Digital Sanskrit Buddhist Canon

अजितसेनव्याकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Ajitasenavyākaraṇam

अजितसेनव्याकरणम्



ॐ नमः सर्वज्ञाय॥

एवं मया श्रुतमेकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म जेतवने अनाथपिण्डदस्यारामे महता भिक्षुसङ्घेन सार्धमर्धत्रयोदशभिभिक्षुसहस्रैः। तद्यथा आयुष्मता चाज्ञातकौण्डिन्येन आयुष्मता च महानाम्ना आयुष्मता च रेवतेन आयुष्मता च वक्कुलेन आयुष्मता च शारिपु[त्रेणा आयुष्मता च] पूर्णेन मैत्रायणी[पुत्रेण] च श्रावकनियुतैः। ते सर्वे येन भगवान् येन च जेतवनं विहारं तेनोपसंक्रान्ता भगवतः पादौ शिरसाभिवन्द्य भगवतः पुरतस्तस्थुर्द्वात्रिंशता बोधिसत्त्वसहस्रैः। तद्यथा सहचित्तोत्पादधर्मचक्रप्रवर्तनेन च बोधिसत्त्वेन महासत्त्वेन अनिक्षिप्तधुरेण च बोधिसत्त्वेन महासत्त्वेन मैत्रेयेण च बोधिसत्त्वेन महासत्त्वेन अवलोकितेश्वरेण च बोधिसत्त्वेन महासत्त्वेन महास्थामप्राप्तेन च बोधिसत्त्वेन महासत्त्वेन। एवंप्रमुखार्द्वात्रिंशता बोधिसत्त्वसहस्रैः। ते सर्वे येन भगवान् येन च जेतवनं विहारं तेनोपसंक्रान्ता भगवतः पादौ शिरसाभिवन्द्य भगवतः पुरतस्तस्थुः। अथ खलु भगवान् पूर्वाण्हकालसमये निवास्य पात्रचीवरमा[त्रः] श्रावस्तीं महानगरीं पिण्डाय प्राविशत्। अथ भगवानायुष्मन्तमा नन्दमामन्त्रयते स्म। गच्छानन्द पात्रं चक्रिकं शिक्यमानय। अथायुष्मानानन्दो भगवतः श्रुतमात्रेण पात्रं चक्रिकं शिक्यं भगवते उपनामयामास। अथायुष्मानान्दो भगवतः कृताञ्जलिपुटो भगवन्तं गाथाभिरध्यभाषत।



यदा त्वं प्रविशसि पिण्डपातिक

विमोचये त्वं बहवं हि प्राणिनाम्।

उत्तारये त्वं बहवं हि सत्त्वा

नरकभयाज्जातिजरामहाभया॥



संसारदुःखकलिला महाभया–

द्विमोचये त्वं नर लोकनायक।

महानुभावो वरदक्षिणीयो

विमोचयित्वा पुनरं हि आगमी॥



अथायुष्मानान्दो भगवत इमा गाथा भाषित्व तूष्णीं स्थितोऽभूत्। अथ भगवान् श्रावस्यां महानगर्यां नातिदूरे स्थितोऽभूत्। अथ ते सर्वे गवाक्षतोरणनिर्यूहका [हिरण्य]मयाः स्फटिकमया रूप्यमयाः प्रादुर्भूवन्। तथा श्रावस्त्यां म[हानगर्यां] महान्तं जनकायं संस्थितोऽभूवन्। अथ स जनकायः संशयजातो बभूव को हेतुः कः प्रत्ययः नगरस्य शुभनिमित्तं प्रादुरभूत्। मा चेदं नगरं भस्मप्रलयं स्यात्। अथ तत्र जनकाये अनेकवर्षशत सहस्त्रकोटिको वृद्धमहल्लकः पुरुषः संस्थितोऽभूत्। अथ स पुरुषस्तं जनकायं समाश्वासयन्नेवमाह। मा भैषुर्भोः कुलपुत्राः अस्मिन्नेव पृथिवीप्रदेशे जेतवनं नाम विहारः। तत्र शाक्यमुनिर्नाम् तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। सोऽयं श्रावस्तीं महानगरीं पिण्डाय प्राविशत्। तस्यागमनकालसमये इदं शुभनिमित्तमभूत्। अथ स जनकायस्तं जीर्णकं पुरुषं कृताञ्जलिरेवमाह।



यत्तस्य भगवतस्तथागतस्यार्हतः सम्यक्संबुद्धस्य गु[णवर्णसमुदीरण]समये इदं शुभनिमित्तमभूत्। दृष्टमात्रस्य तस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य किद्दशः पुण्याभिसंस्कारो भविष्यति। अथ स जीर्णकपुरुषस्तं जनकायं भगवतो गुणवर्णसमुदीरणतया गाथाभिरध्यभाषत।



यो लोकनाथस्य हि नामु यः श्रुणे

संसारदुःखा विनिमुक्तु सो नरो।

अपायगामी न कदाचि भेष्यते

स्वर्गं च सो यास्यति शीर्घमेवम्॥



यो लोकनाथस्य हि नामु यः श्रुणे

दृढप्रतिज्ञो बहुकल्पकोटिभिः।

महानुभावो सुगतो महात्मनः

कल्पानकोटिनयुतानचिन्तियान्॥



सो बोधिसत्त्वो स्थित गङ्गवालुकान्

कदाचि सो गच्छति दुर्गती भयम्।

यो लोकनाथस्य हि नामु यः श्रुणे

अपायगामी न कदाचि भेष्यते॥



कल्पानकोटीनयुतानचिन्तिया

राजा स भोती सद चक्रवर्ती।

यो लोकनाथस्य हि नामु धारयेत्॥



यत् किंचि पूर्वं सद पापु यत् कृतं

सर्वं क्षयं यास्यति शीर्घमेतत्।

शक्रोपि देवेन्द्रमहानुभावो

कल्पानकोटिनयुतानचिन्तिया॥



सुखावतीं गच्छति बुद्धक्षेत्रं

पर्यङ्कबद्धो स च बोधिसत्त्वो।

ब्रह्मस्वरो सुस्वरु मंजुघोष

भवन्ति वर्षानसहस्त्रकोटिभिः॥



अपायगामी न कदाचि भेष्यते

यो लोकनाथस्य हि नामु धारयेत्।

अथ स जीर्णकः पुरूषो जनकायं भगवतो गुणवर्णमुदीरयित्वा तूष्णीं स्थितोऽभूत्। अथ भगवान् पूर्वेण नगरद्वारेण श्रावस्तीं महानगरीं प्रविष्टोऽभुत्। तत्र च नगरद्वारे द्वादशकोट्यः पद्मानां प्रादुरभूवन्। तेषु च पद्मेषु द्वादशकोट्यो बोधिसत्त्वानां पर्यङ्कनिषण्णाः प्रादुर्भुवन् प्राञ्जलयः। अथ भगवतः प्रविष्टमात्रेण श्रावस्त्यां महानगर्यां नवनवतिकोटीनियुतशतसहस्त्राणि सत्त्वानां सुखावत्याम् लोकधातौ प्रतिष्ठापितानि चतुरशीतिसत्त्वकोटीनियुतशतसहस्त्राण्याभिरत्या लो[कधातो]रक्षोभ्यतथागतस्य बुद्धक्षेत्रे प्रतिष्ठापितानि।



