Digital Sanskrit Buddhist Canon

४ औपम्यपरिवर्तश्चतुर्थः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 4 aupamyaparivartaścaturthaḥ
४ औपम्यपरिवर्तश्चतुर्थः।



अथ खलु भगवान् सुविक्रान्तविक्रामिणं बोधिसत्त्वं महासत्त्वमेतदवोचत्-तद्यथापि नाम सुविक्रान्तविक्रामिन् स्वप्नदर्शी पुरुषः स्वप्नस्वभावनिर्देशं च निर्दिशति, न च स्वप्नस्वभावनिर्देशः कश्चित्संविद्यते। तत्कस्माद्धेतोः ? स्वप्न एव न संविद्यते, कुतः पुनः स्वप्नस्वभावनिर्देशो भविष्यति ? एवमेव सुविक्रान्तविक्रामिन् प्रज्ञापारमितायाः स्वभावश्च निर्दिश्यते, न च प्रज्ञापारमितायाः स्वभावः कश्चित्संविद्यते। तद्यथापि नाम सुविक्रान्तविक्रामिन् स्वप्नो न कस्यचिद्धर्मस्य निदर्शनेन प्रत्युपस्थितः। एवमेव प्रज्ञापारमिता न कस्यचिद्धर्मस्य निदर्शनेन प्रत्युपस्थिता॥



तद्यथापि नाम सुविक्रान्तविक्रामिन् मायादर्शी पुरुषो मायास्वभावनिर्देशं च निर्दिशति, न च मायायाः स्वभावनिर्देशः कश्चित्संविद्यते, कुतः पुनर्मायास्वभावनिर्देशस्य स्वभावो भविष्यति ? एवमेव प्रज्ञापारमिता च निर्दिश्यते, न च प्रज्ञापारमितायाः स्वभावनिर्देशः कश्चित्संविद्यते। तद्यथापि नाम सुविक्रान्तविक्रामिन् माया न कस्यचिद्धर्मस्य अभिनिर्वृत्तये प्रत्युपस्थिता, एवमेव प्रज्ञापारमिता न कस्यचिद्धर्मस्य अभिनिर्वृत्तये प्रत्युपस्थिता॥



तद्यथापि नाम सुविक्रान्तविक्रामिन् प्रतिभासदर्शी पुरुषः प्रतिभासस्वभावनिर्देशं च निर्दिशति, न च कश्चित्प्रतिभासस्वभावः संविद्यते, कुतः पुनः प्रतिभासस्वभावनिर्देशो भविष्यति ? एवमेव सुविक्रान्तविक्रामिन् प्रज्ञापारमिता च निर्दिश्यते, न च कश्चित्प्रज्ञापारमितास्वभावः संविद्यते, कुतः पुनः प्रज्ञापारमितास्वभावनिर्देशो भविष्यति ? तद्यथापि नाम सुविक्रान्तविक्रामिन् प्रतिभासो न कस्यचिद्धर्मस्य निर्दशनेन प्रत्युपस्थितः, एवमेव प्रज्ञापारमिता न कस्यचिद्धर्मस्य निदर्शनेन प्रत्युपस्थिता॥



तद्यथापि नाम सुविक्रान्तविक्रामिन् मरीचिदर्शी पुरुषो मरीचिदर्शनं च निर्दिशति, न च मरीचिदर्शन (स्वभावः कश्चित्) संविद्यते, कुतः पुनर्मरीचिदर्शनस्वभावो भविष्यति ? एवमेव सुविक्रान्तविक्रामिन् प्रज्ञापारमिता न निर्दिश्यते, न च पुनः प्रज्ञापारमितायाः स्वभावनिर्देशः कश्चित्संविद्यते। तद्यथापि नाम सुविक्रान्तविक्रामिन् मरीचिर्न कस्यचिद्धर्मस्य निदर्शनेन प्रत्युपस्थिता, एवमेव प्रज्ञापारमिता न कस्यचिद्धर्मस्य निदर्शनेन प्रत्युपस्थिता॥



तद्यथापि नाम सुविक्रान्तविक्रामिन् प्रतिश्रुत्कागोचरस्थः पुरुषः प्रतिश्रुत्कायाश्च शब्दं शृणोति, न च तं समनुपश्यति। यदा पुनः स्वयमेवानुभाषते, तदा तं शब्दं शृणोति। एवमेव प्रज्ञापारमितानिर्देशपदं चाधिगच्छति श्रवणाय, न च कस्यचिद्धर्मस्य निर्देशश्रवणाय गच्छति अन्यत्र यदाभिभाष्यते तदा आज्ञायते, श्रवणपथं चाधिगच्छति॥



तद्यथापि नाम सुविक्रान्तविक्रामिन् फेनपिण्डदर्शी पुरुषः फेनपिण्डस्वभावं च निर्दिशति, न च फेनपिण्डस्वभाव उपलभ्यते अध्यात्मं वा बहिर्धा वा, कुतः पुनस्तन्निर्देशस्वभावोपलब्धिर्भविष्यति ? एवमेव सुविक्रान्तविक्रामिन् प्रज्ञापारमिता च निर्दिश्यते, न च प्रज्ञापारमितास्वभाव उपलभ्यते। तद्यथापि नाम सुविक्रान्तविक्रामिन् फेनपिण्डो न कस्यचिद्धर्मस्य अभिनिर्वृत्तिस्वभावमुपैति, एवमेव प्रज्ञापारमिता न कस्यचिद्धर्मस्य अभिनिर्वृत्तस्वभावमुपैति॥



तद्यथापि नाम सुविक्रान्तविक्रामिन् बुद्बुददर्शी पुरुषो बुद्बुदस्वभावं च निर्दिशति, न च बुद्बुदस्वभावः संविद्यते, कुतः पुनर्बुद्बुदस्वभावनिर्देशो भविष्यति ? एवमेव सुविक्रान्तविक्रामिन् प्रज्ञापारमिता च निर्दिश्यते, न च प्रज्ञापारमितायाः स्वभावः संविद्यते। तद्यथापि नाम सुविक्रान्तविक्रामिन् बुद्बुदो न कस्यचिद्धर्मस्य अभिनिर्वृत्तिस्वभावेन प्रत्युपस्थितः, एवमेव सुविक्रान्तविक्रामिन् प्रज्ञापारमिता न कस्यचिद्धर्मस्य अभिनिर्व्ऱ्इत्तिस्वभावेन प्रत्युपस्थिता॥



तद्यथापि नाम सुविक्रान्तविक्रामिन् पुरुषः कदल्याः सारं पर्येषमाणो नोपलभते, अथ च तस्याः पत्रैः कार्यं करोति, एवमेव सुविक्रान्तविक्रामिन् प्रज्ञापारमितायाः सारं न संविद्यते, प्रज्ञापारमिताया निर्देशः कार्यं च करोति॥



तद्यथापि नाम सुविक्रान्तविक्रामिन् पुरुष आकाशनिदर्शनेन व्यवहारति, न चाकाशस्य किंचिन्निदर्शनम् संविद्यते। एवमेव सुविक्रान्तविक्रामिन् प्रज्ञापारमितेति व्यवहारः क्रियते, न च कस्यचिन्निदर्शनेन व्यवह्रियते। तद्यथापि नाम सुविक्रान्तविक्रामिन् नाकाशं न व्यवह्रियते, न च कस्यचिद्धर्मस्य निदर्शनेन वा परिनिष्पत्त्या वा व्यवह्रियते। एवमेव सुविक्रान्तविक्रामिन् प्रज्ञापारमिता च व्यवह्रियते, न च कस्यचिद्धर्मस्य निदर्शनेन वा परिनिष्पत्त्या वा व्यवह्रियते॥



