान्तःपुरे रुदितशब्दम्। श्रुत्वा च शीघ्रं त्वरमाणरूपो येन रतिप्रधानं नगरं तेनोपसंक्रामत्। उपसंक्रम्यैतदवोचत्-किं भवन्त्यो रुदन्ति ? ता अवोचान्-पुण्यरश्मी राजकुमारो न दृश्यते। अथ खलु राष्ट्रपाल राजा अर्चिष्मान् कुमारस्यार्थे छिन्नपादप इन धरणीतले प्रपतितः। स उत्थाय धरणितलात् सहस्रशश्च तन्नगरं परिचरति रुदमानः। अथ खलु राष्ट्रपाल या तस्मिन्नगरे नगरदेवता सा राजानमर्चिष्मन्तमेतदवोचत्-गतो महाराज कुमारः पूर्वस्मिन् दिग्भागे सिद्धार्थबुद्धिं तथागतं दर्शनाय वन्दनाय पर्युपासनाय॥



अथ खलु राष्ट्रपाल राजा अर्चिष्मान् कुमारस्यान्तःपुरेण सार्धं चतुरशीतिभिः प्राणकोटिनियुतशतसहस्रैर्येन पूर्वो दिग्भागस्तेनोपजगाम। येन सिद्धार्थबुद्धिस्तथागतोऽर्हन् सम्यस्संबुद्धस्तेनोपसंक्रान्तः। उपसंक्रम्य तस्य भगवतः पादौ शिरसाभिवन्दित्वा एकान्तेऽतिष्ठत्। एकान्तस्थितश्च राजा अर्चिष्मान् भगवन्तमाभिर्गाथाभिरभ्यष्टावीत् -