अथ भगवान् आ[नन्देन सह नगर]वलम्बिकाया दारिकाया गृहे समागतोऽभूत। अथ भगवान् नगरवलम्बिकाया दारिकाया गृहे चक्रिकं कटकटापयामास। अथ सा दारिका तं चक्रीशब्दं श्रुत्व संशयजाताभूत्। को हेतुः कः प्रत्ययः। मम गृहे न कदाचित् पिण्डपातिक आगतोऽभूत्। अथ स नगरवलम्बिका दाऱ्इका शून्याकारगृहे निषण्णा अश्रुकण्ठी रुदन्ती परिदेवन्ती स्थिताभूत् तीक्ष्णधारमसीं गवेषन्ती परिदेवन्ती रुदन्ती स्थिताभूत्। अथ [सा] दारिका शून्याकारगृहे निषण्णा परिदेवन्ती अश्रु[कण्ठी] रुदन्ती गाथाभिरध्यभाषत।



अहो बत दुःखु दरिद्रके गृहे

वरं मम मरणु न चापि जीवितम्।

किं चापि मे कार्युषु जीवितेन

यद्यैवाहं दुःखु शरीर पीडितम्॥



कन.......................ह्यत्राणं भवते परायणम्।

अनाथभूता अहमद्यमेव यद्यैवाहं जात दरिद्रके गृहे॥



अथ स नगरवलंबिका दारिका शून्याकारगृहे [निषण्णा] इमा गाथा भाषित्वा तूष्णीं स्थिताभूत्।



अथ शुद्धवासकायिको देवपुत्रोऽन्तरीक्षगतः स्थितश्चिन्तयति स्म। पश्येच्चेदिमां भगवान्। अनेकदुष्करकोटिनियुतशतसहस्त्रचीर्णचरितः स शाक्यमुनिस्तथागतो नगरवलंबिकाया दारिकाया गृहे स्थितोऽभूत्। अथ शुद्धवासकायिको देवपुत्रः शतसहस्त्रमूल्यं मुक्ताहारं गृहीत्वा शतरसभोजनपिटकं गृहीत्वा काशिकानि वस्त्राणि गृहीत्वा येन नगरवलम्बिकाया दारिकाया गृहं तेनोपसंक्रान्तोऽभूत्। अथ शुद्धवासकायिको देवपुत्रो नगरवलम्बिकां दारिकामेवमाह। प्रावर दारिके इमानि काशिकानि वस्त्राणि इमान्यनेकशतसहस्त्र्मूल्यान्याभरणानि। प्रावृत्य चेदं शतसहस्त्रमूल्यं मुक्ताहारं गृहीत्वा इमं शतरसभोजनपिटकं गृहीत्वा भगवन्तमुपनामय। अथ सा दारीका तानि काशिकानि वस्त्राणि प्रवृत्य शतसहस्रमूल्यं मुक्ताहारम् गृहीत्व तं शतरसभोजनपिटकं गृहीत्वा येन भगवांस्तेनोपसंक्रान्ता। उपसंक्रम्य भगवन्तमुपनामयति स्म। अथ भगवान् तां नगरवलंबिकामेवमाह। परिणामय त्वं दारिके यथा परिणामितं विपश्यिशिखिविश्वभूक्ककुतसुन्दकनकमुनिकाश्यपप्रभृतिभिः सद्भिस्तथागतैरर्हभ्दिः सम्यक्सम्बुद्धैः। अन्तो भविष्यति स्त्रिभावादन्तो भविष्यति दरिद्रगृहात्। अथ सा दारिका तं पिण्डपातं परिणामयित्वा भगवन्तमुपनामयामास। अनेन पिण्डपातकुशलमूलेन मा कश्मिंश्चिद दरिद्रगृहे उपपद्येय।



अथ सा नगरवलम्बिका दारिका तं पिण्डपातं परिणामयित्वा भगवते दत्त्वा स्वगृहगमनमारब्धा। अथ भगवान् तां नगरवलम्बिकां दारिकामेवमाह। प्रतिनिवर्तस्व दारिके। पूर्वेजातिनिदानं समनुस्मरामि। तदहं प[रिकीर्त]यिष्यामि। अथ सा दारिका प्रतिनिवृत्य सर्वाङ्गप्रणि[पातेन] भगवन्तं प्रपतिता। अथ सा नगरवलम्बिका दारिका भगव[न्तं गा]थाभिरध्यभाषत।



अवश्यं मे पूर्वकृतेन कर्मणा

येनाहं [जात] दरिद्रके गृहे।

करोहि कारुण्य ममं हि दुःखित

[विनिवर्तयस्व] नरका हि पालान्॥



करोहि कारुण्य मम दुःखिताया

इस्त्रिभावा उपपन्नु नायक।

त्वं लोकनाथ जरव्याधिशोक

विमोचये मं मम दुःखितायाः॥



त्राणं भवाही शरणं परायणं

विमोचयाही मम दुःखितायाः।

कृतं हि नाथ प्रणिधिं त्वया हि

ये केचि सत्त्वा इह जम्बुद्वीपे॥



तिष्ठन्ति ये वै दशसु दिशासु

सत्त्वा हि सर्वे सुखिता [करि]ष्ये।

सर्वे च हं मोचयि दुःखसागरात्

त्राणं भवाही श[रणं पराय]णम्॥



त्वयं हि नाथ मयि मोचयी जगत्

अवश्यं मे पूर्वकृ[तेन] कर्मणा।

येनाहं जातु दरिद्रके गृहे

त्राणां भवाही मम [दुःखीतायाः]॥



[भवं] तु नाथ जरव्याधिमोचकं

त्राणं भवाही गुण संचि[ताग्र]।

न चा करिष्ये पुनरेव पापं

यद्वेदयामी इमि वेदनानि॥



कृपं जनि...............मग्र सत्त्वा

त्राणं भवाही शरणं परायणम्।

ये केचि सत्त्वा इह जम्बुद्वीपे

नामं च वै धारय पश्च काले॥



परिनिर्वृतस्य तत पश्चकाले

भविष्यति शासनविप्रलोपम्।

यत्किंचि पापं तदपूर्व यत् कृतं

सर्वं क्षयं यास्यति शीघ्रमे[त]त्॥



अथ सा नगरवलम्बिका दारिका भगवन्तं गाथा भाषित्वा पु[नरपि] गृहगमनमारब्धा। अथ भगवान् तां नगरवलम्बिकां [दारिकां कल] विङ्करुतस्वरनिर्घोषेणैवमाह। प्रतिनिवर्तस्व [दारिके पूर्वजातिनिदानं स]मनुस्मरामि तदहं परिकीर्तयिष्यामि। [अथ सा दारिका] प्रतिनिवृत्यैवमाह।



