Digital Sanskrit Buddhist Canon

आर्य मैत्रेय व्याकरणं

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Ārya ṁaitreya-vyākaraṇaṁ

आर्य मैत्रेय व्याकरणं

नमः आर्यमैत्रेयाय।


शारिपुत्रो महाप्रज्ञः धर्मसेनापतिबिभुः।

लोकानामनुकम्पाय शास्तारं पर्यपृच्छत॥१॥


सूत्रान्तरे पुराऽख्यातं यं लोकनायकस्य च।

बुद्धस्यानागतस्य हि मैत्रेयनाम शासनं॥२॥


व्याख्याहि तद्वलं चापि ऋद्धिं सर्वार्थवर्धनं।

श्रोतुमिच्छाम एव च नायकस्य नरोत्तम॥३॥


तच्छ्रुत्वा भगवानाह शृणु नरवरस्य त्वं।

तस्य मैत्रेयबुद्धस्य विभवं व्याकृतं मया॥४॥


शुक्ष्यन्ति च तदार्नवाः समन्तात् बहुयोजनाः।

प्रतिपाद्या भविष्यन्ति मार्गाश्च चक्रवर्तिनः॥५॥


जम्बुद्वीपं समन्ततः आयतनं तदाहि च।

आवासं सर्वभूतानां दशसहस्रयोजनम्॥६॥


नरास्तद्देशिकाश्च हि भविष्यन्ति शुभङ्कराः।

अहिंसकाश्च निर्दण्ड्याः सुसमृद्धाश्च सुभगाः॥७॥


निष्कण्टकश्च भूस्थलं समतलं हि श्यामलं।

उन्नमावनमश्रितं मृदुतूलऽपिचोपमं॥८॥


गन्धशालि जनिष्यते कृष्टिमृते च मधुरं।

नानावर्णाभिलङ्कृता भविष्यन्ति चैलद्रुमाः॥९॥


द्रुमाश्च क्रोशविस्तृता पत्रपुष्पफलानताः।

सहस्राशीतिमात्रश्च आयुस्तदा भविष्यति॥१०॥


वर्णवन्तः भविष्यन्ति बलवन्तो महाकायाः।

सत्त्वाः दक्षाश्च निष्क्लेशा निर्दोषा दिर्घजीविनः॥११॥


रोगत्रयं भविष्यति कामोजराऽग्निमान्द्यञ्च।

पञ्चशततमे वर्षे परिणीता च दारिका॥१२॥


तदा केतुमती नाम पुरी तत्र भविष्यति।

सत्त्वानाञ्च निवासनं प्राणिनां हितकारिणां॥१३॥


दीर्घा द्वादशयौजन सप्त विस्तारशो ह्यसौ।

नगरं पुण्यवच्च तत् विशुद्धञ्च मनोरमं॥१४॥


सप्तरत्नमयाः प्रांशुप्राकाराः क्रोशविस्तृताः।

नानारत्नविभूषितगोपुर-तोरणान्यपि॥१५॥


इष्टकैर्निमिताश्च ते रत्नमयैर्भविष्यन्ति।

पद्मोत्‍पलसमाच्छनाः परिखा हंसशोभिता॥१६॥


मालैर्हि परिवेष्टितं सप्ततालैस्ममन्ततः।

चतूरत्नमयास्तालाः किङ्किनीजालशोभिताः॥१७॥


तत्तालेभ्योनिलाज्जातः शब्दश्चैव मनोरमः।

सुमधुरो यथा तूर्यं तच्च पञ्चाङ्ग-संयुतं॥१८॥


नगरेऽस्मिन् नराश्च ये विश्रामसुखकामिनः।

प्रहृष्टाभिरभिष्यन्ते तालशब्दैश्च ते तदा॥१९॥

नगरमपि तत्कृतमुत्‍पलकुमुदाकीर्णं।

तडागोपवनोद्यानं त्रयमेतद्भविष्यति॥२०॥


शङ्‍खोनाम नृपस्तत्र महातेजा भविष्यति।

चतुर्द्वीर्पाधिपेश्वरश्चक्रवर्त्ती महाबलः॥२१॥


सप्तरत्नसमन्वितश्चतुरङ्गबलाधिपः।

सहस्रं हि जनिष्यन्ते पुत्रास्तदास्य भूपतेः॥२२॥


पृथिवीं सागरान्ताञ्च स परिपालयिष्यति।

यथाधर्मदण्डेण नराधिपो हि तद्यथा॥२३॥


चतुर्महानिधिस्तदा शङ्‍खाख्यस्य च भूपतेः।

रत्नानां शतकोटीनां राज्ञस्तदा हि लोक्यते॥२४॥


पिङ्गलश्च कलिङ्गेषु मिथिलायाम् च पाण्डु [कः।

एलपत्रश्च गान्धारे शंखो वाराणसीपुरे॥२५॥


चतुर्भिरेभिनिधिभिस्स राजा सुसमन्वितः।

भविष्यति महावीरः शतपुण्यबलोदितः॥२६॥


ब्राह्मणस्तस्य राज्ञाश्च सुब्रह्मणः पुरोहितः।

बहुश्रुतश्चतुर्वेदस्तस्योपाध्यायो भविष्यति॥२७॥


अध्यापको मन्त्रधरः स्मृतिमान् वेदपारगः।

कैटभे सनिघण्टे च पदव्याकरणे तथा॥२८॥


तदा ब्रह्मावती नाम तस्य भार्या भविष्यति।

दर्शनीया प्रासादिका अभिरूपा यशस्विनी॥२९॥

तुषितेभ्यश्चयवित्वा तु मैत्रेयो ह्यग्रपुग्दलः।

तस्याः कुक्षौ स नियतं प्रतिसन्धिं ग्रहीष्यति॥३०॥


दशमासांश्च] निखिलां धारयित्वा महाद्यूतिं।

सुपुष्पितेस्मिन्नुद्याने मैत्रेयजननी ततः॥३१॥


न निषण्णा निपन्ना वा स्थिता सा धर्मचारिणी।

द्रुमस्य शाखामालम्व्य मैत्रेयं जनयिष्यति॥३२॥

[निष्क्रमिष्यति पार्श्वेन दक्षिणेन नरोत्तमः।

अभ्रकूटाद्यथा सूर्यो निर्गतश्च प्रभाव्यते॥३२॥]


