Digital Sanskrit Buddhist Canon

६ चर्यापरिवर्तः षष्ठः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

6 caryāparivartaḥ ṣaṣṭhaḥ

६ चर्यापरिवर्तः षष्ठः।



अथ खलु भगवान् सुविक्रान्तविक्रामिणं बोधिसत्त्वं महासत्त्वमेतदवोचत्-इह खलु सुविक्रान्तविक्रामिन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न क्वचिद्धर्मे चरति। तत्कस्माद्धेतोः ? सर्वधर्मा हि सुविक्रान्तविक्रामिन् विपर्याससमुत्थिताः, अभूता असन्तो मिथ्या वितथाः। तद्यथा सुविक्रान्तविक्रामिन् कस्मिंश्चिद्धर्मे चरति, विपर्यासे स चरति। विपर्यासे चरन् न भूते चरति। न च सुविक्रान्तविक्रामिन् बोधिसत्त्वो विपर्यासचर्याप्रभावितः, अभूतचर्याप्रभावितो वा। नापि विपर्यासे वा अभूते वा चरन् बोधिसत्त्वः प्रज्ञापारमितायां चरति। यश्च विपर्यासः, सोऽभूतः। न तत्र काचिच्चर्या, तेन तत्र बोधिसत्त्वो न चरति। विपर्यास इति सुविक्रान्तविक्रामिन् वितथः। एष बालपृथग्जनैर्गृहीतः। न तथा यैस्ते ते धर्माः। ये च न तथा यथा गृहीताः, स उच्यतेऽविपर्यासोऽत्र भूत इति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वो महासत्त्वो विपर्यासे वा अभूते वा चरति। भूतवादीति सुविक्रान्तविक्रामिन् बोधिसत्त्वोऽविपर्यासचारी। यत्र च भूतमविपर्यासः, तत्र च न काचिच्चर्या। तेनोच्यते- अचर्या बोधिसत्त्वचर्येति। सर्वचर्यासमुच्छिन्ना हि सुविक्रान्तविक्रामिन् बोधिसत्त्वचर्या। सा न शक्या आदर्शयितुम्-इयं वा बोधिसत्त्वचर्या, अनेन वा बोधिसत्त्वचर्या, इह वा बोधिसत्त्वचर्या, इतो वा बोधिसत्त्वचर्येति। नैवं बोधिसत्त्वचर्या प्रभाविता। सर्वचर्याविनिवृत्तये हि बोधिसत्त्वा बोधिसत्त्वचर्यां चरन्ति पृथग्जनचर्याविनिवृत्तये श्रावकचर्याविनिवृतये प्रत्येकबुद्धचर्याविनिवृत्तये। येऽपि ते सुविक्रान्तविक्रामिन् बुद्धधर्माः, तेष्वपि बोधिसत्त्वा न चरन्ति नाभिनिविशन्ते-इमे वा ते बोधिसत्त्वधर्माः, इह वा ते बोधिसत्त्वधर्माः, अनेन वा ते बोधिसत्त्वधर्माः, अस्य वा ते बोधिसत्त्वधर्मा इति। एवमपि सुविक्रान्तविक्रामिन् बोधिसत्त्वो न चरति। सर्वा एषां सुविक्रान्तविक्रामिन् विकल्पचर्या। न बोधिसत्त्वो विकल्पे चरति नाविकल्पे। सर्वविकल्पप्रहीणा हि बोधिसत्त्वचर्या। कल्प इति सुविक्रान्तविक्रामिन् विकल्पनैषा सर्वधर्माणाम्। न हि शक्याः सर्वधर्माः कल्पयितुम्। अकल्पिता हि सर्वधर्माः। तद्यो धर्मं कल्पयति, स विकल्पयति। न हि सुविक्रान्तविक्रामिन् धर्मः कल्पो वा विकल्पो वा। कल्प इति सुविक्रान्तविक्रामिन् एष एकोऽन्तः, विकल्प इति द्वितीयोऽन्तः। न च सुविक्रान्तविक्रामिन् बोधिसत्त्वोऽन्ते चरति, नाप्यनन्ते। यो नैव अन्ते न अनन्ते चरति, स मध्यं न समनुपश्यति। मध्यमपि सुविक्रान्तविक्रामिन् समनुपश्यन् मध्ये चरन् अन्त एव चरति। न हि सुविक्रान्तविक्रामिन् मध्यस्य काचिच्चर्या (वा किंचि)द्दर्शनं वा (निदर्शनं वा)। मध्यमिति सुविक्रान्तविक्रामिन् नापि आर्याष्टाङ्गमार्गस्यैतदधिवचनम्। न च सुविक्रान्तविक्रामिन् आर्याष्टाङ्गो मार्गः कस्यचिद्धर्मस्योपलम्भेन प्रत्युपस्थितः, नापि कस्यचिद्धर्मस्य समनुपश्यनतया॥



अपि तु यस्मिन् समये सुविक्रान्तविक्रामिन् बोधिसत्त्वो न कंचिद्धर्मं भावयति न विभावयति, तदा प्रतिप्रस्रब्धमार्ग इत्युच्यते। स सर्वधर्मान् न भावयन्न विभावयन् भावनासमतिक्रान्तो धर्मसमतामनुप्राप्नोति, यया धर्मसमतया मार्गसंज्ञाप्यस्य न प्रवर्तते, कुतः पुनर्मार्गं द्रक्ष्यति ? प्रतिप्रस्रब्धमार्ग इति सुविक्रान्तविक्रामिन् अर्हतः क्षीणास्रवस्यैतद्भिक्षोरधिवचनम्। तत्कस्माद्धेतोः ? विभावितो हि स मार्गो न भावितो न विभावितः। तेनोच्यते विभावित इति। विभावनापि तत्र नास्ति, तेनोच्यते विभावित इति। विगता तस्य भावना, तेनोच्यते विभावनेति। सचेत्खलु पुनः सुविक्रान्तविक्रामिन् भावना स्याद्विभावना वा, सा पुनरुपलभ्यते, नास्या विभावना स्यात्। विभावनेति सुविक्रान्तविक्रामिन् विगता अस्यां भावनेति विभावना, भावोऽस्या विगत इति, तेनोच्यते विभावनेति, न पुनर्यथोच्यते। तत्कस्मात् ? अव्याहारा हि विभावना, विगम एष विभावना। कतमो विगमः ? यतो विपर्यासस्य असमुत्थानं यदभूतस्यासमुत्थानम्। न हि सुविक्रान्तविक्रामिन् विपर्यासो विपर्यासं समुत्थापयति। असमुत्थित एष विपर्यासः। न हि तत्र किंचित्समुत्थानम्। यदि तत्र किंचित्समुत्थानमभविष्यत्, नोच्येत। यस्मादभूतसमुत्थितः, तस्मादुच्यते विपर्यास इति। अविपर्यास्ता हि सुविक्रान्तविक्रामिन् सर्वधर्मा बोधिसत्त्वेनानुबुद्धाः। तत्कस्माद्धेतोः ? ज्ञातो हि तेन विपर्यासोऽभूत इति। न विपर्यासे विपर्यासः संविद्यते। येन विपर्यासोऽभूतो ज्ञातः, न विपर्यासे विपर्यासः संविद्यते, तेन अविपर्यस्ताः सर्वधर्माः समनुबुद्धाः। यश्च अविपर्यासस्यानुबोधः, न तत्र भूयो विपर्यासः। यत्र (न) कश्चिद्विपर्यासः, तत्र न काचिच्चर्या। सर्वा हि सुविक्रान्तविक्रामिन् चर्या सा चर्यासमुत्थाना। चर्याविकल्पाद्विपर्यासः। बोधिसत्त्वस्तु चर्यायां न विकल्पयति। तेन सार्धमविपर्यासः स्थित इत्युच्यते। यश्च अविपर्यस्तः, स न क्वचिद्भूयश्चरति। तेनोच्यते अचर्या बोधिसत्त्वचरेति। अचर्येति सुविक्रान्तविक्रामिन् यन्न क्वचिद्धर्मे चरति न विचरति न चर्यालक्षणं संदर्शयति, इयमुच्यते बोधिसत्त्वचर्येति। य एवं चरति, स चरति प्रज्ञापारमितायाम्॥