परिकीर्तय लोकविनायकाद्य

य[द्यत् कृतं] पाप सदा सुदारुणम्।

अवश्य मे पापु कृतं सुदारुणं

येना[हं जातु] दरिद्रके गृहे॥



त्वं सार्थवाहु इह सर्वलोके

विमोचये मं इह इस्त्रिभावा।

त्राणं भवाही शरणं परायणं

कृतज्ञहं नित्य भवामि नायके॥



संश्रावये मं इमु धर्मनेत्री

नासौ कदाचित्तजते अपायम्।

संशोधयी कर्म यथाकृतं मया

त्राणं भवाही शरणं परायणम्॥



असङ्गज्ञानी वरलोकनायक

वन्दामि नाथ शरणं कृताञ्जली॥



अथ भगवान् तां दारिकामेवमाह। भूतपूर्वो दारिके अतीतेऽध्वनि असंख्येयैः कल्पै रत्नशिखी नाम तथागतोऽर्हन् सम्यक्सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। तेन खलु पुनः समयेन पद्मावती नाम राजधान्यभूत्। तेन खलु पुनः समयेन पद्मावत्यां राजधान्यां पद्मप्रभो नाम गृहपतिरभूत्। तस्य पद्मप्रभस्य गृहपतेस्त्वं [दुहि]ताऽभूः। तेन खलु पुनः समयेन ग्रामनगरनिगमजनपदेषु पिण्डपातिको भिक्षूः पिण्डपातायावतरति। यदा त्वद्गृहमागतोऽभूत तदा त्वं दारिके पिण्डपातं गृहीत्वा गृहान्निष्क्रान्ता पुनरेव प्रविष्टाऽभूः। न चाहं मुण्डितशिरसोऽधन्यस्य पिण्डपातं दास्यामि। तेन कर्मोपचयेन त्वया दारिके द्वादशकल्पसहस्राणि पुनः पुनर्दरिद्रगृहे दुःखान्यनुभूतानि। एकेन त्वया दारिके कुशलमूलेन बोधिव्याकरणं प्रतिलप्स्यसे। यत्त्वया तस्य भिक्षो रूपलिङ्गसंस्था न दॄष्टा भविष्यसि त्वं दारिके अनागतेऽध्वनि अचिन्त्यैरपरिमाणैः कल्पैर्नगरध्वजो नाम तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् लोके। अथ सा दारिका भगवन्तं त्रिः प्रदक्षीणं कृत्वैवमाह। किदृशं भगवन् मम बुद्धक्षेत्रं भविष्यति यत्रैवाहं बुद्धो भविष्यामि। भगवानाह। अपरिमितगुणसंचया नाम सा बुद्धक्षेत्रं भविष्यति। यादृशी च सा सुखावती लोकधातुः तादृशं तदबुद्धक्षेत्रं भविष्यति। पर्यङ्कनिषण्णा आर्योपपादुका बोधिसत्त्वा भविष्यन्ति। ईदृशं तद्बुद्धक्षेत्रम्।



अथ च सा दारिका तुष्टा उदग्रा आत्तमनाः प्रमुदिता प्रीतिसौमनस्यजाता स्वगृहगमनमारब्धा। अथ भगवांस्तां दारिकामेवमाह। त्वं दारिके सप्तमे दिवसे कालं करिष्यसि। कालं कृत्वा। पूर्वस्यान्दिशि मगधविषये राजा अजितसेनो नाम। तस्य राज्ञोऽजितसेनस्य अन्तःपुरसहस्रमस्ति। तस्य खलु पुन राज्ञऽजितसेनस्य पुत्रो जनिष्यसे। एष एव तव पश्चिमो गर्भवासो भविष्यति।



अथ भगवान् पश्चिमकेन नगरद्वारेण श्रावस्त्या महानगर्या निष्क्रान्तो येन जेतवनं विहारस्तेनोपसंक्रान्तः। अथायुष्मानान्दो भगवन्तं दूरत् एवागच्छन्तं दृष्ट्वा पादौ शिरसाभिवन्द्य त्रिःप्रदक्षीणीकृत्य भगवन्तं गाथाभिरध्यभाषत।



सुवर्णवर्णं वरलक्षणार्चितं

द्वाविंशतिलक्षणरूपधारिणम्।

यदा त्वया आगतु पिण्डपातिका

विमोचयित्वा इह सर्वसत्त्वा॥



सुखेन संस्थापयि सर्वसत्त्वा

मैत्रीबलं सर्वजगत्त्वया कृतम्।

स पिण्डपातं वरमाण्डनायक

विमोचितस्ते जगती भया च॥



ये बोधिसत्त्वा इह जम्बुद्विपे

सर्वे च मार्गं तव दर्शयन्ति।

परिनिर्वृतस्य सद पश्चकाले

धारेतु सूत्रं इमु बुद्धवर्णितम्॥



परिनिर्वृतस्य तव पश्चकाले

भविष्यति शासनविप्रलोपम्।

इमं नयं धारयि सूत्ररत्नम्॥



अथायुष्मानानन्द इमा गाथा भाषित्व भगवन्तं त्रिः प्रदक्षीणीकृत्य भगवतः पुरतस्तस्थौ। अथ भगवानायुस्मन्तमानन्दमामन्त्रयते स्म। गच्छनन्द गण्डीमाकोटय। ते श्रावकाः परिभोक्ष्यन्ति पिण्डपातम्। अथायुष्मानानन्दो भगवन्तमामन्त्रयते स्म। कीदृशं भगवन् गण्डीशब्दस्य कुशलमूलं भविष्यति। भगवानाह। श्रुणु आनन्द गण्डीशब्दस्य कुशलमूलं परिकीर्तयामि। ये केचिदानन्द गण्डीशब्दं श्रोष्यन्ति तेषां पचानन्तर्याणि कृत्यानि परिक्षयं यास्यन्ति। अवैवर्तिकास्ते भविष्यन्ति क्षिप्रं चानुत्तरां सम्यक्संबोधिसम्भिसंभोत्स्यन्ते। आनन्द आह। कीदृशं भगवंस्तैः सत्त्वैः कुशलमूलमवरोपिम्। भगवानाह। श्रुणु आनन्द ये सत्त्वाः पश्चिमे काले पश्चिमे समये मम परिनिर्वृतस्य सद्धर्मविप्रलोपे वर्तमाने सद्धर्मस्यान्तर्धानकालसमये ग्रामनगरनिगमजनपदराष्ट्राराजधानीषु ये सत्त्वा[वा] अरण्यायतने गण्डयाकोटनशब्दं श्रोष्यन्ति नमो बुद्धायेति करिष्यन्ति तेषां पचानन्तर्याणि कर्माणि परिक्षयं यास्यन्ति। ईदृशान्यानन्द गण्डीशब्दस्य कुशलमूलानि। अथायुष्मानानन्दः शान्तप्रशान्तेन गण्डीमाकोटयते स्म। अथ तेन गण्डीशब्देन सर्वे ते महाश्रावकाः सन्निपतिता अभूवन्। यथा यथा आसने निषण्णाः पिण्डपातं परिभूञ्जन्ते स्म। अथ तत्रैव श्रावकमध्ये नन्दिमित्रो नाम महाश्रावकः सन्निपतितोऽभूत् सन्निषण्णः। अथ भगवानायुष्मन्तं नन्दिमित्रम् महाश्रावकमामन्त्रयते स्म। गच्छ त्वं नन्दिमित्र महाश्रावक पूर्वस्यान्दिशि मगधविषये राज्ञोऽजितसेनस्य कल्याणमित्रपरिचर्या कुरु। अथ नन्दिमित्रो महाश्रावको भगवन्तमेवमाह। न भगवन् शक्ष्यामस्तं पृथिवीप्रदेशं गन्तुम्। दुरासदास्ते सत्त्वाः। ते मां जीविताद्व्यवरोपयिष्यन्ति। अथ भगवानायुष्मन्तं तं नन्दिमित्रम् महाश्रावकमेवमाह। न ते सत्त्वास्ते शक्ष्यन्ते बालाग्रमपि कम्पयितुं प्रागेव जीविताद्व्यवरोपयितुम्। अथ नन्दिमित्रो महाश्रावकः प्रत्यूषकालसमये सुवर्णवर्णं वस्त्रं प्रावृत्य येन पूर्वस्यान्दिशि मगधविषये राज्ञोऽजितसेनस्य राजधाणि तेनानुक्रान्तोऽभूत्। अथ राजा अजितसेनस्तं नन्दिमित्रं महाश्रावकं दृष्ट्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातोऽभूत्। अथ राज्ञाजितसेनेन अमात्यः प्रेषितोऽभूत्। गच्छैनं भिक्षुमानय। तदा सोऽमात्यो येन नन्दिमित्रो महाश्रावकस्तेनोपसंक्रान्तः। अथ सोऽमात्यो नन्दिमित्रं महाश्रावकमेवमाह।



