Digital Sanskrit Buddhist Canon

५ सुभूतिपरिवर्तः पञ्चमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 5 subhūtiparivartaḥ pañcamaḥ
५ सुभूतिपरिवर्तः पञ्चमः।



अथ खल्वायुष्मान् शारद्वतीपुत्र आयुष्मन्तं सुभूतिमेतदवोचत्-किमायुष्मन् सुभूते तूष्णींभावेनातिनामयसि ? किं न प्रतिभाति ते प्रज्ञापारमितामारभ्य अयं शास्ता स्वयं संमुखीभूतः, इयं च पर्षद् भाजनीभूता गम्भीराया धर्मदेशनायाः ? शुद्धेयमायुष्मन् सुभूते पर्षत्, आकाङ्क्षति च गम्भीरं धर्मं श्रोतुम्॥



एवमुक्ते आयुष्मान् सुभूतिरायुष्मन्तं शारिपुत्रमेवमाह-नाहं तमायुष्मन् धर्मं समनुपश्यामि यं मे आरभ्य प्रतिभायात्-न चाहमायुष्मन् शारद्वतीपुत्र प्रज्ञापारमितां समनुपश्यामि, न च बोधिसत्त्वं नापि प्रतिभानम्, नापि यत्प्रतिभायात्, नापि येन प्रतिभायात्, नापि यतः प्रतिभायात्। एवं समनुपश्यन् नाहमायुष्मन् शारद्वतीपुत्र प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां यच्च प्रतिभायात्, येन च प्रतिभायात्, यतश्च प्रतिभायात्, यस्य च प्रतिभायात्, किमिति निर्देक्ष्यामि, किं मे आरभ्य प्रतिभास्यति। एषैवात्र आयुष्मन् शारद्वतीपुत्र प्रज्ञापारमिता योऽव्याहारः, अनुदाहारः, अनभिहारः, अनभिलापः। न हि आयुष्मन् शारद्वतीपुत्र प्रज्ञापारमिता शक्योदाहार्तुं वा, प्रव्याहर्तुं वा, अभिलपितुं वा। यैवं विसर्जना, इयं प्रज्ञापारमिता। न हि आयुष्मन् शारद्वतीपुत्र प्रज्ञापारमिता अतीता वा अनागता वा प्रत्युत्पन्ना वा। न हि आयुष्मन् शारद्वतीपुत्र प्रज्ञापारमिता अतीतलक्षणा वा शक्या निर्देष्टुम्, अनागतलक्षणा वा प्रत्युत्पन्नलक्षणा वा। अलक्षणा अव्यवहारा एषा आयुष्मन् शारद्वतीपुत्र प्रज्ञापारमिता। नाहमायुष्मन् शारद्वतीपुत्र प्रज्ञापारमिताया लक्षणं समनुपश्यामि, येन लक्षणेन प्रज्ञापारमिता निर्दिश्येत। न हि आयुष्मन् शारद्वतीपुत्र यद्रूपस्य अतीतलक्षणं वा अनागतलक्षणं वा प्रत्युत्पन्नलक्षणं वा, सा प्रज्ञापारमिता। नापि यद्वेदनासंज्ञासंस्कारविज्ञानानामतीतलक्षणं वा अनागतलक्षणं वा प्रत्युत्पन्नलक्षणं वा सा प्रज्ञापारमिता। यच्च आयुष्मन् शारद्वतीपुत्र अतीतानागतप्रत्युत्पन्नरूपलक्षणस्य तथता अवितथता अनन्यतथता यावत्तथता, सा प्रज्ञापारमिता। या च अतीतानागतप्रत्युत्पन्नानां वेदनासंज्ञासंस्कारविज्ञानानां तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता। या च आयुष्मन् शारद्वतीपुत्र अतीतानागतप्रत्युत्पन्नस्य रूपवेदनासंज्ञासंस्कारविज्ञानलक्षणस्य तथता अवितथता अनन्यतथता यावत्तथता, सा न शक्या प्रज्ञपयितुं वा उदाहर्तुं वा अभिलपितुं वा वाक्कर्मणा वा विसर्जयितुम्। य आयुष्मन् शारद्वतीपुत्र एवं प्रज्ञापारमितानिर्देशमवतरति, स प्रज्ञापारमितां बुध्यते। न हि आयुष्मन् शारद्वतीपुत्र प्रज्ञापारमिता कस्यचिद्धर्मस्य निर्देशलक्षणेन प्रत्युपस्थिता, न रूपनिदर्शनलक्षणेन प्रत्युपस्थिता, न वेदनासंज्ञासंस्कारविज्ञाननिर्देशलक्षणेन प्रत्युपस्थिता, न संस्कारनिर्देशलक्षणेन, न प्रतीत्यसमुत्पादनिर्देशलक्षणेन, न नामरूपलक्षणेन, नात्मलक्षणेन, न सत्त्वलक्षणेन, न धर्मधातुलक्षणेन, न संयोगलक्षणेन, न विसंयोगलक्षणेन, न हेतुलक्षणेन, न प्रत्ययलक्षणेन, न दुःखलक्षणेन, न सुखलक्षणेन, न व्यवस्थानलक्षणेन नाव्यवस्थानलक्षणेन, नोत्पादलक्षणेन न व्ययलक्षणेन, न संक्लेशलक्षणेन न व्यवदानलक्षणेन, न प्रकृतिलक्षणेन, (न) संवृतिलक्षणेन न परमार्थलक्षणेन, न सत्यलक्षणेन न मृषालक्षणेन, न संक्रान्तिलक्षणेन नावक्रान्तिलक्षणेन प्रत्युपस्थिता। तत्कस्य हेतोः ? सर्वलक्षणविगता हि आयुष्मन् शारद्वतीपुत्र प्रज्ञापारमिता। सा न कस्यचिद्दर्शनमुपैति-इयं वा प्रज्ञापारमिता, इह वा प्रज्ञापारमिता, अनेन वा प्रज्ञापारमिता, अस्य वा प्रज्ञापारमितेति॥