न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वो रूपारम्बणे चरंश्चरति प्रज्ञापारमितायाम्, न वेदनासंज्ञासंस्कारविज्ञानारम्बणे चरंश्चरति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? सर्वारम्बणानि हि तेन विविक्तानि विज्ञातानि। यश्च विवेकः, न तत्र काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वश्चक्षुरारम्बणे चरंश्चरति प्रज्ञापारमितायाम्, न श्रोत्रघ्राणजिह्वाकायमनआरम्बणे चरंश्चरति प्रज्ञापारमितायाम्। तत्कस्माद्धेतो? सर्वारम्बणानि हि तेन अभूतानि ज्ञातानि। यश्च सर्वारम्बणानि अभूतानीति जानाति, नासौ क्वचिच्चरति। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वो रूपशब्दगन्धरसस्प्रष्टव्यधर्मारम्बणे चरंश्चरति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? सर्वारम्बणानि हि तेन विपर्याससमुत्थितानि ज्ञातानि। यश्च विपर्यासः, सोऽभूतः परिज्ञातः। येन विपर्यासः अभूतः परिज्ञातः, स न कस्मिंश्चिदारम्बणे चरति। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वो नामरूपारम्बणे चरंश्चरति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? सर्वारम्बणानि हि तेन अनारम्बणानीत्यनुबुद्धानि। येन च सर्वारम्बणानि अनारम्बणानीत्यनुबुद्धानि, स न क्वचिदारम्बणे चरति। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधि(सत्त्वा महासत्त्वाः) सत्त्वारम्बणे (च आत्मारम्बणे) च चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? परिज्ञाता हि तैः सत्त्वसंज्ञा च आत्मसंज्ञा च-अभूतैषा सत्त्वसंज्ञा च आत्मसंज्ञा चेति। यैश्च अभूता सत्त्वसंज्ञा च आत्मसंज्ञा च ज्ञाता, न ते कस्यांचिच्चर्यायां चरन्ति। ये न कस्याचिच्चर्यायां चरन्ति, तेन च चर्या अपगता। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। ये न सुविक्रान्तविक्रामिन् बोधिसत्त्वा जीवसंज्ञायां वा पोषपुरुषपुद्गलमनुजमानवोत्थापकसमुत्थापककारककारयितृवेदकवेदयितृसंज्ञायां ज्ञातृज्ञापकसंज्ञायां चरन्तः प्रज्ञापारमितायां चरन्ति। तत्कस्माद्धेतोः ? विभाविता हि तैः सर्वसंज्ञाः। यैश्च विभाविताः सर्वसंज्ञाः, न ते भूयः कस्यांचित्संज्ञायां चरन्ति। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वा विपर्यासैर्वा दृष्टिगतैर्वा नीवरणैर्वा चरन्तश्चरन्ति प्रज्ञापारमितायाम्। नापि विपर्यासदृष्टिगतनीवरणारम्बणेषु चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? परिज्ञातानि हि तैर्विपर्यासदृष्टिगतनीवरणारम्बणानि। या च परिज्ञा, सा अचर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वाः प्रतीत्यसमुत्पादारम्बणे चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? परिज्ञातो हि तैः प्रतीत्यसमुत्पादः, परिज्ञातं प्रतीत्यसमुत्पादस्यारम्बणम्। या च परिज्ञा प्रतीत्यसमुत्पादस्य प्रतीत्यसमुत्पादारम्बणस्य च, तत्र न काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वाः कामधात्वारम्बणे चरन्तश्चरन्ति प्रज्ञापारमितायाम्। न रूपारूप्यधात्वारम्बणे वा चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? विभावितानि हि तैः कामधातुरूपधात्वारूप्यधात्वारम्बणानि। या च कामधातुरूपधात्वारूप्यधात्वारम्बणविभावना, न तस्याः काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वा दानमात्सर्यशीलदौःशील्यारम्बणे चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्य हेतोः ? परिज्ञातं हि तैर्दानमात्सर्यशीलदौःशील्यारम्बणम्। या च परिज्ञा दानमात्सर्यशीलदौःशील्यारम्बणस्य, तस्यां न काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वाः क्षान्तिव्यापादवीर्यकौसीद्यध्यानविक्षेपप्रज्ञादौष्प्रज्ञ्यारम्बणे चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? परिज्ञातानि हि तैः सर्वारम्बणानि। या च परिज्ञा सर्वारम्बणानाम्, तत्र न काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वा अविपर्याससम्यक्प्रहाणस्मृत्युपस्थानाप्रमाणारम्बणे चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? सर्वारम्बणानि हि तैर्वशिकानि ज्ञातानि। या च वशिका आरम्बणपरिज्ञा, तस्या न काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वा इन्द्रियबलबोध्यङ्गध्यानसमाधिसमापत्त्यारम्बणे चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? विभावितानि हि तैरिन्द्रियबलबोध्यङ्गध्यानसमाधिसमापत्त्यारम्बणानि। या च विभावना, तस्या न काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वा दुःखसमुदयनिरोधमार्गारम्बणे चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? विभावितानि हि तैर्दुःखसमुदयनिरोधमार्गारम्बणानि। या च विभावना, न तस्यां काचिद्भावना, न च तस्यां भूयः काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वा विद्याविमुक्त्यारम्बणे चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? विभावितं हि तैर्विद्याविमुक्त्यारम्बणम्। या च विभावना, न तत्र काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वा अनुत्पादारम्बणे वा क्षयारम्बणे वा अनभिसंस्कारारम्बणे वा चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? विभावितं हि तैरनुत्पादक्षयानभिसंस्कारारम्बणम्। या च विभावना, न तत्र काचिद्भूयश्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वाः पृथिव्यप्तेजोवाय्वाकाशारम्बणे चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? विभावितानि हि तैः पृथिव्यप्तेजोवाय्वाकाशारम्बणानि। या च विभावना, न तत्र काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वाः श्रावकप्रत्येकबुद्धभूम्यारम्बणे चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? विभावितानि हि तैः श्रावकप्रत्येकबुद्धभूम्यारम्बणानि। या च विभावना, न तत्र काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वाः श्रावकप्रत्येकबुद्धधर्मारम्बणे चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? विभावितानि हि तैः श्रावकप्रत्येकबुद्धधर्मारम्बणानि। या च विभावना, न तत्र काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् निर्वाणारम्बणे बोधिसत्त्वाश्चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? परिज्ञातं हि तैर्भवति निर्वाणारम्बणम्। या च परिज्ञा, न तत्र काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वा लक्षणपरिशुद्ध्यारम्बणे चरन्तश्चरन्ति प्रज्ञापारमितायाम्, न बुद्धक्षेत्रपरिशुद्ध्यारम्बणे चरन्तः, न श्रावकसंपदारम्बणे चरन्तः, न बोधिसत्त्वसंपदारम्बणे चरन्तश्चरन्ति प्रज्ञापारमितायाम्। तत्कस्माद्धेतोः ? विभावितानि हि तैर्लक्षणपरिशुद्ध्यारम्बणम्, बुद्धक्षेत्रपरिशुद्ध्यारम्बणम्, श्रावकसंपदारम्बणम्, बोधिसत्त्वसंपदारम्बणम्। या च विभावना, न तत्र काचिच्चर्या। तेनोच्यते अचर्या बोधिसत्त्वचर्येति। एवं चरन्तः सुविक्रान्तविक्रामिन् बोधिसत्त्वाश्चरन्ति प्रज्ञापारमितायाम्। इयं बोधिसत्त्वस्य प्रज्ञापारमितायां चरतः सर्वारम्बणपरि(ज्ञा)चर्या, सर्वारम्बणविभावनाचर्या यदुत प्रज्ञापारमिताचर्या॥



एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो रूपारम्बणपरिशुद्धावपि न चरति। एवं वेदनासंज्ञासंस्कारविज्ञानारम्बणपरिशुद्धावपि न चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धं हि तेन रूपारम्बणं परिज्ञातम्। एवं वेदनासंज्ञासंस्कारविज्ञानारम्बणं परिज्ञातम्। या एवं चर्या, इयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न चक्षुरारम्बणविशुद्धौ चरति, न श्रोत्रघ्राणजिह्वाकायमनआरम्बणविशुद्धौ चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धं हि तेन यावन्मनआरम्बणं परिज्ञातम्। या एवं चर्या, इयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न रूपशब्दगन्धरसस्प्रष्टव्यधर्मारम्बणविशुद्धावपि चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धं हि तेन यावद्धर्मारम्बणं परिज्ञातम्। या एवं चर्या, इयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न नामरूपारम्बणविशुद्धावपि चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धं हि तेन नामरूपारम्बणं परिज्ञातम्। या एवं चर्या, इयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो नात्मसत्त्वारम्बणविशुद्धावपि चरति। तत्कस्माद्धेतोः ? परिज्ञाता हि तेन आत्मसत्त्वारम्बणप्रकृतिपरिज्ञा। या एवं चर्या, इयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न जीवभवपुद्गलकारककारयित्रुत्थापकसमुत्थापकवेदकवेदयितृद्रष्ट्रारम्बणपरिशुद्धावपि चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धं हि तेन जीवभवपुद्गलकारककारयित्रुत्थापकसमुत्थापकवेदकवेदयितृद्रष्ट्रारम्बणं परिज्ञातम्। या एवं चर्या, बोधिसत्त्वस्येयं प्रज्ञापारमिताचर्या। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न विपर्यासदृष्टिगतारम्बणपरिशुद्धावपि चरति। तत्कस्य हेतोः ? प्रकृतिपरिशुद्धं हि तेन विपर्यासदृष्टिगतारम्बणं परिज्ञातम्। या एवं चर्या, इयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न नीवरणारम्बणविशुद्धावपि चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धं हि नीवरणारम्बणं परिज्ञातम्। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न प्रतीत्यसमुत्पादारम्बणविशुद्धावपि चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धं हि तेन प्रतीत्यसमुत्पादारम्बणं परिज्ञातम्। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न कामधातुरूपधात्वारूप्यधात्वारम्बणविशुद्धावपि चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धं हि तेन कामधातुरूपधात्वारूप्यधात्वारम्बणं परिज्ञातम्। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न दानमात्सर्यशीलदौःशील्यारम्बणविशुद्धावपि चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धं हि तेन दानमात्सर्यशीलदौःशील्यारम्बणं परिज्ञातम्। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न क्षान्तिव्यापादवीर्यकौसीद्यध्यानविक्षेपप्रज्ञादौष्प्रज्ञ्यारम्बणविशुद्धावपि चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धं हि तेन क्षान्तिव्यापादवीर्यकौसीद्यध्यानविक्षेपप्रज्ञादौष्प्रज्ञ्यारम्बणं परिज्ञातम्। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो नातीतानागतप्रत्युत्पन्नारम्बणविशुद्धपि चरति। तत्कस्माद्धेतोः? प्रकृतिपरिशुद्धानि हि तेन अतीतानागतप्रत्युत्पन्नारम्बणानि परिज्ञातानि। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो नासङ्गावरणविशुद्धावपि चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धं हि तेन असङ्गारम्बणं परिज्ञातम्। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो नाभिज्ञारम्बणविशुद्धावपि चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धं हि तेनाभिज्ञारम्बणं परिज्ञातम्। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न सर्वज्ञतारम्बणविशुद्धावपि चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धं हि तेन सर्वज्ञतारम्बणं परिज्ञातम्। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वश्चरति प्रज्ञापारमितायाम्, यन्न कस्यांचिदारम्बणविशुद्धौ चरति। तत्कस्माद्धेतोः ? प्रकृतिपरिशुद्धत्वात्सर्वारम्बणानाम्। इयं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य महासत्त्वस्य सर्वारम्बणप्रकृतिपरिशुद्धिः प्रज्ञापारमितायां चरतः॥



एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः इदं रूपमिति न समनुपश्यति, अनेन रूपमिति न समनुपश्यति, अस्य रूपमिति न समनुपश्यति, अस्माद्रूपमिति न समनुपश्यति। स एवं रूपमसमनुपश्यन् न रूपमुत्क्षिपति न निक्षिपति, न रूपमुत्पादयति न निरोधयति, न रूपे चरति न विचरति, न रूपारम्बणे चरति न विचरति। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वश्चरति प्रज्ञापारमितायाम्। एवमिमे वेदनासंज्ञासंस्काराः, इदं विज्ञानमिति न समनुपश्यति, अनेन विज्ञानमिति न समनुपश्यति, अस्य विज्ञानमिति न समनुपश्यति, अस्माद्विज्ञानमिति न समनुपश्यति। स एवं विज्ञानमसमनुपश्यन् न विज्ञानमुत्क्षिपति न निक्षिपति, न विज्ञानमुत्पादयति न निरोधयति, न विज्ञाने चरति न विचरति, न विज्ञानारम्बणे चरति न विचरति। एवं सुविक्रान्तविक्रामिन् बोधिसत्त्वश्चरति प्रज्ञापारमितायाम्॥