अलिप्तो गर्भपङ्केन कुशेशयमिवाम्वुना।

त्रैधातुकमिदं सर्वं प्रभया पूरयिष्यति॥३३॥


प्रीतोऽथ तं सहस्राक्षो देवराजा शचीपतिः।

जायमानं ग्रहीता च मैत्रेयं द्विपदोत्तमम्॥३४॥


पदानि जातमात्रश्च सप्तासौ प्रकमिष्यति।

पदे पदे निधानञ्च पद्मं पद्मं भविष्यति॥३५॥


दिशश्चतस्रश्चोद्वीक्ष्य वाचं प्रव्याहरिष्यति।

इयं मे पश्चिमा जाति नास्ति भूयः पुनर्भवः॥

न पुनरभा गमिष्यामि निर्वास्यामि निरास्रवः॥३६॥


संसारार्णवमग्नानां सत्त्वानां दुःखभागिनां।

तृष्णाबन्धनबद्धानां करिष्यामि विमोचनम्॥३७॥


श्वेतं चास्य सुराश्छत्रं धारयिष्यन्ति मूर्धनि।

शीतोष्णवारिधाराभ्यां नागेन्द्रौ स्नापयिष्यतः॥३८॥


प्रतिगृह्य च तं धात्री द्वात्रिंशद्वरलक्षणम्।

श्रिया ज्वलन्तं मैत्रेयं मात्रे समुपनेष्यति॥३९॥


मनोरमां च शिविकां नानारत्नविभूषितां।

आरूढां पुत्रसहितां वहिष्यन्ति च देवता॥४०॥


ततस्तूर्य सहस्रेषु वाद्यमानेषु तत्‍पुरं।

प्रविष्टमात्रे मैत्रेये पुष्पवर्षं पतिष्यति॥४१॥


दृष्टैवं पुत्रं सुब्रह्मा द्वात्रिंशद्वरलक्षणम्।

प्रत्यवीक्षाथ मन्त्रेषु तदा प्रीतो भविष्यति॥४२॥


गतिद्वयं कुमारस्य यथा मन्त्रेषु दृश्यते।

नराधिपश्चक्रवर्त्ती बुद्धो वा द्विपदोत्तमः॥४३॥


स च यौवनसंप्राप्तो मैत्रेयः पुरुषोत्तमः।

चिन्तयिष्यति धर्मात्मा दुःखिता खल्वियं प्रजाः॥४४॥


ब्रह्मखरो महाघोषो हेमवर्णो महाद्युतिः।

विशालवक्षः पीनांसः पद्मपत्रनिभेक्षणः॥४५॥


हस्तः पञ्चाशदुच्छ्राय तस्य कायो भविष्यति।

विसृतश्च ततोऽर्द्धेण शुभवर्णसमुच्छ्रयः॥४६॥


अशीतिभिश्चतुर्भिश्च सहस्रैः संपुरस्कृतः।

मानवानां स मैत्रेयो मन्त्रानध्यापयिष्यति॥४७॥


अथ शंखो नरपतिः यूपमुच्छ्रापयिष्यति।

तिर्यञ्च षोडश-व्यामं ऊर्द्ध्व व्यामसहस्रकम्॥४८॥


स तं यूपं नरपतिर्नानारत्नविभूषितं।

प्रदास्यति द्विजातिभ्यो यज्ञं कृत्वा पुरःसरं॥४९॥


तञ्च रत्नमयं यूपं दत्तमात्रं मनोरमं।