तद्यथापि नाम सुविक्रान्तविक्रामिन् छायेति चातपश्चेति व्यवह्रियते, न च तौ कस्यचिद्धर्मस्य परिनिष्पत्तये प्रत्युपस्थितौ, अवभासश्च विज्ञायते। एतमेव सुविक्रान्तविक्रामिन् प्रज्ञापारमिता व्यवहारपदं गच्छति, न च कस्यचिद्धर्मस्य निदर्शनेन व्यवहारपदमागच्छति, अवभासं च करोति सर्वधर्माणाम्॥



तद्यथापि नाम सुविक्रान्तविक्रामिन् मणिरत्नमुत्तप्तं महतावभासेन प्रत्युपस्थितं भवति, न च सोऽवभासोऽध्यात्मं वा बहिर्धा वा दर्शनमुपैति। एवमेव सुविक्रान्तविक्रामिन् प्रज्ञापारमिता अवभासकृत्येन प्रत्युपस्थिता, न च सोऽवभासोऽध्यात्मं वा बहिर्धा वा दर्शनमुपैति॥



तद्यथापि नाम सुविक्रान्तविक्रामिन् तैलप्रद्योतस्य ध्मायतो नास्यार्चिषो मुहूर्तमपि संतिष्ठन्ते, अवभासं च कुर्वन्ति, तेनावभासेन रूपाणि दर्शनमागच्छन्ति। एवमेव सुविक्रान्तविक्रामिन् प्रज्ञापारमिता न कस्मिंश्चिद्धर्मेऽवतिष्ठते, धर्माणां चावभासं करोति, तेन चावभासेन सर्वधर्मा यथाभूतदर्शनमागच्छन्त्यार्याणाम्॥



अथ खल्वायुष्मान् शारद्वतीपुत्रो भगवन्तमेतदवोचत्-आश्चर्यं भगवन् प्रज्ञापारमिता च निर्दिष्टा, प्रज्ञापारमितायाश्च अपरिनिष्पत्तिर्निर्दिष्टा। एवमुक्ते भगवानायुष्मन्तं शारद्वतीपुत्रमेतदवोचत्-एवमेतच्छारद्वतीपुत्र, एवमेतत्। अपरिनिष्पन्ना प्रज्ञापारमिता रूपापरिनिष्पत्तितः। वेदनासंज्ञासंस्कारविज्ञानापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता। अविद्यापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता। एवं संस्कारापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता। विज्ञानापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता। नामरूपापरिनिष्पत्तितः, षडायतनापरिनिष्पत्तितः, स्पर्शापरिनिष्पत्तितः, वेदनापरिनिष्पत्तितः, तृष्णापरिनिष्पत्तितः, उपादानापरिनिष्पत्तितः, भवापरिनिष्पत्तितः, जात्यपरिनिष्पत्तितः, जराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता। धात्वायतनानित्यदुःखानात्मशान्तविपर्याशनीवरणदृष्टिविचरिताचयोपचयापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता। सुखदुःखादुःखासुखापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता। उदयव्ययस्थित्यन्यथात्वापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता। समुदयास्तंगतात्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारककारयित्रुत्थापकसमुत्थापकवेदकवेदयितृज्ञातृज्ञापकानिष्पत्तितोऽपरिनिष्पना प्रज्ञापारमिता। सत्यमृषासंस्कृतासंस्कृतगमनागमनसनिदर्शनानिदर्शनाध्यात्मबहिर्धापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता। पृथिव्यप्तेजोवायुकामरूपारूप्याकाशविज्ञानधर्मधात्वपरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता। कर्मविपाकहेतुप्रत्ययोच्छेदशाश्वतातीतानागतप्रत्युत्पन्नपूर्वान्तापरान्तमध्यान्तशीलदौःशील्यक्षान्तिव्यापादवीर्यकौसीद्यध्यान-विक्षेपप्रज्ञादौष्प्रज्ञ्यचित्तमनोविज्ञानानन्तरायच्युत्युपपत्तिसंक्लेशव्यवदानस्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गार्यसत्या-प्रमाणध्यानविमोक्षसमाधिसमापत्त्यभिज्ञाशून्यतानिमित्ताप्रणिहितकुशलाकुशलसास्रवानास्रवलौकिकलोकोत्तरसावद्यानवद्यसंस्कृतासंस्कृत-व्याकृताव्याकृतकृष्णशुक्लाकृष्णशुक्लपर्यापन्नापर्यापन्नहीनप्रणीतमध्यरागद्वेषमोहदृष्टश्रुतमतविज्ञातमन्यनास्थितवितर्कविचारारम्बण-

मायेर्ष्यामात्सर्यसंयोगद्वयलक्षणानुत्पादानभिसंस्कारशमथविदर्शनाविद्याविमुक्तिक्षयविरागनिरोधसर्वोपधिप्रतिनिसर्गसंवृतिपरमार्थ-

श्रावकभूमिप्रत्येकबुद्धभूमिसर्वज्ञानाज्ञानासङ्गज्ञानस्वयंभूज्ञानासमसमज्ञानबोधिसत्त्वप्रणिधानश्रावकप्रत्येकबुद्धसंपदप्रमाणपर्यापन्ना-

समसमसर्वज्ञज्ञानसर्वधर्मयथावदनिदर्शनसर्वधर्मज्ञानदर्शनापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापामिता। सत्त्वपरिपाकापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता। लक्षणसंपद्बुद्धक्षेत्रपरिशुद्धिबुद्धबलवैशारद्याष्टादशावेणिकबुद्धधर्मापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता। निर्वाणापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता, यावत् सर्वधर्मकुशलाकुशलापरिनिष्पत्तितोऽपरिनिष्पन्ना प्रज्ञापारमिता। सर्वमेतद्विस्तरेण कर्तव्यम्॥



तद्यथापि नाम शारद्वतीपुत्र आकाशमरूप्यनिदर्शनमभावोऽपरिनिष्पन्नम्, एवमेव प्रज्ञापारमिता अरूपिण्यनिर्दर्शना अभावोऽपरिनिष्पन्ना। तद्यथापि नाम शारद्वतीपुत्र इन्द्रायुधं नानारङ्गविचित्रं च संदृश्यते, न चास्य काचिद्रङ्गनिष्पत्तिः संविद्यते नोपलभ्यते, एवमेव प्रज्ञापारमिता नानानिदर्शनैश्च प्रत्युपस्थिता, न चास्या निदर्शनस्वभाव उपलभ्यते। तद्यथापि नाम शारद्वतीपुत्र आकाशे न जातु केनचित्पञ्चाङ्गुलिपरिनिष्पत्तिर्दृष्टपूर्वा, शारद्वतीपुत्र न जातु केनचित्प्रज्ञापारमितापरिनिष्पत्तिस्वभावो दृष्टपूर्वः॥



