Digital Sanskrit Buddhist Canon

१ निदानपरिवर्तः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

1 nidānaparivartaḥ

सुविक्रान्तविक्रामिपरिपृच्छा नाम सार्धद्विसाहस्रिका प्रज्ञापारमिता।

१ निदानपरिवर्तः।



एवं मया श्रुतम्। एकस्मिन् समये भगवान् राजगृहे विहरति स्म वेणुवने कलन्दकनिवापे महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैः, अप्रमेयासंख्यैश्च बोधिसत्त्वैर्महासत्त्वैः नानाबुद्धक्षेत्रसंनिपतितैरेकजातिप्रतिबद्धैः। तेन खलु पुनः समयेन भगवाननेकशतसहस्रया पर्षदा परिवृतः पुरस्कृतो धर्मं देशयति स्म॥



अथ खलु तस्यामेव पर्षदि सुविक्रान्तविक्रामी नाम बोधिसत्त्वो महासत्त्वः संनिपतितोऽभूत्संनिषण्णः। स उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्-पृच्छेयमहं भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्धं कंचिदेव प्रदेशम्, सचेद् भगवानवकाशं कुर्यात् पृष्टश्च प्रश्नव्याकरणाय। एवमुक्ते भगवान् सुविक्रान्तविक्रामिणं बोधिसत्त्वं महासत्त्वमेतदवोचत्-पृच्छ त्वं सुविक्रान्तविक्रामिंस्तथागतमर्हन्तं सम्यक्संबुद्धं यद्यदेवाकाङ्क्षसि। अहं ते तस्य तस्यैव प्रश्न(स्य) व्याकरणेन चित्तमाराधयिष्यामि॥



एवमुक्ते सुविक्रान्तविक्रामी बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-प्रज्ञापारमिता प्रज्ञापारमितेति भगवन्नुच्यते। कियता भगवन् बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता प्रज्ञापारमितेत्युच्यते ? कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति? कथं भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमिताभावना परिपूरिं गच्छति ? कथं भगवन् बोधिसत्त्वस्य प्रज्ञापारमितां भावयतो मारः पापीयानवतारं (न) लभते, सर्वमारकर्माणि चावबुध्यते ? कीदृग्रूपैश्व भगवन् प्रज्ञापारमिताविहारैर्विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रं सर्वज्ञताधर्मपरिपूरिमधिगच्छति ?

एवमुक्ते भगवान् सुविक्रान्तविक्रामिणं बोधिसत्त्वं महासत्त्वमेतदवोचत्-साधु साधु सुविक्रान्तविक्रामिन्, यस्त्वं तथागतमर्हन्तं सम्यक्संबुद्धं प्रज्ञापारमितां परिपृच्छसि बोधिसत्त्वानां महासत्त्वानामर्थाय, यथापि नाम त्वं बहुजनहिताय प्रतिपन्नो बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च, एतर्ह्यनागतानां च बोधिसत्त्वानां महासत्त्वानामालोकं कर्तुकाम इति॥



