Digital Sanskrit Buddhist Canon

अर्थविनिश्चयसूत्रम्।

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Arthaviniścayasūtram

अर्थविनिश्चयसूत्रम्।

श्रीमञ्जुगुरवे (श्रिये) नमः।

भगवानाह-कश्चासौ भिक्षवोऽर्थविनिश्चयो नाम धर्मपर्यायः ? यदुक्तम्-पञ्च स्कन्धाः। पञ्चोपादानस्कन्धाः। अष्टादश धातवः। द्वादशायतनानि। द्वादशाङ्गः प्रतीत्यसमुत्पादः। चत्वारि आर्यसत्यानि। द्वाविंशति इन्द्रियाणि। चत्वारि ध्यानानि। [चतस्र आरूप्यसमापत्तयः]। चत्वारो ब्रह्मविहाराः। चतस्रः प्रतिसंविदः। चतस्रः समाधिभावनाः। चत्वारि स्मृत्युपस्थानानि। चत्वारि सम्यक्प्रहाणानि। चत्वार ऋद्धिपादाः। पञ्चेन्द्रियाणि। पञ्च बलानि। सप्त बोध्यङ्गानि। आर्याष्टाङ्गमार्गः। षोडशाकारा आनापानानुस्मृतिः। चत्वारि स्रोतापत्त्यङ्गानि। दश तथागतबलानि चत्वारि वैशारद्यानि। चतस्रः प्रतिसंविदः। अष्टादश आवेणिकबुद्धधर्माः। द्वात्रिंशन्महापुरुषलक्षणानि। अशीत्यनुव्यञ्जनानि। अयं भिक्षवोऽर्थविनिश्चयस्य धर्मपर्यायस्योद्देशः॥

(१) तत्र भिक्षवः कतमे पञ्च स्कन्धाः ? तद्यथा-रूपस्कन्धः। वेदनास्कन्धः। संज्ञास्कन्धः। संस्कारस्कन्धः। विज्ञानस्कन्धः। इमे भिक्षवः पञ्च स्कन्धाः॥

(२) तत्र भिक्षवः कतमे पञ्चोपादानस्कन्धाः ? तद्यथा-रूपोपादानस्कन्धः। वेदनोपादानस्कन्धः। संज्ञोपादानस्कन्धः। संस्कारोपादानस्कन्धः। विज्ञानोपादानस्कन्धः। इमे भिक्षवः पञ्चोपादानस्कन्धाः॥

(३) तत्र भिक्षवं कतमेऽष्टदश धातवः ? तद्यथा-चक्षुधातुः। रूपधातुः। चक्षुर्विज्ञानधातुः। श्रोतधातुः। शब्दधातुः। श्रोत्रविज्ञानधातुः॥ घ्राणधातुः। गन्धधातुः। घ्राणविज्ञानधातुः। जिह्वाधातुः। रसधातुः। जिह्वाविज्ञानधातुः। कायधातुः। स्पर्शधातुः। कायविज्ञानधातुः। मनोधातुः। धर्मधातुः। मनोविज्ञानधातुः। इमे भिक्षव उच्यन्तेऽष्टादश धातवः॥

(४) तत्र भिक्षवः कतमानि द्वादशायतनानि ? यदुत चक्षुरध्यात्मिकमायतनम्। रूपमध्यात्मिकमायतनम्। श्रोत्रमध्यात्मिकमायतनम्। शब्दो बाह्यमायतनम्। घ्राणमध्यात्मिकमायतनम्। गन्धो बाह्यमायतनम्। जिह्वा अध्यात्मिकमायतनम्। रसो बाह्यमायतनम्। कायोऽध्यात्मिकमायतनम्। स्पर्शो बाह्यमायतनम्। मन अध्यात्मिकमायतनम्। धर्मो बाह्यमायतनम्। इमानि भिक्षव उच्यन्ते द्वादशायतनानि॥

(५) तत्र भिक्षवः कतमो द्वादशाङ्गः प्रतीत्यसमुत्पादः ? अविद्याप्रत्ययाः संस्काराः। संस्कारप्रत्ययं विज्ञानम्। विज्ञानप्रत्ययं नामरूपम्। नामरूपप्रत्ययं षडायतनम्। षडायतनप्रत्ययः स्पर्शः। स्पर्शप्रत्यया वेदना। वेदनाप्रत्यया तृष्णा। तृष्णाप्रत्ययादुपादानम्। उपादानप्रत्ययाद्भवः। भवप्रत्ययाज्जातिः। जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति। एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति॥ अविद्यानिरोधात्संस्कारनिरोधः। संस्कारनिरोधाद्विज्ञानानिरोधः। विज्ञाननिरोधान्नामरूपनिरोधः। नामरूपनिरोधात्षडायतननिरोधः। षडायतननिरोधात्स्पर्शनिरोधः। स्पर्शनिरोधाद्वेदनानिरोधः। वेदनानिरोधात्तृष्णानिरोधः। तृष्णानिरोधादुपादाननिरोधः। उपादाननिरोधाद्भवनिरोधः। भवनिरोधाज्जातिनिरोधः। जातिनिरोधाज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते। एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति॥



(अ) तत्र कतमा अविद्या ? यत्तत्पूर्वान्तेऽज्ञानम्। अपरान्तेऽज्ञानम्। पूर्वा(न्ता) परान्तेऽज्ञानम्। अध्यात्म अज्ञानम्। बहिर्धा अज्ञानम्। अध्यात्मबहिर्धा अज्ञानम्। कर्मण्यज्ञानम्। विपाकेऽज्ञानम्। कर्मविपाकेऽज्ञानम्। सुकृतेऽज्ञानम्। दुष्कृतेऽज्ञानम्। सुकृतदुष्कृतेषु धर्मेष्वज्ञानम्। हेतावज्ञानम्। फलेऽज्ञानम्। हेतुफलेऽज्ञानम्। हेतुसमुत्पन्नेषु धर्मेष्वज्ञानम्। प्रतीत्यसमुत्पादेऽज्ञानम्। प्रतीत्यसमुत्पन्नेषु धर्मेष्वज्ञानम्। बुद्धेऽज्ञानम्। धर्मेऽज्ञानम्। संघेऽज्ञानम्। दुःखेऽज्ञानम्। समुदयेऽज्ञानम्। निरोधेऽज्ञानम्। मार्गेऽज्ञानम्। कुशलेऽज्ञानम्। अकुशलेऽज्ञानम्। कुशलाकुशलेषु धर्मेष्वज्ञानम्। सावद्येऽज्ञानम्। अनवद्येऽज्ञानम्। सावद्यानवद्येषु धर्मेष्वज्ञानम्। सेवितव्येऽज्ञानम्। असेवितव्येऽज्ञानम्। सेवितव्यासेवितव्येषु धर्मेष्वज्ञानम्। सास्रवेऽज्ञानम्। अनास्रवेऽज्ञानम्। सास्रवानास्रवेषु धर्मेष्वज्ञानम्। संस्कृतेऽज्ञानम्। असंस्कृतेऽज्ञानम्। संस्कृतासंस्कृतेषु धर्मेष्वज्ञानम्। अतीतेऽज्ञानम्। अनागतेऽज्ञानम्। प्रत्युत्पन्नेऽज्ञानम्। अतीतानागतप्रत्युत्पन्नेषु धर्मेष्वज्ञानम्। षट् सु वा स्पर्शायतनेषु यथाभूतमज्ञानमदर्शनमनभिसमयस्तमः संमोहोऽविद्यान्धकारम्। इयमुच्यतेऽविद्येति॥



(आ) अविद्याप्रत्ययाः संस्कारा इति। संस्काराः कतमे ? त्रयः संस्काराः-कायसंस्कारःवाक्संस्कारःमनःसंस्कारश्च।तत्रकायसंस्कारःकतमः ? आश्वासः प्रश्वासः। कायिको ह्येष धर्मः, कायनिश्रितः कायप्रतिबद्धः। कायं निश्रित्य वर्तते। तस्मादाश्वासप्रश्वासाः कायसंस्कार इत्युच्यते॥ वाक्संस्कारः कतमः ? वितर्कयित्वा विचारयित्वा वाचं भाषते, नावितर्कयित्वा, नाविचार्य।तस्माद्वितर्कविचारोवाक्संस्कारइत्युच्यते॥मनःसंस्कारःकतमः ? रक्तस्य या चेतना, चित्तस्य च, तेनास्य या चेतना। चैतसिको ह्येष धर्मः। चित्तनिश्रितः चित्तप्रतिबद्धः। चित्तं निश्रित्य प्रवर्तते। तस्माच्चेतना मनःसंस्कार इत्युच्यते॥



(इ) संस्कारप्रत्ययं विज्ञानमिति। विज्ञानं कतमत् ? षड् विज्ञानकायाः। कतमे षट् ? तद्यथा-चक्षुर्विज्ञानम्। श्रोत्रविज्ञानम्। घ्राणविज्ञानम्। जिह्वाविज्ञानम्। कायविज्ञानम्। मनोविज्ञानम्। इमे षड् विज्ञानकायाः॥



(ई) विज्ञानप्रत्ययं नामरूपमिति। तत्र नामरूपम्-नाम चत्वारोऽरूपिणः स्कन्धाः। कतमे चत्वारः ? वेदनास्कन्धः। संज्ञास्कन्धः। संस्कारस्कन्धः। विज्ञानस्कन्धः। इदं नाम। रूपं कतमत् ? यत्किंचिद्रूपम्, तच्चत्वारि महाभूतानि। चत्वारि च महाभूतान्युपादाय। तद्यथा-पृथिवीधातुः। अब्धातुः। तेजोधातुः। वायुधातुः॥ पृथिवीधातुः कतमः ? यद्गुरुत्वं च कर्कशत्वं च। अब्धातुः कतमः ? यद् द्रवत्वमभिष्यन्दनत्वं च। तेजोधातुः कतमः ? यदुष्णत्वं परिपाचनत्वं च। वायुधातुः कतमः ? यदाकुञ्चनः प्रसारणः लघुसमुदीरणत्वं च। यदिदं रूपं पूर्वकं (च) नाम, तदुभयमेकत्राभिसंक्षिप्य नामरूपमित्युच्यते॥



(उ) नामरूपप्रत्ययं षडायतनमिति। षडायतनं कतमत् ? चक्षुरायतनम्। श्रोत्रायतनम्। घ्राणायतनम्। जिह्वायतनम्। कायायतनम्। मनआयतनम्। इदमुच्यते षडायतनम्॥