एवमुक्ते आयुष्मान् शारद्वतीपुत्रो भगवन्तमेतदवोचत्-दुर्दृशेयं भगवन् प्रज्ञापारमिता। आह-तथा हि शारद्वतीपुत्र न कस्यचिद्दर्शनमुपैति। आह-दुरनुबोधा भगवन् प्रज्ञापारमिता। आह-तथा हि शारद्वतीपुत्र नास्यां कश्चिदुपलभ्यते योऽभिसंबुद्धः। आह-अनिदर्शनेयं भगवन् प्रज्ञापारमिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कस्यचिद्धर्मस्य निदर्शनेन प्रत्युपस्थिता। आह-अस्वभावेयं भगवन् प्रज्ञापारमिता। आह-रूपवेदनासंज्ञासंस्कारविज्ञानास्वभावत्वात् शारद्वतीपुत्र अस्वभावेयं प्रज्ञापारमिता। धात्वायतनप्रतीत्यसमुत्पादास्वभावतोऽस्वभावा प्रज्ञापारमिता। विपर्यासनीवरणदृष्टिगततृष्णाविचरितास्वभावतोऽस्वभावा प्रज्ञापारमिता।

आत्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारककारयित्रुत्थापकसमुत्थापकवेदकवेदयित्रस्वभावतोऽस्वभावा प्रज्ञापारमिता। पृथिव्यप्तेजोवाय्वाकाशविज्ञानधर्मधात्वस्वभावतोऽस्वभावा प्रज्ञापारमिता। कामरूपारूप्यधात्वस्वभावतोऽस्वभावा प्रज्ञापारमिता। शीलदौःशील्यक्षान्तिव्यापादवीर्यकौसीद्यध्यानविक्षेपप्रज्ञादौष्प्रज्ञ्यास्वभावतोऽस्वभावा प्रज्ञापारमिता। बोधिपक्षधर्मास्वभावतोऽस्वभावा प्रज्ञापारमिता। आर्यसत्यशमथविदर्शनाभिज्ञाध्यानविमोक्षसमाधिसमापत्त्यस्वभावतोऽस्वभावा प्रज्ञापारमिता। विद्याविमुक्त्यस्वभावतोऽस्वभावा प्रज्ञापारमिता। क्षयविरागनिरोधास्वभावतोऽस्वभावा प्रज्ञापारमिता। अनुत्पादज्ञाननिरोधज्ञानास्वभावतोऽस्वभावा प्रज्ञापारमिता। निर्वाणास्वभावतोऽस्वभावा प्रज्ञापारमिता। श्रावकभूमिप्रत्येकबुद्धभूमिबुद्धभूम्यस्वभावतोऽस्वभावा प्रज्ञापारमिता। परमार्थज्ञानदर्शनसंवृत्यस्वभावतोऽस्वभावा प्रज्ञापारमिता। असङ्गज्ञानसर्वज्ञज्ञानास्वभावतोऽस्वभावा प्रज्ञापारमिता॥



एवमुक्ते आयुष्मान् शारद्वतीपुत्र भगवन्तमेतदवोचत्-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य परिनिष्पत्तये प्रत्युपस्थिता न निरोधाय। आह- तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कस्यचिद्धर्मस्य उत्पादाय वा परिनिष्पत्तये वा निरोधाय वा आत्मतायै वा अनात्मतायै वा प्रत्युपस्थिता। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य आरम्बणयोगेन प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र निरारम्बणाः सर्वधर्माः। तथा हि त एव धर्मा न संविद्यन्ते, यत्रारम्बणं भवेत्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य हानये वा वृद्धये वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्मं समनुपश्यति, यो धर्मो हीयते वा वर्धते वा। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य समतिक्रमाय प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यं समतिक्रामेत्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य अपचयाय वा उपचयाय वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यस्य अपचयो वा उपचयो वा भवेत्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य संयोगाय वा विसंयोगाय वा प्रत्युपस्थिता। आह- तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यं धर्मं संयोजयेद्वा विसंयोजयेद्वा। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य नये वा विनये वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यो धर्मो नेतव्यो वा विनेतव्यो वा। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य उपकाराय वा अपकाराय वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यस्य उपकारं वा अपकारं वा कुर्यात्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य संभवाय वा असंभवाय वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यो धर्मः संभवेद्वा न संभवेद्वा। आह - नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य संप्रयोगाय वा विप्रयोगाय वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यो धर्मः संप्रयुज्यते वा विप्रयुज्यते वा। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य संवासाय वा असंवासाय वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यो धर्मः संवसेद्वा न संवसेद्वा। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य प्रवृत्तये वा अप्रवृतये वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यस्य धर्मस्य प्रवृत्तिर्वा अप्रवृत्तिर्वा भवेत्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य क्रियया वा करणेन वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यस्य धर्मस्य क्रिया वा करणं वा भवेत्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य समतया वा विषमतया वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यो धर्मः समो वा विषमो वा स्यात्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य संग्रहाय वा असंग्रहाय वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यो धर्मः संग्रहीतव्यो वा उत्स्रष्टव्यो वा स्यात्। आह-नेयं भगवन् प्रज्ञापारमिता केनचित्कार्येण प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यो धर्मः कार्यकरः स्यात्॥



आह-गम्भीरेयं भगवन् प्रज्ञापारमिता। आह-रूपगम्भीरतया शारद्वतीपुत्र गम्भीरा प्रज्ञापारमिता। एवं वेदनासंज्ञासंस्कारविज्ञानगम्भीरतया शारद्वतीपुत्र गम्भीरा प्रज्ञापारमिता। अविद्यागम्भीरतया गम्भीरा प्रज्ञापारमिता।

संस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवजातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासगम्भीरतया गम्भीरा प्रज्ञापारमिता। विपर्यासगम्भीरतया गम्भीरा प्रज्ञापारमिता। पञ्चनीवरणगम्भीरतया गम्भीरा प्रज्ञापारमिता। दृष्टिगम्भीरतया गम्भीरा प्रज्ञापारमिता। आत्मगम्भीरतया गम्भीरा प्रज्ञापारमिता। सत्त्वगम्भीरतया गम्भीरा प्रज्ञापारमिता। प्रपञ्चगम्भीरतया गम्भीरा प्रज्ञापारमिता। अप्रपञ्चगम्भीरतया गम्भीरा प्रज्ञापारमिता। शीलदौःशील्यगम्भीरतया गम्भीरा प्रज्ञापारमिता।

क्षान्तिव्यापादवीर्यकौसीद्यध्यानविक्षेपप्रज्ञादौष्प्रज्ञ्येन्द्रियबलबोध्यङ्गस्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाविपर्यासार्याष्टाङ्गमार्ग-दुःखसमुदयनिरोधमार्गविमुक्तज्ञानदर्शनातीतानागतप्रत्युत्पन्नत्र्यध्वसमतागम्भीरतया गम्भीरा प्रज्ञापारमिता। चतुर्वैशारद्यर्द्धिपादाभिज्ञागम्भीरतया गम्भीरा प्रज्ञापारमिता। अतीतानागतप्रत्युत्पन्नासङ्गज्ञानगम्भीरतया गम्भीरा प्रज्ञापारमिता।

बुद्धधर्मगम्भीरतया गम्भीरा प्रज्ञापारमिता। क्षयज्ञानानुत्पादज्ञाननिरोधज्ञानाभिसंस्कारज्ञानविरागज्ञानगम्भीरतया गम्भीरा प्रज्ञापारमिता। नीवरणगम्भीरतया गम्भीरा प्रज्ञापारमिता॥