पुनरपरं सुविक्रान्तविक्रामिन् एवं चरन् बोधिसत्त्वो न रूपमतीतमिति चरति, न रूपमनागतमिति चरति, न रूपं प्रत्युत्पन्नमिति चरति। एवं न वेदनासंज्ञासंस्काराः। न विज्ञानमतीतमिति चरति, न अनागतम्, न प्रत्युत्पन्नम्॥



न रूपमात्मेति चरति, न रूपमात्मीयमिति चरति। एवं न वेदनासंज्ञासंस्काराः। न विज्ञानमात्मेति चरति, न विज्ञानमात्मीयमिति चरति। न रूपं दुःखमिति चरति। एवं न वेदनासंज्ञासंस्काराः। न विज्ञानं दुःखमिति चरति। न रूपं मम नान्येषामिति चरति। एवं न वेदनासंज्ञासंस्काराः। न विज्ञानं मम नान्येषामिति चरति। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वश्चरति प्रज्ञापारमितायाम्॥



पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वः प्रज्ञापारमितायां चरन् न रूपसमुदये चरति, न रूपनिरोधे चरति, न रूपं गम्भीरमिति चरति, न रूपमुत्तानमिति चरति, न रूपं शून्यमिति चरति, न रूपमशून्यमिति चरति, न रूपं निमित्तमिति चरति, न रूपमनिमित्तमिति चरति, न रूपं प्रणिहितमिति चरति, रूपमप्रणिहितमिति चरति, न रूपमभिसंस्कारमिति चरति, न रूपमनभिसस्ंकारमिति चरति। एवं वेदनासंज्ञासंस्काराः। न विज्ञानसमुदये चरति, न विज्ञाननिरोधे चरति, न विज्ञानं गम्भीरमिति चरति, न विज्ञानमुत्तानमिति चरति, न विज्ञानं शून्यमिति चरति, न विज्ञानमशून्यमिति चरति, न विज्ञानं निमित्तमिति चरति, न विज्ञानमनिमित्तमिति चरति, न विज्ञानं प्रणिहितमिति चरति, न विज्ञानप्रणिहितमिति चरति, न विज्ञानमभिसंस्कारमिति चरति, न विज्ञानमभिसंस्कारमिति चरति। तत्कस्माद्धेतोः? सर्वाण्येतानि सुविक्रान्तविक्रामिन् मन्यितानि स्पन्दितानि प्रपञ्चितानि तृष्णागतानि। अहं चरामीति स्पन्दितमेतत्, इह चरामीति प्रपञ्चितमेतत्, अनेन चरामीति तृष्णागतमेतत्, अस्मिंश्चरामीति मन्यितमेतत्। तत्र सुविक्रान्तविक्रामिन् बोधिसत्त्वाः सर्वाण्येतानि मन्यितस्पन्दितप्रपञ्चितानि तृष्णागतानि ज्ञात्वा सर्वाज्ञानसमुद्धातान् न कंचिद्धर्मं मन्यन्ते, अमन्यमाना न क्वचिच्चरन्ति, न क्वचिदालीयन्ते। ते अनालया असंयोगा अविसंयोगा न क्वचिदुत्थापयन्ति, न समुत्थापयन्ति। अयं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य सर्वमन्यनासमुद्धातः प्रज्ञापारमितायां चरतः॥



पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वः एवं प्रज्ञापारमितायं चरन् न रूपं नित्यं नानित्यमिति चरति, न रूपं शून्यं नाशून्यमिति चरति, न रूपं मायोपममिति चरति, न रूपं स्वप्नोपममिति चरति, न रूपं प्रतिभासोपममिति चरति, न रूपं प्रतिश्रुत्कोपममिति चरति। एवं वेदना संज्ञा संस्काराः। न विज्ञानं नित्यं नानित्यमिति चरति, न विज्ञानं शून्यं नाशून्यमिति चरति, न विज्ञानं मायोपममिति चरति, न विज्ञानं स्वप्नोपममिति चरति, न विज्ञानं प्रतिभासोपममिति चरति, न विज्ञानं प्रतिश्रुत्कोपममिति चरति। तत्कस्य हेतोः ? सर्वाण्येतानि सुविक्रान्तविक्रामिन् वितर्कितानि विचरितानि चरितविचरितानि। तत्र सुविक्रान्तविक्रामिन् बोधिसत्त्वः एतानि सर्वाणि वितर्कितानि विचरितानि चरितविचरितानि ज्ञात्वा सर्वचर्यासमुद्धाताय सर्वचर्यापरिज्ञायै प्रज्ञापारमितायां चरति। अयं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य सर्वचर्यानिर्देशः॥



एवमुक्ते सुविक्रान्तविक्रामी बोधिसत्त्वो भगवन्तोमेतदवोचत्-अचिन्त्येयं भगवन् बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। भगवानाह-एवमेतत् सुविक्रान्तविक्रामिन्। रूपाचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। एवं वेदनासंज्ञासंस्कारविज्ञानाचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। नामरूपाचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। प्रतीत्यसमुत्पादाचिन्त्यतया संक्लेशाचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। कर्मविपाकाचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। साराचिन्त्यतया अचिन्त्येयं बोधि(सत्त्व)स्य प्रज्ञापारमिताचर्या। विपर्यासाचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या, दृष्टिगताचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। कामधात्वचिन्त्यतया, रूपधात्वचिन्त्यतया, आरूप्यधात्वचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। आत्माचिन्त्यतया, सत्त्वाचिन्त्यतया, दानाचिन्त्यतया, मात्सर्याचिन्त्यतया, शीलाचिन्त्यतया, दौःशील्याचिन्त्यतया, क्षान्त्यचिन्त्यतया, व्यापादाचिन्त्यतया, वीर्याचिन्त्यतया, कौसीद्याचिन्त्यतया, ध्यानाचिन्त्यतया विक्षेपाचिन्त्यतया, प्रज्ञाचिन्त्यतया, दौष्प्रज्ञ्याचिन्त्यतया अचिन्त्या बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। रागद्वेषमोहाचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। स्मृत्युपस्थानाचिन्त्यतया सम्यक्प्रहाणाविपर्यासर्द्धिपादाचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। इन्द्रियबलबोध्यङ्गसमाधिसमापत्त्यचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। गत्यचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। दुःखसमुदयनिरोधमार्गाचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। विद्याविमुक्त्यचिन्त्यतया, क्षयज्ञानानुत्पादज्ञानाभिसंस्कारज्ञानाचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। श्रावकभूमिप्रत्येकबुद्धभूम्यचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। श्रावकप्रत्येकबुद्धधर्माचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। अभिज्ञाचिन्त्यतया, अतीतानागतप्रत्युत्पन्नज्ञानाचिन्त्यतया अचिन्त्या बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। असङ्गज्ञानाचिन्त्यतया, निर्वाणाचिन्त्यतया, बुद्धधर्माचिन्त्यतया अचिन्त्येयं बोधिसत्त्वस्य प्रज्ञापारमिताचर्या। तत्कस्माद्धेतोः ? न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य प्रज्ञापारमिताचर्या चित्तजनिका, तेनोच्यते अचिन्त्येति॥



चित्तस्योत्पाद इति सुविक्रान्तविक्रामिन् विपर्यास एषः। चित्तं चित्तजमिति सुविक्रान्तविक्रामिंश्चेतसः प्रतिषेध एषः। न हि सुविक्रान्तविक्रामिन् या चित्तस्य प्रकृतिः सा उत्पद्यते जा जायते वा। विपर्याससंप्रयुक्तं सुविक्रान्तविक्रामिंश्चित्तमुत्पद्यते। तत्र चित्तमपि विवृतम्, येन विपर्यासेनोत्पद्यते तदति विवृतम्। न पुनः सुविक्रान्तविक्रामिन् बालपृथग्जना जानन्ति विवृतं चित्तमिति। यत्राप्युत्पद्येत तदपि विवृतम्, येनाप्युत्पद्येत तदपि विवृतमिति। ते चित्तविवेकमजानन्तः, आरम्बणविवेकमजानन्तः अभिनिविशन्ते - अहं चित्तम्, मम चित्तम्, अस्य चित्तम्, अस्माच्चित्तमिति। ते चित्तमभिनिविश्य कुशलमिति वा अभिनिविशन्ते, अकुशलमिति वा अभिनिविशन्ते। सुखमिति वा अभिनिविशन्ते, दुःखमिति वा अभिनिविशन्ते। उच्छेद इत्यभिनिविशन्ते, शाश्चत इत्यभिनिविशन्ते, दृष्टिगत इत्यभिनिविशन्ते, नीवरण इत्यभिनिविनिशन्ते। दानमात्सर्यशीलदौःशील्यमित्यभिनिविशन्ते। धर्मधातुकामधातुरूपधात्वारूप्यधातुमित्यभिनिविनिशन्ते, प्रतीत्यसमुत्पादमित्यभिनिविशन्ते, नामरूपमित्यभिनिविशन्ते, रागद्वेषमोहमित्यभिनिविशन्ते। ईर्ष्यामात्सर्यमित्यभिनिविशन्ते। अस्मिमानमित्यभिनिविशन्ते। दुःखमित्यभिनिविशन्ते। समुदयमित्यभिनिविशन्ते। निरोधमित्यभिनिविशन्ते। मार्गमित्यभिनिविशन्ते। स्मृत्युपस्थानमित्यभिनिविशन्ते। सम्यक्प्रहाणाविपर्यासर्द्धिपादेन्द्रियबलबोध्यङ्गानीत्यभिनिविशन्ते। ध्यानविमोक्षसमाधिसमापत्तीनप्यभिनिविशन्ते। अनुत्पादक्षयानभिसंस्कारमित्यभिनिविशन्ते। श्रावकप्रत्येकबुद्धभूमिमभिनिविशन्ते। श्रावकप्रत्येकबुद्धधर्मानप्यभिनिविशन्ते। मार्गमित्यभिनिविशन्ते। अभिज्ञामप्यभिनिविशन्ते। निर्वाणमप्यभिनिविशन्ते। बुद्धज्ञानमप्यभिनिविशन्ते। लक्षणान्यप्यभिनिविशन्ते। प्रत्येकबुद्धसंपदमप्यभिनिविशन्ते। बोधिसत्त्वसंपदमप्यभिनिविशन्ते॥