वन्दामि गुणज्ञानसागरं नरवीरं

यस्य नास्ति समः कुतोऽधिकस्त्रिभवेऽस्मिन्।

देवेन्द्रासुरराजसत्कृतं वरसत्त्वं

तृप्तिं नैति जनो निरीक्षतस्तव रूपम्॥ ३२९॥

द्वात्रिंशत्तव कायलक्षणा सुविशुद्धा

मेरुर्वा वररत्नचित्रितः परिशुद्धः।

श्लक्ष्णं काञ्चनवर्णसंनिभं जिनकान्तं

वन्दामि प्रियरूपदर्शनं मुनिकायम्॥ ३३०॥

कल्पानचिन्त्य शताश्च कोटियो

व्रत चीर्णा बुद्धकोटिशताश्च सत्कृता बहुकल्पान्।

यष्टा यज्ञशता अचिन्तियापरिमाणा

कायस्तेन तवाभिराजते अभिरूपः॥ ३३१॥

दानशीलसमाधिप्रज्ञयापि च क्षान्त्या

वीर्यध्यानमुपायशोधितं तव रूपम्।

चन्द्रार्कमणिद्युतिप्रभा न विराजि

शक्रब्रम्हप्रभा न भासते पुरतस्ते॥ ३३२॥

रूपं दर्शयते मनोरमं जगदर्थे

प्रतिभासोदकचन्द्रसंनिभं यथ माया।

सर्वास्वेव च दिक्षु दृश्यते जिनकायो

नो चा रूपप्रमाणु दृश्यते सुगतानाम्॥ ३३३॥

तुषितेषु क्वचिदेव दृश्यसे निवसंस्त्वं

व्यूढमानश्च पुनः सुपाण्डरगजभूतः।

मातु कुक्षिगतश्च दृश्यसेऽपि च वीरः

सर्वत्रानुगतो महामुने नभतुल्यः॥ ३३४॥

जातिं संदर्शयसे क्वचिद्भवान् दिशतासु

गच्छन् सप्त पदानि दृश्यसे क्वचिदुर्व्याम्।

ह्येष्ठोऽहं सनरामरे जगे अतिदेवो

मोचिष्ये जग दुःखसागराद्गिर मुञ्चन्॥ ३३५॥

धर्मसंशयु नास्ति ते मुने क्वचिदेव

शिक्षां चापि च लोक दृश्यते लिपिज्ञाने

शान्तं ध्यानसमाधिगोचरमनुप्राप्तं

स्त्रीणां मध्यगतश्च दृश्यते क्वचिदेव॥ ३३६॥

त्यक्त्वा मातापिता महीतले प्रमदाश्च

ज्ञातीन् शोकहतान् विमूर्च्छितान् विरुवन्तः।

निष्क्रान्तो वनवासमीक्ष्यसे पदमेकं

देवाकोटिशतैः परिवृतो वरसत्त्वः॥ ३३७॥

मारास्ते चतुरोऽपि निर्जिताश्चिरकालं

मारान् धर्षयमाण दृश्यतेऽपि च क्षेत्रे।

चक्रं वर्तयसेऽप्यचिन्तियं पुरिमेण

चक्रं वर्तयमान दृश्यसे कृपया त्वम्॥ ३३८॥

नित्यं शाश्वतदृष्टिसंज्ञितं जगदीक्ष्य

निर्वास्य इति वाच भाषसे परिषत्सु।

संसाराभिरतं जगत्सततमीक्ष्य

शान्तां शीतगतिं च निर्वृतिं वदसि त्वम्॥ ३३९॥

पुण्यज्ञानमुपायप्रज्ञतो न समस्ते

स्फुरसे कायप्रभाय त्वं मुने बहुक्षेत्रान्।

भाषन्ते तव वर्ण नायका दिशतासु

वन्दे त्वामसमन्तगोचरं मुनिराजम्॥३४०॥

वन्दामोऽपि च धर्मतामखिलप्राप्तं

सर्वसत्त्वक्रियासु दृश्यसे यथ माया।

न च तेऽस्त्यागमनं क्वचिद्गमनं वा

मायाधर्म सति प्रतिष्ठितमभिवन्दे॥ ३४१॥

साधु त्वं नरवीर भाषसे वरमार्गं

बोधिर्येन वरा ह्यवाप्यते जगदर्थे।

एतामप्यहमाशु धर्मतामनुबुद्धा

देशेयं नरवीरं धमतां जगदर्थे॥ ३४२॥

सर्वज्ञं विगतज्वरं नरवीरं

यस्य नास्ति समः कुतोऽधिकस्त्रिभवेऽस्मिन्।

स्तुत्वा पुण्यमुपार्जितं मया यदिह तेन

शान्तां बोधिवरामनुत्तरां स्पृशतु लोकः॥ ३४३॥

अथ खलु राष्ट्रपाल स तथागतः सिद्धार्थबुद्धिः राज्ञोऽर्चिष्मतोऽध्याशयं विदित्वा तथा धर्मं देशयामास यथा सर्वे अवैवर्तिका अभूवन्ननुत्तरायां सम्यक्संबोधौ॥

अथ खलु राष्ट्रपाल पुण्यरश्मी राजकुमारस्तं भगवन्तं सिद्धार्थबुद्धिं तथागतमेतदवोचत्-अधिवासयतु भगवानस्माकां नगरे श्वोभक्तेन। अधिवासयति च भगवान् पुण्यरश्मे राजकुमारस्य तूष्णीभावेनानुकम्पामुपादाय॥

अथ खलु पुण्यरश्मी राजकुमारस्तौ मातापितरौ ताश्व प्रमदा आमन्त्रयति स्म-अनुमोदयन्तु भवन्तः सर्वे सहिताः सर्वे समग्राः। यथालंकृतं रतिप्रधानं नगरं तथागतस्य निर्यातयामुनपेक्षः। तैरेकस्वरेणानुमोदितम्॥