तद्यथापि नाम शारद्वतीपुत्र समुद्रो गम्भीरो विपुलोऽप्रमेयः, एवमेव प्रज्ञापारमिता गम्भीरा विपुला अप्रमेया। गम्भीरेति शारद्वतीपुत्र अप्रमेयधर्मरत्नसंचयभूता, यस्या गाधो न लभ्यते। गम्भीरेति शारद्वतीपुत्र नास्या गतिर्लभ्यते। गम्भीरेति शारद्वतीपुत्र नास्या गुणपर्यन्तोऽधिगम्यते। तद्यथापि नाम शारद्वतीपुत्र समुद्रो महासागरः सर्वरत्नसंनिचयोऽप्रमेयरत्नभरितो महारत्नपरिपूर्णः, एवमेव प्रज्ञापारमिता सर्वधर्मरत्नसंनिचया महाधर्मरत्नसंनिचया अप्रमेयधर्मरत्नसंनिचया। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य निदर्शनेन प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कस्यचिद्धर्मस्योपलम्भेन प्रत्युपस्थिता, यं धर्मं निदर्शयेत्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य ज्ञानेन वा अज्ञानेन वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यस्य धर्मस्य ज्ञानं वा अज्ञानं वा स्यात्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य आरक्षायै वा गुप्त्यै वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यस्य धर्मस्य आरक्षां वा गुप्तिं वा कुर्यात्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य संग्रहाय वा परिग्रहाय वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यस्य धर्मस्य संग्रहं वा परिग्रहं वा कुर्यात्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य निश्रयेण वा अनिश्रयेण वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्मं समनुपश्यति, यस्य धर्मस्य निश्रयं वा अनिश्रयं वा कुर्यात्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य आलयेन वा विलयेन वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यस्मिन् आलयं वा विलयं वा कुर्यात्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य अभिनिवेशेन प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यस्मिन्नभिनिवेशं कुर्यात्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य अध्यवसानेन प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, न समनुपश्यति, यस्मिन्नध्यवसानं कुर्यात्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य संवासेन वा असंवासेन वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, येन धर्मेण सार्धं वसेत्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य संधिना वा विसंधिना वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यो धर्मः संधातव्यो वा विसंधातव्यो वा। आह-नेय भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य रागेण वा विरागेण वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यस्मिन् धर्मे रज्येत वा विरज्येत वा। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य द्वेषेण वा अद्वेषेण वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यो धर्म सद्वेषो वा विगतद्वेषो वा भवेत्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य मोहेन वा विगतमोहेन वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते, यो धर्मो मूढो वा स्याद्विगतमोहो वा। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य ज्ञापयित्री वा अज्ञापयित्री वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते न समनुपश्यति, यं धर्मं जानीयात् यस्य वा धर्मस्य ज्ञापयित्री वा भवेत्। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य प्रकृत्या वा अप्रकृत्या वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कस्यचिद्धर्मस्य प्रकृतिं वा समनुपश्यति। आह-नेयं भगवन् प्रज्ञापारमिता कस्यचिद्धर्मस्य शुद्ध्या वा विशुद्ध्या वा प्रत्युपस्थिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्मं समनुपश्यति, यं धर्मं शोधयेद्वा विशोधयेद्वा॥



आह-प्रकृतिपरिशुद्धेयं भगवन् प्रज्ञापारमिता। आह-रूपपरिशुद्धितः शारद्वतीपुत्र परिशुद्धा प्रज्ञापारमिता। एवं वेदनासंज्ञासंस्कारविज्ञानपरिशुद्धितः शारद्वतीपुत्र परिशुद्धा प्रज्ञापारमिता। अविद्यापरिशुद्धितः परिशुद्धा प्रज्ञापारमिता, संस्कारपरिशुद्धितो विज्ञानपरिशुद्धितो नामरूपपरिशुद्धितः षडायतनपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता, स्पर्शवेदनातृष्णोपादानभवजातिजरामरणपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता, शोकपरिदेवदुःखदौर्मनस्योपायासपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। विपर्यासनीवरणदृष्टिगतपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। रागद्वेषमोहपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। आत्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारककारयितृवेदयित्रुत्थापकसमुत्थापकज्ञातृदर्शकपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। उच्छेदशाश्वतपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। अन्तानन्तपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। दानपारमितापरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। शीलक्षान्तिवीर्यध्यानप्रज्ञापरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। इन्द्रियबलबोध्यङ्गध्यानविमोक्षसमाधिसमापत्तिपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। मैत्रीकरुणामुदितोपेक्षापरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। स्मृत्युपस्थानसम्यक्प्रहाणपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। अविपर्यासपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। दुःखसमुदयनिरोधमार्गपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। अभिज्ञापरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। मार्गपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। श्रावकभूमिपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। प्रत्येकबुद्धभूमिपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। बुद्धभूमिपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। बुद्धधर्मसंघपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। श्रावकधर्मपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। प्रत्येकबुद्धधर्मपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। अतीतानागतप्रत्युत्पन्नदर्शनपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। असङ्गज्ञानदर्शनपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। अष्टादशावेणिकबुद्धधर्मपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। कामधातुपरिशुद्धितो रूपधातुपरिशुद्धितः आरूप्यधातुपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। पृथ्वीधातुपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। अप्तेजोवायुधातुपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता। सत्त्वधातुपरिशुद्धितो धर्मधातुपरिशुद्धितः आकाशधातुपरिशुद्धितः परिशुद्धा प्रज्ञापारमिता॥



एवमुक्ते आयुष्मान् शारिपुत्रो भगवन्तमेतदवोचत्-आश्चर्यं भगवन् यावत् प्रकृतिपरिशुद्धा प्रज्ञापारमिता। आह-आकाशपरिशुद्धितः शारद्वतीपुत्र प्रज्ञापारमिता। आह-अरूपिण्यनिदर्शना भगवन् प्रज्ञापारमिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कस्यचिद्धर्मस्य रूपपरिनिष्पत्त्या वा निदर्शनेन वा प्रत्युपस्थिता। आह-अप्रतिहतेयं भगवन् प्रज्ञापारमिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्मं समनुपश्यति यस्मिन् प्रतिहन्येत। आह-अकृतेयं भगवन् प्रज्ञापारमिता। आह-कारकानुपलब्धितः शारद्वतीपुत्र। आह-असमवसरणेयं भगवन् प्रज्ञापारमिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्मं येन धर्मेण सार्धं समवसरेत्। आह-अप्रज्ञपनीयेयं भगवन् प्रज्ञापारमिता। आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते येन धर्मेण प्रज्ञप्येत। आह-असाधारणेयं भगवन् प्रज्ञापारमिता। (आह-तथा हि शारद्वतीपुत्र प्रज्ञापारमिता न कंचिद्धर्ममुपलभते येन धर्मेण साधारणा भवेत्।) आह-अलक्षणेयं भगवन् प्रज्ञापारमिता। आह-लक्षणानुपलब्धितः शारद्वतीपुत्र। आह-अप्रतिभासेयं भगवन् प्रज्ञापारमिता। आह-प्रतिभासानुपलब्धितामुपादाय। आह-अनन्तपारमितेयं भगवन् प्रज्ञापारमिता। आह-रूपानन्ततया शारद्वतीपुत्र अनन्तपारमितेयम्। एवं वेदनासंज्ञासंस्कारविज्ञानानन्ततया अनन्तपारमितेयम्। विपर्यासानन्ततया अनन्तपारमितेयम्। नीवरणानन्ततया अनन्तपारमितेयम्। अविद्यानन्ततया संस्कारानन्ततया विज्ञाननन्ततया नामरूपानन्ततया षडायतनस्पर्शवेदनातृष्णोपादानभवजातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासानन्ततया अनन्तपारमितेयम्। दृष्टिगतानन्ततया रागद्वेषमोहानन्ततया उच्छेदशाश्वतानन्ततया पूर्वान्तकोट्यनन्ततया अनन्तपारमितेयम्। अपरान्तकोट्यनन्ततया अनन्तपारमितेयम्। दानानन्ततया शीलानन्ततया क्षान्त्यनन्ततया वीर्यानन्ततया ध्यानानन्ततया प्रज्ञानन्ततया अनन्तपारमितेयं प्रज्ञापारमिता। स्मृत्युपस्थानानन्ततया सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गानन्ततया अविपर्यासानन्ततया अनन्तपारमितेयम्। ध्यानविमोक्षसमाधिसमापत्त्यनन्ततया अनन्तपारमितेयम्। आरम्बणानन्ततया अनन्तपारमितेयम्। विद्याविमुक्तिज्ञानदर्शनानन्ततया अनन्तपारमितेयम्। श्रावकभूमिप्रत्येकबुद्धभूमिबुद्धभूम्यनन्ततया अनन्तपारमितेयम्। श्रावकधर्मप्रत्येकबुद्धधर्मबुद्धधर्मानन्ततया अनन्तपारमितेयम्। आत्मसत्त्वानन्ततया अनन्तपारमितेयम्। कामधात्वनन्ततया अनन्तपारमितेयम्। रूपधात्वनन्ततया अनन्तपारमितेयम्। आरूप्यधात्वनन्ततया अनन्तपारमितेयम्। अभिज्ञानन्ततया अनन्तपारमितेयम्। नीवरणानन्ततया अनन्तपारमितेयम्। अतीतानागतप्रत्युत्पन्नज्ञानदर्शनानन्ततया अनन्तपारमितेयम्। असङ्गानन्ततया आकाशानन्ततया धर्मधात्वनन्ततया अनन्तपारमितेयम्॥



