Digital Sanskrit Buddhist Canon

३ तथतापरिवर्तस्तृतीयः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 3 tathatāparivartastṛtīyaḥ
३ तथतापरिवर्तस्तृतीयः।



अथ खलु भगवान् सुविक्रान्तविक्रामिणं बोधिसत्त्वं महासत्त्वमामन्त्रयते स्म-प्रज्ञापारमिता प्रज्ञापारमितेति सुविक्रान्तविक्रामिन् कतमा बोधिसत्त्वस्य प्रज्ञापारमिता ? या पारमिता सर्वधर्माणाम्, न सा शक्या निर्देष्टुम्। यथा पुनर्युष्माकमाजानना भविष्यति, तथा निर्देक्ष्यामि, यथा प्रज्ञापारमितायां व्यवहारपदान्यागमिष्यन्ति। न रूपं प्रज्ञापारमिता। पेयालम्। एवं न वेदना, न संज्ञा, न संस्काराः, न विज्ञानं प्रज्ञापारमिता। नाप्यन्यत्र रूपात्प्रज्ञापारमिता, यावत् नान्यत्र विज्ञानात्प्रज्ञापारमिता। तत्कस्माद्धेतोः ? यद्धि सुविक्रान्तविक्रामिन् रूपस्य पारम्, न तद्रूपम्। पेयालम्। एवं यद्वेदनायाः संज्ञायाः संस्काराणाम्, यद्विज्ञानस्य पारम्, न तद्विज्ञानम्। यथा व रूपस्य पारम्, तथा रूपम्। एवं यथा वेदनायाः संज्ञायाः संस्काराणाम्, यथा च विज्ञानस्य पारम्, तथा विज्ञानम्। यथा च विज्ञानस्य पारम्, तथा सर्वधर्माणां पारम्। यच्च सर्वधर्माणां पारम्, न ते सर्वधर्माः। यथा च सर्वधर्माणां पारम्, तथा सर्वधर्माः। तत्र सुविक्रान्तविक्रामिन् "यद्रूपस्य पारं न तद्रूपम्" इति रूपविसंयोगो ह्येष निर्दिष्टः। "यथा रूपस्य पारं तथा रूपम्" इति रूपस्वभावनिर्देशो ह्येष निर्दिष्टः। रूपयथावत्तैषा निर्दिष्टा, रूपप्रकृतिरेषा निर्दिष्टा, रूपानुपलब्धिरेषा निर्दिष्टा। एवं वेदना संज्ञा संस्काराः। "यद्विज्ञानस्य पारं न तद्विज्ञानम्" इति विज्ञानविसंयोगो ह्येष निर्दिष्टः।"यथा विज्ञानस्य पारं तथा विज्ञानम्" इति विज्ञानस्वभावनिर्देश एष निर्दिष्टः, विज्ञानयथावत्ता विज्ञानप्रकृतिर्विज्ञानानुपलब्धिरेषा निर्दिष्टा। "यच्च सर्वधर्माणां पारं न ते सर्वधर्माः" इति सर्वधर्माणामेष विसंयोगो निर्दिष्टः। "यथा च सर्वधर्माणां पारं तथा सर्वधर्माः" इति सर्वधर्मस्वभावनिर्देश एष निर्दिष्टः, सर्वधर्मयथावत्ता सर्वधर्मप्रकृतिः सर्वधर्मानुपलब्धिरेषा निर्दिष्टा। यथा च सर्वधर्मयथावत्ता सर्वधर्मप्रकृतिः सर्वधर्मानुपलब्धिः, तथा प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् प्रज्ञापारमिता रूपनिश्रिता, न वेदनानिश्रिता, न संज्ञानिश्रिता, न संस्कारनिश्रिता, न विज्ञाननिश्रिता। नापि प्रज्ञापारमिता रूपस्याध्यात्मं वा बहिर्धा वा उभयमन्तरेण वा विप्रकृष्टा स्थिता। न वेदनाया न संज्ञाया न संस्काराणाम्। न विज्ञानस्याध्यात्मं वा बहिर्धा वा उभयमन्तरेण वा विप्रकृष्टा स्थिता॥



न हि सुविक्रान्तविक्रामिन् रूपसंयुक्ता प्रज्ञापारमिता, नापि रूपविसंयुक्ता। न वेदनासंयुक्ता न संस्कारसंयुक्ता, न विज्ञानसंयुक्ता प्रज्ञापारमिता। नापि विज्ञानविसंयुक्ता प्रज्ञापारमिता। न हि सुविक्रान्तविक्रामिन् प्रज्ञापारमिता केनचिद्धर्मेण संयुक्ता वा विसंयुक्ता वा॥