ब्राह्मणाणां सहस्राणि विकिरिष्यन्ति तत्‍क्षणात्॥५०॥

[यूपस्य]तस्य मैत्रेयो दृष्ट्वा चैतामनित्यतां।

कृतस्रं विचिन्त्य संसारं प्रव्रज्यां रोचयिष्यति॥५१॥


यत्वहं प्रव्रजित्वेह स्पृशेयममृतं पदं।

विमोचयेयं जनतां व्याधिमृत्युजराभयात्॥५२॥


अशीतिभिः सहस्रैस्स चतुर्भिश्च पुरस्कृतः।

निष्क्रमिष्यति मैत्रेयः प्रव्रज्यामग्रपुग्दलः॥५३॥


नागवृक्षस्तदा तस्य बोधिवृक्षो भविष्यति।

पञ्चाशद्योजनान्यस्य शाखा ऊर्द्धं समुच्छ्रिताः॥५४॥


निषद्य तस्य चाधस्तान्मैत्रेयः पुरुषोत्तमः।

अनुत्तरां शिवां बोधिं समवाप्स्यति नायकः॥५५॥


यस्यामेव च रात्रौ स प्रव्रज्यां निष्क्रमिष्यति।

तस्यां एव च रात्रौ हि परां बोधिमवाप्स्यति॥५६॥


अष्टाङ्गोपेतया वाचा ततः स पुरुषोत्तमः।

देशयिष्यति सद्धर्मं सर्वदुःखापहं शिवम्॥५७॥


प्रसन्नां जनतां दृष्ट्वा सत्यानि कथयिष्यति।

दुःखं दुःखसमुत्‍पादं दुःखस्य समतिक्रमं॥५८॥


आर्यं चाष्टाङ्गिकं मार्गं क्षेमं निर्वाणगामिनं।

तं चापि धर्मं संश्रुत्य प्रतिपत्‍स्यन्ति शासने॥५९॥


उद्याने पुष्पसंच्छन्ने सन्निपातो भविष्यति।

पूर्णं च योजनशतं पर्षत्तस्य भविष्यति॥६०॥


श्रुत्वा नरपति राजा शङ्खो नाम महायशाः।

दत्वा दानमसंख्येयं प्रव्रज्यां निष्क्रमिष्यति॥६१॥


अशीतिभिश्चतुर्भिश्च सहस्रैः परिवारितः।

नराधिपो विनिष्क्रम्य प्रव्रज्यामुपयास्यति॥६२॥


अनेनैव प्रमाणेन मानवानां पुरस्कृतः।

मैत्रेयस्य पिता तत्र प्रव्रज्यां निष्क्रमिष्यति॥६३॥

ततो गृहपतिस्तत्र सुधनो नाम विश्रुतः।

प्रव्रजिष्यति शुद्धात्मा मैत्रेयस्यानुशासने॥६४॥


स्त्रीरत्नमथ शङ्खस्य विशाखा नाम विश्रुता।

अशीतिभिश्चतुर्भिश्च सहस्रैः संपुरष्कृता॥

नारीणामभिनिष्क्रम्य प्रव्रज्यां रोचयिष्यति॥६५॥


प्राणिनः तत्र समये सहस्राणि शतानि च।

प्रव्रज्यामुपयास्यन्ति मैत्रेयस्यानुशासने॥६६॥

[सुपुष्पितेऽस्मिन्नुद्याने सन्निपातो भविष्यति।

समन्ततो योजनशतं पर्षत् तस्य भविष्यति॥६७॥]