न ह्यस्याः शारद्वतीपुत्र प्रज्ञापारमिताया अन्तो वा मध्यं वा पर्यवसानं वा उपलभ्यते, नापि केनचिदुपलब्धाः। अनन्तापर्यन्तपारमितेयं शारद्वतीपुत्र यदुत प्रज्ञापारमिता। तद्यथापि नाम शारद्वतीपुत्र आकाशस्यान्तो नोपलभ्यते, एवमेव प्रज्ञापारमिताया अन्तो नोपलभ्यते। पृथिवीधात्वनन्ततया शारद्वतीपुत्र प्रज्ञापारमितानन्तता द्रष्टव्या। अब्धात्वनन्ततया तेजोधात्वनन्ततया वायुधात्वनन्ततया विज्ञानधात्वनन्ततया प्रज्ञापारमितानन्तता अनुगन्तव्या। अनन्तमध्यपर्यन्तता हि शारद्वतीपुत्र प्रज्ञापारमिता अनुबोद्धव्या। न हि शारद्वतीपुत्र प्रज्ञापारमिता देशस्था न प्रदेशस्था। रूपापर्यन्ततया शारद्वतीपुत्र प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। पेयालम्। एवं वेदनासंज्ञासंस्कारविज्ञानापर्यन्ततया शारद्वतीपुत्र प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। अविद्यापर्यन्ततया संस्कारापर्यन्ततया विज्ञानापर्यन्ततया नामरूपषडायतनापर्यन्ततया यावत् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासापर्यन्ततया शारद्वतीपुत्र प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। विपर्यासापर्यन्ततया शारद्वतीपुत्र प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। नीवरणापर्यन्ततया दृष्टिगतापर्यन्ततया शारद्वतीपुत्र प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। आत्मानन्ततया सत्त्वानन्ततया प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। दानानन्ततया शीलानन्ततया क्षान्त्यनन्ततया वीर्यानन्ततया ध्यानानन्ततया प्रज्ञानन्ततया शारद्वतीपुत्र प्रज्ञापारमितानन्तता अनुगन्तव्या। स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादापर्यन्ततया प्रज्ञापारमितानन्तता अनुगन्तव्या।

इन्द्रियबलबोध्यङ्गमार्गध्यानविमोक्षसमाधिसमापत्त्यपर्यन्ततया शारद्वतीपुत्र प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। दुःखसमुदयनिरोधमार्गापर्यन्ततया शारद्वतीपुत्र प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। अभिज्ञापर्यन्ततया विमुक्त्यपर्यन्ततया विमुक्तिज्ञानदर्शनापर्यन्ततया शारद्वतीपुत्र प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। पृथग्जनधर्मापर्यन्ततया श्रावकधर्मापर्यन्ततया प्रत्येकबुद्धधर्मापर्यन्ततया बुद्धधर्मापर्यन्ततया शारद्वतीपुत्र प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। विद्यापर्यन्ततया विमुक्त्यपर्यन्ततया विमुक्तिज्ञा[नदर्श]नापर्यन्ततया शारद्वतीपुत्र प्रज्ञापारमितापर्यन्तता अनुगन्तव्या। पर्यन्तानुपलब्धितः शारद्वतीपुत्र प्रज्ञापारमितापर्यन्ततेत्युच्यते, अन्तानुपलब्धितोऽनन्तेत्युच्यते। अनन्तेति शारद्वतीपुत्र अपर्यन्तवचनमेतत्। आत्मानुपादानतः शारद्वतीपुत्र सर्वधर्मानन्तता अनुगन्तव्या। आकाशानन्ततया शारद्वतीपुत्र सर्वधर्मानन्तापर्यन्ता अनुगन्तव्या।



एवमुक्ते आयुष्मान् शारद्वतीपुत्रो भगवन्तमेतदवोचत्-कीदृशानां भगवन् बोधिसत्त्वानामेषु धर्मेषु विषयः ? भगवानाह-ये ते शारद्वतीपुत्र बोधिसत्त्वा धर्ममपि नोपलभन्ते प्रागेवाधर्मम्, मार्गमपि नोपलभन्ते प्रागेवामार्गम्, शीलमपि नोपलभन्ते न मन्यन्ते प्रागेव दौःशील्यम्, अपर्यापन्नाश्च सर्वत्रैधातुके, अपर्यापन्नाश्च सर्वभवगतिच्युत्युपपत्तिषु, अनध्यवसिताश्च काये जीविते च प्रागेव बाह्येषु वस्तुषु, कृतपर्यन्ताश्च संसारस्रोतसः, उत्तीर्णाश्च महाभवार्णवात्, समुत्तीर्णाश्च महासंग्रामात्, तेषां शारिपुत्र बोधिसत्त्वानां महासत्त्वानामेषु धर्मेषु विषयश्च गतिश्च, सर्वविषया अविषया इति च येषां परिजानन्ते (परिज्ञानम् ?), ते तथारूपाः सत्पुरुषाः सर्वविषयेष्वनध्यवसिताः, ते महासिंहाः। ते सर्वविषयेष्वनध्यापन्नाः, ते तद्रूपाः सत्पुरुषाः। सर्वविषयनिरुपलिप्तास्ते, तेऽसंसृष्टाः। सर्वविषयसमतिक्रान्तास्ते, ते महासार्थवाहाः। येषां शारद्वतीपुत्र एषु धर्मेषु विषयो गतिश्च। नाहं शारद्वतीपुत्र अस्यां पर्षदि समनुपश्यामि एकमपि बोधिसत्त्वम्, यस्य नैषु धर्मेषु विषयो वा अधिमुक्तिर्वा, यो वा एषु धर्मेषु साकाङ्क्षो वा सविचिकित्सो वा। निष्काङ्क्षेयं शारद्वतीपुत्र पर्षदेषु धर्मेषु निर्विचिकित्सा निर्वैमतिका। नास्ति शारद्वतीपुत्र एषां बोधिसत्वानामेषु धर्मेषु विमतिः। विमतिसमुद्धाताय शारद्वतीपुत्र एते सत्पुरुषाः सर्वसत्त्वानां स्थिताः। निःसंशया ह्येते शारद्वतीपुत्र एष्वेवंरूपेषु धर्मेषु संशयसमतिक्रान्ताः॥