आगच्छ महाश्रावक भिक्षो राजा ते आज्ञापयति। अथ नन्दिमित्रो महाश्रावकोऽमात्यमेवमाह। मम राज्ञ किं कार्य मम राजा किं करिष्यति। अथामात्यो येन राजाजितसेनस्तेनोपसंक्रान्तः। तं राजानमजितसेनमेवमाह। न च स भिक्षुस्तव पार्श्वे आगच्छति। अथ राज्ञाजितसेनेन पञ्चामात्यशतानि प्रेषितानि। न च स भिक्षूराज्ञोऽजितसेनस्य पार्श्वमागच्छति। अथ स राजा स्वकेनैवात्मभावेन येन स नन्दिमित्रमहाश्रावकस्तेनोपसंक्रान्तः। उपसंक्रम्य कृताजलिरेवमाह। आगच्छ भो भिक्षो मम राजधानीं प्रविश। अथ राजा अजितसेनो दक्षिणहस्ते तं भिक्षूं गृहीत्वा स्वकां राजधानीं प्रविष्टोऽभूत्। अथ राज्ञाजितसेनेन नन्दिमित्रस्य भिक्षोः सिंहासनं दत्तमभूत्। अथ राजाजितसेनो भद्रपीठके निषद्य तं नन्दिमित्रं महाश्रावकमेवमाह। कुत्र त्वं भिक्षो गच्छसि। को हेतुः कः प्रत्ययः। अथ नन्दिमित्रो महाश्रावको राजानमजितसेनमेवमाह। ये केचिद् भिक्षुप्रव्रजितास्ते सर्वे भिक्षाहाराः पिण्डपातमवचरन्तः परिभुञ्जन्ति। अथ राजा अजितसेनस्तं नन्दिमित्रं महाश्रावकमेवमाह। परिभुङ्क्ष्व मम गृहे पिण्डपातम्। यावज्जीवं पिण्डपातं प्रदास्यामि। यदि ते भिक्षो मम स्वमांसेन कार्यं स्वमांसं दास्यामि। अथ नन्दमित्रो महाश्रावको राजानमजितसेनआं गाथाभिरध्यभासात।

भुंजामि तद्भोजनु यद् ददाहि

मृष्टान्नपानं रसपानमुक्तमम्।

क्लेधा हि निर्मुक्त त्वया भविष्यसि

सुदुर्लभं लब्ध मनुष्यलाभम्॥



सुदुर्लभं शासनु नायकस्य

श्रद्वाप्रसादं परमं सुदुर्लभम्।

ये शासने प्र[व्र]जिता च भिक्षवा

सुदुर्लभं शासनु नायकानाम्॥



सुदुर्लभं सुगतवरस्य दर्शनं

नमोऽस्तु ते बुद्ध महानुभावो।

नमोऽस्तु ते धर्ममयं महामुने

नमोऽस्तु ते क्लेशविचक्षणार्यम्।



नमोऽस्तु ते सर्वजरप्रमोक्षणात्

नमोऽस्तु ते मार्गनिदर्शनार्यम्

नमोऽस्तु ते मार्गपथस्य दर्शकं

नमोऽस्तु ते बोधिसपथस्य दर्शकम्।



अथ नन्दिमित्रो महाश्रावको राजानमजितसेनं भगवतो गुणवर्णमुदीरयित्वा तूष्णीं स्थितोऽभूत्। अथ राजानमजितसेनं तं नन्दिमित्रो महाश्रावको गाथाभिरध्यभाषत।



सुदुर्लभं भिक्षु तथैव दर्शनं

सुदुर्लभं तस्य भवेय दर्शनम्

ये भिक्षु संघस्य ददेय दानं

न तस्य यक्षा न च राक्षसाश्च॥



न प्रेतकुष्माण्डमहोरगाश्च

विघ्नं न कुर्वन्ति कदाचि तेषां।

ये भिक्षुसंघाय ददन्ति दानं

सुदुर्लभं तस्य मनुष्यलाभम्॥



यो दुर्लभं दर्शनु भिक्षुभावं

सुदुर्लभं कल्पशतैरचिन्तियैः।

यो लोकनाथस्य हि नामु धारये

कल्पान कोटिनयुतानचिन्तिया॥



न जातु गच्छे विनिपातदुर्गतिं

यो ईदृशं पश्यति भिक्षुराजम्।

न तस्य भोती विनिपातदुर्गतिं

यो ईदृशं पश्यति भिक्षुराजम्॥



कल्याणमित्रं मम मार्गदर्शको

(यं) स आगताये मम पिण्डपातिका।

यो दास्यते अस्य हि पिण्डपातं

मुक्ता न भेष्यंति जरार्तव्याधया॥



क्लेशा विनिर्मुक्त सदा तु भेष्यति

ये तस्य दास्यन्तिह पिण्डपातम्॥



अथ स राजा अजितसेनो नन्दिमित्रं महाश्रावकं गुणवर्णमुदीरयित्वा तूष्णीं स्थितोऽभूत्। अथ नन्दिमित्रो महाश्रावको राजानमजितसेनमेवमाह। एवमस्तु महाराज भुञ्जे पिण्डपात तव गृहे। अथ राजा अजितसेनं खादनीयेन भोजनीयेन तं नन्दिमित्रमहाश्रावकं सन्तर्पयति स्म।



