Digital Sanskrit Buddhist Canon

न्यायप्रवेशकसूत्रम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Nyāyapraveśakasūtram

न्यायप्रवेशकसूत्रम्



साधनं दूषणं चैव साभासं परसंविदे।

प्रत्यक्षमनुमानं च साभासं त्वात्मसंविदे॥-



-इति शास्त्रार्थसंग्रहः॥



तत्र पक्षादिवचनानि साधनम्। पक्षहेतुदृष्टान्तवचनैर्हि प्राश्निकानामप्रतीतोऽर्थः प्रतिपाद्यत इति॥ तत्र पक्षः प्रसिद्धो धर्मी प्रसिद्धविशेषेण विशिष्टतया स्वयं साध्यत्वेनेप्सितः। प्रत्यक्षद्यविरुद्ध इति वाक्यशेषः। तद्यथा। नित्यः शब्दोऽनित्यो वेति॥ हेतुस्त्रिरूपः। किं पुनस्त्रैरूपम्। पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षे चासत्त्वमिति। कः पुनः सपक्षः। को वा विपक्ष इति॥ साध्यधर्मसामान्येन समनोऽर्थः सपक्षः। तद्यथा। अनित्ये शब्दे साध्ये घटादिरनित्यः सपक्षः॥ विपक्षो यत्र साध्यं नास्ति। यन्नित्यं तदकृतकं दृष्टं यथाकाशमिति। तत्र कृतकत्वं प्रयत्नानन्तरीयकत्वं वा सपक्ष एवास्ति विपक्षे नास्त्येव। इत्यनित्यादौ हेतुः॥ दृष्टान्तो द्विविधः। साधर्म्येण वैधर्म्येण च॥ तत्र साधर्म्येण तावत्। यत्र हेतोः सपक्ष एवास्तित्वं ख्याप्यते। तद्यथा। यत्कृतकं तदनित्यं दृष्टं यथा घटादिरिति॥ वैधर्म्येणापि। यत्र साध्याभावे हेतोरभाव एव कथ्यते। तद्यथा। यन्नित्यं तदकृतकं दृष्टं यथाकाशमिति। नित्यशब्देनात्रानित्यत्वस्याभाव उच्यते। अकृतकशब्देनापि कृतकत्वस्याभावः। यथा भावाभावोऽभाव इति॥ उक्ताः पक्षादयः॥



एषां वचनानि परप्रत्यायनकाले साधनम्। तद्यथा। अनित्यः शब्द इति पक्षवचनम्। कृतकत्वादिति पक्षधर्मवचनम्। यत्कृतकं तदनित्यं दृष्टं यथा घटादिरिति सपक्षानुगमवचनम्। यन्नित्यं तदकृतकं दृष्टं यथाकाशमिति व्यतिरेकवचनम्। एतान्येव त्रयोऽवयवा इत्युच्यन्ते।



साधयितुमिष्टोऽपि प्रत्यक्षादिविरुद्धः पक्षाभासः। तद्यथा। प्रत्यक्षविरुद्धः १, अनुमानविरुद्धः २, आगमविरुद्धः ३, लोकविरुद्धः ४, स्ववचनविरुद्धः ५, अप्रसिद्धविशेषणः ६, अप्रसिद्धविशेष्यः ७, अप्रसिद्धोभयः ८, प्रसिद्धसंबन्धश्चेति ९॥ तत्र प्रत्यक्षविरुद्धो यथा। अश्रावणः शब्द इति॥ अनुमानविरुद्धो यथा। नित्यो घट इति॥ आगमविरुद्धो यथा। वैशेषिकस्य नित्यः शब्द इति साधयतः॥ लोकविरुद्धो यथा। शुचि नरशिरःकपालं प्राण्यङ्गत्वाच्छङ्खशुक्तिवदिति॥ स्ववचनविरुद्धो यथा। माता मे वन्ध्येति। अप्रसिद्धविशेषणो यथा बौद्धस्य सांख्यं प्रति विनाशी शब्द इति॥ अप्रसिद्धविशेष्यो यथा। सांख्यस्य बौद्धं प्रति चेतन आत्मति॥ अप्रसिद्धोभयो यथा। वैशेषिकस्य बौद्धं प्रति सुखादिसमवायिकारणमात्मेति॥ प्रसिद्धसंबन्धो यथा। श्रावणः शब्द इति॥ एषां वचनानि धर्मस्वरूपनिराकरणमुखेन प्रतिपादनासंभवतः साधनवैफल्यतश्चेति प्रतिज्ञादोषाः॥ उक्ताः प्रक्षाभासाः॥