येऽपि ते शारद्वतीपुत्र पश्चिमे काले पश्चिमे समये इमां धर्मदेशनां श्रोष्यन्ति, तेऽपि निःसंशया भविष्यन्ति सर्वधर्मेषु, सर्वसत्त्वानां च संशयच्छेदनाय प्रतिपन्ना भविष्यन्ति, निःसंशयाश्च ते धर्मं देशयिष्यन्ति। नाहं शारद्वतीपुत्र परीत्तकुशलमूलानां सत्त्वानामेषु धर्मेष्वधिमुक्तिं वदामि। नापि तेषामेषु धर्मेष्ववकाशः, नापि तेषामिदं धनम्। नापि ते शारद्वतीपुत्र सत्त्वाः परीत्तकुशलमूलसमन्वागता भविष्यन्ति, येषामियं धर्मदेशनां श्रोत्रपथमप्यागमिष्यति किमङ्ग पुनर्ये उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति। नियतास्ते बुद्धधर्मेषु, व्याकृतास्ते बुद्धैर्भगवद्भिः। एवं च ते सिंहनादं नदिष्यन्ति यथाहमेतर्हि सिंहनादं नदामि अस्तम्भितनादं महापुरुषनादं स्वयंभूनादम्। ये एषु धर्मेष्वत्यन्तशः श्रद्धां जनयित्वा छन्दं जनयिष्यन्ति अनुत्तरायां सम्यक्संबोधौ, तेषामपि त एव व्याकरणं भविष्यन्ति। तत्कमाद्धेतोः ? दुर्लभा हि शारद्वतीपुत्र ते सत्त्वाः, य इमान् गम्भीरान् धर्मान् श्रुत्वा प्रीतिं च विन्दन्ति, प्रामोद्यं च जनयन्ति, अधिमुञ्चन्ते च। अतः शारद्वतीपुत्र दुर्लभतमास्ते सत्त्वाः, ये गम्भीरान् धर्मान् श्रुत्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयन्ति, छन्दं च जनयन्ति महाकुशलमूलसमन्वागताः। नाहं शारद्वतीपुत्र तान् सत्त्वान् महासंसारसंप्रस्थितानिति वदामि येषामयं प्रज्ञापारमितानिर्देशः श्रवणपथमप्यागमिष्यति, श्रुत्वा च (ये) पठिष्यन्ति अधिमोक्ष्यन्ति उदारं च प्रीतिसौमनस्यं जनयिष्यन्ति, एषु धर्मेषु छन्दं जनयिष्यन्ति पुनः पुनः श्रवणायापि, कः पुनर्वादः उद्देष्टुं वा स्वाध्यातुं वा परेभ्यो देशयितुं वा। व्याकरोम्यहं शारद्वतीपुत्र अनवक्रान्तनियामान् अनियतान् श्रावकप्रत्येकबुद्धयाने अनुत्तरायां सम्यक्संबोधौः। नाहं शारद्वतीपुत्र हीनधर्मसमन्वागतानां सत्त्वानामग्रतो धर्मेष्ववकाशं समनुपश्यामि। उदारेयं शारद्वतीपुत्र बुद्धबोधिः। यद्भूयसा च सत्त्वा हीनाधिमुक्तिका हीनधर्मसमन्वागता अकृतकल्याणाः। अकुशला एष्वेवंरूपेषु गम्भीरेषु धर्मेषु निरुपलेपेषु। ये पुनस्ते शारद्वतीपुत्र उदाराः सत्त्वा उदारधर्माधिमुक्ता महायानसंप्रस्थिताः सुपरिप्राप्तकार्याः सुसंनाहसंनद्धाः सुविचित्रार्था महामार्गेण संप्रस्थिता अविषमेण ऋजुना, अगहनेन समेन अपगतखाणुकण्टकेन अपगतश्वभ्रप्रपातेन शुचिना अपगतकिल्बिषेण अकुटिलेन अवङ्केन, ये लोकहिताय संप्रस्थिता लोकसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय व देवानां च मनुष्याणां च, अवभासकरास्तीर्थभूताः सत्त्वानाम्, महाकारुणिका हितानुकम्पका हितकामाः सुखकामा योगक्षेमकामाः, सर्वसत्त्वानां सुखोपधानाय प्रत्युपस्थिताः, तेषां शारद्वतीपुत्र तथारूपाणां सत्त्वानां बोधिसत्त्वानां महासत्त्वानामिदं महाधनम्। त एव च शारद्वतीपुत्र महासत्त्वा अस्य धर्मरत्नस्य प्रत्येषकाः। तेषां चैतद्धनमुदारधनम्। तत्कस्य हेतोः ? न हि शारद्वतीपुत्र अकृतपुण्यानां सत्त्वानामकृतकल्याणानां हीनाधिमुक्तिकानां श्रद्धाविहीनानामस्मिन्नुदारे धनेऽधिमुक्तिर्जायते। एतच्च मे शारद्वतीपुत्र संधाय भाषितम्-धातुशः सत्वाः संस्यन्दन्ति हीनाधिमुक्तिका हीनाधिमुक्तिकैः, उदाराधिमुक्तिका उदाराधिमुक्तिकैरिति॥



अथ खल्वायुष्मान् शारद्वतीपुत्रो भगवन्तमेतदवोचत्-किंगोचरा भगवन् प्रज्ञापारमिता ? एवमुक्ते भगवानायुष्मन्तं शारद्वतीपुत्रमेतदवोचत्-अनन्तविषयगोचरा शारद्वतीपुत्र प्रज्ञापारमिता। तद्यथापि नाम शारद्वतीपुत्र वायुधातुरनन्तविषयगोचरः, एवमेव प्रज्ञापारमिता अनन्तविषयगोचरा। तद्यथापि नाम शारद्वतीपुत्र वायुधातुराकाशधातुविषयगोचरः, एवमेव प्रज्ञापारमिता आकाशधातुविषयगोचरा। तद्यथापि नाम शारद्वतीपुत्र आकाशधातुर्वायुधातुश्च न क्वचित्संदृश्येते, न कस्यचिद्धर्मस्य अभिनिर्वृत्तिलक्षणेन प्रत्युपस्थितौ, एवमेव शारद्वतीपुत्र प्रज्ञापारमिता न क्वचिद्धर्मे संदृश्यते, न कस्यचिद्धर्मस्य अभिनिर्वृत्तिलक्षणेन प्रत्युपस्थिता। तद्यथापि नाम शारद्वतीपुत्र आकाशधातुर्वायुधातुश्च अग्राह्यापरिनिष्पत्तितो न वर्णनिमित्तेन संख्यां गच्छतः, एवमेव शारद्वतीपुत्र प्रज्ञापारमिता अग्राह्यानिष्पत्तितो न केनचिद्वर्णनिमित्तेन संख्यां गच्छति वा उपैति वा। तद्यथापि नाम शारद्वतीपुत्र आकाशधातुर्वायुधातुश्च न कस्यचिद्धर्मस्य परिनिष्पत्तिदर्शनेनोपयातौ, एवमेव प्रज्ञापारमिता न कस्यचिद्धर्मस्य परिनिष्पत्तिदर्शनेनोपैति॥