अथ नन्दिमित्रमहाश्रावको राजानमजितसेनमेवमाह। किं तव महाराज अस्मिन् पृथिवीप्रदेशे उद्यानभूमिरस्ति। राजा आह। अस्ति महाश्रावक उद्यानभूमिर्मम रमणीया सुशोभना। नन्दिमित्र आह। गच्छाम्यहं महाराज। तामुद्यानभूमिं प्रेक्षे। राजा आह। गच्छ नन्दिमित्र। उद्यानभूमिं प्रेक्षस्व। अथ नन्दिमित्रमहाश्रावको येन राज्ञोऽजितसेनस्योद्यानभूमिस्तेनोपसंक्रान्तः। अथ तत्रोद्यानभूमौ ये उद्यानगुणास्ते सर्वे सन्तीती। या ग्रैष्मिक्यः पुष्करिण्यस्ताः शीतलजलपरिपूर्णा या वार्षिक्यस्ता नात्युष्णा नातिशीतलजलपरिपूर्णाः। ताश्च पुष्करिण्यः सुवर्णसोपानसंच्छन्ना दिव्या रमणीयाः। ये च जांबूपकपरिभोगगुणास्ते सर्वे सन्तीति। अधिमुक्तकचम्पकाशोकमुचिलिन्दपाटलसुमनासौगन्धिकपुष्पाणि सन्तीति। ये तिर्यग्योनिगताः पक्षिणः शुकशारिकाचक्रवाकमयूरकोकिला दयस्ते नानारुतानि कुर्वन्ति स्म। अथ तत्रैव उद्यानभूमौ सुवर्णवर्णाः सुवर्णतुण्डाः सुवर्णपक्षाः सुवर्णपादाः पक्षीणः प्रादुर्भूताः। ते सर्वे बुद्धशब्दं निश्चारयन्ति। अथ नन्दिमित्रमहाश्रावको येन राज्ञोऽजितसेनस्य राजधाणी तेनोपसंक्रान्तः। अथ राजा अजितसेनस्तं नन्दिमित्रं महाश्रावकमेवमाह। आगतस्त्वं महाश्रावक। दृष्टोद्यानभूमिः। नन्दिमित्र आह। दृष्टा मयोद्यानभूमि रमणीया सुशोभना। अथ नन्दिमित्रम् महाश्रावकं राज अजितसेनो गाथाभिरध्यभाषत।



ये जंबुद्वीपे परिभोगमासी

अधिमुक्तकचम्पकधानुष्कारिका।

अशोकमुचिलिन्द तथैव पाटला

सौगन्धिकाश्च सुमना च वार्षिका॥



तदा परियात्रा नदीतीरनिर्मिता

सुवर्णवर्णा सद पक्षीणा अभूत्।

मार्गं च ते दर्शयि अग्रबोधये

दिव्या मनोज्ञ मधुरस्वरांश्च

संश्रावयिष्यन्ति च नित्यकालम्॥



अथ नन्दिमित्रमहाश्रावको राज्ञोऽजितसेनस्य गाथा भाषित्वा तूष्णी स्थितोऽभूत्। अथ राजा अजितसेनो भेरीं पराहन्ते स्म। अथ तेन भेरीशब्देन समेत्यामात्यगणस्तं राजानमजितसेनमेवमाह। कस्यार्थे महाराज भेरी पराहता। अथ स राजा आह। हस्तिरथं च अश्वरथं च सज्जं कृतं स्यात्। अहमुद्यानभूमिं गमिस्यामि क्रीडनार्थाय। अथ ता अमात्यकोट्यो वचनं श्रुत्व शीघ्रमेव तद हस्तिरथमश्वरथं सज्जं कृतवत्यः। अथ तेन क्षणलवमुहूर्तमात्रेण राजाजितसेनो येन सोद्यानभूमिस्तेनोपसंक्रान्तः। स च नन्दिमित्रमहाश्रावकस्तेनैवोपसंक्रान्तो राजानमजितसेनमेवमाह। अस्मिन् पृथिवीप्रदेशे महाराज मम कुटिकं कारयितव्यम् यत्राहं सन्निषण्णस्तव गृहे पिण्डपातं परिभोक्ष्यामि। अथ राजा अजितसेनो नन्दिमित्रमहाश्रावकमेवमाह। कीदृशं तवकुटिकं कारयितव्यम्। नन्दिमित्र आह। यादृशास्तव महाराज महाचित्तोत्पादश्रद्धाप्रसादास्तादृशं कुटिकं कारय। अथ राहा अजितसेनो ज्येष्ठामात्यमेवमाहऽस्मिन्नेव पृथवीप्रदेशे कुटिकं कारय।



अथ ज्येष्ठामात्यो राजानमेवमाह। कीदृशं महाराज कुटिकं कारयामि। राजा अजितसेन एवमाह। त्रिंशद्योजनानि दीर्घेण षड्योजनान्यूर्ध्वायां सप्तरत्नमयं मणिमुक्तिसम्च्छादितं कुटिकं कारय। अथ सोऽमात्यः कुटिकं कार्यति। सप्तरत्नमयं मणिमुक्तिसंच्छादितं कारयित्वा येन राजा अजितसेनस्तेनोपसंक्रान्तो राजानमजितसेनमेवमाह। कृतं महाराज मया कुटिकं यादृशमाज्ञप्तम्। राजा आहा। तत्रैव पृथिवीप्रदेशे चंक्रमः कारयितव्यश्चतुर्योजनानि दीर्घेण द्वे योजने विस्तारेण। अथ सोऽमात्यस्तं चंक्रमं काऱ्अयित्वा येन राजा अजितसेनस्तेनोपसंक्रान्तो राजानं गाथाभिरध्यभाषत।



कृतं मया चम्क्रमु सुष्ठु शोभनं

आज्ञा त्वया यत् कृतपूर्वमेव च।

सत्त्वान् मोचेति प्रकृतिं शुभाशुभं

विमोचये प्राणिन सर्वमेतत्॥



अहो सुलब्धा प्रणिधीकृतं त्वया

विमोचयी सर्वजगत् सदेवकम्।

प्रणिधिं कृतं यत्त्वयमीदृशं भवे

धर्मं प्रकाशेति मे धर्मभाणको।



निषण्ण स्थित्वा कुटिका च चंक्रमे

आज्ञा कृतं यत् त्वय यादृशी कृता।

स चंक्रमं चैव कृतं सुशोभनं

मणिरत्नसंच्छादित तं च भूमिम्॥



अथ राजा अजितसेनो येन स्वका राजधागी तेनोपसंक्रान्तः। अथ नन्दिमित्रमहाश्रावकः प्रतिनिवृत्य तत्रैव कुटिके निषण्णो विकिरणं नाम बोधिसत्त्वसमाधिं समापन्नोऽभूत्। अन्येन केशानन्येन नयनान्यन्येन दन्तानन्येन ग्रीवा अन्येन बाहू अन्येन हृदयमन्येनोदरमन्येनोरू अन्येन जङ्गघे अन्येन पादौ समापन्नोऽभूत्। अथ स राजा अजितसेनः सप्ताहस्यात्ययेन तं भिक्षूं न पश्यति॥



अथ राजा ज्येष्ठकुमारमेवमाह। आगच्छ कुलपुत्र गमिष्यामि तां कुटिकाम्। येन स भिक्षुस्तेनोपसंक्रमिष्यामि। अथ स राजा सपुत्रो येन सा कुटिका तेनोपसंक्रान्तोऽभूत्। अथ स राजा अजितसेनस्तं भिक्षुमात्मभावम् खण्डं खाण्डं कृतं दृस्त्वा संशयजातोऽभूत्। संत्रस्तरोमकूपजातो वस्त्राणि पाटयन् परिदेवन् रुदन् अश्रुकण्ठः पुत्रमेवमाह। आनय पुत्र तीक्ष्णाधारमसिम्। आत्मानं जिविताद् व्यवरोपयिष्यामि। अथ स राजकुमारः प्राञ्जलिं कृत्वा राजानं गाथाभिरध्यभाषत।