(ऊ) षडायतनप्रत्ययः स्पर्श इति। स्पर्शः कतमः ? षट् स्पर्शकायाः-चक्षुसंस्पर्शः। श्रोत्रसंस्पर्शः। घ्राणसंस्पर्शः। जिह्वासंस्पर्शः। कायसंस्पर्शः। मनःसंस्पर्शः। (अयमुच्यते स्पर्शः)॥



(ए) स्पर्शप्रत्यया वेदना। वेदना कतमा ? षड् वेदनाः। कतमे (माः ?) षट् ? चक्षुःसंस्पर्शजा वेदना सुखा दुःखा अदुःखासुखा च। श्रोत्रसंस्पर्शजा वेदना सुखा दुःखा अदुःखासुखा च। घ्राणसंस्पर्शजा वेदना सुखा दुःखा अदुःखासुखा च। जिह्वासंस्पर्शजा वेदना सुखा दुःखा अदुःखासुखा च। कायसंस्पर्शजा वेदना सुखा दुःखा अदुःखासुखा च। मनःसंस्पर्शजा वेदना सुखा दुःखा अदुःखासुखा च। इयमुच्यते वेदना॥



(ओ) वेदनाप्रत्यया तृष्णा। कतमा तृष्णा ? षट् तृष्णाकायाः। कतमे षट् ? रूपतृष्णा। शब्दतृष्णा। गन्धतृष्णा। रसतृष्णा। स्पर्शतृष्णा। धर्मतृष्णा। (इयमुच्यते तृष्णा)॥



(क) तृष्णाप्रत्ययमुपादानम्। उपादानं कतमत् ? चत्वारि उपादानानि। कतमानि चत्वारि ? तृष्णोपादानम्। शीलव्रतोपादानम्। आत्मवेदनोपादानम्। (इदमुच्यते उपादानम्)॥



(ख) उपादानप्रत्ययो भव इति। भवः कतमः ? त्रयो भवाः। कतमे त्रयः ? कामभवः। रूपभवः। आरूप्यभवश्च। तत्र कामभवः कतमः ? तद्यथा-नरकाः। तिर्यञ्चप्रेताः। असुराः। षट् कामावचरा देवाः॥ तद्यथा-अष्टौ महानरकाः। कतमेऽष्टौः ? तद्यथा- उष्णा महानरकाः। संजीवः। कालसूत्रः। संघातः। द्वौ च रौरवौ। तपनः। प्रतापनः। अवीचिश्च। इति॥ महानरकाः॥ तद्यथा-अर्बुदः। निरर्बुदः। अटटः। हहवः। हुहुवः। उत्पलः। पद्मः। महापद्मः॥ कतमे षट् देवाः ? चातुर्महाराजिका देवाः। त्रायस्त्रिंशाः। यामाः। तुषिताः। निर्माणरतयः। परनिर्मितवशवर्तिनो देवाः॥ तत्र रूपभवः कतमः ? तद्यथा-ब्रम्हकायिकाः। ब्रह्मपुरोहिताः। महाब्रह्माणः। परीत्ताभाः। अप्रमाणाभाः। आभास्वराः। परीत्तशुभाः। अप्रमाणशुभाः। शुभकृत्स्नाः। अनभ्रकाः। पुण्यप्रसवाः। अबृहाः। अतपाः। अबृहाः। सुदर्शनाः। अकनिष्ठाश्चेति॥ आरूप्यधातवः कतमाः ? तद्यथा-आकाशानन्त्यायतनम्। विज्ञानानन्त्यायतनम्। आकिंचन्यायतनम्। नैवसंज्ञानासंज्ञायतनम्॥ आरूपिणां देवानां चित्तमात्रमध्यायिनां चातुर्विधा उपपत्तिः। अयमुच्यते उपादानप्रत्ययो भवः॥



(ग) भवप्रत्यया जातिरिति। जातिः कतमाः ? या तेषां तेषां सत्त्वानां तस्मिंस्तस्मिन् सत्त्वनिकाये जातिः, संजातिः, अवक्रान्तिः, अभिनिर्वृत्तिः, स्कन्धानां प्रादुर्भावः, आयतनानां प्रतिलम्भः, जीवितेन्द्रियस्योद्भवः। (इयमुच्यते जातिः। )॥



(घ) (जातिप्रत्ययं जरामरणम्। जरा कतमा ? ) निकायसभागतायास्तस्या यत् खालित्यं पालित्यं वलीप्रचुरता जीर्णता भुग्नता कुब् जगोपानसीवक्रता खुरुखुरुश्वासप्रश्वासश्च तिलकालकोपहतगात्रता पुरतः प्राग्भारकायता दण्डावष्टम्भता इन्द्रियाणां परिपाकः परिभेदः संभाराणां पुराणीभावो जर्जरीभावः धन्धत्वं मन्दत्वं हानिः परिहाणिः। इयमुच्यते जरा॥ तत्र मरणं कतमत् ? यत्तेषां सत्त्वानां तस्माच्छविकायाच्च्युतिः च्यवनता भेदोऽन्तर्धानं मरणं कालक्रिया आयुषो हानिः उष्मणो हानिः जीवितेन्द्रियस्य निरोधः स्कन्धानां निक्षेपः। इदमुच्यते मरणम्॥ यदेतन्मरणं पूर्विका च जरा, तदुभयमेकत्राभिसंक्षिप्य जरामरणमित्युच्यते॥ अयं भिक्षवो द्वादशाङ्गप्रतीत्यसमुत्पादस्यायं विभङ्ग इति॥



(६) तत्र कतमानि चत्वार्यार्यसत्यानि ? तद्यथा-दुःखमार्यसत्यम्। दुःखसमुदयमार्यसत्यम्। दुःखनिरोधमार्यसत्यम्। दुःखनिरोधगामिनी प्रतिपदा आर्यसत्यम्॥ तत्र दुःखमार्यसत्यं कतमत् ? तद्यथा-जातिर्दुःखम्। जरा दुःखम्। व्याधिर्दुःखम्। मरणं दुःखम्। प्रियविप्रयोगो दुःखम्। अप्रियसंयोगो दुःखम्। रूपं दुःखम्। वेदना दुःखम्। संज्ञा दुःखम्। संस्कारा दुःखम्। विज्ञानं दुःखम्। यदपीत्थं पर्येष्यमाणं न लभ्यते तदपि दुःखम्। संक्षेपेण पञ्चोपादानस्कन्धा दुःखम्। इदमुच्यते दुःखमार्यसत्यम्॥ तत्र दुःखसमुदयमार्यसत्यं कतमत् ? तद्यथा-येयं तृष्णा पौनर्भविकी नन्दीरागसहगता तत्रतत्राभिनन्दिनी, इदमुच्यते दुःखसमुदयमार्यसत्यम्॥ तत्र कतमद्दुःखनिरोधमार्यसत्यम् ? यदस्या एव तृष्णायाः पौनर्भविक्या नन्दीरागसहगतायास्तत्रतत्राभिनन्दिन्या अशेषतः प्रहाणं प्रतिनिःसर्गो व्ययीभावः क्षयो विरागो निरोधो व्युपशमोऽस्तंगमः, इदमुच्यते दुःखनिरोधमार्यसत्यम्॥तत्रदुःखनिरोधगामिनीप्रतिपदाआर्यसत्यंकतमत् ? यदुत सम्यग्दृश्या(ष्ट्यादि ?)भिरार्याष्टाङ्गमार्गः। तद्यथा-कश्चित्पुरुषो ज्वराभिभूतः कुशलसंपद्दृष्टकर्माणं श्रुतशास्त्रं वैद्यमुपसंक्रम्य कथयेदेवम्-ज्वरेऽशान्तिभूतोऽस्मि। अस्योपशमायौषधमुपदिश्यमानमिच्छामीति। स तस्य भिषक् प्राङ् निदानं पृच्छेत्-किं त्वया भुक्तं पीतं चेति। आतुरस्तस्य कथयेत्-मया हि दधि त्रपुषं भक्षितम्, अन्नपानं तक्रं पीतमिति। स तस्य भिषग् विशेषणमुपदिश्य औषधमुपदिशेत्। एवमेव जात्यादिमहाज्वरसंतापिताः साधवो महाचित्तभिषजं महाकारुणिकं नाथं तथागतमुपसंक्रम्य दुःखज्वरापहं धर्मं पृच्छेयुः। तेभ्यो भगवान् निदानं समुदयाख्यामाख्याय आर्याष्टाङ्गो मार्गो महौषधं शान्तिकरं निर्वाणमुपदिशेत्। क्लेशातुरोऽप्येनं मार्गं भावयन् नचिरात्सर्वदुःखक्षयमवाप्य निर्वाणपुरं गत्वा परिशान्तिमवाप्नोतीति॥ एतानि खलु भिक्षवश्चत्वार्यार्यसत्यानि॥