या पुना रूपस्य तथता अवितथता अनन्यतथता यथावत्तथता, इयं प्रज्ञापारमिता। एवं या वेदनासंज्ञासंस्कारविज्ञानतथता अवितथथा अनन्यतथता यथावत्तथाता, सा प्रज्ञापारमिता॥



रूपमिति सुविक्रान्तविक्रामिन् रूपापगतमेतत्। तत्कस्माद्धेतोः ? न हि रूपे रूपं संविद्यते। या च असंविद्यमानता, सेयं प्रज्ञापारमिता। एवं वेदना संज्ञा संस्काराः। विज्ञानमिति सुविक्रान्तविक्रामिन् विज्ञानापगतमेतत्। तत्कस्माद्धेतोः ? न हि विज्ञाने विज्ञानं संविद्यते। या च असंविद्यमानता, सेयं प्रज्ञापारमिता॥



रूपस्वभावापगतं हि सुविक्रान्तविक्रामिन् रूपम्। एवं वेदना संज्ञा संस्काराः। विज्ञानस्वभावापगतं हि विज्ञानम्। या च अपगतस्वभावता, इयं प्रज्ञापारमिता। रूपास्वभावं हि रूपम्। एवं वेदना संज्ञा संस्काराः। विज्ञानास्वभावं हि विज्ञानम्। या च अस्वभावता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपस्य रूपं गोचरः। न वेदना न संज्ञा न संस्काराः। न विज्ञानस्य विज्ञानं गोचरः। अगोचर इति सुविक्रान्तविक्रामिन् न रूपं रूपं संजानीते वा पश्यति वा। या च रूपस्य अजानना अपश्यना, इयं प्रज्ञापारमिता। न हि सुविक्रान्तविक्रामिन् वेदना संज्ञा संस्काराः न विज्ञानं (विज्ञानं) संजानीते वा पश्यति वा। या च विज्ञानस्य अजानना अपश्यना, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपं रूपस्वभावं जहाति। न वेदना, न संज्ञा, न संस्काराः। न विज्ञानं विज्ञानस्वभावं जहाति। या च अस्वभावपरिज्ञा, इयमुच्यते प्रज्ञापारमिता। न हि सुविक्रान्तविक्रामिन् रूपं रूपं संयोजयति न विसंयोजयति। या च रूपवेदनासंज्ञासंस्कारविज्ञाना(ना)मसंयोजना, अविसंयोजना, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपं हीयते वा वर्धते वा। एवं वेदना संज्ञा संस्काराः। न विज्ञानं हीयते वा वर्धते वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामहानिरवृद्धिः, इयं सा प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपं संक्लिश्यते वा व्यवदायते वा। एवं वेदना संज्ञा संस्काराः। न विज्ञानं संक्लिश्यते वा व्यवदायते वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामसंक्लेशता अव्यवदानता, इयमुच्यते प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपं विशुद्धधर्मि नाविशुद्धधर्मि। एवं न वेदना न संज्ञा न संस्काराः। न विज्ञानं विशुद्धधर्मि नाविशुद्धधर्मि। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न विशुद्धधर्मता नाविशुद्धधर्मता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपं संक्रामति वा अवक्रामति वा। एवं वेदना संज्ञा संस्काराः। न विज्ञानं संक्रामति वा अवक्रामति वा। या च रूपवेदनासंस्कारविज्ञानानामसंक्रान्तिरनवक्रान्तिः, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपं संयुज्यते वा विसंयुज्यते वा। एवं वेदना संज्ञा संस्काराः। न विज्ञानं संयुज्यते वा विसंयुज्यते वा। यश्च रूपवेदनासंज्ञासंस्कारविज्ञानानामसंयोगोऽविसंयोगः, इयं सा प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपं च्यवते वा उपपद्यते वा। एवं वेदना संज्ञा संस्काराः। न विज्ञानं च्यवते वा उपपद्यते वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामच्युतिरनुपपत्तिः, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपं जायते वा म्रियते वा। एवं वेदना संज्ञा संस्काराः। न विज्ञान जायते वा म्रियते वा। या च रूपवेदनासंज्ञासंस्कारवेदनाविज्ञानानामजातिरमरणम्, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपं संसरति वा संसरणधर्मि वा। एवं न वेदना न संज्ञा न संस्काराः। न विज्ञानं संसरति वा संसरणधर्मि वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामसंसरणता असंसरणधर्मता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपं क्षीयते वा क्षयधर्मि वा। एवं न वेदना न संज्ञा न संस्काराः। न विज्ञानं क्षीयते वा क्षयधर्मि वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामक्षयता अक्षयधर्मता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपं समुदयधर्मि न निरोधधर्मि। एवं वेदना संज्ञा संस्काराः। न विज्ञानं समुदयधर्मि न निरोधधर्मि। या च रूपवेदनासंस्कारविज्ञानानामसमुदयधर्मता अनिरोधधर्मता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपमुत्पादधर्मि वा व्ययधर्मि वा। एवं वेदना संज्ञा संस्काराः। न विज्ञानमुत्पादधर्मि वा व्ययधर्मि वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामनुत्पादधर्मता अव्ययधर्मता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपं विपरिणामधर्मि न अविपरिणामधर्मि। एवं वेदना संज्ञा संस्काराः। न विज्ञानं विपरिणामधर्मि न अविपरिणामधर्मि। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न विपरिणामधर्मता न अविपरिणामधर्मता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपं नित्यं वा अनित्यं वा। एवं वेदना संज्ञा संस्काराः। न विज्ञानं नित्यं वा अनित्यं वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न नित्यता नाप्यनित्यता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपं सुखं वा दुःखं वा। एवं वेदना संज्ञा संस्काराः। न विज्ञानं सुखं वा दुःखं वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नापि सुखता नाप्यसुखता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपमात्मा वा अनात्मा वा। एवं वेदना संज्ञा संस्काराः। न विज्ञानमात्मा वा अनात्मा वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नाप्यात्मता नाप्यनात्मता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपं रागधर्मि वा विरागधर्मि वा। एवं वेदना संज्ञा संस्काराः। न विज्ञानं