मा शोकचित्तस्य भवे नृपेन्द्र

मा वेदयी वेदनमीदृशानि।

आत्मघातं करित्वा तु निरये त्वं गमिष्यसि।

रौरवं नरकं चापि गमिष्यसि सुदारुणम्।

दक्षिणीयो अयं लोके जरव्याधिप्रमोचकः।



न चायं घातितो यक्षैर्न भूतैर्न च राक्षसैः।

बोधिसत्त्वोऽप्ययं लोके जरव्याधिप्रमोचकः॥



दक्षिणियो अयं लोके जरव्याधिप्रमोचकः।

दुर्लभो दर्शनं अस्य बोधिमार्गस्य दर्शकः॥



कल्याणमित्रमयं आसी तव कारणमागतम्।

दक्षिणीयो अयं लोके सर्वसत्त्वसुखावहम्॥



सर्वज्ञं पारमिप्राप्तं लोकनाथेन प्रेषितम्।

दृढवीर्यं दृढस्थामं लोकनाथं महर्षिणम्॥





यो नाम तस्य धारेति नासौ गच्छति दुर्गतिम्।

अपायं न गमिष्यन्ति स्वर्गलोकोपपत्तये॥



अथ स राजकुमारस्तं पितरं गाथा भासित्वा तूष्णीं स्थितोऽभूत्। अथ राजा अजितसेनः स्वकं पुत्रमेवमाह। कथं त्वं कुमार जानीषे यदयं भिक्षुः समाधिं समापन्नोऽभूत्। अथ स राजकुमार एवमाह। पश्य महाराज अयं भिक्षुर्बोधिसत्त्वसमाधिं समापन्नः सर्वक्लेशविनिर्मुक्तो भवसागरपारंगतः सर्वसत्त्वहितार्थं च मार्गं दर्शयते शुभम्। अथ स राजकुमारो राजानमेवमाह। आगच्छ तात चंक्रमं गमिष्यामः। अथ स राजा स च राजकुमारो बहुभिर्दारकशतैः सार्ध येन स चंक्रमस्तेनोपसंक्रान्तौ। अथ स भिक्षुस्ततः समाधेर्व्युत्थितो राजानमजितसेनमेवमाह। आगच्छ महाराज किं करोष्यस्मिन् स्थाने।



अथ राजा तं भिक्षू दृष्ट्वा मौलिपत्तं राजकुमारस्य ददाति। तव राज्यं भवतु। धर्मेण पालये नाधर्मेण। राजकुमार आह। बहून्यसंख्येयानि राजकार्याणि मया कृतानि। न च कदाचित्तृप्तिरासीत्। तव तात राज्यं भवतु। न मम राज्येन कार्यं न भोगेन नैश्वर्याधिपत्येन कार्यम्। तव राज्यं भवतु तात। धर्मेण पालयें नाधर्मेणेति।



अथ राजा येन स भिक्षुस्तेनोपसंक्रान्तः प्राञ्जलिरेवमाह।

सुदुर्लभं [दर्शन]तुभ्यमार्षाः

कृताजलिः [समभिमुखी] नायकानाम्।

मोक्षागमं दर्शनु तुभ्यमार्षाः

सुदुर्लभं कर्मशतैरचिन्तियैः॥



ये दर्शनं दास्यति तुभ्यमार्षा

मुक्ता च सो भेष्यति कल्पकोटिभिः।

न जातु गच्छे विनिपातदुर्गतिं

यो नामधेयं शृणुते मुहूर्तम्॥



राजाआह।

निषद्य युग्ये रतनामये शुभे

व्रजाम्यहं येन स राजधानीम्।

ददाम्यहं भोजनु सुप्रभूतं

ददाम्यहं काशिकवस्त्रमेतत्।

सूक्ष्माणि जालानि च संहितानि

यां चीवरां तुभ्य ददामि अद्य॥



अथ स भिक्षू रत्नमये युग्ये गृहीत्वा येन राजधानी तेनोपसंक्रान्तः। सन्तर्पितो भोजनेन। अथ नन्दिमित्रमहाश्रावको राजानमजितसेनं गाथाभिरध्यभाषत।



संतर्पितो भोजन सुप्रभूतं

मृष्टान्नपानरसमुक्त्तमं शुभम्।

ये भिक्षुसंघाय ददंति दानं

ते बोधिमण्डेन चिरेण गच्छत॥



सुदुर्लभं दर्शन नायकस्य न

चिरेण सो गच्छति बुद्धक्षेत्रम्।

अमितायुषस्य वरबुद्धक्षेत्रे

सुखावतीं गच्छति शीग्रमेतत्॥



अथ नन्दिमित्रमहाश्रावकः अजितसेनस्य राज्ञो गाथा भाषित्व तूष्णीं स्थितोऽभूत्। अथ राजा अजितसेनो भेरीं पराहन्ति स्म। अथ तेन भेरीशब्देन सर्वास्ता अमात्यकोट्यो राजानमेवमाहुः। कस्यार्थे महाराज भेरी पराहता। राजा आह। सप्तमे दिवसे हस्तिरथमश्वरथं सज्जं कृतं रयात्। अहं सप्तमे दिवसे जेतवनं नाम विहारं गमिष्यामि शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय। अथामात्यकोट्यस्तं राजानमजितसेनमेवमाहुः। कृतमस्माभिः महाराज हस्तिरथमश्वरथं सज्जम्।



अथ राजा अजितसेनो हस्तिरथे अवरुह्य तं च नन्दिमित्रमहाश्रावकं रत्नमये रथे अवरोह्य येन जेतवनं विहारस्तेनोपसंक्रान्तः। अथ भगवान् राजानमजितसेनं दूरत एवागच्छन्तं दृष्ट्रा तान सर्वश्रावकानामन्त्रयत्। सर्वैर्नानाऋद्धिविकुर्वितं दर्शयितव्यम्। अथ ते सर्वे महाश्रावका ज्वालामालं नाम बोधिसत्त्वसमाधिं समापन्ना अभूवन्। अथ राजा दूरतस्तं ज्वालामालं दृष्ट्वा नन्दिमित्रमहाश्रावकमेवमाह। कस्यार्थे इमं पर्वतं ज्वालामलीभूतं पश्यामि। नन्दिमित्र आह। अत्र शाक्यमुनिस्तथागतोऽर्हन् सम्यक्संबुद्धः स्थितिं ध्रियते यापयति धर्मं च देशयति। ते च बोधिसत्त्वा ज्वालामालं नाम बोधिसत्त्वसमाधिं समापन्नाः। अथ राजा अजितसेनो हस्तिरथादवतीर्य पादाभ्यां पुत्रसहस्रेण सार्धं येन भगवांस्तेनोपसंक्रान्तः। अथ भगवान् सुवर्णवर्णेन कायेन व्यामप्रभया चंक्रमते स्म। अथ राजा अजितसेनो भगवतो रूपवर्णलिंगसंस्थानं दृष्ट्वा मूर्च्छित्वा धरणितले निपतितः। अथ भगवान् सुवर्णवर्णं बाहुं प्रसार्य तं राजानमुत्थापयति स्म। उत्तिष्ठ महाराज कस्यार्थे प्रपतितः। राजा आह।



