Digital Sanskrit Buddhist Canon

स्वल्पाक्षरा प्रज्ञापारमिता

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Svalpākṣarā prajñāpāramitā
स्वल्पाक्षरा प्रज्ञापारमिता।



नमः सर्वबुद्धबोधिसत्त्वेभ्यः॥



एवं मया श्रुतम्। एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं द्वादशसाहस्रपञ्चशतैर्बोधिसत्त्वकोटिनियुतशतसहस्रैः सार्धं विहरति स्म, लोकपालादिदेवकोटिनियुतसहस्रैः परिवृतः पुरस्कृतः श्रीसिंहासने विहरति स्म॥



अथ खलु बोधिसत्त्वो महासत्त्वो आर्यावलोकितेश्वरो उत्थाय आसनादेकमंसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य प्रहसितवदनो भूत्वा भगवन्तमेतदवोचत्-देशयतु भगवान् प्रज्ञापारमितां स्वल्पाक्षरां महापुण्याम्, यस्याः श्रवणमात्रेण सर्वसत्त्वाः सर्वकर्मावरणानि क्षपयिष्यन्ति, नियतं च बोधिपरायणा भविष्यन्ति। ये च सत्त्वा मन्त्रसाधने उद्युक्तास्तेषां चाविघ्नेन मन्त्राः सिध्यन्ति॥



अथ खलु भगवान् आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकरुणिकाय साधुकारमदात्-साधु साधु कुलपुत्र, यस्त्वं सर्वसत्त्वानामर्थाय हिताय सुखाय प्रधानाय च दीर्घरात्रं नियुक्तः। तेन हि त्वं कुलपुत्र शृणु, साधु च सुष्ठु च मनसि कुरु। भाषिष्येऽहं ते प्रज्ञापारमितां स्वल्पाक्षरां महापुण्याम्, यस्याः श्रवणमात्रेण सर्वसत्त्वाः सर्वकर्मावरणानि क्षपयिष्यन्ति, नियतं च बोधिपरायणा भविष्यन्ति। ये च सत्त्वा मन्त्रसाधने उद्युक्तास्तेषां चाविघ्नेनः मन्त्राः सिध्यन्ति॥



अथ खलु आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-तेन हि सुगत भाषतु सर्वसत्त्वानामर्थाय हिताय सुखाय च॥



अथ खलु भगवांस्तस्यां वेलायां सर्वदुःखप्रमोचनो नाम समाधिं समापद्यते स्म, यस्य च समाधिं समापन्नस्य भगवत ऊर्णाकोशविवराल्लवादनेकानि रश्मिकोटिनियुतशतसहस्राणि निश्चरन्ति स्म। तैश्च रश्मिभिः सर्वबुद्धक्षेत्राणि परिस्फुटान्यभूवन्। ये च सत्त्वास्तया प्रभया स्पृष्टाः, ते सर्वे नियता अभूवन्ननुत्तराय सम्यक्संबोधौ। यावन्नारकाः सत्त्वाः * * * सर्वे च बुद्धक्षेत्राणि षड्विकारं प्रविचेलुः। दिव्यानि च चन्दनचूर्णवर्षाणि तथागतपादमूलं ववर्षुः॥



अथ खलु भगवांस्तस्यां वेलायां प्रज्ञापारमितां भाषते स्म। तद्यथा-बोधिसत्त्वेन महासत्त्वेन समचित्तेन भवितव्यम्। सर्वसत्त्वेषु मैत्रचित्तेन भवितव्यम्। कृतज्ञेन भवितव्यम्। कृतवेदिना च भवितव्यम्। सर्वपापविरतचित्तेन भवितव्यम्। इदं च प्रज्ञापारमिताहृदयमाग्रहीतव्यम्-नमो रत्नत्रयाय। नमः शाक्यमुनये तथागताय अर्हते सम्यक्संबुद्धाय। तद्यथा-ओं मुने मुने महामुनये स्वाहा॥ अस्याः प्रज्ञापारमिताया लाभात् मया अनुत्तरा सम्यक्संबोधिरनुप्राप्ता। सर्वबुद्धाश्च अतो निर्याताः॥ मया अपि इयमेव प्रज्ञापारमिता श्रुता महाशाक्यमुनेस्तथागतस्य साक्षात्। तेन हि त्वं सर्वबोधिसत्त्वानामग्रतो बुद्धत्वे च व्याकृतः-भविष्यसि त्वं माणव अनागतेऽध्वनि स(मन्तरश्मिसमु)द्गतः श्रीकूटराजा नाम तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्। [बदियमपि ?] ये इदं नामधेयं श्रोष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति लिखययिष्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, पुस्तकलिखितमपि कृत्वा गृहे धारयिष्यन्ति पूजयिष्यन्ति, ते सर्वे अल्पोपायेन अल्पश्रवणेन च तथागता भविष्यन्ति। तद्यथा-ओं जेय जेय पद्माभे अवमे अवमे सरसरणि धिरिधिरि देवता अनुपालनि युद्धोत्तारिणि परचक्रनिवारिणि पूरय पूरय भगवति सर्व आशा मम च सर्वसत्त्वानां च। सर्वकर्मावरणानि विशोधय, बुद्धाधिष्ठिते स्वाहा॥ इयं सा कुलपुत्र परमार्थप्रज्ञापारमिता सर्वबुद्धानां जननी बोधिसत्त्वमाता (बोधिदात्री) पापहारका। सर्वबुद्धैरपि न शक्नोति अस्यानुशंसा वक्तुं यावत्कल्पकोटिशतैरपि। अनया पठितमात्रेण सर्वपर्षन्मण्डलाभिषिक्ता भवन्ति, सर्वे च मन्त्राः अभिमुखा भवन्ति॥



अथ आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- केन कारणेन भगवन् इयं स्वल्पाक्षरा प्रज्ञापारमिता ? भगवानाह-अल्पोपायत्वात्। येऽपि सत्त्वा मन्दास्वादाः, तेऽपि इमां प्रज्ञापारमितां स्वल्पाक्षरां धारयिष्यन्ति वाचयिष्यन्ति लिखिष्यन्ति लिखयिष्यन्ति, ते सर्वे अल्पोपायेन बोधिपरायणा भविष्यन्ति। अनेन कारणेन कुलपुत्र इयं संक्षिप्ता स्वल्पाक्षरा प्रज्ञापारमिता॥



एवमुक्ते आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्- आश्चर्यं भगवन्, परमाश्चर्यं सुगत, यावदेव भगवान् सर्वसत्त्वहिताय अयं धर्मपर्यायो भाषितो मन्दपुद्गलानामेव अर्थाय हिताय सुखाय चेति॥



इदमवोचद्भगवान्। आत्तमना आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः, ते च भिक्षवस्ते च बोधिसत्त्वाः सा च सर्वावती पर्षत् सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्निति॥



स्वल्पाक्षरा प्रज्ञापारमिता समाप्ता॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project