असिद्धानैकान्तिकाविरुद्धा हेत्वाभासाः॥ तत्रासिद्धश्चतुःप्रकारः। तद्यथा। उभयासिद्धः १, अन्यतरासिद्धः २, संदिग्धासिद्धः ३, आश्रयासिद्धश्चेति ४॥ तत्र शब्दानित्यत्वे साध्ये चाक्षुषात्वादित्युभयासिद्धः॥ कृतकत्वादिति शब्दाभिव्यक्तिवादिनं प्रत्यन्यतरासिद्धः॥ बाष्पादिभावेन संदिह्यमानो भूतसंघातोऽग्निसिद्धावुपदिश्यमानः संदिग्धासिद्धः। द्रवमाकाशं गुणाश्रयत्वादित्याकाशासत्त्ववादिनं प्रत्याश्रयासिद्धः॥ अनैकान्तिकः षट्प्रकारः। साधारणः १, असाधारणः २, सपक्षैकदेशवृत्तिर्विपक्षव्यापी ३, विपक्षैकदेशवृत्तिः सपक्षव्यापी ४, उभयपक्षैकदेशवृत्तिः ५, विरुद्धाव्यभिचारी चेति ६॥ तत्र साधारणः शब्दः प्रमेयत्वान्नित्य इति। तद्धि नित्यानित्यपक्षयोः साधारणत्वादनैकान्तिकम्। किं घटवत्प्रमेयत्वादनित्यः शब्द आहोस्विदाकाशेवत्प्रमेयत्वान्नित्य इति॥ असाधारणः श्रावकणत्वान्नित्य इति। तद्धि नित्यानित्यपक्षाभ्यां व्यावृत्तत्वान्नित्यानित्यविनिर्मुक्तस्य चान्यस्यासंभवात्संशयहेतुः। किंभूतस्यास्य श्रावणत्वमिति॥ सपक्षैकदेशवृत्तिर्विपक्षव्यापी यथा। अप्रयत्नान्तरीयकः शब्दोऽनित्यत्वात्। अप्रयत्नानन्तरीयकः पक्षः। अस्य विद्युदाकाशादिः सपक्षः। तत्रैकदेशे विद्युदादौ विद्यतेऽनित्यत्वं नाकाशादौ। अप्रयत्नानन्तरीयकः पक्षः। अस्य घटादिर्विपक्षः। तत्र सर्वत्र घटादौ विद्यतेऽनित्यत्वम्। तस्मादेतदपि विद्युद्धटसाधर्म्येणनैकान्तिकम्। किं घटवदनित्यत्वात्प्रयत्नानन्तरीयकः शब्दः आहोस्विद्विद्युदादिवदनित्यत्वाद्प्रयत्नानन्तरीयक इति॥ विपक्षैकदेशवृत्तिः सपक्षव्यापी यथा। प्रयत्नानन्तरीयकः शब्दोऽनित्यत्वात्। प्रयत्नानन्तरीयकः पक्षः। अस्य घटादिः सपक्षः। तत्र सर्वत्र घटादौ विद्यतेऽनित्यत्वम्। प्रयत्नानन्तरीयकः पक्षः। अस्य विद्युदाकाशादिर्विपक्षः। तत्रैकदेशे विद्युदादौ विद्यतेऽनित्यत्वं नाकाशादौ। तस्मादेतदपि विद्युद्धटसाधर्म्येण पूर्ववदनैकान्तिकम्॥ उभयपक्षैकदेशवृत्तिर्यथा। नित्यः शब्दोऽमूर्तत्वादिति। नित्यः पक्षः। अस्याकाशपरमाण्वादिः सपक्षः। तत्रैकदेश आकाशादौ विद्यतेऽमूर्तत्वं न परमाणौ। नित्यः पक्षः। अस्य घटसुखादिर्विपक्षः। त्रत्रैकदेशे सुखादौ विद्यतेऽमूर्तत्वं न घटादौ। तस्मादेतदपि सुखाकाशसाधर्म्येणानैकान्तिकम्॥ विरुद्धाव्यभिचारी यथा। अनित्यः शब्दः कृतकत्वाद् घटवत्। नित्यः शब्दः श्रावणत्वात् शब्दत्ववदिति। उभयोः संशयहेतुत्वाद् द्वावप्येतावेकोऽनैकान्तिकः समुदितावेव॥ विरुद्धश्चतुःप्रकारः। तद्यथा। धर्मस्वरूपविपरीतसाधनः १, धर्मविशेषविपरीतसाधनः २, धर्मिस्वरूपविपरीतसाधनः ३, धर्मिविशेषविपरीतसाधनश्चेति ४॥ तत्र धर्मस्वरूपविपरितिसाधनो यथा। नित्यः शब्दः कृतकत्वात् प्रयत्नानन्तरीयकत्वाद्धेति। अयं हेतुर्विपक्ष एव भावाद्विरुद्धः॥ धर्मविशेषविपरीतसाधनो यथा। परार्थाश्चक्षुरादयः संघातत्वाच्छयनासनाद्यङ्गविशेषवदिति। अयं हेतुर्यथा पारार्थ्यं चक्षुरादीनां साधयति तथा संहतत्वमपि परस्यात्मनः साधयति। उभयत्राव्यभिचारात्॥ धर्मिस्वरूपविपरीतसाधनो यथा। न द्रव्यं न कर्म न गुणो भावः एकद्रव्यवत्त्वात् गुणकर्मसु च भावात् सामन्यविशेषवदिति। अयं हि हेतुर्यथा द्रव्यादिप्रतिषेधं भावस्य साधयति तथा भावस्याभावत्वमपि साधयति। उभयत्राव्यभिचारात्॥ धर्मिविशेषविपरीतसाधनो यथा। अयमेव हेतुरस्मिन्नेव पूर्वपक्षेऽस्यैव धर्मिणो यो विशेषः सत्प्रत्यकर्तृत्वं नाम तद्विपरीतमसत्प्रत्ययकर्तृत्वमपि साधयति। उभयत्राव्यभिचारात्॥ दृष्टान्ताभासो द्विविधः। साधर्म्येण वैधर्म्येण च॥ तत्र साधर्म्येण तावद् दृष्टान्ताभासः पञ्चप्रकारः। तद्यथा। साधनधर्मासिद्धः १, साध्यधर्मासिद्धः २, उभयधर्मासिद्धः ३, अनन्वयः ४, विपरीतान्वयश्चेति ५॥ तत्र साधनधर्मासिद्धो यथा। नित्यः शब्दोऽमूर्तत्वात् परमाणुवत्। यदमूर्त तन्नित्यं दृष्टं यथा परमाणौः। परमाणु हि साध्यं नित्यत्वमस्ति साधनधर्मोऽमूर्तत्वं नास्ति मूर्तत्वात्परमाणूनामिति॥ साध्यधर्मासिद्धो यथा। नित्यः शब्दोऽमूर्तत्वाद् बुद्धिवत्। यदमुर्तं तन्नित्यं दृष्टं यथा बुद्धिः॥ बुद्धौ हि साधनधर्मोऽमूर्तत्वमस्ति साध्यधर्मो नित्यत्वं नास्ति। अनित्यत्वाद् बुद्धेरिति॥ उभयासिद्धो द्विविधः। सन्नसंश्चेति। तत्र घटवदिति विद्यमानोभयासिद्धः। अनित्यत्वान्मूर्तत्वाच्च घटस्य। आकाशवदित्यविद्यमानोभयासिद्धः। तदसत्त्ववादिनं प्रति॥ अनन्वयो यत्र विनान्वयेन साध्यसाधनयोः सहभावः प्रदर्श्यते। यथा घटे कृतकत्वमनित्यत्वं च दृष्टमिति॥ विपरीतान्वयो यथा। यत् कृतकं तदनित्यं दृष्टमिति वक्तव्ये यदनित्यं तत्कृतकं दृष्टमिति व्रवीति॥ वैधर्म्येणापि दृष्टान्ताभासः पञ्चप्रकारः। तद्यथा। साध्याव्यावृत्तः १, साधनाव्यावृत्तः २, उभयाव्यावृत्तः ३, अव्यतिरेकः ४, विपरीतव्यतिरेकश्चेति ५॥ तत्र साध्याव्यावृत्तो यथा। नित्यः शब्दोऽमूर्तत्वात् परमाणुवत्। यदनित्यं तन्मुर्तं दृष्टं यथा परमाणुः। परमाणोर्हि साधानधर्मोऽमूर्तत्वं व्यावृत्तं मूर्तत्वात्परमाणुनामिति। साध्यधर्मो नित्यत्वं न व्यावृत्तं नित्यत्वात्परमाणूनामिति॥ साधानाव्यावृत्तो यथा। कर्मवदिति। कर्मणः साध्यं नित्यत्वं व्यावृत्तम्। अनित्यत्वात्कर्मणाः। साधनधर्मोऽमूर्तत्वं न व्यावृत्तम्। अमूर्तत्वात्कर्मणः॥ उभयाव्यावृत्तः। आकाशवदिति। तत्सत्त्ववादिनं प्रति। ततो नित्यत्वममूर्तत्वं च न व्यावृत्तम्। नित्यत्वादमूर्तत्वाच्चाकाशस्येति॥ अव्यतिरेको यत्र विना साध्यसाधननिवृत्त्या तद्धिपक्षभावो निदर्श्यते। यथा घटे मूर्तत्वमनित्यत्वं च दृष्टमिति॥ विपरीतव्यतिरेको यथा। यदनित्यं तन्मूर्तं दृष्टमिति वक्तव्ये यन्मूर्तं तदनित्यं दृष्टमिति ब्रवीति॥