अथ खलु राष्ट्रपाल पुण्यरश्मी राजकुमारो यथालंकृतं रतिप्रधानं नगरं तथागताय निर्यातयति स्म अनपेक्षः। पञ्चरसशतव्यूहेन च भोजनेन तं तथागतं प्रतिपादयति स्म सार्धं भिक्षुसंघेन। सर्वेषां तेषां भिक्षूणां सप्तरत्नचितान् विहारान् कारयामास मणिचंक्रमान् प्रज्ञप्तानुपरि च रत्नजालवितानविततान् वामदक्षिणेन पुष्पवृक्षसुपरिनिष्ठितान्। पुण्डरीकपुष्करिण्युपशिभितान्युभयतो मुखनिर्मलदूष्यशतसहस्रप्रज्ञप्तानि शय्यासनानि। एकैकस्य च भिक्षोरभिवन्द्य चीवरो दीयते स्म एकैकः। अन्योन्यानि चीवराण्यनिप्रदीयन्ते दिवसे दिवसे।



स त्रिभिर्वर्षकोटिभिः स्त्यानमिद्धं नावक्रामितवान्, नात्मप्रेम कृतवान्, बुद्धपूजां प्रति नान्यमनसिकारः। एतस्मिन्नन्तरे न कामवितर्कं वितर्कितवान्, न व्यापादवितर्कं न विहिंसावितर्कं न राज्यतृष्णाम्। सर्वथानपेक्षोऽभूत्काये जीविते च, प्रागेवान्यतरस्मिन् बाह्यवस्तुनि। एतस्मिन्नन्तरे यद्भगवता भाषितं तत्सर्वमवधारितम्, न च द्विरपि स तथागतः पृष्टः। एतस्मिन्नन्तरे न स्नातो न सर्पितैलेन वा गात्रं म्रक्षितम्, न पादधावनं कृतम्, न क्लान्तसंज्ञोत्पादिता, न जातु निषण्णोऽन्यत्र भक्तपरिभोगार्थमुच्चारप्रस्रावणार्थं च। यस्मिंश्च समये स तथागतः परिनिर्वृतस्तस्मिन् समये लोहितचन्द्रनस्य चिता कारिता। यत्र स तथागतो ध्मापितस्तस्मिन्नेव च पृथिविप्रदेशे वर्षशतसहस्रं धातूनां पूजां कृतवान्। सर्वं जम्बूद्वीपं सर्वपुष्पैः सर्वमाल्यैः सर्वगन्धैः सर्ववाद्यैर्यावत् सर्वपूजासत्कारान् कृत्वा पञ्चाच्चतुर्नवतिः स्तूपकोट्यः प्रतिष्ठापितवान्। ते च स्तूपाः सप्तरत्नमया रत्नजालसंछन्ना मुक्ताजालवितानवितताः। सप्तानां रत्नानां पञ्च पञ्च छत्रशतान्येकैकस्मिन् स्तूपे आरोपितवान्। सर्वत्र च स्तूपे तूर्यशतसहस्राणि निश्चारितवान्। समन्ततश्च जम्बूद्वीपे पुष्पवृक्षान् रोपितवान्। एकैकत्र दीप्यते सर्वगन्धतैलस्य। सर्वगन्धमाल्यविलेपनैश्च पूजामकरोत्। अनेनोपायेन वर्षकोटिं पूजां कॄत्वाः ततः प्रव्रजितः। स प्रव्रजिता त्रैचीवरिकोऽभवत्। नित्यं पिण्डपातचारिकोऽनैषद्यिकः। न जातु पार्श्वं दत्तवान्, न स्त्यानमिद्धमवक्रामितवान्। तेन निरामिषचित्तेन चतको वर्षकोट्यो धर्मदानं दत्तम्। न चानेनान्तशः। साधुकारोऽपि परस्यान्तिकात्प्रतिकाङ्क्षितः, कुतः पुनर्लाभसत्कारः। नापि क्लान्तोऽभूद्धर्मश्रवणेन धर्मदेशनया च। तस्य देवताः परिचर्यां कुर्वन्ति स्म। तस्य चानुशिक्षित्वा सर्वजनपदोऽन्तःपुरं सर्वपादमूलं सर्वसहायाश्च प्रव्रजिताः॥