(७) तत्र भिक्षवः कतम आर्याष्टाङ्गमार्गः ? तद्यथा-सम्यग्दृष्टिः। सम्यक्संकल्पः। सम्यग्वाक्। सम्यक्कर्मान्तः। सम्यगाजीवः। सम्यग्व्यायामः। सम्यक्स्मृतिः। सम्यक्समाधिरिति॥ तत्र भिक्षवः कतमा सम्यग्दृष्टिः ? अस्त्ययं लोकः, अस्ति परलोकः, अस्ति पिता, अस्ति दत्तम्, अस्ति हुतम्, अस्ति इष्टानिष्टसुकृतदुष्कृतानां कर्मणां फलविपाकः, सन्ति लोके सम्यग्गताः सम्यक्प्रतिपन्ना इति। इयं भिक्षवः सम्यग्दृष्टिः। सम्यक्संकल्पः कतमः ? बुद्धत्वादिपरिणामितं दानम्, शीलं च चक्रवर्त्यादिपरिणामितम्।अयंभिक्षवःसम्यक्संकल्पः॥सम्यग्वाक्कतमा ? इह भिक्षवः पारुष्यानृतपैशुन्यसंभिन्नप्रलापवर्जिता अनमृतवाक्। इयमुच्यते सम्यग्वाक्॥ सम्यक्कर्मान्तः कतमः ? कायवाङ्मनसां दशकुशलेषु कर्मपथेषु व्यापारः। तत्र कायिकं त्रिविधम्-प्राणातिपाताददत्तादानात्काममिथ्याचाराद्विरतिः। वाचिकं चतुर्विधम्-अनृतपारुष्यपैशुन्यसंभिन्नप्रलापाद्विरतिः। मानसिकं त्रिविधम्-अभिध्याव्यापादमिथ्यादृष्ट्याविरतिः॥तत्रप्राणातिपातःकतमः ? प्राणी च भवति, प्राणिसंज्ञी च भवति, वधकचित्तं चोत्पादयति, जीविताद्व्यपरोपयति। अयमुच्यते भिक्षवः प्राणातिपातः। अन्यत्र प्रमादाददृष्टाद्वा अप्राणिवधः॥ तत्र अदत्तादानं कतमत् ? स्तेयचित्तस्य परद्रव्यस्वीकरणमदत्तादानम्, अन्यत्र मातापितृभ्रातृस्वजनमित्रद्रव्यस्य स्वल्पस्यानुपरोधिनो ग्रहणमदत्तादानम्॥ तत्र काममिथ्याचारः कतमः ? परस्त्री (णा) मुपभोगो भर्तृराजामातापितृरक्षितानाम्। अथवा अस्थानगम्यादेशकालेषु विप्रतिपत्तिः कायिक(की)। एवं त्रिविधः॥ अनृतं कतमत् ? साक्षिप्रश्नेऽयथाभूतान् वितथवचनमनहिता वा अर्हन्नस्मीति परिहास्यवस्तु, इदमुच्यते अनृतम्॥ पैशुन्यं कतमत् ? अभूतेन सत्येन वा भेदकरणवचनं पैशुन्यम्॥ पारूष्यं कतमत् ? परदुःखचिकीर्षोर्यदनिष्टवचनश्रावणदुःखमस्य भवतु, इत्यनया बुद्ध्या यद् निष्ठूरवचनश्रावणं क्रियते, तत्पारुष्यम्॥ संभिन्नप्रलापः कतमः ? राजकथा चौरकथा द्यूतकथा मद्यकथा स्त्रीकथा आख्यायिकाकथा। अयमुच्यते संभिन्नप्रलापः। वाचिकमेव चतुर्विधम्॥ अभिध्या कतमा ? परद्रव्यस्वीकरणेच्छया अन्यस्य द्रव्याणि तानिः मम स्युरितीयमुच्यते अभिध्या॥ व्यापादः कतमः ? परस्य जीवितव्यपरोपणमवच्छेदनपीडनादिचिन्तनम्। अयमुच्यते व्यापादः॥ मिथ्यादृष्टिः कतमा ? नास्त्ययं लोकः, नास्ति परलोकः इत्यादि पूर्ववत्। एतन्मानसं त्रिविधम्। इयमुच्यते मिथ्यादृष्टिः॥ अथ सम्यगाजीवः कतमः ? भिक्षोस्तावत् कुहना लपना नैमित्तिकत्वं नैष्पेषिकत्वं लाभेन लाभप्रतिकाङ्क्षा सम्यगाजीवः। कुहनालपनादयः। तत्र कुहना कतमा ? भिक्षुर्दानपतिं दृष्ट्वा पर्यङ्कं बद्ध्वा पथि शून्यागारे निषीदति ध्यायी-भिक्षुरर्हन्निति लाभसत्कारो मे भविष्यति, एवमादिका कुहनेत्युच्यते॥ तत्र लपना कतमा ? इह भिक्षुर्लाभसत्कारनिमित्तमेव त्वं मे माता, त्वं मे दुहितेति, एवमन्यान्यपि प्रियवचनानि ब्रवीति। एवमादिका लपनेत्युच्यते॥ तत्र नैमित्तिकत्वं कतमत् ? भिक्षुस्तावत् पिण्डपात्रं परिभुक्त्वा सकृदसकृद् यद् ब्रूते-यादृशोऽयं पिण्डपातः, तादृशोऽन्येषु उपासकगृहेषु न लभ्यते। अलाभसत्कारचित्तस्य तु वदतो नैव दोषः। इदमुच्यते नैमित्तिकत्वम्॥ तत्र नैष्पेषिकत्वं कतमत् ? भिक्षुस्तावद् यत्र गृहे पिण्डपात्रं न लभते, दापयितुकामश्च भवति, तत्र ब्रूते-अदानपतयो निरयं गच्छन्ति। यूयमपि अदानपतयः व्यक्तं निरयगामिनः, इति नरकभयभीतेभ्यः पिण्डपात्रमनु प्रयच्छति, तं च लब्ध्वा परिभुङ्क्ते। इदमुच्यते नैष्पषिकत्वम्॥ तत्र लाभेन लाभप्रतिकाङ्क्षा कतमा ? भिक्षुस्तावदात्मीयेन धनेन शोभनानिचीवराणि चोपक्रीय उपासकेभ्यो दर्शयति-ईदृशानि वयं वस्त्राणि दानपतिभ्यो लभामहे इति। तेनाञ्जितानि वस्त्राणि प्रयच्छन्ति। तानि परिभुङ्क्ते। इयमुच्यते भिक्षोर्लाभेन लाभप्रतिकाङ्क्षा। अयं भिक्षवो मिथ्याजीवः, तस्माद्विरतिः सम्यगाजीवः॥ इह खलु भिक्षवः उपासकस्य मिथ्याजीवः कतमः ? विषविक्रयः। शस्त्रविक्रयः। सत्त्वविक्रयः। मद्यविक्रयः। मांसविक्रयः। अप्रवेक्षिततिलसर्षपपीडनम्। अयमुपासकस्य मिथ्याजीवः। अस्माद्विरतिः। अयमुच्यते भिक्षवः सम्यगाजीवः॥ सम्यग्व्यायामः कतमः ? अभिवादनबहुलप्रत्युपस्थानाञ्जलिः सामीचीकर्मकरणम्। अयमुच्यते भिक्षवः सम्यग्व्यायामः॥ सम्यक्स्मृतिः कतमाः ? इह खलु भिक्षवो भिक्षुः स्त्रियं दृष्ट्वा उत्पन्ने रागे बाह्यात्मिकयोः शरीरयोरशुभाकारेण यथाभूतदर्शी भवति-सन्त्यस्मिन् काये केशा रोमाणि नखा दन्ता रजोमलत्वङ्मांसम्, अस्थिस्नायुसिरा वृक्का हृदयम् (आ) मक आमाशयः पक्काशयः अन्त्राणि अन्त्रगुणा ओदरीयकं यकृत् परीषमश्रु स्वेदः खेलकः सिंघाणको वसा लसीका मज्जा मेदः पित्तं श्लेष्मा पूयं शोणितं मस्तकलुङ्गमुच्चारप्रस्रवैः पूर्णं नानाप्रकारकमशुचिरिति।इयमुच्यतेभिक्षवःसम्यक्स्मृतिः॥सम्यक्समाधिःकतमः ? चत्वारि ध्यानानि। इह भिक्षवो भिक्षुः विविक्तं कामैः विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमध्यानमुपसंपद्य विहरति। स वितर्कविचारव्युपशमादध्यात्मसंप्रसादाच्चेतस एकोतिभावादवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयध्यानमुपसंपद्यं विहरति। स प्रीतेर्विरागादुपेक्षको विहरति स्मृतः संप्रजानन्, सुखं च कायेन प्रतिसंवेदयते-यत्तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी-तृतीयं ध्यानमुपसंपद्य विहरति। स सुखस्य च प्रहाणाद्दुःखस्य च प्रहाणात् पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्तंगमाददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थध्यानमुपसंपद्य विहरति। इमानि खलु भिक्षवश्चत्वारि ध्यानानि। अयमुच्यते सम्यक्समाधिः॥ अयमुच्यते भिक्षवः आर्याष्टाङ्गो मार्गः॥



(८) द्वाविंशतीन्द्रियाणि कतमानि ? यदुत चक्षुरिन्द्रियं श्रोत्रेन्द्रियं घ्राणेन्द्रियं जिह्वेन्द्रियं कायेन्द्रियं मनेन्द्रियं पुरुषेन्द्रियं स्त्रीन्द्रियं दुःखेन्द्रियं सुखेन्द्रियं सौमनस्येन्द्रियं दौर्मनस्येन्द्रियं उपेक्षेन्द्रियं श्रद्धेन्द्रियं वीर्येन्द्रियं समाधीन्द्रियं स्मृतीन्द्रियं ज्ञानेन्द्रियं जीवितेन्द्रियम्, अनाज्ञातमाज्ञास्यामीन्द्रियम्, आज्ञेन्द्रियम्, आज्ञातावीन्द्रियम्। इमानि भिक्षव द्वाविंशतीन्द्रियाणि॥



(९) तत्र भिक्षवश्चात्वारि ध्यानानि कतमानि ? इह भिक्षवो भिक्षुर्विविक्तं कामैः विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति। स वितर्कविचाराणां व्युपशमादध्यात्मसंप्रसादाच्चेतस एकोतिभावादवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसंपद्य विहरति। स प्रीतेर्विरागादुपेक्षको विहरति, स्मृतः संप्रजन्यं च(संप्रजानन्) सुखं कायेन प्रतिसंवेदयते-यत्तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी-तृतीयं ध्यानमुपसंपद्य विहरति। स सुखस्य च प्रहाणाद्दुःखस्य च प्रहाणात् पूर्वमेव सौमनस्यदौर्मनस्ययोरस्तंगमाद दुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरति॥ इमानि भिक्षवश्चत्वारि ध्यानानि॥



(१०) तत्र कतमे चत्वारो ब्रह्मविहाराः ? इह भिक्षवो भिक्षुर्मैत्रीसहगतेन चित्तेन अवैरेण असंपन्नेन अव्याबाधेन विपुलेन महद्गतेन अप्रमाणेन सुभावितेन एकाद्रिसमं विमुच्य स्फुरित्वा उपसंपद्य विहरति, तथा द्वितीयम् , तथा तृतीयम्, तथा चतुर्थम्, इति ऊर्ध्वमधस्तिर्यक् सर्वशः सर्वावन्तमिमं लोकं मैत्रीसहगतेन चित्तेन अवैरेण असंपन्नेन अव्याबाधेन विपुलेन महद्गतेन अद्वयेन अप्रमाणेन सुभावितेन एकां दिशमधिमुच्य स्फुरित्वा उपसंपद्य विहरति। एवं करुणासहगतेन, मुदितासहगतेन, उपेक्षासहगतेन चित्तेन अवैरेण असंपन्नेन अव्याबाधेन विपुलेन महद्गतेन अद्वयेन अप्रमाणेन सुभावितेन एकां दिशमधिमुच्य स्फुरित्वा उपसंपद्य विहरति। इमे चत्वारो ब्रह्मविहाराः॥