तत्र सुविक्रान्तविक्रामिन् बोधिसत्त्वः इमानेवंरूपानभिनिवेशान् सत्त्वानां विपर्यासचित्तजान् समनुपश्यन् न क्वचिद्विपर्यासे चित्तमुत्पादयति। तत्कस्माद्धेतोः ? चित्तापगता हि प्रज्ञापारमिता। या च चित्तस्य प्रकृतिप्रभास्वरता प्रकृतिपरिशुद्धता, तत्र न काचिच्चित्तस्योत्पत्तिः। आरम्बणे सति सुविक्रान्तविक्रामिन् बालपृथग्जनाश्चित्तमुत्पादयन्ति। तत्र बोधिसत्त्वोऽप्यारम्बणं प्रजानन्नपि चित्तस्योत्पत्तिं प्रजानाति - कुतश्चित्तमुत्पद्यते ? स एवं प्रत्यवेक्षते-प्रकृतिप्रभास्वरमिदं चित्तम्। तस्यैवं भवति-आरम्बणं प्रतीत्य चित्तमुत्पद्यते इति। स आरम्बणं परिज्ञाय न चित्तमुत्पादयति नापि निरोधयति। तस्य तच्चित्तं प्रभास्वरं भवति असंक्लिष्टं कमनीयं परिशुद्धम्। स चित्तानुत्पादस्थितो न कंचिद्धर्ममुत्पादयति न निरोधयति। इयं सुविक्रान्तविक्रामिन् चित्तानुत्पादपरिज्ञा प्रज्ञापारमितायां चरतः। य एवं चरति बोधिसत्त्वः, स प्रज्ञापारमितायां चरति। तस्यैवं चरतो नैवं भवति-अहं चरामि प्रज्ञापारमितायाम्, अस्यां चरामि प्रज्ञापारमितायाम्, अनेन चरामि प्रज्ञापारमितायाम्, अस्माच्चरामि प्रज्ञापारमितायामिति। सचेत्पुनः संजानीते-इयं प्रज्ञापारमिता, अनेन प्रज्ञापारमिता, अस्य वा प्रज्ञापारमितेति, न चरति प्रज्ञापारमितायाम्। अथ तामपि प्रज्ञापारमितां न समनुपश्यति नोपलभते-अहं चरामि प्रज्ञापारमितायामिति न चरति, चरति प्रज्ञापारमितायाम्॥



एवमुक्ते सुविक्रान्तविक्रामी बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-अनुत्तरेयं चर्या भगवन् बोधिसत्त्वस्य यदुत प्रज्ञापारमिताचर्या। प्रभास्वरेयं भगवन् बोधिसत्त्वस्य चर्या यदुत प्रज्ञापारमिताचर्या। निरुत्तरेयं भगवन् बोधिसत्त्वस्य चर्या यदुत प्रज्ञापारमिताचर्या। अत्यद्भुतेयं भगवन् बोधिसत्त्वस्य चर्या यदुत प्रज्ञापारमिताचर्या। अनवक्रान्तेयं भगवन् बोधिसत्त्वस्य चर्या मारेण वा मारपर्षद्भिर्वा अन्यैर्वा पुनः कैश्चिन्निमित्तचरितैरुपलम्भचरितैरात्मदृष्टिभिः सत्त्वदृष्टिभिर्जीवदृष्टिभिः पुद्गलदृष्टिभिर्भवदृष्टिभिर्विभवदृष्टिभिरुच्छेददृष्टिभिः शाश्चतदृष्टिभिः सत्कायदृष्टिभिः स्कन्धदृष्टिभिर्धातुदृष्टिभिरायतनदृष्टिभिर्बुद्धदृष्टिभिर्धर्मदृष्टिभिः संघदृष्टिभिर्निर्वाणदृष्टिभिः प्राप्तसंप्रज्ञैर्वा अधिमानिकैर्वा रागद्वेषमोहचरितैर्वा विपर्यासचरितैर्वा उत्पथोन्मार्गप्रस्थितैर्वा अनाक्रमणीया। सर्वलोकाभ्युदयचर्येयं भगवन् बोधिसत्त्वस्य चर्या यदुत प्रज्ञापारमिताचर्या॥



एवमुक्ते भगवान् सुविक्रान्तविक्रामिणं बोधिसत्त्वं महासत्त्वमेतदवोचत्-एवमेतत् सुविक्रान्तविक्रामिन्, एवमेतत्। अनवक्रान्तचर्येयं बोधिसत्त्वस्य मारेण वा मारकायिकैर्वा देवपुत्रैर्मारपर्षदा वा, अन्तशो निर्वाणदृष्टिकैरपि निर्वाणाभिनिविष्टैर्वा अनाक्रमणीया सर्वबालपृथग्जनैर्वा। या बोधिसत्त्वानामियं सुविक्रान्तविक्रामिंश्चर्या, नेयं चर्या बालपृथग्जनानाम्। नापीयं चर्या शैक्षाशैक्षाणां श्रावकयानीयानाम्, नापि प्रत्येकबुद्धयानीयानाम्। सचेत् सुविक्रान्तविक्रामिन् इयं चर्या श्रावकयानीयानां वा प्रत्येकबुद्धयानीयानां वा अभविष्यत्, न तेषां कश्चिद्व्यवहारोऽभविष्यत्-श्रावकयानीया वा प्रत्येकबुद्धयानीया वेति। बोधिसत्त्वा एवाभविष्यन्, तेऽपि तथागता वा चतुर्वैशारद्यप्राप्ता अभविष्यन्। यस्मात्तर्हि सुविक्रान्तविक्रामिन् न श्रावकयानीयानां व प्रत्येकबुद्धयानीयानामियं चर्या, तस्मात्ते न बोधिसत्त्वा इति संख्यां गच्छन्ति, न च तथागता भवन्ति चतुर्वैशारद्यप्राप्ताः। वैशारद्यभूमिरियं सुविक्रान्तविक्रामिन् धर्मे, नेयं प्रज्ञापारमिताचर्या। एवं चरन्तः सुविक्रान्तविक्रामिन् बोधिसत्त्वाः क्षिप्रं चतुर्वैशारद्यतामनुप्राप्नुवन्ति, अनभिसंबुद्धा एव यावदनुत्तरां सम्यक्संबोधिं प्रणिधानवशेन च बुद्धानां च भगवतामधिष्ठानवशेन। न हि सुविक्रान्तविक्रामिन् श्रावकयानिकानां वा प्रत्येकबुद्धयानिकानां वा चतुर्वैशारद्यं भवति, नापि तथागतस्तेषां चतुर्वैशारद्यमधितिष्ठति। बोधिसत्त्वभूमिरेषा सुविक्रान्तविक्रामिन् यस्यां चतुर्वैशारद्यमनुप्राप्यते प्रणिधानवशेन। तत्कस्माद्धेतोः ? प्रज्ञापारमितायां सुविक्रान्तविक्रामिंश्चरन्तो बोधिसत्त्वाः चतस्रः प्रतिसंविदोऽनुप्राप्नुवन्ति। कतमाश्चतस्रः ? यदुत अर्थप्रतिसंविदं धर्मप्रतिसंविदं निरुक्तिप्रतिसंविदं प्रतिभानप्रतिसंविदम्। आभिश्चतसृभिः प्रतिसंविद्भिः समन्वागता अनभिसंबुद्धा एव प्रणिधानवशेन वैशारद्यानि प्रतिगृह्णन्ति। तथागता अपि तान् कुशलमूलसमन्वागतानिति विदित्वा प्रज्ञापारमिताभूम्यनुप्राप्तानिति विदित्वा अधितिष्ठन्ति चतुर्वैशारद्येन। तस्मात्तर्हि सुविक्रान्तविक्रामिन् बोधिसत्त्वेन चतस्रः प्रतिसंविदोऽनुप्राप्तुकामेन क्षिप्रं चतुर्वैशारद्यकुशलेन भवितुकामेन प्रज्ञापारमितायां शिक्षितव्यं चरितव्यम्॥



पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वः प्रज्ञापारमितायां चरन् सर्वधर्माणां हेतुं च समुदयं च अस्तंगमं च निरोधं च प्रविध्यति न कंचिद्धर्मम्, यत्प्रज्ञापारमितायां न योजयति। सर्वधर्माणां हेतुसमुदयनिरोधमार्गलक्षणं प्रजानाति। तेषां हेतुसमुदयनिरोधमार्गलक्षणं प्रजानन् न रूपं प्रभावयति न विभावयति। एवं वेदनासंज्ञासंस्कारान्। न विज्ञानं भावयति न विभावयति। न नामरूपं भावयति न विभावयति। न संक्लेशव्यवदानं भावयति न विभावयति। न विपर्यासदृष्टिगतनीवरणानि भावयति न विभावयति। न रागद्वेषमोहान् भावयति न विभावयति। न कामधातुं न रूपधातुं नारूप्यधातुं भावयति न विभावयति। न सत्त्वधातुं नात्मधातुं भावयति न विभावयति। नोच्छेददृष्टिं न शाश्वतदृष्टिं भावयति न विभावयति। न दानमात्सर्यं भावयति न विभावयति। न शीलदौःशील्यं भावयति न विभावयति। न क्षान्तिव्यापादं भावयति न विभावयति। व वीर्यकौसीद्यं न ध्यानविक्षेपं न प्रज्ञादौष्प्रज्ञ्यं भावयति न विभावयति। न स्मृत्युपस्थानसम्यक्प्रहाणाविपर्यासर्द्धिपादाप्रमाणानि भावयति न विभावयति। नेन्द्रियबलबोध्यङ्गसमाधिसमापत्तीर्भावयति न विभावयति। न प्रतीत्यसमुत्पादं भावयति न विभावयति। न दुःखसमुदयनिरोधमार्गान् भावयति न विभावयति। नानुत्पादज्ञानं न क्षयज्ञानं नाभिसंस्कारज्ञानं भावयति न विभावयति। न पृथग्जनभूमिं भावयति न विभावयति। न श्रावकभूमिं न प्रत्येकबुद्धभूमिं भावयति न विभावयति। न पृथग्जनधर्मान् न श्रावकधर्मान् न प्रत्येकबुद्धधर्मान् (न बोधिसत्त्वधर्मबुद्धधर्मान्) भावयति न विभावयति। न शमथं न विदर्शनां भावयति न विभावयति। न निर्वाणं भावयति न विभावयति। नातीतानागतप्रत्युत्पन्नज्ञानदर्शनं भावयति न विभावयति। न सङ्गतां भावयति न विभावयति। नासङ्गतां भावयति न विभावयति। न बुद्धज्ञानं भावयति न विभावयति। न बुद्धवैशारद्यानि भावयति न विभावयति। तत्कस्माद्धेतोः ? अभाव्यानि हि सुविक्रान्तविक्रामिन् रूपवेदनासज्ञासंस्कारविज्ञानानि। अभाव्यानि नामरूपविपर्यासदृष्टिगतस्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाविपर्यासाप्रमाणेन्द्रियबलबोध्यङ्गसमाधिसमापत्त्यभिज्ञाक्षयज्ञानाभिसंस्कारज्ञानानि। अभाव्या पृथग्जनभूमिः, अभाव्याः श्रावकप्रत्येकबुद्धबोधिसत्त्वभूमयः, अभाव्याः पृथग्जनश्रावकप्रत्येकबुद्धधर्माः, अभाव्यं निर्वाणम्, अभाव्यमतीतानागतप्रत्युत्पन्नज्ञानदर्शनम्, अभाव्यमसङ्गज्ञानदर्शनम्, अभाव्यमनासङ्गज्ञानदर्शनम्, अभाव्यं सम्यक्संबुद्धज्ञानम्। तत्कस्माद्धेतोः ? न हि सुविक्रान्तविक्रामिन् काचिदस्ति भावपरिनिष्पत्तिः। अभूता ह्येते सर्व एव व्यवहाराः। नात्र कश्चित्स्वभावः। अभावस्वभावा हि सुविक्रान्तविक्रामिन् सर्वधर्माः, अभूता असंभूताः। तत्कस्माद्धेतोः ? यो हि विपर्यासः सोऽभूतः। विपर्याससमुत्थिताः सर्वधर्माः। यो हि विपर्यासः, सोऽभावः। भावापगता हि सुविक्रान्तविक्रामिन् सर्वधर्माः। भावो नोपलभ्यतेऽस्वभावत्वात्। अभाव इति सुविक्रान्तविक्रामिन् अभूतः। सोऽसंभूतः, तेनोच्यते अभाव इति। असत्परिदीपनैषा सुविक्रान्तविक्रामिन् अभाव इति। यश्च अभाव, तत्र न भावना न विभावना। विपर्याससमुत्थिततया हि सुविक्रान्तविक्रामिन् सत्त्वा भावयन्ति च विभावयन्ति च। न तत्र किंचिद्भाव्यम्। तत्कस्माद्धेतोः ? अभावस्वभावा हि सुविक्रान्तविक्रामिन् सर्वधर्माः, भावापगता वस्त्वसत्त्वात्। न तत्र किंचिद्भाव्यम्। यस्मिन् समये सुविक्रान्तविक्रामिन् बोधिसत्त्व एवं धर्मेषु धर्मानुदर्शी विहरन् प्रज्ञापारमितायां चरन् न कंचिद्धर्मं भावयति न विभावयति, इयमुच्यते प्रज्ञापारमिताभावनेति। एवं चरत एवं विहरतः सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिताभावना परिपूरिं गच्छति॥



पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो न रूपसंप्रयोगनिमित्तं चित्तमुत्पद्यते। न वेदना, न संज्ञा, न संस्कारः। न विज्ञानसंप्रयोगनिमित्तं चित्तमुत्पद्यते। न खिलसहगतं चित्तमुत्पद्यते। न व्यापादसहगतं चित्तमुत्पद्यते। न मात्सर्यसहगतं चित्तमुत्पद्यते। न संक्लेशसहगतं चित्तमुत्पद्यते। न कौसीद्यसहगतं चित्तमुत्पद्यते। न विक्षेपसहगतं चित्तमुत्पद्यते। न दौष्प्रज्ञ्यसहगतं चित्तमुत्पद्यते। न कामसहगतं चित्तमुत्पद्यते। न रूपारम्बणाभिनिवेशसहगतं चित्तमुत्पद्यते। नाभिध्यासहगतं चित्तमुत्पद्यते। न पैशुन्यसहगतं चित्तमुत्पद्यते। न मिथ्यादृष्टिसहगतं चित्तमुत्पद्यते। न भोगाभिनिवेशसहगतं चित्तमुत्पद्यते। नैश्वर्याभिष्वङ्गसहगतं चित्तमुत्पद्यते। न महाकुलोपपत्त्यभिष्वङ्गसहगतं चित्तमुत्पद्यते। न देवोपपत्त्यभिष्वङ्गसहगतं चित्तमुत्पद्यते। न कामधात्वभिष्वङ्गसहगतं चित्तमुत्पद्यते। न रूपारूप्यधात्वभिष्वङ्गसहगतं चित्तमुत्पद्यते। न श्रावकभूमौ चित्तमुत्पद्यते। न प्रत्येकबुद्धभूमौ चित्तमुत्पद्यते। न बोधिसत्त्वचर्याभिनिवेशाभिष्वङ्गसहगतं चित्तमुत्पद्यते। नान्तशो नीवरणदृष्टिसहगतमपि चित्तमुत्पद्यते। सोऽनया चित्तविशुद्ध्या समन्वागतः सत्त्वान् मैत्र्या स्फरति करुणया मुदितयोपेक्षया। सत्त्वसंज्ञा चानेन विभाविता भवति, न च सत्त्वसंज्ञायां तिष्ठति, न चैनांश्चतुरो ब्राह्म्यान् विहारानभिनिविशते, प्राज्ञश्च भवत्युपायकौशल्यसमन्वागतः। तस्यैभिर्धर्मैः समन्वागतस्य प्रज्ञापारमितायां चरतः क्षिप्रं प्रज्ञापारमिताभावना परिपूरिं गच्छति। स एवं प्रज्ञापारमितां भावयन् न रूपमुपैति, नोपादत्ते। न वेदनां न संज्ञां न संस्कारान्। न विज्ञानमुपैति, नोपादत्ते। न विपर्यासनीवरणदृष्टिगतान्युपैति, नोपादत्ते। न कामधातुं न रूपधातुं नारूप्यधातुमुपैति, नोपादत्ते। नोच्छेदशाश्वतमुपैती, नोपादत्ते। न प्रतीत्यसमुत्पादमुपैति, नोपादत्ते। न पृथिव्यप्तेजोवायुधातुमुपैति, नोपादत्ते। न रागद्वेषमोहानुपैति, नोपादत्ते। ना दानमात्सर्यशीलदौःशील्यमुपैति, नोपादत्ते। न क्षान्तिव्यापादवीर्यकौसीद्यध्यानविक्षेपप्रज्ञादौष्प्रज्ञ्यमुपैति, नोपादत्ते। न स्मृत्युपस्थानसम्यक्प्रहाणाविपर्यासाप्रमाणर्द्धिपादानुपैति, नोपादत्ते। नेन्द्रियबलबोध्यङ्गध्यानविमोक्षसमापत्तीरुपैति, नोपादत्ते। नाभिज्ञामुपैति, नोपादत्ते। न दुःखसमुदयनिरोधमार्गानुपैति, नोपादत्ते। नानुत्पादज्ञानक्षयज्ञानाभिसंस्कारज्ञानान्युपैति, नोपादत्ते। नात्मधातुं न सत्त्वधातुं न धर्मधातुमुपैति नोपादत्ते। न पृथग्जनश्रावकप्रत्येकबुद्धसम्यक्संबुद्धभूमिमुपैति, नोपादत्ते। न पृथग्जनधर्मान्, न श्रावकधर्मान् न प्रत्येकबुद्धधर्मानुपैति, नोपादत्ते। नातीतानागतप्रत्युत्पन्नज्ञानदर्शनमुपैति, नोपादत्ते। नासङ्गज्ञानदर्शनमुपैति, नोपादत्ते। न बुद्धज्ञानबलवैशारद्यान्युपैति, नोपादत्ते। न नीवरणान्युपैति, नोपादत्ते। तत्कस्माद्धेतोः ? सर्वधर्मा हि सुविक्रान्तविक्रामिन् अनुपगता अनुपादत्ताः, न केनचिदुपगताः। न हि सुविक्रान्तविक्रामिन् कश्चिद्धर्म उपादातव्यो नापि केनचिदुपादत्तः। तत्कस्माद्धेतोः ? नात्र किंचिदुपादातव्यं नोपादानीयं वा। तत्कस्माद्धेतोः ? असारका हि सुविक्रान्तविक्रामिन् सर्वधर्मा मायोपमतया। वशिता हि सर्वधर्माः सारानुपलब्धितः। प्रतिभाससमा हि सर्वधर्मा अग्राह्यतामुपादाय। रिक्तका हि सर्वधर्माः स्वभावासत्त्वात्। फेनपिण्डोपमा हि सर्वधर्मा अविमर्दनक्षमत्वात्। बुद्बुदोपमा हि सर्वधर्मा उत्पन्नभङ्गविलीनतामुपादाय। मरीच्युपमा हि सर्वधर्मा विपर्याससमुत्थानतामुपादाय। कदलीगर्भोपमा हि सर्वधर्माः सारासत्तामुपादाय। उदकचन्द्रसदृशा हि सर्वधर्मा अग्राह्यतामुपादाय इन्द्रायुधरङ्गसदृशा हि सर्वधर्मा असत्परिकल्पनतामुपादाय। निरीहका हि सर्वधर्मा असमुत्थापनतामुपादाय। रिक्तमुष्टिसमा हि सर्वधर्मा वशिकस्वभावलक्षणतया। तत्र सुविक्रान्तविक्रामिन् बोधिसत्त्वः एवं सर्वधर्मान् समनुपश्यन् न कंचिद्धर्ममुपैति नोपादत्ते, नाधितिष्ठति, नाध्यवसाय तिष्ठति। इयं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य सर्वधर्मश्रद्दधानता अनधिष्ठानता अनध्यवसानता अनभिष्वङ्गता प्रज्ञापारमितायां चरतः। एवं चरतः सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य प्रज्ञापारमिताभावना परिपूरिं गच्छति॥