ततः कारुणिकः शास्ता मैत्रेयः पुरुषोत्तमः।

समितिं व्यवलोक्याथ इममर्थं प्रवक्षयति॥६८॥


सर्वेते शाक्यसिंहेन गुणिश्रेष्ठेण त्रायिना।

अर्थतो लोकनाथेन दृष्ट्वा सद्धर्मधातुना।

रोपिता मोक्षमार्गेण विक्षिप्ता मम शासने॥६९॥


छत्रध्वजपताकाभिर्गन्धमाल्यविलेपनैः।

कृत्वा स्तूपेषु सत्‍कारं आगता हि ममान्तिकम्॥७०॥


संघे दत्वा च दानानि चीवरं पानभोजनं।

विविधं ग्लानभैषज्यं आगता हि ममान्तिकम्॥७१॥


कुंकुमोदकसेकं च चन्दनेनानुलेपनं।

दत्वा शाक्यमुनेः स्तूपेष्वागता हि ममान्तिकम्॥७२॥


शिक्षापदानि चाधाय शाक्यसिंहस्य शासने।

परिपालय यथाभूतं आगता हि ममान्तिकम्॥७३॥


उपोषधं उपोष्येह आर्यमष्टाङ्गिकं शुभं।

चतुर्दशीं पञ्चदशीं पक्षस्येहाष्टमीं तथा।

प्रातिहारिकपक्षं चाष्यष्टाङ्गं सुसमाहितं॥७४॥

[शीलानि च समादाय संप्राप्तानि च शासनम्।

बुद्धं धर्में च संघं च सत्त्वास्ते शासनं गताः॥

कृत्वा च कुशलं कर्म मच्छासनमुपागताः॥७५॥

तेनैते प्रेषिताः सत्त्वा प्रतिष्टाश्च मयाप्यमी।

गणिश्रेष्ठेण मुनिना परीता भूरिमेधसा॥७६॥

प्रसन्नां जनतां दृष्ट्वा सत्यानि कथयिष्यति।

श्रुत्वा च ते ततो धर्मं प्राप्स्यन्ति पदमुत्तमम्॥७७॥]

प्रातिहार्यत्रयेणासौ श्रावकान्विनयिष्यति।

सर्वेते आस्रवास्तत्र क्षिपयिष्यन्ति सुरताः॥७८॥

प्रथमः सन्निपातोस्य श्रावकाणां भविष्यति।

पूर्णाः षण्णवतिकोट्यः श्रावकाणां भवच्छिदां॥७९॥

द्वितीयः सन्निपातोस्य श्रावकाणां भविष्यति।

पूर्णाश्चतुर्नवति कोट्यः शान्तानां भूरिमेधसां॥८०॥

तृतीयः सन्निपातोस्य श्रावकाणां भविष्यति।

पूर्णाः द्वाविंशति कोट्यः शान्तानां शान्तचेतसां॥८१॥

धर्मचक्रं प्रवर्त्याथ विनीय सुरमानुषान्।

सार्धं श्रावकसंघेण पुरे पिण्डं चरिष्यति॥८२॥

ततः प्रविशतस्तस्यां रम्यां केतुमतीं पुरीं।

मान्दारकाणि पुष्पाणि पतिष्यन्ति पुरोत्तमे॥

देवताः प्रकिरिष्यन्ति तस्मिन् पुरगते मुनौ॥८३॥

चत्वारश्च महाराजा शक्रश्च त्रिदशाधिपः।

ब्रह्मा देवगणैः सार्धं पूजां तस्य करिष्यति॥८४॥

उत्‍पलं कुमुदं पद्मं पुण्डरीकं सुगन्धिकं।

अगुरुं चन्दनं चापि दिव्यं माल्यं पतिष्यति॥८५॥

चैलक्षेपं करिष्यन्ति देवपुत्रा महर्द्धिकाः।

तं लोकनाथमुद्वीक्षप प्रविशन्तं पुरोत्तमम्॥८६॥

[दिव्यश्च तूर्यनिर्घोषो दिव्यं माल्यं पतिष्यति।

देवता प्रकिरिष्यन्ति तस्मिन् पुरगते मुनौ॥८७॥

ये तु केतुमतीं केचित् वासयष्यन्ति मानुषाः।

तेपि तं पूजयिष्यन्ति प्रविशन्तं पुरोत्तमम्॥८८॥]