रागधर्मि वा विरागधर्मि वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न रागधर्मता नापि विरागधर्मता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपं द्वेषधर्मि वा अद्वेषधर्मि वा। एवं वेदना संज्ञा संस्काराः। न विज्ञानं द्वेषधर्मि वा अद्वेषधर्मि वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न द्वेषधर्मता नापि विगतद्वेषधर्मता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपं मोहधर्मि वा विगतमोहधर्मि वा। एवं वेदना संज्ञा संस्काराः। न विज्ञानं मोहधर्मि वा विगतमोहधर्मि वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न मोहधर्मता नापि विगतमोहधर्मता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपस्य कश्चित्कर्ता वा कारयिता वा। एवं वेदनासंज्ञासंस्काराणाम्। न विज्ञानस्य कश्चित्कर्ता वा कारयिता वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामकर्तृता अकारयितृता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपस्य कश्चिदुत्थापको वा समुत्थापको वा। एवं न वेदनाया न संज्ञाया न संस्काराणाम्। न विज्ञानस्य कश्चिदुत्थापको वा समुत्थापको वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नोत्थापना व समुत्थापना, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपस्य कश्चिज्ज्ञाता वा ज्ञापको वा। एवं न वेदनासंज्ञासंस्काराणाम्। न विज्ञानस्य कश्चिज्ज्ञाता वा ज्ञापको वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामज्ञातृता अज्ञापकता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपस्य कश्चिद्वेदको वा वेदयिता वा। एवं न वेदनासंज्ञासंस्काराणाम्। न विज्ञानस्य कश्चिद्वेदको वा वेदयिता वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामवेत्तृता अवेदनता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपस्य कश्चिज्जानको वा पश्यको वा। एवं न वेदनाया न संज्ञाया न संस्काराणाम्। न विज्ञानस्य कश्चिज्जानको वा पश्यको वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामजाननां अपश्यना, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपस्योच्छेदता वा शाश्वतता वा। एवं न वेदनाया न संज्ञाया न संस्काराणाम्। न विज्ञानस्योच्छेदता वा शाश्वतता वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामनुच्छेदता अशाश्वतता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपस्य अन्तो वा अनन्तो वा। एवं न वेदनाया न संज्ञाया न संस्काराणाम्। न विज्ञानस्य अन्तो (वा) अनन्तो वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामन्तता नाप्यनन्तता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपं दृष्टिगतं न दृष्टिगतप्रहाणम्। एवं न वेदनासंज्ञासंस्काराः। न विज्ञानं दृष्टिगतं न दृष्टिगतप्रहाणम्। यच्च रूपवेदनासंज्ञासंस्कारविज्ञानानां न दृष्टिगतं न दृष्टिगतप्रहाणम्, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपं तृष्णा न तृष्णाप्रहाणम्। एवं न वेदना न संज्ञा न संस्काराः। न विज्ञानं तृष्णा न तृष्णाप्रहाणम्। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न तृष्णा न तृष्णाप्रहाणता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपं कुशलं वा अकुशलं वा। एवं न वेदना संज्ञा संस्काराः। न विज्ञानं कुशलं वा अकुशलं वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न कुशलता नाकुशलता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपस्य गमनं वा आगमनं वा प्रज्ञायते। एवं न वेदनाया न संज्ञाया न संस्काराणाम्। न विज्ञानस्य गमनं वा आगमनं वा प्रज्ञायते। यत्र च रूपवेदनासंज्ञासंस्कारविज्ञानानां न गतिर्नागतिः प्रज्ञायते, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानां स्थितिर्वा अस्थितिर्वा। या च रूपवेदनासंज्ञासंस्कारवेदनानां न स्थितिर्नाप्यस्थितिः, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानामारं वा पारं वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नाप्यारता न पारता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि शीलं वा दौःशील्यं वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामशीलता अदौःशील्यता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि अनुनयो वा प्रतिघो वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामननुनयता अप्रतिघता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि ददति वा प्रतिगृह्णाति वा। या च रूपवेदनासंस्कारविज्ञानानामदानता अप्रतिग्रहता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि क्षान्तिर्वा अक्षान्तिर्वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नापि क्षान्तिर्नाप्यक्षान्तिः, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि वीर्यं वा कौसीद्यं वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामवीर्यता अकौसीद्यता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानां समाधिर्न विक्षिप्तचित्तता। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न समाधिर्न विक्षिप्तचित्तता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि प्रज्ञा वा दौष्प्रज्ञ्यं वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नापि प्रज्ञता नापि दौष्प्रज्ञता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानानि विपर्यासा वा अविपर्यासा वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नापि विपर्यासता नाप्यविपर्यासता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि स्मृत्युपस्थानानि वा अस्मृत्युपस्थानानि वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नापि स्मृतिर्नाप्यस्मृतिः, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि सम्यक्प्रहाणानि वा असम्यक्प्रहाणानि वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नापि सम्यक्प्रहाणता नाप्यसम्यक्प्रहाणता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि ऋद्धिपादा वा अप्रमाणानि वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नापि ऋद्धिपादता नाप्यप्रमाणता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि इन्द्रियाणि वा बलबोध्यङ्गमार्गं वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नेन्द्रियता न बलबोध्यङ्गमार्गता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि विद्या वा विमुक्तिर्वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न विद्यता न विमुक्तिता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि ध्यानविमोक्षसमाधिसमापत्त्यभिज्ञा वा नाप्यनभिज्ञा वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न ध्यानविमोक्षसमाधिसमापत्तिता नाप्यभिज्ञता नाप्यनभिज्ञता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि शून्यता वा अनिमित्तं वा अप्रणिहितं वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां न शून्यता नानिमित्तता नाप्रणिहितता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि संस्कृतानि वा असंस्कृतानि वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नापि संस्कृतता नाप्यसंस्कृतता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि सङ्गो वा असङ्गो वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नापि सङ्गता नाप्यसङ्गता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि ज्ञानं वा अज्ञानं वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नापि ज्ञानता नाप्यज्ञानता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि मन्यना वा स्पन्दना वा प्रपञ्चना वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानामन्यनता अस्पन्दनता अप्रपञ्चता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि संज्ञा नासंज्ञा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नापि संज्ञता नाप्यसंज्ञता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानि उपशान्तानि वा अनुपशान्तानि वा। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नाप्युपशान्तिर्नाप्यनुपशान्तिः, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् रूपवेदनासंज्ञासंस्कारविज्ञानानां निर्वृत्तिर्न अनिर्वृत्तिः। या च रूपवेदनासंज्ञासंस्कारविज्ञानानां नापि निर्वृत्तिर्नाप्यनिर्वृत्तिः, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् यः पञ्चानां स्कन्धानामभिनिर्वृत्तिपर्यापन्ननिर्देशः, सा प्रज्ञापारमिता। या पुनः पञ्चस्कन्धानामभिनिर्वृत्तिपर्यापन्ननिर्देशस्य तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् यो धात्वायतनप्रतीत्यसमुत्पादाभिनिर्वृत्तिपर्यापन्ननिर्देशः, सा प्रज्ञापारमिता। या पुनर्धात्वायतनप्रतीत्यसमुत्पादाभिनिर्वृत्तिपर्यापन्ननिर्देशस्य तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् यो विपर्यासनीवरणाभिनिर्वृत्तिपर्यापन्ननिर्देशः, सा प्रज्ञापारमिता। या पुनर्विपर्यासनीवरणाभिनिर्वृत्तिपर्यापन्ननिर्देशस्य तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् यः षट्त्रिंशत्तृष्णाचरिताभिनिर्वृत्तिपर्यापन्ननिर्देशः, सा प्रज्ञापारमिता। या पुनः षट्त्रिंशत्तृष्णाचरिताभिनिर्वृत्तिपर्यापन्ननिर्देशस्य तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् यो ध्यानविमोक्षसमाधिसमापत्तिनिर्देशः, सा प्रज्ञापारमिता। या पुनर्ध्यानविमोक्षसमाधिसमापत्तिनिर्देशस्य तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् यः पञ्चानामभिज्ञानां निर्देशः, सा प्रज्ञापारमिता। या पुनः पञ्चानामभिज्ञानां निर्देशस्य तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् यः संस्कृतपर्यापन्नानां लौकिकानां सर्वेषां कुशलाकुशलानां धर्माणामभिनिर्वृत्तिपर्यापन्ननिर्देशः, सा प्रज्ञापारमिता। या पुनस्तेषां निर्देशस्य तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् यः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाभिनिर्वृत्तिपर्यापन्ननिर्देशः, सा प्रज्ञापारमिता। या पुनः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाभिनिर्वृत्तिपर्यापन्ननिर्देशस्य तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् यश्चतुरार्यसत्यनिर्देशः, सा प्रज्ञापारमिता। या पुनश्चतुरार्यसत्यनिर्देशस्य तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् यः शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनविशुद्धिनिर्देशः, सा प्रज्ञापारमिता। या पुनः शीलसमाधिप्रज्ञाविमुक्तिज्ञानदर्शनविशुद्धिनिर्देशस्य तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् योऽसंस्कृतपर्यापन्नानां लोकोत्तराणामनिश्रितानामनास्रवानां धर्माणां निर्देशः, सा प्रज्ञापारमिता। या पुनरसंस्कृतपर्यापन्नानां लोकोत्तराणामनिश्रितानामनास्रवाणां धर्माणां निर्देशस्य तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् यः शून्यतानिमित्ताप्रणिहितानुत्पादानभिसंस्कृतधर्मस्य निर्देशः, सा प्रज्ञापारमिता। या पुनः शून्यतानिमित्ताप्रणिहितानुत्पादानभिसंस्कृतधर्मनिर्देशस्य तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् यो विद्याविमुक्तिविरागनिरोधनिर्वाणनिर्देशः, सा प्रज्ञापारमिता। या पुनर्विद्याविमुक्तिविरागनिरोधनिर्वाणनिर्देशस्य तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥



तत्कस्माद्धेतोः ? न हि सुविक्रान्तविक्रामिन् रूपपर्यापन्ना प्रज्ञापारमिता। एवं न वेदना न संज्ञा न संस्काराः। न विज्ञानपर्यापन्ना प्रज्ञापारमिता। न पृथिव्यप्तेजोवाय्वाकाशपर्यापन्ना प्रज्ञापारमिता। न कामधातु-न रूपधातु-नारूपधातुपर्यापन्ना प्रज्ञापारमिता। न संस्कृतासंस्कृतधर्मपर्यापन्ना प्रज्ञापारमिता। न लौकिकलोकोत्तरसास्रवानास्रवधर्मपर्यापन्ना प्रज्ञापारमिता। न कुशलाकुशलधर्मपर्यापन्ना प्रज्ञापारमिता। न सत्त्वधातुपर्यापन्नानासत्त्वधातुपर्यापन्ना प्रज्ञापारमिता। नाप्येभिर्धर्मैर्विनिर्मुक्ता प्रज्ञापारमिता॥



न हि सुविक्रान्तविक्रामिन् प्रज्ञापारमिता कस्मिंश्चिद्धर्मे पर्यापन्ना नाप्यपर्यापन्ना। या च पर्यापन्नापर्यापन्नानां धर्माणां तथता अवितथता अनन्यतथता यावत्तथता, इयं प्रज्ञापारमिता॥