अथ खलु राष्ट्रपाल शूद्धावासकायिकानां देवपुत्राणामेतदभवत्-पुण्यरश्मेरनुशिक्षमाणः सर्वराज्यजनकदः प्रव्रजितः। अस्माभिस्तस्योपस्थानपरिचर्या कर्तव्या। त्रयाणां रत्नानामुपस्थान कृतं भविष्यति। तस्य पुनस्तथागतस्य परिनिर्वृतस्य चतुःषष्टिवर्षकोट्यः सद्धर्मस्तस्थौ। सर्वस्य पुण्यरश्मिना भिक्षुणा बुद्धसहस्रस्य चैवंरूपा पूजा कृताभूत्॥



स्यात्खलु पुनस्ते राष्ट्रपाल एतर्हि काङ्क्षा वा विमतिर्वा विचिकित्सा वा-अन्यः स तेन कालेन तेन समयेनार्चिष्मान् नाम राजाभूत्। न खलु पुनस्त्वयैवं द्रष्टव्यम्। तत्कस्य हेतोः ? अमितायुः स तथागतस्तेन कालेन तेन समयेनार्चिष्मान्नाम राजाभूत्। स्यात्खलु पुनस्ते राष्ट्रपाल-अन्यः स तेन कालेन तेन समयेन पुण्यरश्मिर्नाम राजकुमारोऽभूत्। न खलु पुनस्त्वयैवं द्रष्टव्यम्। तत्कस्य हेतोः ? अहं स तेन कालेन तेन समयेन पुण्यरश्मिर्नाम राजकुमारोऽभूत्। यापि सा नगरदेवता, अक्षोभ्यस्तथागतोऽभूत्। तस्मात्तर्हि राष्ट्रपाल बोधिसत्त्वेन महासत्त्वेनानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन तस्य पुण्यरश्मिराजकुमारस्यानिशिक्षितव्यमध्याशयप्रतिपत्त्या प्रियाप्रियपरित्यागितया अप्रमादचर्यया-एवं दुःखाभिसंस्कारप्रतिलब्धा मेऽनुत्तरा सम्यक्संबोधिरिति। तत्तेऽनभियुक्ता लाभसत्कारश्लोकगुरुका ज्ञात्यध्यवसिता मानहता लाभहतास्तपस्विनो विहन्यन्ते, लाभहेतोः शासनाद्दूरीभवन्ति, निरर्थकं प्रव्रजिताः श्रमणदूषका बोधिसत्त्वखटुकाः कायवाक्चित्तवङ्काः नैमित्तिकाः वितथप्रतिज्ञाः स्वप्रतिज्ञातश्च्युताः चीवरपिण्डपातशय्यासनग्लानप्रत्ययभैषज्यपरिष्कारनिमित्तमध्यवसिताः। अह्रीका अनपत्रपा अचारित्रा असद्धर्मप्रसृता गोचरविरहिता बुद्धगोचराद्दूरीभूता बुद्धज्ञानविरहिताः मोक्षचित्तविरहिताः बोधिचित्तविरहिताः। तस्मात्तर्हि राष्ट्रपाल इममेवंरूपं धर्मं श्रुत्वा बोद्धव्यम्-पापमित्रान्युद्युक्तानि न सेवितव्यानि लाभार्थिकानाम्॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत-