पथि भूम्यास्तरं तत्र मृदुतूलपिचोपमम्।

विचित्रञ्च शुभं माल्यं विकिरिष्यन्ति ते तदा॥८९॥

छत्रध्वजपताकभिरर्चयिष्यन्ति मानुषाः।

शुभैश्च तूर्यनिर्घोषैः प्रसन्नमनसो नराः॥९०॥

तं च शक्रः सहस्राक्षो देवराजः शचीपतिः।

प्रहृष्टः प्राञ्जलिर्भूत्वा मैत्रेयं स्तोष्यते जिनम्॥९१॥

नमस्ते पुरुषाजन्य नमस्ते पुरुषोत्तम।

अनुकम्पस्व जनतां भगवन्नग्रपुग्दल॥९२॥

महर्द्धिको देवपुत्रस्तस्य मारो भविष्यति।

स चापि प्राञ्जलिर्भूत्वा स्तोष्यते लोकनायकम्॥९३॥

[शुद्धावास सहस्रैश्च बहुभिः परिवारितः।

प्रवेक्ष्यते च मैत्रेयो लोकनाथो विनायकः॥९४॥]

ब्राह्मण-परिवारेण ब्रह्मा चापि गिरास्फुटम्।

कथयिष्यति सद्धर्मं ब्राह्मं घोषमुदीरयन्॥९५॥

आकीर्णा पृथिवी सर्वा अर्हद्भिश्च भविष्यति।

क्षीणाश्रवै-र्वान्तदोषैः प्रहीणभवबन्धनैः॥९६॥

हृष्टा देवमनुष्याश्च गन्धर्वा यक्षराक्षसाः।

शास्तुः पूजां करिष्यन्ति नागाश्चापि महर्द्धिकाः॥९७॥

ते वै नूनं भविष्यन्ति च्यानघाच्छिन्नसंशयाः।

[उत्‍क्षिप्तपरिखाः धीरा अनादाना निरुत्‍सकाः॥]

ब्रह्मचर्यञ्चरिष्यन्ति मैत्रेयस्यानुशासने॥९८॥

तेऽपि नूनं भविष्यन्ति अममा अपरिग्रहाः।

अजातरूपरजता अनिकेता असंस्तवाः॥

ब्रह्मचर्यञ्चरिष्यन्ति ये मैत्रेयानुशासने॥९९॥

ते वै पारं गमिष्यन्ति छित्वा जालमेव भुजात्।

ध्यानानि चोपसंपद्य प्रीतिसौख्यसमन्विताः।

ब्रह्मचर्यञ्चरिष्यन्ति मैत्रेयस्यानुशासने॥१००॥

षष्ठिं वर्ष सहस्राणि मैत्रेयो द्विपदोत्तमः।

देशयिष्यति सद्धर्मं शास्ता लोकानुकम्पया॥१०१॥

शतानि च सहस्राणि प्राणिणां स विनायकः।

विनीय धर्मकायेन ततो निर्वाणमेष्यति॥१०२॥

तस्मिंश्च निर्वृते धीरे मैत्रेये द्विपदोत्तमे।

दशवर्षसहस्राणि सद्धर्मं स्थास्यति क्षितौ॥१०३॥

प्रसादयति चित्तानि तस्माच्छाक्यमुनौ जिने।

ततोदृक्षथ मैत्रेयं संबुद्धं द्विपदोत्तमम्॥१०४॥

[तस्माद्धर्मे च बुद्धे च संघे चापि गणोत्तमे।

प्रसादयति चित्तानि भविष्यति महर्द्धिकं॥१०५॥

तं तादृशं कारुणिकं मैत्रेयं द्विपदोत्तमं।

आराधयित्वा कालेन ततो निर्वाणमेष्यथ॥१०६॥]

इदमाश्चर्यकं श्रुत्वा दृष्ट्वा च विभवानल्पिकां।

को विद्वान्न प्रसीदेत अपि कृष्णासु जातिषु॥१०७॥

तस्मादिहात्मकामेन माहात्मयमभिकांक्षताः।

सद्धर्मो गुरुकर्त्तव्यः स्मरता बुद्धशासनम्॥१०८॥

॥मैत्रेय-व्याकरणं समाप्तं॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project