पुनरपरं सुविक्रान्तविक्रामिन् एवं शिक्षमाणो बोधिसत्त्वो न रूपे शिक्षते, न रूपसमतिक्रमाय शिक्षते। न वेदनायां न संज्ञायां न संस्कारेषु। न विज्ञाने शिक्षते न विज्ञानसमतिक्रमाय शिक्षते। न रूपोत्पत्तौ शिक्षते, न रूपनिरोधे शिक्षते। एवं न वेदना न संज्ञा न संस्काराः। न विज्ञानोत्पत्तौ शिक्षते, न विज्ञाननिरोधे शिक्षते। न रूपविनयाय शिक्षते नाविनयाय। एवं न वेदनासंज्ञासंस्कारविज्ञानविनयाय शिक्षते नाविनयाय। न रूपस्य संक्रान्तये शिक्षते नावक्रान्तये। न स्थितये शिक्षते नास्थितये। एवं न वेदनासंज्ञासंस्कारविज्ञानानां संक्रान्तये शिक्षते नावक्रान्तये, न स्थितये शिक्षते नास्थितये। एवं शिक्षमाणः सुविक्रान्तविक्रामिन् बोधिसत्त्वो न रूपनित्यतायां शिक्षते, न रूपसुखतायां शिक्षते, न रूपदुःखतायां शिक्षते न रूपशुभतायाम्, न रूपानात्मतायां शिक्षते। न वेदनासंज्ञासंस्काराः, न विज्ञाननित्यतायां शिक्षते, न विज्ञानसुखतायां शिक्षते, न विज्ञानदुःखतायाम्, न विज्ञानशुभतायां न विज्ञानात्मतायां शिक्षते। एवं शिक्षमाणः सुविक्रान्तविक्रामिन् बोधिसत्त्वो न रूपातीतारम्बणे चरति, रूपानागतारम्बणे चरति, न रूपप्रत्युत्पन्नारम्बणे चरति। न वेदना, न संज्ञा, न संस्काराः। न विज्ञानातीतारम्बणे चरति, नानागतारम्बणे चरति, न प्रत्युत्पन्नारम्बणे चरति। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वोऽतीतं शून्याकारेण शान्ताकारेण अनात्माकारेण प्रत्यवेक्षते-यदतीतं तच्छून्यम्, एवं शान्तमनात्मेति। एवमपि [न] चरति। अनागतं शून्याकारेण शान्ताकारेण अनात्माकारेण प्रत्यवेक्षते-यदतीतं तच्छून्यं शान्तमनात्मेति। एवमपि (न) चरति। प्रत्युत्पन्नं शून्याकारेण शान्ताकारेण अनात्माकारेण प्रत्यवेक्षते-यत्प्रत्युत्पन्नं तच्छून्यं शान्तमनात्मेति। एवमपि (न) चरति। अतीतं शून्यं शान्तमनात्मना वा अनात्मीयेन वा अनित्येन वा अध्रुवेण वा अशाश्वतेन वा विपरिणामधर्मिणा वा, एवमपि न चरति। अनागतं शून्यं शान्तमनात्मना वा अनात्मीयेन वा अनित्येन वा अध्रुवेण वा अशाश्वतेन वा विपरिणामधर्मिणा वा, एवमपि न चरति। प्रत्युत्पन्नं शून्यं शान्तमनात्मना वा अनात्मीयेन वा अनित्येन वा अध्रुवेण वा अशाश्वतेन वा विपरिणामधर्मिणा वेति, एवमपि न चरति। एवं चरतः सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य प्रज्ञापारमिताभावना परिपूरिं गच्छति। एवं चरतः सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य मारः पापीयानवतारं न लभते। एवं चरन् सर्वमारकर्माणि बुध्यते, न च तैर्मारकर्मभिः संह्रियते॥



पुनरपरं सुविक्रान्तविक्रामिन् एवं चरन् बोधिसत्त्वो न रूपमालम्बते, न वेदनां न संज्ञां न संस्कारान्, न विज्ञानमालम्बते। न नामरूपमालम्बते, न विपर्यासदृष्टिगतमालम्बते, नात्माभिनिवेशमालम्बते, न सत्त्वाभिनिवेशमालम्बते, नोच्छेदशाश्वतमालम्बते, नान्तं नानन्तमालम्बते। न रूपशब्दगन्धरसस्पर्शधर्मानालम्बते। न कामधातुं न रूपधातुं नारूप्यधातुमालम्बते। न प्रतीत्यसमुत्पादमालम्बते। न पृथिव्यप्तेजोवाय्वाकाशधातूनालम्बते। न सत्यं न मृषां आलम्बते। न संयोगं न विसंयोगमालम्बते। न रागद्वेषमोहानालम्बते। न रागद्वेषमोहप्रहाणमालम्बते। न दानमात्सर्यशीलदौःशील्यमालम्बते। न क्षान्तिव्यापादमालम्बते। न वीर्यकौसीद्यमालम्बते। न ध्यानविक्षेपमालम्बते। न प्रज्ञादौष्प्रज्ञ्यमालम्बते। न स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाविपर्यासानालम्बते। नेन्द्रियबलबोध्यङ्गसमाधिसमापत्तीरालम्बते। न मैत्रीकरुणामुदितोपेक्षा आलम्बते। नानुत्पादज्ञानक्षयज्ञानाभिसंस्कारज्ञानान्यालम्बते। न पृथग्जनश्रावकप्रत्येकबुद्धभूमीरालम्बते। न पृथग्जनश्रावकप्रत्येकबुद्धधर्मानालम्बते। न दुःखसमुदयनिरोधमार्गानालम्बते। नाभिज्ञाज्ञानदर्शनमालम्बते। न विमुक्तिमालम्बते। न विमुक्तिज्ञानदर्शनमालम्बते। न निर्वाणमालम्बते। नातीतानागतप्रत्युत्पन्न(ज्ञानदर्शन)मालम्बते। नासङ्गज्ञानमालम्बते। न बुद्धज्ञानमालम्बते। न बुद्धबलवैशारद्यान्यालम्बते। न बुद्धक्षेत्रपरिशुद्धिमालम्बते। न लक्षणपरिशुद्धिमालम्बते। न श्रावकसंपदमालम्बते। न प्रत्येकबुद्धसंपदमालम्बते। न बोधिसत्त्वसंपदमालम्बते। तत्कस्माद्धेतोः ? निरालम्बना हि सुविक्रान्तविक्रामिन् सर्वधर्माः। न हि सर्वधर्माणां किंचिद्ग्रहणं संविद्यते यत्रैषामालम्बनं भवेत। यावत् सुविक्रान्तविक्रामिन् आलम्बनम्, तावदध्यवसानम्, तावदभिनिवेशः, तावदुपादानम्। यावदुपादानम्, यावदालम्बनम्, तावदुःखदौर्मनस्यम्, तावद्गाढाः शोकशल्योपायासपरिदेवाः संभवन्ति। यावत् सुविक्रान्तविक्रामिन् आलम्बनं तावद्बन्धनम्। यावदालम्बनं तावन्नास्ति मार्गः, तावद्दुःखदौर्मनस्यम्। यावदालम्बनं तावन्मन्यना स्पन्दना प्रपञ्चना। यावदालम्बनं तावदधिकरणविग्रहविवादाः। यावदालम्बनं तावदविद्यान्धकारमोहाः। यावदालम्बनं तावद्भयानि, तावद्भैरवाणि। यावदालम्बनं तावन्मारपाशमारविध्वंसनानि। यावदालम्बनं तावद्दुःखप्रतिपीडना सुखपर्येषणा च। तत्र सुविक्रान्तविक्रामिन् बोधिसत्त्व इमानादीनवान् संपश्यन् न कंचिद्धर्ममालम्बते। सोऽनालम्बमानो न कंचिद्धर्मं परिगृह्णाति। स नाप्युद्ग्रहाय नाग्रहाय स्थितः सर्वधर्माणां तामपि निरालम्बनवशिकतां न मन्यते। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो महासत्त्वो न कंचिद्धर्ममभिनिविशते नाभिवदति, न कंचिद्धर्ममध्यवसाय तिष्ठति। अयं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य सर्वधर्मालम्बनविसंयोगः प्रज्ञापारमितायां चरतः। एवं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य चरतः प्रज्ञापारमिताभावना परिपूतिं गच्छति। न चास्य मारः पापीयान् अन्तरायं शक्नोति कर्तुम्, न मारकायिका देवताः, न मारपर्षत्, न माराधिष्ठिताः। न चास्य तेऽवतारं लभन्ते यत्रास्य विहेठान् कुर्युः, यत्रैनं गृहीत्वा धर्षयेयुः। नित्यं च सर्वाणि मारकर्माण्यवबुध्यन्ते। न च मारकर्मवशगो भवति। सर्वाणि च मारभवनानि ध्यामीकरोति। सर्वान्यतीर्थिकानां च निग्रहाय स्थितो भवति, सर्वाश्चान्यतीर्थिकांश्चरकपरिव्राजकानभिभवति। अनवमर्दनीयश्च भवति सर्वपरप्रवादिभिः॥



एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न रूपकल्पनायां स्थितो भवति न रूपविकल्पनायाम्। एवं न वेदनासंज्ञासंस्कारविज्ञानकल्पनायां स्थितो भवति न विकल्पनायाम्। नापि रूपं कल्पयति न विकल्पयति। एवं न वेदनासंज्ञासंस्कारविज्ञानानि कल्पयति न विकल्पयति। न नीवरणदृष्टिगतानि कल्पयति न विकल्पयति। नोच्छेदशाश्वतं कल्पयति न विकल्पयति। न कामधातुरूपधात्वारूप्यधातून् कल्पयति न विकल्पयति। न रागद्वेषमोहान् कल्पयति न विकल्पयति। न सत्यं कल्पयति न विकल्पयति। न मृषा कल्पयति न विकल्पयति। न पृथिव्यप्तेजोवाय्वाकाशधातुं कल्पयति न विकल्पयति। न संयोगं कल्पयति न विकल्पयति। न विसंयोगं कल्पयति न विकल्पयति। न प्रतीत्यसमुत्पादं कल्पयति न विकल्पयति। नात्मसंज्ञां कल्पयति न विकल्पयति। न सत्त्वसंज्ञां कल्पयति न विकल्पयति। न जीवसंज्ञां कल्पयति न विकल्पयति। न पुद्गलसंज्ञां कल्पयति न विकल्पयति। न दानमात्सर्यशीलदौःशील्यं कल्पयति न विकल्पयति। न क्षान्तिव्यापादौ कल्पयति न विकल्पयति। न वीर्यकौसीद्यं कल्पयति न विकल्पयति। न ध्यानविक्षेपौ कल्पयति न विकल्पयति। न प्रज्ञादौष्प्रज्ञ्ये कल्पयति न विकल्पयति। नाविपर्याससम्यक्प्रहाणर्द्धिपादस्मृत्युपस्थानानि कल्पयति न विकल्पयति। नेन्द्रियबलबोध्यङ्गसमाधिसमापत्तीः कल्पयति न विकल्पयति। न दुःखसमुदयनिरोधमार्गान् कल्पयति न विकल्पयति। न मैत्रीकरुणामुदितोपेक्षाः कल्पयति न विकल्पयति। नानुत्पादज्ञानक्षयज्ञानाभिसंस्कारज्ञानानि कल्पयति न विकल्पयति। न पृथग्जनधर्मान् न श्रावकधर्मान् न प्रत्येकबुद्धधर्मान् न बुद्धधर्मान् कल्पयति न विकल्पयति। न पृथग्जनभूमिं न श्रावकभूमिं न प्रत्येकबुद्धभूमिं न बुद्धभूमिं कल्पयति न विकल्पयति। न नीवरणानि कल्पयति न विकल्पयति। नातीतानागतप्रत्युत्पन्नज्ञानदर्शनं कल्पयति न विकल्पयति। नासङ्गज्ञानं कल्पयति न विकल्पयति। न विद्याविमुक्तिं कल्पयति न विकल्पयति। न मुक्तिं न विमुक्तिज्ञानदर्शनं कल्पयति न विकल्पयति। न बुद्धज्ञानवैशारद्यानि कल्पयति न विकल्पयति। न लक्षणपरिशुद्धिं कल्पयति न विकल्पयति। न बुद्धक्षेत्रपरिशुद्धिं कल्पयति न विकल्पयति। न श्रावकसंपदं कल्पयति न विकल्पयति। न प्रत्येकबुद्धसंपदं कल्पयति न विकल्पयति। न बोधिसत्त्वसंपदं कल्पयति न विकल्पयति। तत्कस्माद्धेतोः ? कल्पनायां सुविक्रान्तविक्रामिन् सत्यां विकल्पो भवति। यत्र पुनः सुविक्रान्तविक्रामिन् कल्पना नास्ति, न तत्र विकल्पना। सर्वबालपृथग्जना हि सुविक्रान्तविक्रामिन् कल्पनासमुत्थिताः। तेषां संज्ञा विकल्पसमुत्थिताः। ते कल्पयन्ति विकल्पयन्ति च। कल्पनेति सुविक्रान्तविक्रामिन् एष एकोऽन्तः, विकल्पनेति द्वितीयोऽन्तः। यत्र नास्ति कल्पो वा विकल्पो (वा), तत्र नास्ति अन्तो वा मध्यं वा। मध्यमिति सुविक्रान्तविक्रामिन् कल्पयतः स एवान्तो भवति। यावत्कल्पना, तावद्विकल्पना। नास्त्यत्र विकल्पनासमुच्छेदः। यत्र पुनः सुविक्रान्तविक्रामिन् न कल्पना न विकल्पना, तत्र कल्पसमुच्छेदः। कल्पसमुच्छेद इति सुविक्रान्तविक्रामिन् नात्र कस्यचिच्छेदः। तत्कस्माद्धेतोः ? अन्तो हि सुविक्रान्तविक्रामिन् कल्पो विकल्पो विकल्पसमुत्थितः। तेषां यो व्युपशमः, सोऽविपर्यासः। योऽविपर्यासः, न तत्र कश्चिच्छेदः। समुच्छेद इति सुविक्रान्तविक्रामिन् दुःखसमुच्छेदस्यैतदधिवचनम्। न च दुःखस्य कश्चित्समुच्छेदः। स्याद्दुःखसमुच्छेदः, यदि दुःखस्य काचित्परिनिष्पत्तिः स्यात्। अपरिनिष्पत्तिदर्शनमेतत् दुःखसमुच्छेद इति। दुःखपरिज्ञानमेतत्, यदिदं दुःखसमुच्छेद इति। यो दुःखं नैव कल्पयति न विकल्पयति, अयं दुःखव्युपशमः, अयं दुःखस्यानुत्पादोऽप्रादुर्भावः। स एवं पश्यन् सुविक्रान्तविक्रामिन् बोधिसत्त्वो न कंचिद्धर्मं कल्पयति न विकल्पयति। इयं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य सर्व(कल्प)विकल्पपरिज्ञा प्रज्ञापारमितायां चरतः। एवं चरतः सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य प्रज्ञापारमिताभावना परिपूरिं गच्छति। न चास्य मारः पापीयानन्तरायस्थितो भवति, न च मारपर्षत्। उत्पन्नोत्पन्नानि च मारकर्माणि बुध्यते। न चोत्पन्नोत्पन्नानां मारकर्मणां वशं गच्छति। मारस्य च पापीयसः पराजयं करोति ध्यामीकरोति च। एवमल्पपक्षीकरोति विगतभयभैरवश्च भवति। न च मारैराक्रमणीयो भवति। प्रस्रब्धानि चास्य संभवन्ति सर्वाण्यपायगमनानि। पिथिताश्च भवन्ति कुमार्गाः। सर्वौघोत्तीर्णश्च भवति, विगतमोहान्धकारश्च भवति, प्रतिलब्धचक्षुरालोकभूतश्च भवति सर्वसत्त्वानाम्, स्थितश्च भवत्युनुच्छेदाय बुद्धवंशस्य, प्रतिलब्धमार्गश्च भवति मार्गसमतायाम्, अनुकम्प(क)श्च भवति सर्वसत्त्वानाम्, विशुद्धं चक्षुर्भवति धर्मेषु, वीर्यसंपन्नश्च भवत्यकुसीदः, क्षान्तिबलप्रतिलब्धश्च भवत्यव्यापन्नचित्तः, ध्यायी च भवत्यनिश्रितध्यायी, प्रतिलब्धप्रज्ञश्च भवति निर्वेधिकप्रज्ञासमन्वागतः, विगतकौकृत्यश्च भवति अपगतनीवरणः, विसंयुक्तश्च भवति सर्वमारपाशैः, छिन्नबन्धनश्च भवति सर्वतृष्णाजालवियोगात्, उपस्थितस्मृतिश्च भवत्यसंप्रमोषधर्मतया, विशुद्धशीलश्च भवति शीलविशुद्धिपारमिताप्राप्तः, परमगुणप्रतिष्ठितश्च भवति सर्वदोषनिर्घाताय, प्रज्ञाबलाधानप्राप्तश्च भवत्यप्रकम्प्यतया, अनाक्षिप्तश्व भवति सर्वमारपरवादिभिः, अपरिहीणधर्मा च भवति सर्वधर्मविशुद्धिप्राप्ततया, विशारदश्च भवति सर्वधर्मदेशनायाम्, अमङ्कुश्च भवति पर्षदुपसंक्रमणाय, अनागृहीतश्च भवति मुक्तत्यागो धर्मदानम् (?), प्रतिविशोधितमार्गश्च भवति मार्गसमतया, विभावितभावनश्च भवति कुमार्गापरिज्ञतया, वासितवासनश्च भवति विशुद्धधर्मतया, शोधितशोधनश्च भवति विशुद्धप्रज्ञतया, गम्भीरप्रज्ञश्च भवति सागरोपमतया, दुरवगाहश्च भवति अस्तम्भिततया, अप्रमेयश्च भवति धर्मसागराप्रमेयतया। एवं चरन् सुविक्रान्तविक्रामिन् बोधिसत्त्वः एभिश्चान्यैश्च गुणैः समन्वागतो भवति येषां गुणानां न पर्यन्तः शक्योऽधिगन्तुम्॥