(११) तत्र कतमाश्चतस्रः प्रतिसंविदः ? अस्ति दुःखा प्रतिपद् धन्धाभिज्ञा। अस्ति दुःखा प्रतिपत् क्षिप्राभिज्ञा। अस्ति सुखा प्रतिपद् धन्धाभिज्ञा। अस्ति सुखा प्रतिपत् क्षिप्राभिज्ञा। तत्र कतमा सा दुःखा प्रतिपद् धन्धाभिज्ञा ? इहैकत्यः प्रकृत्यैव तीव्ररागो भवति, तीव्रद्वेषो भवति, तीव्रमोहो भवति। सोऽभीक्ष्णं तीव्ररागजं दुःखदौर्मनस्यं प्रतिसंवेदयति। सोऽभीक्षणं तीव्रद्वेषतया द्वेषजं दुःखदौर्मनस्यं प्रतिसंवेदयति। सोऽभीक्षणं तीव्रमोहतया मोहजं दुःखदौर्मनस्यं प्रतिसंवेदयति। तस्येमानि पञ्च लोकोत्तराणिइन्द्रियाणिधन्धानिभवन्तिमृदूनिसशीघ्रवाहीनि।कतमानिपञ्च ? यदुत श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम्। स एषां पञ्चानां लोकोत्तराणमिन्द्रियाणां मृदुत्वादशीघ्रवाहित्वाच्च धन्धमेवानन्तर्यसमाधिं स्पृशति यदुत आस्रवाणां क्षयाय। इयं दुःखा प्रतिपद्धन्धाभिज्ञा। तत्र कतमा दुःखा प्रतिपत्क्षिप्राभिज्ञा ? इहैकत्यः प्रकृत्यैव तीव्ररागो भवति, तीव्रद्वेषो भवति, तीव्रमोहो भवति। सोऽभीक्ष्णं तीव्ररागतया रागजं दुःखदौर्मनस्यं प्रतिसंवेदयति। अभीक्ष्णं तीव्रद्वेषतया द्वेषजं दुःखदौर्मनस्यं प्रतिसंवेदयति। अभीक्ष्णं तीव्रमोहतया मोहजं दुःखदौर्मनस्यं प्रतिसंवेदयति। तस्येमानि पञ्च लोकोत्तराणि इन्द्रियाणि अधिमात्राणि भवन्ति तीक्ष्णानि शीघ्रवाहीनि। कतमानि पञ्च ? यदुत श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम्। स एषां पञ्चानां लोकोत्तराणामिन्द्रियाणामधिमात्रत्वाच्छीघ्रवाहित्वाच्च क्षिप्रमेवानन्तर्यं समाधिं स्पृशति यदुत आस्रवाणां क्षयाय। इयं दुःखा प्रतिपत्क्षिप्राभिज्ञा॥ तत्र कतमा सुखा प्रतिपद्धन्धाभिज्ञा ? इहैकत्यः प्रकृत्यैव अल्परागो भवति, अल्पद्वेषो भवति। सोऽ(ल्प)रागतया नाभीक्ष्णं रागजं दुःखदौर्मनस्यं प्रतिसंवेदयति। अल्पद्वेषतया नाभीक्ष्णं द्वेषजं दुःखदौर्मनस्यं प्रतिसंवेदयति। अल्पमोहतया नाभीक्ष्णं मोहजं दुःखदौर्मनस्यं प्रतिसंवेदयति। तस्येमानि पञ्च लोकोत्तराणीन्द्रियाणि धन्धानि भवन्ति मृदूनि न तीक्ष्णानि न शीघ्रवाहीनि। कतमानि पञ्च ? यदुत श्रद्धेन्द्रियं वीर्यन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियं। स एषां पञ्चानामिन्द्रियाणां धन्धात्वान्मृदुत्वादशीघ्रवाहित्वाच्च धन्धमेवानन्तर्यं समाधिं स्पृशति यदुतास्रवाणां क्षयाय। इयं सुखा प्रतिपद्धन्धाभिज्ञा॥ तत्र कतमा सुखा प्रतिपत्क्षिप्राभिज्ञा ? इहैकत्यः प्रकृत्यैवाल्परागो भवति, अल्पद्वेषोऽल्पमोहः। सोऽल्परागतया नाभीक्ष्णं रागजं दुःखदौर्मनस्यं प्रतिसंवेदयति। अल्पद्वेषतया नाभीक्ष्णं द्वेषजः दुःखदौर्मनस्यं प्रतिसंवेदयति। अल्पमोहतया नाभीक्ष्णं मोहजं दुःखदौर्मनस्यं प्रतिवेदयति। तस्येमानि पञ्च लोकोत्तराणीन्द्रियाण्यधिमात्राणि तीक्ष्णानि शीघ्रवाहीनि। कतमानि पञ्च ? यदुत श्रद्देन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम्। स एषां पञ्चानामिन्द्रियाणामधिमात्रत्वात् तीक्ष्णत्वाच्छीघ्रवाहित्वाच्च क्षिप्रमेवानन्तर्यं समाधिं स्पृशति यदुत आस्रवाणां क्षयाय। इयमुच्यते सुखा प्रतिपत्क्षिप्राभिज्ञा। इमा भिक्षवः चतस्रः प्रतिसंविदः॥



[१२] तत्र कतमाश्चतस्त्रः समाधिभावनाः?...........अस्ति भिक्षवः समाधिभावना आसेविता भाविता बहुलीकृता ज्ञानदर्शनप्रतिलाभाय संवर्तते। अस्ति समाधिभावना आसेविता भाविता बहुलीकृता प्रज्ञाप्रतिलम्भाय संवर्तते। तत्र कतमा समाधिभावना आसेविता भाविता बहुलीकृता कामरागप्रहाणाय संवर्तते ? इह भिक्षवो भिक्षु रिममेव कायमूर्ध्वं पादतलादधः केशमस्तकादिपर्यन्तं यथास्थितं तथाप्रणिहितं पूर्णं नानाप्रकारस्याशुचेर्यथाभूतं सम्यक् प्रज्ञया प्रत्यवेक्षते-यदुत अयं कायः अनुपूर्वेण समुदागतोऽपूर्वविनाशी परमाणुसंचयः सुषिर उन्नामोन्नामनान्मानवव्रणसुमुखरोमकूपस्रावी वल्मीकवदाशीविषनिवासः। आशीविषतत्कृतजः। अज्ञानशत्रुमकृतविन्मित्रद्रोही(?)। कुमित्रवद्विसंवादकः। फेनपिण्डवत्प्रकृतिदुर्बलः। उदकबुद्बुदवदुत्पन्नभग्नविलीनः। मरीचिवद्विप्रलम्भकः। कदलीवद्विनिभूज्यमानासारकः। मायेव वञ्चनात्मकः। राजवदाज्ञावङ्गलः(?)। शत्रुवदवतारप्रेक्षी। चौरवदविश्वसनीयः। अमित्रवदहितैषी। वधकवत्प्रज्ञाजीवितान्तरायकृत्। शून्यग्रामवन्मारविरहितः?। कुलालभाण्डवदनपर्यन्तः। नानाशुचिपरिपूर्णः। मेदस्थालीवदशुचिस्रावी। अहिवन्निष्पन्दक्रूरः। कुणपबत्तीक्ष्णगन्धी। वर्चःकुटीवदमेध्याकरः। व्रवत्यदुनासहिष्णुः(?)। शल्यवत्तुदनार्थः। दुष्टस्वामिवद्दुरुपचारः। जीर्णगृहवत्प्रतिसंस्कारधार्यः। जीर्णयानपात्रवत्प्रतिसंस्कारमलवाह्यः। आमकुम्भवदम्ब्वनुपाल्यः। दुष्टमित्रवन्नित्यान्वरक्षः। नदीतटवृक्षवच्चलाचलः। महानदीस्रोतवन्मरणसमुद्रपर्यवसानः। आगन्तुकासारवत्सर्वदुःखनिकेतः। अनाथशालावदपरिगृहीतः। चोरकपाटवदुत्कोटिसाध्यः। प्रत्यन्तनगरवन्नित्योपसृष्टः। वालुकानगरवत्सीदनात्मकः। अग्निवदतृप्तः। समुद्रवद्दुष्पूरः। सर्वकरण्डवत् पत्रपरिहार्यः। बालदारक[व]त्सततपरिपाल्यः। भिन्नभाजनमिव सततपरिहार्यः। कुदेववन्नित्योपसृष्टः। सविषभाजनमिव परिवर्जनीयः। याचितकभाण्डमिव क्षणप्रयोजनार्थः। शकटमिव भारोद्वहतीर्थः। केवलं धर्मबुद्धिना बोद्ध(वोढ?)व्यम्॥ पुनरपरं भिक्षवो भिक्षुणा इदं शरीरमाद्युत्तरकारणतः परीक्षितव्यम्। मातापितृशुक्र‍रुधिरसमुत्थानमिह शरीरस्य आ[द्य]कारणम्। उत्तरमाहारपरिमाणादिकम्। कवलिकाहारो ग्रस्तमात्रः श्लेष्माशयं गच्छति। श्लेष्माशयं प्राप्य श्लेष्मणा द्रवीकृतोऽत्यन्ताशुचिर्भवति। श्लेष्मतः पित्ताशयं गच्छति। पित्ताशयं प्राप्य पच्यमान उष्णीभूत्वा वाय्वाशयं गच्छति। पक्त्वा वाय्वाशयं प्राप्तो वायुना विभज्यते पृथक् मलः, [पृ]थक् सारः। खलान्मूत्रपुरीषादयो मलाः। साराच्छोणितं परि[ण]मति, शोणितान्मांसम्, मांसान्मेदः, मेदसोऽस्थीनि, अस्थिभ्यो मज्जा, मज्जातः शुक्रम्। तदेवमाद्युत्तरकारणादशुचि शरीरमिति पश्यता भिक्षुणा इदं शरीरं नवभिरस्थिशतैः सषष्ठैः समुच्छ्रितं कुदारुगृहवत् त्रिभिः शत्विस(?)शतैः संघातितम्, चतुर्भिः शिराजालशतैः संनतम्, पञ्चभिर्मांसपेशीशतैः प्रलिप्तम्, (यंक्तिः शिराशतैः संघातम्?), सप्तभिः शिराशतैर्विनतम्, नवभिः स्नायुशतैर्निबद्धम्, धमन्या गवाक्षीकृतम्, सप्तोत्तरेण मर्मशतेन भिन्नभाजनमिव जर्जरेण कोटीशतसहस्रैरशीतिभिश्च तृणवच्छन्नम्, पञ्चेन्द्रियच्छिद्रम्, सप्तज्ञय(सप्ताशय?)मशुचिपूर्णम्। मस्तिष्कस्याञ्जलिना, मेदसोऽञ्जलिना, त्रिभिर्वसाञ्जलिभिः, षड्भिरञ्जलिभिः श्लेष्मणः, षड्भिरञ्जलिभिः पित्तस्य, वायुना कृत्स्नमेवापकर्षितम्। शोणितस्याढकेन, पुरीषप्रस्थैः षड्भिः वावयरेवदेभिः(?) समैः पृथक्पृथक् पूर्णम्। सप्तभिस्त्वग्भिः परिवृतम्, रसैः षड्भिः। पित्तस्य वायुना कायाग्निनाविष्टाग्निहोत्रजङ्गयादजस्रं (?) कुदान्तम्, शरीरावयवैः सर्वैरेव दुर्दर्शनम्, दुर्गन्धि प्रतिस्वभावम्। कोऽत्राभिमानो बहुमानभावः? केवलं याचितकभाण्डमिव क्षणप्रयोजनार्थं शकटमिव भारोद्वहनाय धर्मबुद्धिना बोद्ध(वोढ)व्यम्॥