तथतेति सुविक्रान्तविक्रामिन् कस्यैतदधिवचनम् ? न ह्येते सुविक्रान्तविक्रामिन् तथा धर्मा यथा बालपृथग्जनैरुपलब्धाः, न चान्यथा। यथा धर्मास्तथागतैस्तथागतश्रावकैर्बोधिसत्त्वैश्च दृष्टाः, तथैव ते सर्वधर्माः, तथता अवितथता अनन्यतथता यावत्तथता, तेनोच्यते तथतेति। अयं सुविक्रान्तविक्रामिन् बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितानिर्देशः॥



न खलु पुनरियं सुविक्रान्तविक्रामिन् प्रज्ञापारमिता कस्यचिद्धर्मस्य हानाय वा विवृद्धये वा प्रत्युपस्थिता, नापि कस्यचिद्धर्मस्य संयोगाय वा विसंयोगाय वा, ऊनत्वाय वा पूर्णत्वाय वा, अपचयाय वा उपचयाय वा, संक्रान्तये वा अवक्रान्तये वा, उत्पादाय वा निरोधाय वा, संक्लेशाय वा व्यवदानाय वा, प्रवृत्तये वा निवृत्तये वा, समुदयाय वा अस्तंगमाय वा, सलक्षणाय वा अलक्षणाय वा, समतायै वा विसमतायै वा, संवृत्यै वा परमार्थाय वा, सुखाय वा दुःखाय वा, नित्यतायै वा अनित्यतायै वा, शुभतायै वा अशुभतायै वा, आत्मतायै वा अनात्मतायै वा, सत्यतायै वा मृषतायै वा, कर्तृत्वेन वा अकर्तृत्वेन वा, कारणत्वेन वा अकारणत्वेन वा, संभवाय वा असंभवाय वा, स्वभावतायै वा अस्वभावतायै वा, च्युतये वा उपपत्तये वा, जायते वा अजायते वा, अभिनिर्वृत्तये वा अनभिनिर्वृतये वा, उपपत्तये वा उपपत्तिसमुच्छेदाय वा, सामग्र्यै वा विसामग्र्यै वा, सरागाय वा विरागाय वा, सदोषाय वा विगतदोषाय वा, समोहाय वा विगतमोहाय वा, विपर्यासाय वा अविपर्यासाय वा, आरम्बणाय वा अनारम्बणाय वा, क्षयाय वा अक्षयाय वा, ज्ञानाय वा अज्ञानाय वा, नीचत्वाय वा उच्चत्वाय वा, उपकाराय वा निरूपकाराय वा, गमनाय वा आगमनाय वा, अस्तित्वाय वा नास्तित्वाय वा, अनुनयाय वा प्रतिघाय वा, आलोकाय वा अन्धकाराय वा, कौसीद्याय वा वीर्यारम्भाय वा, शून्यतायै वा अशून्यतायै वा, निमित्ततायै वा अनिमित्ततायै वा, प्रणिधानाय वा अप्रणिधानाय वा, अभिसंस्काराय वा अनभिसंस्काराय वा, अन्तर्धानाय वा अनन्तर्धानाय वा, विद्यायै वा विमुक्तये वा, शान्ततायै वा अनुपशान्ततायै वा, निर्वृत्तये वा अनभिनिर्वृत्तये वा, योनिशाय वा अयोनिशाय वा, परिज्ञायै वा अपरिज्ञायै वा, निर्याणाय वा अनिर्याणाय वा, विनयाय वा अविनयाय वा, शीलाय वा दौःशील्याय वा, विक्षिप्ततायै वा अविक्षिप्ततायै वा, प्रज्ञतायै वा दुष्प्रज्ञतायै वा, विज्ञानाय वा अविज्ञानाय वा, स्थितये वा अस्थितये वा, सभागतायै वा विसभागतायै वा, भवाय वा विभवाय वा, प्राप्तये वा अप्राप्तये वा, अभिसमयाय वा अनभिसमयाय वा, साक्षात्क्रियायै वा असाक्षात्क्रियायै वा, प्रतिवेधाय वा अप्रतिवेधाय वा प्रत्युपस्थिता इति॥



(प्रज्ञापारमितायां) तथतापरिवर्तो नाम तृतीयः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project