अप्रमेये दशबलचलिते लाभे ज्ञातौ परिगतहृदया।

हित्वा बोधिं गुणशतनिचितां लाभार्थं ते परकुलनिचताः॥ ३४४॥

ध्वाङ्क्षा दुष्टा ह्रीधृतिरहिता क्षेत्रार्थं ते नमुचिवशगताः।

क्लेशाधीना भवगतिप्रणता भाषन्त्येवं वयमपि गुणिनः॥ ३४५॥

कायोऽरण्ये स्मृतिरपि नगरे लाभार्थं ते चरितविकल्पे।

दूरे मोक्षो नभ इव धरणि दूरे जाहु भुजगवदेतान्॥ ३४६॥

बुद्धो धर्मो न च प्रियवदतां तद्वत्संघो गुणशतभरितः।

हित्वा स्वर्गं कुपथप्रयाता अष्टविघातैर्भवशतविहताः॥ ३४७॥

श्रुत्वैनां मम चारिकां समुपदिष्टां

भूताध्याशयतोऽत्र युज्यथा प्रतिपत्त्या।

दुष्प्राप्यं बहुकल्पकोटिभिः क्षणप्राप्ता

तस्मादत्र यथोक्तधर्मतामभियुज्येत्॥ ३४८॥

यो हीच्छेद्वरबोधि बुध्यितुं वरयाने

स्मार्यास्तेन महीपते गुणास्तस्य।

संचिन्त्य यथाभूत योनिशः स्थातव्यमेवं

बोधि असङ्ग रिध्यते सुगतानाम्॥ ३४९॥

आर्यं वंशं निषेवते गुणप्रेक्षी

ज्ञानं तत्र उत्पादयेच्छु इवात्र।

मा एवं प्रविजह्य शासनं गुणमण्डं

सर्वास्वेतगतीषु पञ्चसू यथ बालाः॥ ३५०॥

शैलारण्यगुहानिजासिनो भवतेह

तत्रस्थाश्च म आत्म मन्यथा पटपंसी।

आत्मानं परिभाषथा सततनित्य-

मनुस्मरन्तो बुद्धकोटि विरागिता पुरिमा ये॥ ३५१॥

काये जीवित तृष्ण उत्सृह अनपेक्षा

धर्मे युज्यत तीव्र गौरवं जनयित्वा।

प्रतिपत्तिश्च मयापि भाषिता इह सूत्रे

पश्चा बोधि न तेषु दुर्लभा इह स्थित्वा॥ ३५२॥

ये युक्ताश्च इहापि हर्षिता जिनयाने

श्रुत्वा युक्त सुदुर्मना भवितारः।

तस्माद्वै जनयेत शासने अधिमुक्तिं

मा पश्चादनुताप भेष्यथा विचरमाणाः॥ ३५३॥

यश्च पुना राष्ट्रपाल बोधिसत्त्वः पञ्चपारमितासु चरेत्, यश्चेह धर्मपर्यायप्रतिपत्या संपादयेत्-अहमत्र शिक्षिष्येऽहमत्र संवरे स्थास्यामि। एष पुण्यस्कन्धोऽस्य पुण्यस्कन्धस्य पुरतः शततमामपि कलां नोपैति सहस्रतमामपि शतसहस्रतमामपि कोटिशतसहस्रतमामपि, संख्यामपि कलामपि गणनामपि उपमामपि उपनिसामपि धृतिपदमपि नोपैति। अस्मिन् खलु पुनर्धर्मपर्याये भास्यमाणे त्रिंशतां नियुतानां सदेवमानुषासुरायाश्च प्रजाया अनुत्पदन्तपूर्वाण्यनुत्तरस्यां सम्यक्संबोधौ चित्तान्युत्पन्नानि। अवैवर्त्याश्चाभूवन्ननुत्तरस्याः सम्यक्सम्बोधेः। सप्तानां च भिक्षुसहस्राणामनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि॥

अथ खलु आयुष्मान् राष्ट्रपालो भगवन्तमेतदवोचत्-किंनामायं भगवन् धर्मपर्यायः,कथं चैनः धारयामि ? एवमुक्ते भगवानायुष्मन्तं राष्ट्रपालमेतदवोचत्-अमोघप्रतिज्ञाविशुद्धमिति नाम धारय। सत्पुरुषविक्रीडितं बोधिसत्त्वचर्याविनिश्चयं नाम धारय। अर्थपारिपूरी च नाम धारय॥

इदमवोचद्भगवान्। आत्तमना आयुष्मान् राष्ट्रपालः सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्॥

इति पुण्यरश्मेः सत्पुरुषस्य पूर्वयोगसूत्ररत्नराजं समाप्तम्॥

आर्यराष्ट्रपालपरिपृच्छा नाम महायानसूत्रं समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project