एवंविधकायमवेक्ष्य राशिमशुचेः, रूपाभिमानी वसत्यत्तेयः(?)।

प्रज्ञायमानं स हि बालबुद्धि विष्टपठं(?) याति वहं न चेता॥



प्रियप्रकारं वहतेनायत् द्रक्षन्विवक्तुं वहते सदा च।

कायः सुचोक्षः कृमिवच्च जन्तोः कुतोऽत्र रागो बहुमानता वा॥



इत्येवमादि प्रत्यवेक्षन्निति। तद्यथा भिक्षव उभयतो द्वारविनिर्मुक्तः कोष्ठागारः पूर्णो नानाप्रकारजातस्य धान्यतिलसर्षपमुद्गयवमाषाणाम्। तच्चक्षुष्मान् पुरुषो व्यवलोकयन् जानीयात्-इमानि शूकधान्यानि, इमानि फलधान्यानि। एवमेव भिक्षवो भिक्षुरिममेव कायं यथास्थितं यथाप्रणिहितं यावत् प्रत्यवेक्षते। इयं समाधिभावना आसेविता बहुलीकृता कामरागप्रहाणाय संवर्तते। तत्र भिक्षवः कतमा समाधिभावना आसेविता भाविता बहुलीकृता दृष्टधर्मसुखविहाराय संवर्तते? इह भिक्षवो भिक्षुररण्यगतो वा वृक्षमूलगतो वा शून्यागारगतो वा इममेव कायमध्यात्मं प्रत्यात्मं विवेकात् न प्रीतिसुखेनाभिष्यन्दयति, परिपूरयति, परिप्रीणयति, परिस्फुटयति, तस्य नास्ति सर्वतः कायादस्फुटं भवत्यस्फरणीयं यदुत अध्यात्मजं विवेकजेन प्रीतिसुखेन। तद्यथापि नाम भिक्षवः उत्पलानि वा पद्मानि वा कुमुदानि वा पुण्डरीकानि वा उदके जातानि उदके मग्नानि, सर्वाणि तानि शीतलेन वारिणाभिष्यन्दितानि परिष्यन्दितानि परिपूरितानि परिप्रीणितानि परिस्फुरितानि। एवमेव भिक्षुररण्यगतो वा वृक्षमूलगतो वा शून्यागारगतो वा इममेव कायमध्यात्मं प्रत्यात्मं विवेकजेन प्रीतिसुखेनाभिष्यन्दयति परिष्यन्दयति परिपूरयति परिस्फुरयति परिप्रीणयति, तस्य नास्ति सर्वतः कायमस्फुटं भवत्यस्फरणीयं यदुत अध्यात्मकं विवेकजेन प्रीतिसुखेन। इयं समाधिभावना आसेविता भाविता बहुलीकृता दृष्टधर्म(सुख)विहाराय संवर्तते॥ तत्र भिक्षवः कतमा समाधिभावना आसेविता भाविता बहुलीकृता ज्ञानदर्शनेन प्रतिलाभाय संवर्तते? इह भिक्षवो भिक्षुणा आलोकसंज्ञा साधु च सुष्ठु च परिगृहीता भवति सुमनसि कृता सुदृष्टा सुप्रतिबद्धा च दिवससंज्ञाधिष्ठितं समप्रभासं चित्तं भावयति यथा दिवा तथा रात्रौ, यथा रात्रौ तथा दिवा, यथा पूर्वं तथा पश्चात्, यथा पश्चात्तथा पुरा, यथैवाधस्तथैवोर्ध्वम्, यथैवोर्ध्व तथा अधः-इति विवृतेन चेतसा पर्य(व)नद्धेन दिवससंज्ञाधिष्ठितं समप्रभासं चित्तं भावयति। तद्यथापि नाम भिक्षवो ग्रीष्माणां पश्चिमे मासे व्यभ्रे दिने विगतबलाहके नभसि मध्याह्नकालसमये आलोकपरिशुद्धो भवति पर्यवदातप्रभास्वरः, न तस्मा(?)न्धकारसमये तद्भवति। एवमेव भिक्षवो भिक्षुणा आलोकसंज्ञा साधु च सुष्ठु च सुगृहीतो भवति अशृंष्टा सुप्रतिबन्धोनवमसंज्ञा-वेस्थिता(?) समप्रभासं चित्तं भावयति यथा दिवा तथा रात्रौ यथा रात्रौ तथा दिवा, यथा पूर्वं तथा पश्चात्, यथा पश्चात्तथा पुरा, यथैवोर्ध्वं तथैवाधो यथैवाधस्तथैवोर्ध्वमिति विवृतेन चेतसा अपर्यवनद्धेन दिवससंज्ञाधिष्ठितेन समप्रभासं चित्तं भावयति। इयं समाधिभावना आसेविता भाविता बहुलीकृता ज्ञानदर्शनप्रतिभानलाभाय संवर्तते॥ तत्र कतमा(समा)धिभावना आसेविता भाविता बहुलीकृता प्रज्ञाप्रतिलम्भाय संवर्तते? इह भिक्षुररण्यगतो वा वृक्षमूलगतो वा शून्यागारगतो वा सुखस्य (दुःखस्य) च प्रहाणात् पूर्वमेव सौमनस्यदौर्मनस्ययोरस्तंगमाददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरति। इयं समाधिभावना आसेविता भाविता बहुलीकृता प्रज्ञाप्रतिलम्भाय संवर्तते॥ इमाश्चतस्रः समाधिभावनाः॥



[१३] तत्र कतमानि भिक्षवश्चत्वारि स्मृत्युपस्थानानि? इह भिक्षवो भिक्षुरध्यात्मं काये कायानुदर्शी विहरति आतापी संप्रजानन् स्मृतिमान् विनीय लोके अभिध्यादौर्मनस्ये। बहिर्धा काये कायानुदर्शी विहरति, अध्यात्मबहिर्धा काये कायानुदर्शी विहरति आतापी संप्रजानन् अनुस्मृतिमान् विनीय लोके अभिध्यादौर्मनस्ये। अध्यात्मवदेनासु बहिर्धावेदनासु अध्यात्मबहिर्धा वेदनासु वेदनानुदर्शी विहरति आतापी संप्रजानन् स्मृतिमान् विनीय लोके अभिध्यादौर्मनस्ये। अध्यात्मचित्ते बहिर्धाचित्ते अध्यात्मबहिर्धा चित्तानुदर्शी विहरति आतापी संप्रजानन् स्मृतिमान् विनीय लोके अभिध्यादौर्मनस्ये। अध्यात्मधर्मेषु बहिर्धाधर्मेषु अध्यात्मबहिर्धाधर्मेषु धर्मानुदर्शी विहरति आतापी संप्रजानन् स्मृतिमान् विनीय लोके अभिध्यादौर्मनस्ये। इतीमानि चत्वारि स्मृत्युपस्थानानि॥



[१४] तत्र कतमानि भिक्षवश्चत्वारि सम्यक्प्रहाणानि? इह भिक्षवो भिक्षुरनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय छन्दं जनयति, व्यायच्छति, वीर्यमारभते, चित्तं संप्रतिगृह्णाति, सम्यक् प्रणिदधाति। उत्पन्नानामकुशलानां धर्माणां प्रहाणाय छन्दं जनयति, व्यायच्छति, वीर्यमारभते, चित्तं प्रगृह्णाति, संप्रणिदधाति। अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय छन्दं जनयति, व्यायच्छति, वीर्यमारभते, चित्तं प्रगृह्णाति, सम्यक् प्रणिदधाति। उत्पन्नानां कुशलानां धर्माणां स्थितये भावनायै असंमोषाय अपरिहाणाय भूयोभावाय वृद्धिविपुलतायै पारिपूर्यै छन्दं जनयति, व्यायच्छति, वीर्यमारभते, चित्तं प्रतिगृह्णाति सम्यक् प्रणिदधाति। इमानि चत्वारि सम्यक्प्रहाणानि॥



[१५] तत्र कतमे चत्वार ऋद्धिपादाः? इह भिक्षवो भिक्षुः छन्दसमाधिप्रहाणसंस्कारसमन्वागतमृद्धिपादं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिणतम्। एषा............वीर्यमभिलीनं भविष्यति नाभिगृहीतम्॥२॥ चित्तसमाधिप्रहाणसंस्कारसमन्वागतमृद्धिपादं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिणतं मा मे चित्तमतिलीनं भविष्यति नाभिगृहीतम्॥३॥ मीमांसासमाधिप्रहाणसंस्कारसमन्वागतमृद्धिपादं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिणतं मा मे मीमांसा नातिलीना भविष्यति नाभिगृहीतम्॥४॥ इमे भिक्षवश्चत्वार ऋद्धिपादाः॥



[१६] तत्र भिक्षवः कतमानि पञ्चेन्द्रियाणि ? यदुत श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम्। तत्र कतमच्छ्रद्धेन्द्रियम्? यया श्रद्धया चतुरो धर्मान् श्रद्दधाति। कतमांश्चतुरः? संसारावचरालौकिकीं सम्यग्दृष्टिं दधाति। स कर्मविपाकप्रतिशरणो भवति। यद्यदेव कर्म करिष्यामि कल्याणं वा पापकं वा, तस्य कर्मणो विपाकं प्रतिसंवेदयामि। स जीवितहेतोरपि पापकं कर्म नाभिसंस्करोति। इदमुच्यते श्रद्धेन्द्रियम्॥ तत्र कतमद्वीर्येन्द्रियम्? यान् धर्मान् श्रेद्धेन्द्रियेण श्रद्दधाति, तान् धर्मान् वीर्येन्द्रियेण समुदानयति। इदमुच्यते वीर्येन्द्रियम्॥ तत्र कतमत् स्मृतीन्द्रियम्? यान् धर्मान् वीर्येन्द्रियेण समुदानयति, तान् धर्मान् स्मृतीन्द्रियेण...........॥.........विप्रणाशयति। इदमुच्यते समाधीन्द्रियम्॥ तत्र कतमत् प्रज्ञेन्द्रियम्? यान् धर्मान् समाधीन्द्रियेण एकाग्रीकरोति, तान् धर्मान् प्रज्ञेन्द्रियेण प्रतिविध्यति। स तेषु धर्मेषु प्रत्यवेक्षणजातीयो भवति। इदमुच्यते प्रज्ञेन्द्रियम्॥ इमानि भिक्षवः पञ्चेन्द्रियाणि॥