आह-किंलक्षणेय भगवन् प्रज्ञापारमिता ? भगवानाह-अलक्षणेयं शारद्वतीपुत्र प्रज्ञापारम्तिआ। तद्यथापि नाम शारद्वतीपुत्र आकाशधातुश्च वायुधातुश्च न कस्यचिद्धर्मस्य परिचिष्पत्तिलक्षणेनोपगच्छतः, एवमेव शारदव्तीपुत्र प्रज्ञापारमिता न कस्यचिद्धर्मस्य परिनिष्पत्तिलक्षणेनोपैति। आह-किंलक्षणेयं बह्गवन् प्रज्ञापारमिता ? भगवानाह-अलक्षणा हि शारद्वतीपुत्र प्रज्ञापारमिता, यतो त्न सङ्गलक्षणेन संविद्यते। तद्यथापि नाम शारद्वतीपुत्र आकाशधातुर्वायुधातुध्च न कस्यचिद्धर्मस्य परिनिष्पत्तिलक्षणेनोपगच्छतः, एवमेव प्रज्ञापारमिता न कस्यचिद्धर्मस्य परिनिष्पत्तिलक्षणेनोपैति। अलक्षणा हि शारद्वतीपुत्र प्रज्ञापारमिता, यतो न संविद्यते। तद्यथापि नाम शारद्वतीपुत्र आकाशधातुर्न क्वचित्सज्जति, एवमेव प्रज्ञापार्मैता न क्वचित्सज्जति, ते नोच्यते असङ्गलक्षणेति। न च शारद्वतीपुत्र असङ्गस्य किंचिल्लक्षणम्, अपि तु खलु व्यवहारपदमेतत्। तेनोच्यते असङ्गलक्षणा प्रज्ञापारमित्ति। तदेवितत् शारद्वतीपुत्र असङ्गलक्षणं निर्दिश्यते। न च असङ्गस्य लक्षणं न निमित्तम्। असङ्ग इति शारद्वतीपुत्र सङ्गपरिज्ञैषा, सङ्गानुपलब्धिरेषा, सङ्गयथाभूततैषा, सङ्गविपर्यासपरिज्ञैषा। न हि शारद्वतीपुत्र सङ्गे सङ्गो चिद्यते, तेनोच्यते सङ्गयथा भूतता सङ्गानुपलब्धिः। असङ्गतेति शारद्वतिपुत्र इयं प्रज्ञापारमिता, असङ्गलक्षणज्ञाननिर्देश एषः। सर्वधर्मा हि शारद्व्तीपुत्र असङ्गलक्षणाः। यद्यस्य धर्मस्य लक्षणम्, तदलक्षणम्। न हि तल्लक्षणाभिनित्वॄत्तये कश्चिद्धर्मः प्रत्युपस्थितः। यत्र च लक्षणं न संविद्यते, तदुच्यते अलक्षणमिति। यच्चालक्षणम्, तत्र नास्ति सङ्गः। सचेद्धर्मलक्षणमभविष्यत्, सङ्गोऽभविष्यत्सर्वधर्माणाम्। यस्मात्तर्हि सर्वधर्मा इति, न पुनर्यथोच्यते। यदसंङ्गलक्षणम्, न तच्छक्य्स्ं प्रव्याहर्तुम्। तत्कस्य हेतोः ? असत्त्वादसङ्गलक्षणस्य, विविक्तत्वादसङ्गलक्षणस्य, अनुपलब्धेरसङ्गलक्षणस्य। यो गि शारदव्तीपुत्र धर्मोऽसङ्गलक्षणः, स न केनचिन्निदर्शन प्रत्युपस्थितः, न सङ्गदर्शनेन, अपि तु खलु पुनः सत्त्वानामेतदसङ्गलक्षणनिदर्शनं कृतम्। यद्धि शारद्वतीपुत्र संक्लेशस्य लक्षणम्, तदलक्षणम्। न हि लक्षणेन संक्लेशः पर्त्युपस्थितः, विपर्यासेन शारद्वगीपुत्र संक्लेशः प्रत्युपस्थितः। यश्च विपर्यास्ः, तदलक्षाणम्। यदलक्षणम्, न तद्व्यवहारेणापि लक्षणम्। अलक्षणमेतत्। यदपि शारद्वतीपुत्र व्यवदानम्, तस्यापि नास्ति लक्षणम्। तत्कस्माद्धेतोः ? संक्लेश एव च तावच्चारद्वतीपित्र अलक्षणः, प्राग्र्व व्यव्दानम्। या शारद्वतीपुत्र संक्लेशस्य परिज्ञा, सा यथाभूता। न तस्याः कश्चित्संकेल्शः। विपर्यस्तास्तु सत्त्वाः स्ंक्लिश्यन्ते। यश्च विपर्यास्ः, सोऽभूतः । योऽभूतः, तत्र भूतस्य परिनिष्पत्तिर्वा लक्षणं वा नास्ति। यविं शारद्वतीपुत्रम् परिज्ञा, तद्व्यवदानमित्युच्यते। संक्लेश एवालक्षणः, प्रागेव व्यव्दानम्। उभावेतौ शारद्वतीपुत्र धर्मावलक्षणौ अपरिनिष्पत्तिः, इयमसङ्गतेत्युच्यते। असङ्गलक्षणाह् सर्वधर्मा इति। सर्वधर्माणां हि सङ्गो न संविद्यते। असङ्गलक्षणेषु हि शार्द्व्तीपुत्र सज्जन्ति सर्वबालपृथग्जनाः। अयं शारद्व्तीपुत्र सर्वधर्माणामसङ्गलक्षणज्ञानगोचरनिर्देशः। अयं च शारद्वतीपुत्र प्रज्ञापारमिता गोचरः। असङ्गलक्षण्स्ज्ञानगोचरा हि शारद्वतीपुत्र पर्ज्ञापारमिता। तेनोच्यते अनन्तगोचरा प्रज्ञापारम्तेति। या असङ्गता, सा अनन्तविषयज्ञानगोचरा। गोचर इति शारद्वतीपुत्र अगोचरस्यैतदधिवचनम्। न् अहि शारद्व्तीपुत्र गोचरनिदर्शनलक्षणेन प्रज्ञापारमिता भाव्यते। विषय इति शारद्वतीपुत्र अविषय ए ष धर्माणाम् एषा यथाभूतता, यथावत्ता। सर्वधर्मा हि अविषयाः, अविषयत्वात्। यैवं धर्माणां परिज्ञा, अयमुच्यते विषय्गोचर इति, न पुनर्यथोच्यते। य एवं सर्वदह्र्मपरिज्ञया न क्वचित्सङ्गः, इदमुच्यते असङ्गलक्षणमिति। तेनोच्यते असङ्गलक्षणा प्रज्ञापारम्तिआ इति॥