पुनरपरं सुविक्रान्तविक्रामिन् बोधिसत्त्वः एवं प्रज्ञापारमितायां चरन् नेन्द्रियविकलो भवति। स न रूपविकलो भवति, न भोगविकलो भवति, न परिवारविकलो भवति, न जातिविकलो भवति, न कुलविकलो भवति, न देशविकलो भवति, न च प्रत्युन्तेषु जनपदेषूपपद्यते, न चाक्षणप्राप्तो भवति, न चापरिशुद्धैः सत्त्वैरपरिशुद्धकर्मान्तैः संसर्गजातो भवति, न च स्वचित्तं हापयति, न च प्रज्ञाया हीयते। स यान् धर्मान् परतः शृणोति, तान् सर्वधर्मसमतायां संस्यन्दयति, स्थितश्च भवति बुद्धवंशस्य सर्वज्ञतावंशस्यानुपच्छेदाय। स आलोकलब्धश्च भवति बुद्धधर्मेषु, अत्यासन्नश्च भवति सर्वज्ञतायाम्। तं सचेन्मारः पापीयान् उपसंक्रामति विहेठनार्थम्, स तन्मारपर्षदं भस्मीकरोति छिन्नप्रतिभानाम्, सर्वांश्च मारपाशांश्छिनत्ति, सर्वैर्मारकायिकैर्मारकोटिभिश्चाधृष्यो भवति। ततो मारा भीतास्त्रस्ताः पलायन्ते। एवं च मारस्य पापीयसो भवति-अतिक्रान्तविषयोऽयं मम, नायं मम भूयो विषये चरति, नायं मम भूयो विषये स्थितः, नायं मम भूयो विषयमाक्रमिष्यतीति, अन्यांश्च सत्त्वान् मम विषयान्मोचयिष्यतीति, उत्तारयिष्यतीति। तत्र मारः पापीयान् शोचति क्रन्दति परिदेवते-अल्पपक्षीकरिष्यति अयं बोधिसत्त्वो मामिति। दौर्बल्यं चास्य विशति, दुःखितश्च भवति दुर्मना विप्रतिसारी। यस्मिंश्च समये सुविक्रान्तविक्रामिन् बोधिसत्त्वः प्रज्ञापारमितायां चरति, प्रज्ञापारमितां भावयति, प्रज्ञापारमितायां योगमापद्यते, सर्वमारभवनानि तस्मिन् समये ध्यामीभवन्ति अल्पतेजस्कानि, माराश्च पापीयांसो दुःखिता दुर्मनसो भवन्ति शोकशल्यसमर्पिता महाशोकशल्यविद्धाः-अतिवाहयिष्यत्ययं बत सत्त्वानस्मद्विषयात्, उत्तारयिष्यत्ययं सत्त्वानस्मद्विषयात्, परिमोचयिष्यत्ययं सत्त्वानस्मद्विषयात्, अभ्युद्धरिष्यत्ययं बत सत्त्वानस्मद्विषयात्, छेदयिष्यत्ययं सत्त्वान् मारपाशात्, समुत्क्षेप्स्यत्ययं सत्त्वान् कामपङ्कलग्नान्, मोचयिष्यत्ययं सत्त्वान् दृष्टिजालेभ्यः, उत्तारयिष्यत्ययं सत्त्वान् नीवरणपथात्, प्रतिष्ठापयिष्यत्ययं सत्त्वान् सन्मार्गे, उत्तारयिष्यत्ययं सत्त्वान् दृष्टिगहनादिति। इममर्थवशं सुविक्रान्तविक्रामिन् संपश्यन्तस्ते मारा दुःखिता भवन्ति दुर्मनसः शोकशल्यविद्धाः। तद्यथापि नाम सुविक्रान्तविक्रामिन् पुरुषो महता धनस्कन्धेन विपन्नेन दुःखितो वेदनात्त(र्त)मना महता दुःखदौर्मनस्येन समन्वागतः। एवमेव मारः पापीयान् दुःखितो भवति दुर्मना विप्रतिसारी शोकशल्यविद्धः। न च स्वके आसने रमते, यस्मिन् समये बोधिसत्त्वः प्रज्ञापारमितायां चरति, प्रज्ञापारमितां भावयति, प्रज्ञापारमितायां योगमापद्यते। पुनरपरं सुविक्रान्तविक्रामिन् ते माराः पापीयांसः एकतः समागम्य चिन्तयन्ति-कथं करिष्यामः, किं नु करिष्यामः। कथंकथाशोकशल्यविद्धा भवन्ति। ते कथंकथाशोकशल्यविद्धा भूत्वा उपसंक्रामन्ति बोधिसत्त्वस्यावतारगवेषिणः प्रज्ञापारमितायां चरतः। तत्र बोधिसत्त्वस्य रोमापि न हृष्यति, न पुनः कायस्यान्यथात्वं भविष्यति चित्तस्यान्यथात्वं वा। विगतभयरोमहर्षश्च मारः पापीयानिति संबुध्यते। बुद्ध्वा चाधिष्ठानं करोति। ततो मारः पापीयानधिष्ठितो दुर्बलो भवति लीनचित्तो भयमापन्नः। न चास्य शक्नोत्यवतारं लब्धुम्। तस्यैवं भवति-अहमेवास्य न शक्तोऽवतारं लब्धुम्, किं पुनर्मम पर्षत्, किं पुनर्यदन्येऽधिष्ठास्यन्ति। ततस्ते मारा(स्त्रस्ता उत्साहप)रिहीणाः स्वभवनानि गत्वा दुःखदौर्मनस्यजाताः प्रध्यायन्तस्तिष्ठन्ति, न च शक्नुवन्ति बोधिसत्त्वस्य प्रज्ञापारमितायां चरतोऽच्छटामात्रमपि चित्तस्य मोहनं कर्तुम्, प्रागेवास्यान्तरायम्। इयं(दं) सुविक्रान्तविक्रामिन् प्रज्ञापारमितायां चरतो (बोधिसत्त्वस्य) एवंरूपं प्रज्ञाबलाधिष्ठानं भवति, एवंरूपेण च प्रज्ञाबलाधिष्ठानेन समन्वागतो भवति। सचेद्ये सर्वस्मिंस्त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः, ते सर्वे मारा भवेयुः, ते सर्वे महतीभिर्मारपर्षद्भिः सार्धं तं बोधिसत्त्वं प्रज्ञापारमितायां चरन्तमुपसंक्रमेयुर्विहेठाभिप्रायाः। तेऽपि सर्वे सुविक्रान्तविक्रामिन् माराः पापीयांसो न प्रभवन्त्यन्तरायं कर्तुम्। तत्कस्माद्धेतोः ? तथारूपेण हि प्रज्ञाबलाधानेन प्रज्ञाखड्गेन प्रज्ञाशस्त्रेण तस्मिन् समये बोधिसत्त्वः समन्वागतो भवति। अचिन्त्यया सुविक्रान्तविक्रामिन् प्रज्ञया अप्रमेयया असमसमया बोधिसत्त्वस्तदा समन्वागतो भवति। तेन तं न प्रतिबलो भवति मारः पापीयानभिभवितुम्। महाशस्त्रं ह्येतत्सुविक्रान्तविक्रामिन् यदुत प्रज्ञाशस्त्रम्, महाखड्गो ह्येष सुविक्रान्तविक्रामिन् यदुत प्रज्ञाखड्गः, यत्रागतिरविषयो माराणां पापीयसाम्, अभूमिर्माराणां पापीयसाम्। येऽपि तावत्सुविक्रान्तविक्रामिन् बाह्या ऋषयश्चतुर्णां ध्यानानां लाभिनः, चतसृणां वा आरूप्यसमापत्तीनाम्, ये मारविषयं कामधातुमतिक्रम्य ब्रह्मलोके चोपपद्यन्ते चतुर्षु च आरूप्येषु सदेवनिकायेषु, तेषामपि तावदगतिरविषयः यदुत एवंरूपायां प्रज्ञायाम्, या बोधिसत्त्वस्य प्रज्ञा प्राकृता, किं पुनर्या प्रज्ञापारमितायां चरतः प्रज्ञा, कः पुनर्वादो माराणां पापीयसां येषामविषयो रूपरूप्यधातौ। बलाधानप्राप्तः सुविक्रान्तविक्रामिन् बोधिसत्त्वस्तस्मिन् समये भवति महाबलाधानसमन्वागतो यदुत प्रज्ञापारमिताबलेन। ये खलु केचित् सुविक्रान्तविक्रामिन् प्रज्ञापारमिताबलेन समन्वागता भवन्ति तीक्ष्णेन प्रज्ञाशस्त्रेण, अधृष्यास्ते भवन्ति मारैः पापीयोभिरनाक्रमणीयाः। ये केचित् सुविक्रान्तविक्रामिन् प्रज्ञाबलेन समन्वागता भवन्ति तीक्ष्णेन च प्रज्ञाशस्त्रेण, न ते क्वचिन्निश्रयं कुर्वन्ति, अनिश्रितास्ते भवन्ति। तत्कस्माद्धेतोः ? निश्रये हि सुविक्रान्तविक्रामिन् सति चलितं भवति, चलिते सति स्पन्दना भवति, स्पन्दनायां सत्यां प्रपञ्चना भवति। येषां केषांचित् सुविक्रान्तविक्रामिन् निश्रयश्च भवति चलितं च भवति स्पन्दितं च भवति प्रपञ्चना (च) भवति, ते मारस्य पापीयसो वशगता भवन्ति, अपरिमुक्ताश्च भवन्ति ते मारविषयात्। येऽपि तावत् सुविक्रान्तविक्रामिन् यावद् भवाग्रोपपन्नाः सत्त्वा निश्रिता निश्रयनिबद्धा निश्रयाध्यासिताः, तेऽप्यागमिष्यन्ति पुनर्मारविषयम्। अपरिमुक्ताश्च ते मारपाशेभ्यः, अनुगतसूत्राश्च ते मारपाशैः। तद्यथा उद्रकश्च रामपुत्रः आराडश्च कालामः, ये वा पुनरन्येऽपि केचिन्निश्रिता आरूप्येषु निश्रयविनिबद्धा निश्रयाध्याश्रिताः। बोधिसत्त्वस्तु पुनः सुविक्रान्तविक्रामिन् प्रज्ञापारमितायां चरन् प्रज्ञापारमितां भावयन् प्रज्ञापारमितायां योगमापद्यमानः न क्वचिन्निश्रयं करोति, अनिश्रितो भवति सर्वत्र। यस्मिन् खलु पुनः समये सुविक्रान्तविक्रामिन् बोधिसत्त्वः प्रज्ञापारमिताभावनायोगमनुयोक्तो विहरति, तस्मिन् समये न रूपनिश्रितो भवति, न वेदनासंज्ञासंस्कारविज्ञाननिश्रितो भवति, न विपर्यासनीवरणदृष्टिगतनिश्रितो भवति, न नामरूपनिश्रितो भवति, न कामरूपारूप्यधातुनिश्रितो भवति, नात्मसत्त्वसंज्ञानिश्रितो भवति, न जीवपुद्गलधात्वायतननिश्रितो भवति, न पृथिव्यप्तेजोवाय्वाकाशविज्ञानेनैवसंज्ञानासंज्ञायतननिश्रितो भवति, न तृष्णानिश्रितो भवति, न भवतृष्णानिश्रितो भवति, नोच्छेदतृष्णानिश्रितो भवति, नान्तानन्तनिश्रितो भवति, न प्रतीत्यसमुत्पादनिश्रितो भवति, न दानमात्सर्यनिश्रितो भवति, न शीलशौःशील्यनिश्रितो भवति, न क्षान्तिव्यापादनिश्रितो भवति, न वीर्यकौसीद्यनिश्रितो भवति, न ध्यानविक्षेपनिश्रितो भवति, न प्रज्ञादौष्प्रज्ञ्यनिश्रितो भवति, नाविपर्याससम्यक्प्रहाणाप्रमाणस्मृत्युपस्थाननिश्रितो भवति, नेन्द्रियबलबोध्यङ्गसमाधिसमापत्तिनिश्रितो भवति, न दुःखसमुदयनिरोधमार्गनिश्रितो भवति, नानुत्पादज्ञानक्षयज्ञानानभिसंस्कारज्ञाननिश्रितो भवति, न विद्याविमुक्तिनिश्रितो भवति, न विमुक्तिज्ञानदर्शननिश्रितो भवति, न पृथग्जनश्रावकप्रत्येकबुद्धभूमिनिश्रितो भवति, न पृथग्जनश्रावकप्रत्येकबुद्धसम्यक्संबुद्धधर्मनिश्रितो भवति, न नीवरणनिश्रितो भवति, नातीतानागतप्रत्युत्पन्नासङ्गतानिश्रितो भवति, न त्र्यध्वसमतानिश्रितो भवति, न बुद्धज्ञानबलवैशारद्यनिश्रितो भवति, न सर्वज्ञज्ञाननिश्रितो भवति, न लक्षणसंपत्तिनिश्रितो भवति, बुद्धक्षेत्रसंपन्निश्रितो भवति, न श्रावकव्यूहसंपन्निश्रितो भवति, न बोधिसत्त्वव्यूहसंपन्निश्रितो भवति। स सर्वधर्मैश्चानिश्रितो न चलति न संचलति, निश्रयाश्च तेन सर्वे विभाविता भवन्ति। अनिश्रितश्च स मार्गमपि नाभिनिविशते, अनिश्रयं न मन्यते। सोऽयं निश्रय इति नोपलभते, इह निश्रय इति नोपलभते, अस्य निश्रय इति नोपलभते न मन्यते, अस्मान्निश्रय इति नोपलभते न मन्यते। सर्वनिश्रयानमन्यमानोऽनुपलभमानोऽनभिनिविशमानः न क्वचिन्निश्रयमुपैति नोपदिशति नाभिनन्दति नाध्यवसाय तिष्ठति। स सर्वनिश्रयानुपलिप्तोऽसक्तः सर्वधर्मनिश्रयविशुद्धिमनुप्राप्नोति। इदं सुविक्रान्तविक्रामिन् बोधिसत्त्वस्य सर्वधर्मनिश्रयविशुद्धिज्ञानदर्शनं प्रज्ञापारमितायां चरतः, येनास्य माराः पापीयांसोऽवतारं न लभन्ते, अनाक्रमणीयश्च भवति सर्वमारैः पापीयोभिः, अभिभवति च मारान् पापीयस इति॥



आर्यप्रज्ञापारमितायां चर्यापरिवर्तः षष्ठः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project