[१७] तत्र भिक्षवः कतमानि पञ्च बलानि? यदुत श्रद्धाबलं वीर्यबलं स्मृतिबलं समाधिबलं प्रज्ञाबलम्। इमे च भृत्यार्थे क्लेशैरनवमृद्यत्वात्(?)। इमानि भिक्षवः पञ्च बलानि॥



[१८] तत्र भिक्षवः कतमानि सप्त बोध्यङ्गानि ? यदुत स्मृति(सं)बोध्यङ्गं धर्मप्रविचयसंबोध्यङ्गं गाम्भीर्यसंबोध्यङ्गं प्रीतिसंबोध्यङ्गं प्रस्रब्धिसंबोध्यङ्गं समाधिसंबोध्यङ्गं उपेक्षासंबोध्यङ्गम्॥ इह भिक्षवो भिक्षुः स्मृतिसंबोध्यङ्गं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिणतम्॥ एवं धर्मप्रविचयसंबोध्यङ्गं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिणतम्॥ वीर्यसंबोध्यङ्गं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिणतम्॥ प्रीतिसंबोध्यङ्गं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिणतम्। प्रस्रब्धिसंबोध्यङ्गं भावयति विवेकनिश्रितं विरागनिश्रित निरोधनिश्रितं व्यवसर्गपरिणतम्॥ समाधिसंबोध्यङ्गं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिणतम्॥ उपेक्षासंबोध्यङ्गं भावयति विवेकनिश्रितं विरागनिश्रितं निरोधनिश्रितं व्यवसर्गपरिणतम्॥ इमानि भिक्षवः सप्त संबोध्यङ्गानि॥



[१९] तत्र भिक्षवः कतम आर्याष्टाङ्ग(मार्गः) ? तद्यथा-सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाक् सम्यक्कर्मान्तः सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिः। अयमुच्यते भिक्षव आर्याष्टाङ्गमार्गः॥ तत्र कतमा सम्यग्दृष्टिः? या लोकोत्तरा नात्मदृष्टिसमुत्थिता न स .........नजीवन् सोषणपुरुषनपुद्गलनमनुजनमानवदृष्टिसमुत्थिता नोच्छेदशाश्वतदृष्टिसमुत्थिता न भवविभवदृष्टिसमुत्थिता न कुशलाव्याकृतदृष्टिसमुत्थिता, या च न संसारनिर्वाणदृष्टिसमुत्थिता। इयमुच्यते सम्यग्दृष्टिः॥ तत्र कतमः सम्यक्संकल्यः? यैः संकल्पै रागद्वेष मोहक्लेशाः समुत्तिष्ठन्ति, तान् संकल्पान् न संकल्पयति। यैः (सं)कल्पैः शीलसमाधिप्रज्ञा विमुक्तिदर्शनस्कन्धाः समुत्तिष्ठन्ति, तान् संकल्पान् संकल्पयति। अयमुच्यते सम्यक्संकल्पः॥



तत्र कतमा सम्यग्वाक्? यया रागे नात्मानं न परांश्च तापयति, नात्मानं न परांश्च क्लेशयति, नात्मानं परान्नानुपहन्ति, तया समाहितयुक्तया वाचा समन्वागतो भवति, यया सम्यग्वा समववदति, इयमुच्यते सम्यग्वाक्॥ तत्र कतमः सम्यक्कर्मान्तः ? यत्कर्म कृष्णं कृष्णविपाकम्, तत्कर्मणा नाभिसंस्करोति, यत्कर्म कृष्णशुक्लं कृष्णशुक्लविपाकम्, तत्कर्म नाभिसंस्करोति, यत्कर्म कृष्णशुक्लविपाकं कृष्ण(कृत्स्न?) (कर्म) क्षयाय संवर्तते, तत्कर्माभिसंस्करोति। सत्कर्माभिसंस्करोति, सत्कर्मप्रतिशरणकर्मान्तः, अयमुच्यते सम्यक्कर्मान्तः॥ तत्र कतमः सम्यगाजीवः? यदार्थवशेन गुणसंलेखादुत्सर्जनता न कुहनता न लपनता न नैष्पेषिकता सृवतारवाचाशीलता(?) परलोकेषूशकुता(?) आत्मलोकसंतुष्टिः अनवयता आर्यान्तज्ञाताजीविता, अयमुच्यते सम्यगाजीवः॥ तत्र कतमः सम्यग्व्यायामः? यो व्यायामो मिथ्या, यो अज्ञानरागद्वेषमोहक्लेशानुशायितः, तं व्यायामं नेच्छति। यो व्यायामः सम्यगार्यमार्गसत्यावतारो निर्वाणगामी प्रतिपदर्पयति, तं व्यायामं समनुगच्छति। अयमुच्यते सम्यग्व्यायाम॥ तत्र कतमा सम्यक्स्मृतिः? या सूपस्थिता अप्रकम्प्या ऋजुका अकुटिला संसारद्वेषादीनवदर्शिका निर्वाणपथप्रणेत्री स्मृतिः स्फरणं आर्यमार्गासंमोषः। इयमुच्यते सम्यक्स्मृतिः॥ तत्र कतमः सम्यक्समाधिः? यः सम्यक्त्वेन समाधिः। यस्मिन् समाधौ स्थितः सर्वसत्त्वप्रमोक्षाय सम्यक् स्थितत्वं नियाममवक्रामति, अयमुच्यते सम्यक्समाधिः। अयमुच्यते आर्याष्टाङ्गो मार्गः॥



[२०] तत्र कतमा भिक्षवः षोडशाकारा आनापानस्मृतिः? ह्रस्वं वा आश्वसन् दीर्घं वा, आश्वसामीति यथाभूतं प्रजानाति। दीर्घं वा प्रश्वसन् दीर्घं प्रश्वसामीति यथाभूतं प्रजानाति। ह्रस्वमाश्वसन् ह्रस्वमाश्वसामीति यथाभूतं प्रजानाति। ह्रस्वं वा प्रश्वसन् ह्रस्वं प्रश्वसामीति यथाभूतं प्रजानाति। कायप्रतिसंवेदी आश्वसन् कायप्रतिसंवेदी आश्वसामीति यथाभूतं प्रजानाति। कायप्रतिसंवेदी प्रश्वसन् कायप्रतिसंवेदी प्रश्वसामीति यथाभूतं प्रजानाति। कायसंस्कारप्रतिसंवेदी आश्वसन् कायसंस्कारप्रतिसंवेदी आश्वसामीति यथाभूतं प्रजानाति। कायसंस्कारप्रतिसंवेदी आश्वसन् कायसंस्कारप्रतिसंवेदी वा प्रश्वसन् यथाभूतं प्रजानाति। सर्वकायप्रतिसंवेदी आश्वसन् सर्वकायप्रतिसंवेदी आश्वसामीति यथाभूतं प्रजानाति। कायसंस्कारप्रतिसंवेदी आश्वसन् कायसंस्काराप्रतिसंवेदी वा प्रश्वसन् यथाभूतं प्रजानाति। सर्वकायप्रतिसंवेदी आश्वसन् सर्वकायप्रतिसंवेदी आश्वसामीति यथाभूतं प्रजानाति। सर्वकायप्रतिसंवेदी प्रश्वसन् सर्वकायप्रतिसंवेदी वा प्रश्वसामीति यथाभूतं प्रजानाति। सर्वकायसंस्काराप्रतिसंवेदी आश्वसन् सर्वकायसंस्कारप्रतिसंवेदी प्रश्वसन् सर्वकाय(संस्कार)प्रतिसंवेदी प्रश्वसामीति यथाभूतं प्रजानाति। प्रस्रभ्यन्ति मे कायसंस्कारा आश्वसन् प्रस्रभ्यन्ति मे कायसंस्कारा आश्वसामीति यथाभूतं प्रजानाति। प्रस्रभ्यन्ति मे कायसंस्काराः प्रश्वसन् प्रस्रभ्यन्ति मे कायसंस्काराः प्रश्वसामीति यथाभूतं प्रजानाति। प्रीतिप्रतिसंवेदी आश्वसन् प्रीतिप्रतिसंवेदी आश्वसामीति यथाभूतं प्रजानाति। प्रीतिप्रतिसंवेदी प्रश्वसन् प्रीतिप्रतिसंवेदी (प्रश्वसामीति) यथाभूतं प्रजानाति। सुखप्रतिसंवेदी आश्वसन् सुखप्रतिसंवेदी आश्वसामीति यथाभूतं जानाति। सुखप्रतिसंवेदी प्रश्वसन् सुखप्रतिसंवेदी प्रश्वसामीति यथाभूतं प्रजानाति। चित्तप्रतिसंवेदी आश्वसन् चित्तप्रतिसंवेदी आश्वसामीति यथाभूतं प्रजानाति। चित्तप्रतिसंवेदी प्रश्वसन् चित्तप्रतिसंवेदी (प्रश्वसामीति) यथाभूतं प्रजानाति। चित्तसंस्कारप्रतिसंवेदी आश्वसन् चित्तसंस्कारप्रतिसंवेदी आश्वसामीति यथाभूतं प्रजानाति। चित्तसंस्कारप्रतिसंवेदी प्रश्वसन् चित्तसंस्कारप्रतिसंवेदी प्रश्वसामीति यथाभूतं प्रजानाति। प्रस्रभ्यन्ति मे चित्तसंस्काराः (आश्वसन्) आश्वसामीति यथाभूतं प्रजानाति। प्रस्रभ्यन्ति मे चित्तसंस्काराः प्रश्वसन् प्रश्वसामीति यथाभूतं प्रजानाति। अभिमोदति मे चित्तमाश्वसन् अभिमोदति मे चित्तमाश्वसामीति यथाभूतं प्रजानाति। अभिमोदति मे चित्तं प्रश्वसन् अभिमोदति मे चित्तं प्रश्वसामीति यथा(भूतं प्रजानाति)। विमुच्यति मे चित्तमाश्वसन् विमुच्यति मे चित्तमाश्वसामीति यथाभूतं प्रजानाति। विमुच्यति मे चित्तं प्रश्व(सन् विमु)च्यति मे चित्तं प्रश्वसामीति यथाभूतं प्रजानाति। समाहितं मे चित्तमाश्वसन् समाहितं मे चित्तमाश्वसामीति यथाभूतं प्रजानाति। समाहितं मे चित्तं प्रश्वसन् समाहितं मे चित्तं प्रश्वसामीति यथाभूतं प्रजानाति। एवमनित्यानुदर्शी विरागानुदर्शी निरोधानुदर्शी प्रतिनिःसर्गानुदर्शी आश्वसन् प्रतिनिःसर्गानुदर्शी आश्वसामीति यथाभूतं प्रजानाति। .........प्रतिनिःसर्गानुदर्शी वा प्रश्वसन् प्रतिनिःसर्गानुदर्शी प्रश्वसामीति यथाभूतं प्रजानाति। इयं भिक्षवः षोडशाकारा आनापानस्मृतिः॥