नाहमायुष्मन् शारद्वतीपुत्र तं धर्मं समनुपश्यामि येन धर्मेण प्रज्ञापारमिता निर्दिश्येत। न हि आयुष्मन् शारद्वतीपुत्र प्रज्ञापारमिता कस्यचिद्धर्मस्य निदर्शनमुपैति वा उत्पश्यति वा। न हि आयुष्मन् शारद्वतीपुत्र प्रज्ञापारमिता रूपस्य निदर्शनमुपैति, न वेदनासंज्ञासंस्कारविज्ञानानां निदर्शनमुपैति, न चक्षुःश्रोत्रघ्राणजिह्वाकायमनसां निदर्शनमुपैति। नापि धात्वायतनानां निदर्शनमुपैति, न प्रतीत्यसमुत्पादस्य निदर्शनमुपैति, नापि विद्याविमुक्त्योर्निदर्शनमुपैति। यापि सा आयुष्मन् शारद्वतीपुत्र प्रज्ञा लोकोत्तरा निर्वेधगामिनी, तस्या अपि प्रज्ञापारमिता निदर्शनं नोपैति। तद्यथा आयुष्मन् शारद्वतीपुत्र धर्मो निदर्शनं नोपैति कस्यचिद्धर्मस्य, कथं तस्या एव उदाहारनिर्देशो भविष्यति ? अपि तु खलु आयुष्मन् शारद्वतीपुत्र य एवं धर्माणां धर्मनयं प्रजानन्ति, ते प्रज्ञापारमितानिर्देशं प्रजानन्ति॥