एषां पक्षहेतुदृष्टान्ताभासानां वचनानि साधनाभासम्॥



आत्मप्रत्यायनार्थं तु प्रत्यक्षमनुमानं च द्वे एव प्रमाणे॥ तत्र प्रत्यक्षं कल्पनापोढं यज्ज्ञानमर्थे रूपादौ नामजात्यादिकल्पनारहितम्। तदक्षमक्षं प्रति वर्तत इति प्रत्यक्षम्॥ अनुमानं लिङ्गादर्थदर्शनम्। लिङ्गं पुनस्त्रिरूपमुक्तम्। तस्माद्यदनुमेयेऽर्थे ज्ञानमुत्पद्यतेऽग्निरत्र अनित्यः शब्द इति वा तदनुमानम्॥ उभयत्र तदेव ज्ञानं फलमधिगमरूपत्वात्। सव्यापारवत्ख्यातेः प्रमाणत्वमिति॥ कल्पनाज्ञानमर्थान्तरे प्रत्यक्षाभासम्। यज्ज्ञानं घटः पट इति वा विकल्पयतः समुत्पद्यते तदर्थस्वलक्षणविषयत्वात्प्रत्यक्षाभासम्॥ हेत्वाभासपूर्वकं ज्ञानमनुमानाभासम्। हेत्वाभासो हि बहुप्रकार उक्तः। तस्माद्यदनुमेयेऽर्थे ज्ञानमव्युत्पन्नस्य भवति तदनुमानाभासम्॥



साधनदोषोद्भावनानि दूषणानि॥ साधनदोषो न्यूनत्वम्। पक्षदोषः प्रत्यक्षादिविरुद्धत्वम्। हेतुदोषोऽसिद्धानैकान्तिकविरुद्धत्वम्। दृष्टान्तदोषः साधनधर्माद्यसिद्धत्वम्। तस्योद्भावनं प्रास्निकप्रत्यायनं दूषणम्॥ अभूतसाधनदोषोभ्दावनानि दूषणाभासानि॥ संपूर्णे साधने न्यूनत्ववचनम्। अदुष्टपक्षे पक्षदोषवचनम्। सिद्धहेतुकेऽसिद्धहेतुकं वचनम्। एकान्तहेतुकेऽनेकान्तहेतुकं वचनम्। अविरुद्धहेतुके विरुद्धहेतुकं वचनम्। अदुष्टदृष्टान्ते दृष्टदृष्टान्तदोषवचनम्। एतानि दूषणाभासानि। न ह्येभिः परपक्षो दूष्यते। निरवद्यत्वात्तस्य॥ इत्युपरम्यते॥





पदार्थमात्रमाख्यातमादौ दिङ्मात्रसिद्धये।

यात्र युक्तियुक्तिर्वा सान्यत्र सुविचारिता॥



॥इति न्यायप्रवेशकसूत्रं समाप्तम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project