बहूनि कल्पानि अचिन्तियानि

जातीशताकोटि अचिन्तित्यानि।

न मे कदाचिदिह दृष्टरूपं

त्वं लोकनाथो वरदक्षिणीयो॥



त्वं सार्थवाह जरव्याधिमोचकं

सुवर्णवर्णं वरलक्षणांगम्।

द्वातृंशता लक्षाणधारीणां मुने

नासौ कदाचिद् व्रजते अपायभूमिम्।

यो लोकनाथस्य हि रूपु पश्ये

त्वं लोकनाथा शिरसा नमस्यामी॥



अथ राजा अजितसेनः कृताञ्जलिः भगवन्तमेवमाह। अहं भगवन् तव शासने प्रव्रजिष्यामि। अथ भगवान् तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः। अलब्धालाभा ये [तत्र] मम शासनं वैस्तारिकं भवति। तं राजनमजितसेनमेवमाह। गच्छ त्वं महाराज स्वगृहे सप्तमे दिवसे आगमिष्यामि।





अथ राजा अजितसेनस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतीसौमनस्यजातस्तं कल्याणमित्रं भिक्षु पुरतःस्थाप्य स्वगृहं गत्वा सर्वानमात्यानामन्त्रयते स्म। सर्वैर्ग्रामनगरनिगमजनपदैः पथं शोधयितव्यं गृहे गृहे ध्वजान्युच्छ्रापितव्यानि गृहे गृहे रत्नमयानि कुम्भानि परिपूरयितव्यानि। तदा तैः सर्वैरमात्यैराज्ञातम्। सर्वग्रामनगरनिगमजनपदैः पथं शोधितं ध्वजान्युच्छ्रापितानि रत्नमयानि कुम्भानि परिपूरितानि। यत्र राजा अजितसेनः प्रतिवसति तत्र द्वादशकोट्यो ध्वजानामुच्छ्रापिता द्वादशकोट्यो रत्नमयानां कुम्भानां परिपूरिताः। यावत् सप्तमे दिवसे तथागतोऽर्हन् सम्यक्संबुद्धः शारिपुत्रमौद्गल्यायनान्दपूर्णमैत्रायणीपुत्रप्रमुखैर्महाश्रावकसंघैः परिवृतः पुरस्कृतः अजितसेनस्य राज्ञो राजधानीमनुप्राप्तः।



अथ राजा अजितसेनः पुष्पपिटकं गृहीत्वा कल्याणमित्रं पुरतःस्थाप्य भगवन्तं पुष्पैरवकिरन् भगवन्तमेवमाह। अनेन कुशलमूलेन सर्वसत्त्वा अनुत्तरां सम्यक्संबोधिमभिसम्पद्यन्ते। अथ राज्ञा अजितसेनेन आसनानि प्रज्ञप्तानि। तस्य भगवतः सिंहासनं प्रदत्तम्। अथ भगवान् सिंहासने निषण्णो राज्ञोऽजितसेनस्य धर्मान् देशितवाग्। अथ राज्ञा अजितसेनेन प्रभूतेनाहारेण खादनीयेन भोजनीयेन सन्तर्पितः। अथ राजा अजितसेनो ज्येष्ठकं राजकुमारं ददाति। इमं राजकुमारं प्रव्राजय। तदहं पश्चात् प्रव्रजिष्यामि। अथ भगवानायुष्मन्तमानन्दमामन्त्रयते स्म। गच्छानन्द इमं राजकुमारं प्रव्राजय। अथायुष्मतानन्देन स राजकुमारः प्रव्राजितः। सह प्रव्रजितमात्रेण अर्हत्फलं प्राप्तमभूत्। सर्वबुद्धक्षेत्राणि पश्यति स्म। अथ स राजकुमारोऽन्तरीक्षगतस्तं पितरं गाथाभिरध्यभाषत।



मा विलंब कुरुते तात

मा खेदं किंचि यास्यसि।

अहो सुलब्धं सुगतान् दर्शनं

अहो सुलब्धं सुगतान् लाभम्॥



अहो सुलब्धं परमं हि लाभं

प्रव्रज्यलाभं सुगतेन वर्णितम्।

संसारमोक्षो सुगतेन वर्णितं

प्रव्रज्य शीघ्रं म विलंब तात॥



मा खेदयी लोकविनायकेन्द्रं

सुदुर्लभं लब्ध मनुष्यलाभं

सुदुर्लभं दर्शनु नायकानाम्।

शीघ्रं च प्रव्रज्य मया हि लब्धं

प्राप्तं मया उत्तममग्रबोधिम्।

श्रुत्वा न राजा तद पुत्रवाक्यं

स प्रव्रजी शासनि नायकस्य॥



अथ राजकुमारोऽन्तरीक्षगतो गाथां भाषित्वा तूष्णीं स्थितोऽभूत्। अथ राजा अजितसेनः पुत्रस्य वाक्यं श्रुत्वा तुष्ट उदग्र आत्त[म]नाः प्रमुदितः [प्रीति]सौमनस्यजातो भगवन्तमुद्दिश्य विहारं कारयति स्म। तूर्यकोट्योऽनुप्रदत्ताः। अन्तःपुरसहस्रमस्यास्त्रीन्द्रियमन्तर्हितपुरुषेन्द्रियं प्रादुरभूत्। अथ राजा अजितसेनो भगवतः शासने प्रव्रजितोऽभूत्। ताश्चामात्यकोट्यो भगवतः शासने प्रव्रजिता अभूवन्। तच्चान्तःपुरपुरुषसहस्रं प्रव्रजितमभूत्। भगवान् राजानमजितसेनं प्रव्राज्य येन जेतवनं विहारस्तेन गमनमारब्धवान्।



अथायुष्मानानन्दो भगवन्तमेवमाह। अयं राजा अजितसेनो राज्यं परित्यज्य विहारं कारयित्वा भगवतः शासने प्रव्रजितोऽभूत्। अस्य कीदृशं कुशलमूलं भविष्यति। भगवानाह। साधु साधु आनन्द यत्त्वया परिकीर्तितम्। अयं राजा अजितसेनो मम शासने प्रव्रजितो भविष्यति। अनागतेऽध्वन्यपरिमितैः कल्पैरचिन्त्यैरपरिमाणैरजितप्रभो नाम तथागतोऽर्हन् सम्यक् संबुद्धो लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। आनन्द आह। अयं नन्दिमित्रमहाश्रावको राज्ञः कल्याण मित्रमभूत्। किदृशं वास्य कुशलमूलं भविष्यति।



भगवानाह। अयमानन्द नन्दिमित्रमहाश्रावकस्तत्रैव कालसमये नन्दिप्रभो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके भविष्यति। आनन्द आह। कीदृशं भगवन् तेषां तथाग़तानां बुद्धक्षेत्रं भविष्यति। भगवानाह। अपरिमितगुणसंचया नाम सा बुद्धक्षेत्रं भविष्यति यत्रेमे तथाग़ता भविष्यन्ति। आनन्द आह। य इमं धर्मपर्यायं सकलं समाप्तं पश्चिमे काले पश्चिमे समये संप्रकाशयिष्यति तस्य कीदृशः पुण्यस्कन्धो भविष्यति। भगवानाह।