न हि आयुष्मन् शारद्वतीपुत्र प्रज्ञापारमिता कस्यचिद्धर्मस्य संदर्शनेन प्रत्युपस्थिता, नापि निदर्शनेन्। न हि आयुष्मन् शारद्वतीपुत्र प्रज्ञापारमिता रूपस्य संदर्शनेन प्रत्युपस्थिता, न निदर्शनेन्। न वेदनासंज्ञासंस्कारविज्ञानानां संदर्शनेन प्रत्युपस्थिता, न निदर्शनेन। न नामरूपस्य संदर्शनेन प्रत्युपस्थिता, न निदर्शनेन। न संक्लेशस्य न व्यवदानस्य संदर्शनेन प्रत्युपस्थिता, न निदर्शनेन। न प्रतीत्यसमुत्पादस्य संदर्शनेन् प्रत्युपस्थिता, न निदर्शनेन। न विपर्यासानां संदर्शनेन प्रत्युपस्थिता, न निदर्शनेन। न सत्त्वधातोः, नात्मधातोः संदर्शनेन प्रत्युपस्थिता, न निदर्शनेन। न पृथिवीधातोः, न अप्तेजोवायुधातोः संदर्शनेन प्रत्युपस्थिता, न निदर्शनेन। न कामधातोः, न रूपधातोः, न आरूप्यधातोः संदर्शनेन प्रत्युत्पस्थिता, न निदर्शनेन। न दानमात्सर्यशीलदौःशील्यसंदर्शनेन प्रत्युपस्थिता न निदर्शनेन। न क्षान्तिव्यापादवीर्यकौसीद्यध्यानविक्षेपप्रज्ञादौष्प्रज्ञ्यसंदर्शनेन प्रत्युपस्थिता, न निदर्शनेन। न स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाप्रमाणेन्द्रियबलबोध्यङ्गविमोक्षसमाधिसमापत्त्यभिज्ञासंदर्शनेन प्रत्युपस्थिता, न निदर्शनेन। न सत्यमार्गफलसंदर्शनेन प्रत्युपस्थिता, न निदर्शनेन। न श्रावकप्रत्येकबुद्धबोधिसत्त्वभूमिसंदर्शनेन प्रत्युपस्थिता, न निदर्शनेन। न श्रावकधर्म न प्रत्येकबुद्धधर्म, न बोधिसत्त्वधर्म, न बुद्धधर्मसंदर्शनेन प्रत्युपस्थिता, न निदर्शनेन। नापि कस्यचिद्धर्मस्य ज्ञानेन वा अज्ञानेन वा संदर्शनेन वा निदर्शनेन वा प्रत्युपस्थिता। नाप्यनुत्पादज्ञानस्य वा क्षयज्ञानस्य वा निरोधज्ञानस्य वा संदर्शनेन वा निदर्शनेन वा प्रत्युपस्थिता। नापि निर्वाणस्य संदर्शनेन वा निदर्शनेन वा प्रत्युपस्थिता। तद्यथा आयुष्मन् शारद्वतीपुत्र न कस्यचिद्धर्मस्य संदर्शनेन वा प्रत्युपस्थिता निदर्शनेन वा, कथं तस्या व्यवहारं निर्देक्ष्यामि ? अपि तु खलु आयुष्मन् शारद्वतीपुत्र य एवं निर्देशमवबुध्यते- न प्रज्ञापारमिता कस्यचिद्धर्मस्य संदर्शनेन वा निदर्शनेन वा प्रत्युपस्थितेति, स प्रज्ञापारमितां जानीते, प्रज्ञापारमितानिर्देशं च प्रजानीते। न हि आयुष्मन् शारद्वतीपुत्र प्रज्ञापारमिता कस्यचिद्धर्मस्य योगाय वा वियोगाय वा प्रत्युपस्थिता। तत्कस्माद्धेतोः ? न हि आयुष्मन् शारद्वतीपुत्र प्रज्ञापारमिता रूपं संयोजयति न विसंयोजयति। एवं न वेदनासंज्ञासंस्कारविज्ञानानि संयोजयति न विसंयोजयति। न प्रतीत्यसमुत्पादं संयोजयति न विसंयोजयति। न कामधातुं न रूपधातुं नारूप्यधातुं संयोजयति न विसंयोजयति। न पृथिवीधातुं नाब्धातुं न तेजोधातुं न वायुधातुं संयोजयति न विसंयोजयति। न सत्त्वधातुं नात्मधातुं न धर्मधातुं नाकाशधातुं संयोजयति न विसंयोजयति। न दानं न मात्सर्यं न शीलं न दौःशील्यं न क्षान्तिं न व्यापादं न वीर्यं न कौसीद्यं न ध्यानं न विक्षेपं न प्रज्ञां न दौष्प्रज्ञ्यं संयोजयति न विसंयोजयति। न स्मृत्युपस्थानानि न सम्यक्प्रहाणानि न ऋद्धिपादाप्रमाणानि नेन्द्रियबलबोध्यङ्गध्यानविमोक्षसमाधिसमापत्त्यभिज्ञाः संयोजयति न विसंयोजयति। न मार्गं न मार्गफलं न दुःखं न दुःखसमुदयं न निरोधं संयोजयति न विसंयोजयति। न श्रावकभूमिं न प्रत्येकबुद्धभूमिं न बोधिसत्त्वभूमिं न बुद्धभूमिं संयोजयति न विसंयोजयति। न श्रावकधर्मान् न प्रत्येकबुद्धधर्मान् न बोधिसत्त्वधर्मान् न बुद्धधर्मान् संयोजयति न विसंयोजयति। नातीतानागतप्रत्युत्पन्नत्र्यध्वसमतां संयोजयति न विसंयोजयति। नासङ्गतानुत्पादज्ञानं न क्षयज्ञानं न निर्वाणं संयोजयति न विसंयोजयति। तद्यथा आयुष्मन् शारद्वतीपुत्र धर्मो न कस्यचिद्धर्मस्य संयोगाय वा विसंयोगाय वा प्रत्युपस्थितः, कथं तस्य निर्देशो भविष्यति ? इदमायुष्मन् शारद्वतीपुत्र अर्थवशं संपश्यन्नहमेवं वदामि-नाहं तं धर्मं समनुपश्यामि यो मे धर्मः प्रतिभायात्, येन मे प्रतिभायात्, यतो मे प्रतिभायात्, यं मे आरभ्य प्रतिभायादिति॥



आर्यप्रज्ञापारमितायां सुभूतिपरिवर्तः पञ्चमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project