[२१] तत्र कतमानि चत्वारि स्रोतआपत्त्यङ्गानि ? इह भिक्षवः श्रावकोऽवेत्य बुद्धे प्रसादेन समन्वागतो भवति-इत्यपि स भगवांस्तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवानिति। धर्मेऽवेत्य प्रसादेन समन्वागतो भवति-स्वाख्यातो भगवता धर्मः सांदृष्टिको निर्ज्वरः आकालिक औपनायिकः इहपश्यकः प्रत्यात्मवेदनीयो विज्ञैर्यदुत नदनिमदनपधेयासां (?) प्रतिविनय आलयसमुद्धातो धर्मोपच्छेदः शून्यतानुपलम्भः तृष्णाक्षयो निरोधो निर्वाणम्। संघेऽवेत्य प्रसादेन समन्वागतो भवति-सुप्रतिपन्नो भगवतः आर्यश्रावकसंघो न्यायप्रतिपन्नः सप्रतिपन्नः सामीचिप्रतिपन्नो धर्मानुधर्मप्रतिपन्नोऽनुधर्मचारी। सन्ति संघे स्रोतापत्तिफलसाक्षात्क्रियायै प्रतिपन्नकाः। सन्ति संघे स्रोतापन्नः। सन्ति संघे सकृदागामिफलसाक्षात्क्रियायै प्रतिपन्नकाः। सन्ति संघे सकृदागामिनः। सन्ति संघे अनागामिफलसाक्षात्क्रियायै प्रतिपन्नकाः। सन्ति संघे अनागामिनः। सन्ति संघे अर्हत्त्वफलसाक्षात्क्रियायै प्रतिपन्नकाः। सन्ति संघे अर्हन्तः। यदुत चत्त्वारि पुरुषयुगानि, अष्टौ पुरुषपुद्गलाः। एष भगवतः श्रावकसंघः श्रद्धासंपन्नः श्रुतसंपन्नः समाधिसंपन्नः प्रज्ञासंपन्नः विमुक्तिसंपन्नः विमुक्तिज्ञानदर्शनसंपन्नः आहवनीयः प्राहवनीयः अञ्जलीकरणीयः सामीचिकरणीयः अनुत्तरं पुण्यक्षेत्रं दर्शनीयो लोकस्य यदुत आर्यकान्तैः शीलैः समन्वागतो यानि शीलानि अखण्डानि अच्छिद्राणि अधृतीनि अशबलानि अकल्मषाणि भुजिष्याणि अपरामृष्टानि सुसमस्तानि विज्ञप्रशस्तानि जयसंपन्नानि अगर्हितानि विज्ञैरिति। इमानि चत्वारि स्रोतआपत्त्यङ्गानि॥



[२२] कतमानि भिक्षवो दश तथागतबलानि? तथागतः स्थानं च स्थानतो यथाभूतं प्रजानाति, अस्थानं चास्थानतो यथाभूतं प्रजानाति। इदं प्रथमं तथागतस्य तथागतबलम्। अतीतानागतप्रत्युत्पन्नानां कर्मधर्मसमादानानां विपाकं यथाभूतं प्रजानाति। परसत्त्वानां परपुद्गलानामनेकाधिमुक्तिकानां विपाकं यथाभूतं प्रजानाति। अनेकलोकधातुकलोकानां नानाधातुकलोकमिति यथाभूतं प्रजानाति। परसत्त्वानामिन्द्रियाणां परापरज्ञतां यथाभूतं प्रजानाति। सर्वत्रगामिनीं प्रतिपदं तत्रतत्रगामिनीं यथाभूतं प्रजानाति। परसत्त्वानामिन्द्रियबलबोध्यङ्गध्यानविमोक्षसमाधिसमापत्तीनां संक्लेशव्यवदानानि यथाभूतं प्रजानाति। साकारं साङ्गं............. शंसनिमित्तमनेकविधं पूर्वनिवासमनुस्मरति। एकामपि जातिमनुस्मरति, द्वे तिस्रश्चतस्रो यावदनेकान्यपि जातिकोटीनियुतशतसहस्राण्यनुस्मरतीति विस्तरः। स दिव्येन चक्षुषा अतिक्रान्तमानुष्यकेण सत्त्वान् पश्यति च्यवमानानुपपद्यमानानपि। कायवाङ्मनसां सुचरितदुश्चरितैः सुगतिदुर्गतिषूपपद्यमानानीति विस्तरः। आस्रवक्षयादनास्रवां चेतोविमुक्तिं प्रज्ञया यथाभूतं प्रजानाति। इमानि भिक्षवो दश तथागतबलानि॥



[२३] कतमानि भिक्षवस्तथागतस्य चत्वारि वैशारद्यानि? इह भगवान् सम्यक्संबुद्ध इत्यात्मानं प्रजानीते। इमे त्वया धर्मा नाभिसंबुद्धा इत्यत्र कश्चिद्वादं समारोपयेत् सदेवके लोके समारके सब्रह्मके सश्रमणब्राह्मणिकायां प्रजायां सदेवमानुषायाम्। निमित्तमेतदनुसमनुपश्यति। निमित्तं समनुपश्यंस्तथागतो भगवान् क्षेमप्राप्तो अभयप्राप्त आर्षभं स्थानं प्रजानाति। सम्यक्पर्षद्गतः सिंहनादं नदति। ब्राह्मं चक्रं प्रवर्तयति अप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा केनचिद्वा पुनर्लोके सहधर्मेणेति। ये पुनस्तथागतैर्नान्तरायिका धर्मा आख्याताः तानप्रतिसेवमानस्य नानमन्तरायेत्(?) यत् कश्चिद्वादमारोपयेत् इति विस्तरः। या वा अनेन प्रतिपदाख्याता आर्या नैर्याणिका हीनां प्रतिरषावमाणो (?) न निर्यायात् दकेतरः(?) सम्यग्दुःखनाशाय इत्यत्र.....कश्चित्पूर्ववत्। क्षीणास्रवस्य सतमात्मानं प्रतिजानतः इमे आस्रवा अपरिक्षीणा इत्यत्र कश्चिद्वादमारोपयेत् सदेवलोके समारके सश्रमणब्राह्मणिकायां प्रजायां सदेवमानुषायां निमित्तमेवं न समनुपश्यति। निमित्त(म)समनुपश्यन् तथागतः स्थामप्राप्तो विहरति अभयप्राप्त आह(र्ष?)भं स्थानं प्रजानाति। सम्यक्पर्षद्गतः सिंहनादं नदति, ब्राह्मं चक्रं प्रवर्तयति अप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा केनचिद्वा पुनर्लोके सहधर्मेणेति। इमानि भिक्षवो भगवतस्तथागतस्य चत्वारि वैशारद्यानि॥



[२४] कतमास्तथागतस्य चतस्रः प्रतिसंविदः ? यदुत अर्थप्रतिसंवित् धर्मप्रतिसंवित् निरुक्तिप्रतिसंवित् प्रतिभानप्रतिसंवित्। इमा भिक्षवश्चतस्रः प्रतिसंविदः॥



[२५] कतमे भिक्षवोऽष्टादशावेणिका बुद्धधर्माः? नास्ति तथागतस्य स्खलितम्, नास्ति रवितम्, नास्ति मुषितस्मृतिता, नास्ति (अ?)समाहितं चित्तम्, नास्ति नानात्वसंज्ञा, नास्त्यप्रतिसंख्यायोपेक्षा, नास्ति छन्दस्य हानिः, नास्ति वीर्यस्य हानिः, नास्ति स्मृतेर्हानिः, नास्ति प्रज्ञाहानिः, नास्ति विमुक्तेर्हानिः, त्रिविमुक्तिज्ञानदर्शनानि, अतीतेऽध्वन्यसङ्गमप्रतिहतं ज्ञानदर्शनम्, अनागतेऽध्वन्यसङ्गमप्रतिहतं ज्ञानदर्शनम्, प्रत्युत्पन्नेऽध्वन्यसङ्गमप्रतिहतं ज्ञानदर्शनम्, सर्वकायकर्मज्ञानपूर्वकं संज्ञापरिवर्तः, सर्ववाक्कर्मज्ञापूर्वंगमं ज्ञानानुपरिवर्तः, सर्वमनःकर्मज्ञानपूर्वंगमं ज्ञानानुपरिवर्तः। इमे भिक्षवस्तथागतस्य अष्टादशावेणिका धर्माः॥