यदा मयानन्द दुष्करकोटिनियुतशतसहस्राणि चरित्वा बोधिरभिसंबुद्धा तदा ते सत्त्वा बोधिमभिसंभोत्स्यन्ते। य एतद्धर्मपर्यायात् चतुष्पदिकामपि गाथां श्रोष्यन्ति अवैवर्तिकाश्च ते सत्त्वा भविष्यन्त्यनुत्तरायां सम्यक्संबोधौ। आनन्द आह। य इमं धर्मपर्यायं धर्मभाणकाः संप्रकाशयिष्यन्ति तेषां किदृशं कुशलमूलं भविष्यति। भगवानाह। शृणु आनन्द राजा भविष्यति चक्रवर्ती चतुर्द्वीपेश्वर। य इमं धमपर्यायं सकलं समाप्तं संप्रकाशयिष्यन्ति मुक्ताश्च भविष्यन्ति जातिजराव्याधिपरिदेवदुःखदौर्मनस्योपायासेभ्यः परिमुक्ता भविष्यन्ति। आनन्द आह। ये पश्चिमे काले पश्चिमे समये सत्त्वा इमं धर्मपर्यायं प्रतिक्षेप्स्यन्ति न पत्तीयिष्यन्ति तेषां का गतिर्भविष्यति कः परायणम्।



भगवानाह। अलमलमानन्द। मा मे पापकं कर्मस्कन्धं परिपृच्छ। न मया शक्यं परिकीर्तयितुम्। अन्यत्र बुद्धकोटिभिर्नशक्यं परिकीर्तयितुम्। आनन्द आह। परिकीर्तय भगवन् परिकीर्तय। सुगतो भगवानाह। श्रुणु आनन्द सद्धर्मप्रतिक्षेपकस्य गतिं परिकीर्तयिष्यामि। रौरवे महानरके हाहहे महानरके अवीचौ महानरके तिर्यग्योनौ यमलोके च प्रेतविषये बहूनि कल्पसहस्राणि दुःखमनुभवितव्यम्। यदि कदाचिन्मन्नुष्यलोके उपपत्स्यते दीर्घशुष्कतालुकण्ठो भविष्यति। द्वादशयोजनानि तस्य जिव्हा भविष्यति। द्वादशहल्यानि प्रवहिष्यन्ति ये एवं वाग्भाषिष्यन्ते।



मा भोः कुलपुत्रा भोः क्वचित् सद्धर्मं प्रतिक्षेप्ष्यथ। सद्धर्मप्रतिक्षेपकस्य एवं गतिर्भवति। आनन्द आह। केन हेतुना भगवन् सद्धर्मः प्रतिक्षिप्तो भवति। भगवानाह। ये सत्त्वाः पश्चिमे काले पश्चिमे समये एतेषां सूत्रानुधारकाणां धर्मभाणाकानामक्रोशिष्यन्ति परिभाषिष्यन्ते कुत्सयिष्यन्ति पंसयिष्यन्ति तस्य धर्मभाणकस्य दुष्टचित्तमुत्पाद्यिष्यन्ति तेभ्यः सद्धर्मः प्रतिक्षिप्तो भविष्यति। यः सत्त्वः त्रिसाहस्रमहासाहस्र्यां लोकधातौ सत्त्वानामक्षीण्युत्पाटयेत् अयं ततो बहुतरमपुण्यस्कन्धो भवेत्। एवमेव य एतेषां सूत्र धारकाणां धर्मभाणाकाणां दुष्टचित्तप्रेक्षिता अयं ततो बहुतरमपुण्यस्कन्धं प्रसविष्यते।

अथ आनन्दो भगवतो गाथाः प्रत्यभाषत।



बहुसूत्रसहस्राणि श्रुतं मे शास्तुसंउखात्।

न [च]मे ईदृशं सूत्रं श्रुतपूर्वं कदाचन॥



परिनिर्वृतस्य शास्तुस्य पश्चात्काले सुभैरवे।

इदं सूत्रं प्रकाशिष्ये धारयिष्ये इमं नयम्॥



यत्र सूत्ररत्ने अस्मिं पश्चात्का[ले] भविष्यति।

रक्षां करिष्यामि तेषां पश्चात्काले सुभैरवे॥

प्रतिक्षिपिष्यामि नेदं गंभीरं बुद्धभाषितम्॥



अथायुष्मानन्दो भगवतो गाथा भाषित्वा तूष्णीं स्थितोऽभूत्। अथ काश्यपो महाश्रावको भगवन्तं गाथाभिरध्यभाषत।



सुवर्णवर्णं वरलक्षणांगं

द्वात्रिंशता लक्षणधारीणं जिनम्।

सुभाषितं सूत्र महानुभावगं

गंभीरधर्म निपुणं सुदुर्दृशम्॥



प्रकाशितं सूत्रमिदं निरुत्तरं

मा पश्चकाले परिनिर्वृते जिने।

धारिष्ये मं सूत्रनयं निरुत्तरं।

अथायुष्मान् शारद्वतीपुत्रो भगवन्तं गाथाभिरध्यभाषत।

नमोऽस्तु ते बुद्ध महानुभाव

प्रकाशितं सूत्रमिदं निरुत्तरम्।

परिनिर्वृतस्य तव लोकनायका

लिखिष्यति सूत्रमेतं निरुत्तरम्॥



न चापि सो गच्छति दुर्गतीभयं

स्वर्गं च सो गच्छति क्षिप्रमेतत्॥



अथायुष्मान् पूर्णो मैत्रायणीपुत्रो भगवन्तं गाथाभिरध्यभाषत।



कृतज्ञो बहुसत्त्वानां मोचको दुर्गतीभयात्।

प्रकाशितं त्वया सूत्रं गम्भीरं बुद्धदक्षिणम्॥



अहं हि पश्चिमे काले निर्वृते त्वयि नायके।

इदं सूत्रं प्रकाशिष्ये हिताय सर्वप्राणिनाम्॥



इति।

अथ ब्रह्मा सहांपतिर्भगवन्तं गाथाभिरध्यभाषत।

नमोऽस्तु ते बुद्ध महानुभावा

प्रकाशितं सूत्रमिदं त्वया शुभम्।

परिनिवृतस्य तव लोकनायक

रक्षां करिष्यामि ह सूत्ररत्ने॥



अथ चत्त्वारो महाराजा भगवन्तं गाथाभिरध्यभाषन्त।

अहो [सुरम्यं] वरसूत्ररत्नं

प्रकाशितं ईदृश पश्चकाले।

..................सूत्ररत्नं

प्रकाशितं पश्यति पश्चकाले॥



सुगतान वै लोकविनायकानां

अहं हि धारिष्यम सूत्ररत्नम्।

रक्षां करिष्याम्यहं सूत्ररत्नं

इमवोचद्भगवानात्तमना॥



सा च सर्वावती पर्षद्भगवतो भाषितमभ्यनन्दत्।

अजितसेनव्याकरणनिर्देशो नाम महायानसूत्रं समाप्तम्॥



देयधर्मोयं बालोसिंहेन सार्ध भार्याजाजतित्रन सार्धं मातापित्रोः परमदुष्कर्त्रोः साध क्षीणी एन अखिलोटि एन दिशोटजाज मंगलि.......उत्रयन्नगर्विदोटिन वट्ररि–खुशोटि–खूशोगोटि एन सार्ध सर्वसत्त्वैः सर्व......भिर्यत्र पुण्य तद्भ......सर्वसत्त्वानामनुत्तरः......सार्ध परमकल्याणमित्रस्थिरबन्धु एन। लिखितमिदं पुष्टकं धर्मभाणकनरेन्द्रदत्तेन।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project