एष्वेवंरूपेषु शारद्वतीपुत्र धर्मेषु न बहवः सहायकाः प्रतिलभ्यन्ते। तथागतज्ञानविषयनिर्देश एषः, यैवं धर्माणां सूचना संप्रकाशना विभाजना। न ह्येषु शारद्वतीपुत्र धर्मेषु कश्चिदन्यः सहायः, अन्यत्र दृष्टसत्यैः श्रावकैरविनिवर्तनीयैर्वा बोधिसत्त्वैर्महासत्वैर्दृष्टिसंपन्नैर्वा पुद्गलैरप्रत्युदावर्तनीयैः। तेषामपि तावच्छारद्वतीपुत्र दृष्टिसंपन्नानामेषु धर्मेषु चरितानां संशयः स्यात्। निःसंशयः शारद्वतीपुत्र कायसाक्षी च बोधिसत्त्वश्च प्रतिलब्धक्षान्तिकः। अभूमिरेषु शारद्वतीपुत्र धर्मेषु बालपृथग्जनानाम्। नायं शारद्वतीपुत्र प्रज्ञापारमितानिर्देशो हीनाधिमुक्तिकानां सत्त्वानां हस्तं गमिष्यति। परिशुद्धकुशलमूलसमन्वागतास्ते शारद्वतीपुत्र सत्त्वा भविष्यन्ति बहुबुद्धपर्युपासिताः, येषामयं प्रज्ञापारमितानिर्देशो हस्तं गमिष्यति। अवरोपितकुशलमूलास्ते सत्त्वा भविष्यन्ति कल्याणाशयाः, कृताधिकारा बुद्धेषु भगवत्सु बोधायावरोपितबुद्धबीजा बुद्धयानसमारूढा बुद्धानां भगवतामासन्नस्थायिनो योनिशः प्रश्नपृच्छकाः, येषामयं प्रज्ञापारमितानिर्देशो हस्तं गमिष्यति। आसन्नास्ते क्षान्तिप्रतिलम्भस्य, क्षान्तिप्रतिलब्धा वा भविष्यन्ति, येषामयं प्रज्ञापारमितानिर्देशो हस्तं गमिष्यति। ये च व्याकृताः, ते क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते स्थापयित्वा प्रणिधानवशात्। ये न व्याकृताः, ते क्षिप्रं संमुखं व्याकरणं प्रतिलप्स्यन्ते, अथ च शारद्वतीपुत्र व्याकृता एव ते मन्तव्याः संमुखव्याकरणेन। न हि शारद्वतीपुत्र अपरिपक्वकुशलमूलानां सत्त्वानामयं सूत्रान्तः श्रोत्रपथमप्यागमिष्यति, किमङ्ग पुनर्यदेतं सूत्रान्तं प्रतिलभेरन् वा लेखयेयुर्वा आराधयेयुर्वा उद्दिशेयुर्वा ध्यायेरन् वा, परेभ्यो वा विस्तरेण संप्रकाशयेयुः, नैतत्स्थानं विद्यते। परिपक्वकुशलमूलास्ते शारद्वतीपुत्र सत्त्वाः, य इमं सूत्रान्तं श्रोष्यन्ति लिखिष्यन्ति वाचयिष्यन्ति स्वाध्यास्यन्ति। किंचापि शारद्वतीपुत्र उत्तप्तकुशलमूलानां सत्त्वानामयं धर्मपर्यायो हस्तं गमिष्यति। अपि तु खलु पुनः शारद्वतीपुत्र आरोचयामि ते, प्रतिवेदयामि ते। न तेन कुलपुत्रेण वा कुलदुहित्रा वा बोधिसत्त्वयानीयेन वा श्रावकयानीयेन वा इमान् धर्मान् प्रतिलभ्य अल्पोत्सुकेन भवितव्यम्, कुसीदेन वा मिद्धबहुलेन वा असंप्रज्ञेन वा अनुपस्थितस्मृतिना वा विक्षिप्तचित्तेन वा आमिषगृद्धेन वा लोलेन वा मुखरेण वा तुन्देन वा प्रगल्भेन वा प्राकृतेन्द्रियेण वा। किंचापि शारद्वतीपुत्र कुशलमूलानि कृतानि न विसंवादयन्ति। अपि तु खलु इमान् धर्मान् लब्ध्वा बोधिसत्त्वेन भूयस्या मात्रया अप्रमादश्च वीर्यं च उत्साहश्च छन्दश्च अकौसीद्यं च संवृतेन्द्रियता च अमुखरता चासेवितव्या, स्मृत्युपस्थानेषु बाहुश्रुत्येषु च योगः करणीयः। आरब्धवीर्येण चैषामेवंरूपाणां गुणानां परिपूरये व्यायन्तव्यम्। नैतच्छारद्वतीपुत्र एवंरूपाणां धर्माणां श्रवणफलम्, यद्बोधिसत्त्वो वा श्रावकयानिको वा एवंरूपान् धर्मान् श्रुत्वा प्रमादमापद्येत, विश्वासं वा गच्छेत्, छन्दं वा परिहीयेत, वीर्यं वा हापयेत्, शैथिल्यं वोपदर्शयेत्, व्यापादबहुलो वा भवेत्। नैतत्सफलं भवेत्, नापि तेन इमे एवंरूपा धर्माः श्रुता भवेयुः। श्रुतमपि शारद्वतीपुत्र भूतप्रतिपत्तेरेतदधिवचनम्, न विप्रतिपत्तेः। न हि शारद्वतीपुत्र विप्रतिपन्नेन अयं धर्मः श्रुतो भवति। श्रुतार्थकुशलैः शारद्वतीपुत्र युष्माभिर्भवितव्यं प्रतिपत्तिस्थितैः। नास्ति शारद्वतीपुत्र विप्रतिपन्नानामानुलोमिकी क्षान्तिः। प्रतिपत्तिरेषा शारद्वतीपुत्र अस्मिन् धर्मे उच्यते, यो यथानिर्दिष्टेषु धर्मेषु प्रतिपद्यते। क्षान्तिसंपन्नस्य शारद्वतीपुत्र पुद्गलस्य प्रतिपत्तिस्थितस्य न भूयोऽपायगमनं भवति, क्षिप्रं चैषु धर्मेषु समुदागच्छति। न अवरमात्रकेण कुशलमूलेन विश्वासमापत्तव्यम्। अनिक्षिप्तधुरेणापि विश्वासो न कर्तव्यः, यावदेषु धर्मेषु परिनिष्पत्स्यत इति। यः शारद्वतीपुत्र एषु धर्मेषु परिनिष्पन्नः शिक्षितो लब्धक्षान्तिर्न भूयसा अपायगमनसंवर्तनीयं कर्म कुर्यात्। न चास्य भूयः कौसीद्यं वा हीनभागीयं वा भवेत्। नापि तस्य प्रत्युदावर्तनभयं भवेत्। नापि शैथिल्यमापद्येत। तत्कस्य हेतोः ? परिज्ञातो हि शारद्वतीपुत्र तेन भवति संक्लेशश्च व्यवदानं च, दृष्टं च तेन यथाभूतं भवति-सर्वधर्मा विपर्याससमुत्थिता अभूता इति। स एवं सम्यग्दर्शी क्षान्तिसंपन्नो भवति सूरतोऽमन्दवान् (?) शीलविशुद्धिस्थित आचारगोचरचारित्रसंवरसंपन्नः। देवा अपि शारद्वतीपुत्र तथारूपेभ्यः स्पृहयन्ति प्रागेव मनुष्याः। देवानामपि ते तथारूपाः सत्त्वाः स्पृहणीया भवन्ति प्रागेव मनुष्याणाम्। देवानामपि ते सत्कारार्हा भवन्ति प्रागेव मनुष्याणाम्। देवैरपि ते रक्षणीया भवन्ति प्रागेव मनुष्यैः। देवनागयक्षराक्षसगरुडगन्धर्वैरपि ते रक्षणीया भवन्ति, तेषां च रक्षावरणगुप्तये समुत्सुका भवन्तीति॥



आर्यप्रज्ञापारमितायामौपम्यपरिवर्तो नाम चतुर्थः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project