[२६] तत्र कतमानि तथागतस्य द्वात्रिंशन्महापुरुषलक्षणानि ? सुप्रतिष्ठितपादता तथागतस्येदं महापुरुषलक्षणम्। अधस्तात् पादतलयोश्चक्राङ्कितपादतलता। आयतपार्ष्णिसंगतपादता। दीर्घाङ्गुलिता। जालहस्तपादता। मृदुतरुणहस्तपादता। सप्तोत्सदशरीरता। ऐणेयजङ्घता। कोशगतबस्तिगुह्यता। सिंहपूर्वार्धकायता। चितान्तरांसता। सुसंवृतस्कन्धता। अनुन्नामता। प्रलम्बबाहुता। विशुद्धनेत्रता। कम्बुग्रीवता। सिंहहनुता। समचत्वारिंशद्दन्तता। समाविरलदन्तता। सुशुक्लदन्तता। प्रभूततनुजिह्वता। रसरसाग्रता। ब्रह्मस्वरकलविङ्करुतस्वरता। अभिनीलनेत्रता। गोपक्ष्मनेत्रता। सूक्ष्मच्छविता। सुवर्णवर्णच्छविता। एकैकरोमकूपता। उत्तुङ्गप्रदक्षिणावर्तरोमता। इन्द्रनीलकेशता। सुशुक्लभ्रमुखान्तरोर्णललाटता। उष्णीषशिरस्कता। न्यग्रोधपरिमण्डलसमन्तप्रासादिकता। महानारायणबलसमन्तप्रासादिकता। तथागतस्येदं महापुरुषस्य महापुरुषलक्षणम्। इमानि भिक्षवस्तथागतस्य महापुरुषलक्षणानि॥ सुप्रतिष्ठितौ पादौतथागतस्येदं महापुरुषस्य महापुरुषलक्षणं पूर्वं दृढसमादानतया निर्वृत्तम्। अधस्तात्पादतलयोश्चक्राङ्कितपा दतलता-तथागतस्येदं महापुरुषस्य महापुरुषलक्षणं पूर्वे परसत्त्वाजिह्मकरणतया निर्वृत्तम्। आयतपादपार्ष्णिसंगतपादता-तथागतस्येदं महापुरुषलक्षणं पूर्वे मातापितरौ सत्कृत्य चरणे शुश्रूषतयाभिनिर्वृत्तम्। दीर्घाङ्गुलिकता-तथागतस्येदं महापुरुषस्य महापुरुषलक्षणं पूर्वे धर्मारक्षावरणगुप्तिकरणया निर्वृत्तम्। जालहस्तपादता-तथागतस्येदं महापुरुषस्य महापुरुषलक्षणं पूर्वे परिवाराभेदनतया निर्वृत्तम्। मृदुतरुणहस्तपादतातथागतस्येदं महापुरुषस्य महापुरुषलक्षणं पूर्वे विविधप्रावरणान्नप्रदानतया निर्वृत्तम्। सप्तोत्सदशरीरता-तथागतस्येदं महापुरुषस्य महापुरुषलक्षणं परकिंकरणीयसौमुख्यकरणतया निर्वृत्तम्।........विशुद्धनेत्रता-तथागतस्येदं महापुरुषस्य महापुरुषलक्षणं पूर्वे दशकुशलकर्मपथातप्तसमादानतया निर्वृत्तम्। कम्बुग्रीवता-तथागतस्येदं महापुरुषस्य महापुरुषलक्षणं पूर्वे ग्लानेषु विविधभैषज्यान्नप्रदानतया निर्वृत्तम्। सिंहहनुता -तथागतस्येदं महापुरुषस्य महापुरुषलक्षणं पूर्वे कुशलमूलप्रयोगतया निर्वृत्तम्। समचत्वारिंशद्दन्तता-तथागतस्येदं महापुरुषस्य महापुरुषलक्षणं पूर्वे सत्त्वसमाश्वासनप्रयोगतया निर्वृत्तम्। अविरलदन्तता-तथागतस्येदं महापुरुषस्य महापुरुषलक्षणं पूर्वे भिन्नसत्त्वसंघानतया निर्वृत्तम्। समदन्तता-तथागतस्येदं महापुरुषस्य महापुरुषलक्षणं पूर्वे मनापमणिप्रदानतया निर्वृत्तम्। सुशुक्लदन्तता-तथागतस्येदं महापुरुषस्य महापुरुषलक्षणं पूर्वे स्वारक्षितकायवाङ्मनस्कर्मतया निर्वृत्तम्। प्रभूत(तनु)जिह्वता-तथागतस्येदं महापुरुषस्य महापुरुषलक्षणं पूर्वं सत्यभाषणतया निर्वृत्तम्। रसरसाग्रता-तथागतस्य (महा)पुरुषस्य महापुरुषलक्षणं पूर्वेष्वप्रमाणपुण्यस्कन्ध.....त्वात्मनतापरमाभिप्रपच्छन्नतया निर्वृत्तम्। ब्रह्मकलविङ्करुतस्वरता-तथागतस्येदं महापुरुषस्य महापुरुषलक्षणं पूर्वे स्निग्धवचनसत्त्वानांवनता(?) आनन्दवचनश्रवणतया निर्वृत्तम्। अभिनीलनेत्रता-तथागतस्येदं महापुरुषस्य महापुरुषलक्षणं पूर्वे मैत्रवत्सत्त्वसंरक्षणतया निर्वृत्तम्। गोपक्ष्मनेत्रता-तथागतस्येदं महापुरुषस्य महापुरुषलक्षणं पूर्वे अ(प्र?)कृतिमातया निर्वृत्तम्। सूक्ष्मच्छविता-तथागतस्येदं महापुरुषस्य महापुरुषलक्षणं पूर्वे धर्मसंगीतिचित्तसंरक्षणकर्मण्यतया निर्वृत्तम्। सुवर्णवर्णच्छविता-तथागतस्येदं महापुरुषस्य महापुरुषलक्षणं पूर्वे शय्यासनास्तरणमनापवचनप्रदानतया निर्वृत्तम्। एकैकरोमकूपता-तथागतस्येदं महापुरुषस्य महापुरुषलक्षणं पूर्वे संगणिकापरिवर्जनतया निर्वृत्तम्। प्रदक्षिणावर्तरोमता-तथागतस्येदं महापुरुषष्य महापुरुषलक्षणं पूर्वे आचार्योपाध्यायकल्याणमित्रानुशासनिप्रदक्षिणग्राहितया निर्वृत्तम्। इन्द्रनीलकेशता - तथागतस्येदं महापुरुषस्य महापुरुषलक्षणं पूर्वे सर्वप्राणानुकम्पनतया निहतलोष्टदण्डशस्त्रतया निर्वृत्तम्। सुशुक्लभ्रमुखान्तरोर्णललाटता-तथागतस्येदं महापुरुषस्य महापुरुषलक्षणं पूर्वे वर्णार्हानां वर्णभाषणतया निर्वृत्तम्। उष्णीषशिरस्कता-तथागतस्येदं महापुरुषस्य महापुरुषलक्षणं पूर्वे गुरुगौरवप्रणामतया निर्वृत्तम्। न्यग्रोधपरिमण्डलसमन्तप्रासादिकता-तथागतस्येदं महापुरुषस्य महापुरुषलक्षणं पूर्वे आत्मनः परसत्त्वानां च समाधौ नियोजनतया निर्वृत्तम्। शरीरसमन्तप्रासादिकता-तथागतस्येदं महापुरुषस्य महापुरुषलक्षणं पूर्वे तथागतबिम्बकरणतया भिन्नस्तूपप्रतिसंस्कारतया परेषां च भीतानामाश्वासनसंघानतया च निर्वृत्तम्। अप्रमाणैः कुशलमूलैश्च तेषु धर्मेषु वशवर्तित्वात् तथागतस्य द्वात्रिंशन्महापुरुषलक्षणानि काये निर्वृत्तानि॥



[२७] कतमानि अशीत्यनुव्यञ्जनानि? ताम्रनखाश्च बुद्धा भगवन्तः, स्निग्धनखाश्च उत्तुङ्गनखाश्च वृत्ताङ्गुलिनखाश्च चित्ताङ्गुलयश्च अनुपूर्वाङ्गुलयश्च गूढशिराश्च निर्ग्रन्थिशिराश्च गूढगुल्फाश्च सिंहविक्रान्तगामिनश्च नागविक्रान्तगामिनश्च हंसविक्रान्तगामिनश्च वृषभविक्रान्तगामिनश्च प्रदक्षिणगामिनश्च चारुगामिनश्च अवक्रगात्राश्च वृत्तगात्राश्च अनुपूर्वगात्राश्च पृथुगुरुमण्डलाश्च परिपूर्णव्यञ्जनाश्च समक्रमाश्च शुचिगात्राश्च मृदुगात्राश्च विशुद्धगात्राश्च उत्सदगात्राश्च सुसंहतगात्राश्च सुविभक्तप्रत्यङ्गाश्च वितिमिरशुद्धलोचनाश्च वृत्तकुक्षयश्च मृष्टकुक्षयश्च अभग्नकुक्षयश्च क्षामोदराश्च गम्भीरनाभयश्च आवर्तनाभयश्च समन्तप्रासादिकाश्च शुचिसमाचाराश्च व्यपगततिलकगात्राश्च तूलसदृशसुकुमारपाणयश्च स्निग्धपाणिरेखाश्च गम्भीरपाणिरेखाश्च.....निरेखाश्च अल्पायतवदनाश्च बिम्बप्रतिबिम्ब‍अप्रतिबिम्बदशनवदनाश्च मृदुजिह्वाश्च ताम्रजिह्वाश्च गजगर्जितजीमूतघोषाश्च मधुरगुरुमञ्जुस्वराश्च वृत्तदंष्ट्राश्च तीक्ष्णसमदंष्ट्राश्च अनुपूर्वदंष्ट्राश्च तुङ्गनासाश्च शुचिनासाश्च विशालनयनाश्च आयतलेखनाश्च वि(कसि)तपद्मनयनाश्च नीलोत्पलदलनयनाश्च व्यायतपीनचक्षुषश्च आयतभ्रुवश्च समरोमभ्रुवश्च स्निग्धभ्रुवश्च पीनायतकर्णाश्च समकर्णाश्च अनुपहतकर्णाश्च सुपरिणतललाटाश्च सुपरिपूर्णाश्च भ्रमरसदृशकेशाश्च वृत्तकेशाश्च शुक्लकेशाश्च असंसुढितकेशाश्च अपरुषकेशाश्च सुपरिकेशाश्च श्रीवत्सस्वस्तिकनन्द्यावर्तचक्रवज्रपद्ममत्स्यादिलाञ्छनपादतलाश्च बुद्धा भगवन्तो भवन्ति। इमानि भिक्षवस्तथागतस्य अशीत्यनुव्यञ्जनानि काये निर्वृतानि॥



यदुक्तं भगवता-धर्मं वो भिक्षवो देशयिष्यामि आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सव्यञ्जनम्, केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं प्रकाशयामि-यदुत अर्थविनिश्चयं नाम धर्मपर्यायमिति यतो यदुक्तमिदं तत् प्रत्युक्तम्। भिक्षवोऽरण्यायतनानि शून्यागाराणि पर्वतकन्दरगिरिगुहापलालव्रजानि अभ्रावकाशश्मशानवनप्रस्थानि.........भिक्षवो मा प्रमाद्यध्वम्। मा पश्चाद्विप्रतिसारिणो भविष्यथ। इदमस्माकमनुशासनम्॥



अस्मिन् खलु धर्मपर्याये भाष्यमाणे पञ्चानां भिक्षुशतानामास्रवेभ्यश्चितानि विमुक्तानि॥



इदमवोचद्भगवान्। आत्तमनसस्ते च भिक्षवः सा च सर्वावती पर्षत् सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति॥



आर्य-अर्थविनिश्चयो नाम धर्मपर्यायः समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project