अथ खलु भगवान् जानन्नेव सुविक्रान्तविक्रामिणं बोधिसत्त्वं महासत्त्वं परिपृच्छति स्म-किं त्वं सुविक्रान्तविक्रामिन् अर्थवशं संपश्यंस्तथागतमेतदर्थं परिपृच्छसि ? एवमुक्ते सुविक्रान्तविक्रामी बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-सर्वसत्त्वानां वयं भगवन्नर्थाय तथागतमेतमर्थं परिपृच्छामः सर्वसत्त्वहिताय सर्वसत्त्वानुकम्पायै। तत्कस्माद्धेतोः ? प्रज्ञापारमिता भगवन् सर्वधर्माणां ग्राहिका यदुत श्रावकप्रत्येकबुद्धबोधिसत्त्वसम्यक्संबुद्धधर्माणाम्। अतो भगवंस्तथागतविषयं तथागतज्ञानं च निर्दिशतु। तत्र ये सत्त्वा नियताः श्रावकयाने भविष्यन्ति, ते क्षिप्रमनास्रवां भूमिं साक्षात्करिष्यन्ति। ये प्रत्येकबुद्धयाने नियता भविष्यन्ति, ते क्षिप्रं प्रत्येकबुद्धयानेन निर्यास्यन्ति। ये अनुत्तरां सम्यक्संबोधिं संप्रस्थिताः, ते क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते। ये च अनवक्रान्तसम्यक्त्वनियामा अनियतास्तिसृषु भूमिषु, ते श्रुत्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयिष्यन्ति। सर्वसत्त्वानां च भगवन् कुशलमूलसंजननं कृतं भविष्यति तथागतेन इमं प्रज्ञापारमिताप्रश्नं विसर्जयता। न च वयं भगवन् हीनाधिमुक्तिकानां सत्त्वानां कृतशस्तथागतं परिपृच्छामः, न दरिद्रचित्तानाम्, न दरिद्रमानससमन्वागतानाम्, न कुसीदानाम्, न कौसीद्याभिभूतानाम्, न दृष्टिपङ्कावसन्नानाम्, न मारपाशबद्धानाम्, नानपत्रपाणाम्, नासंलेखसमन्वागतानाम्, न मुषितस्मृतीनाम्, न भ्रान्तचित्तानाम्, न कामपङ्कमग्नानाम्, न शठानाम्, न मायाविनाम्, नाकृतज्ञानाम्, न पापेच्छानाम्, न पापसमाचाराणाम्, न शीलविपन्नानाम्, नापरिशुद्धशीलानाम्, न दृष्टिविपन्नानाम्, न मारगोचरचारिणाम्, नात्मोत्कर्षकाणाम्, न परपंसकानाम्, न लाभसत्कारगुरुकाणाम्, न पात्रचीवराध्यवसितानाम्, न कुहकानाम्, न लपकानाम्, न नैमित्तिकानाम्, न नैष्पेषिकाणाम्, न लाभेन लाभचिकीर्षुकाणाम्। न वयं भगवन् एवंरूपाणां सत्त्वानां कृतशस्तथागतं परिपृच्छामः। ये पुनर्भगवन् सत्त्वाः सर्वज्ञज्ञानं प्रार्थयन्ति, असङ्गज्ञानं स्वयंभूज्ञानमसमज्ञानमनुत्तरज्ञानं प्रार्थयन्ते, ये नात्मानमुपलभन्ते न परम्, कुतः पुनरात्मानमुत्कर्षयिष्यन्ति परं वा पसंयिष्यन्ति, तेषां निहतमानानां वयं भगवंश्छिन्नविषाणवृषभोपमानां बोधिसत्त्वानां महासत्त्वानामाव्रीढशल्यानां नीचमानसानां चण्डालकुमारकोपमचित्तानां पृथिव्यप्तेजोवाय्वाकाशसमचितानां भगवन् सत्त्वानामर्थाय तथागतं परिपृच्छामो बोधिसत्त्वानां महासत्त्वानाम्। ये धर्ममपि नोपलभन्ते नाभिनिविशन्ते कुतः पुनरधर्मम्, तेषां वयं भगवन्नर्थाय तथागतं परिपृच्छामो बोधिसत्त्वानां महासत्त्वानामाशयशुद्धानामशठानाममायाविनामृजुकानां समचित्तानां सर्वसत्त्वहितामुकम्पकानां समादापकानां समुत्तेजकानां संप्रहर्षकाणां महाभारवाहिकानां महायानसमारूढानां महाकृत्येन प्रत्युपस्थितानां महाकारुणिकानां सर्वसत्त्वहितसुखावहानां नायकानां विनायकानां परिणायकानां सर्वधर्मानिश्रितविहारिकाणां सर्वोपपत्त्यायतनानर्थिकानां सर्वमारपाशविनिर्मुक्तानां छन्दिकानां वीर्यवतामप्रमत्तानां सर्वधर्मपरमपारमिप्राप्तानां सर्वसंशयच्छेदनकुशलानाम्। (तेषां) वयं भगवन् सत्त्वानां कृतशस्तथागतं परिपृच्छामो बोधिसत्त्वानां महासत्त्वानाम्। ये ते भगवन् सत्त्वा बोधिज्ञानमपि न मन्यन्ते नाभिनिविशन्ते नाध्यवसाय तिष्ठन्ति, सर्वमन्यनासमतिक्रान्ता मार्गस्थिता मार्गप्रतिपन्ना मार्गदैशिकाः, तेषां वयं भगवन् सत्त्वानां कृतशस्तथागतं परिपृच्छामो बोधिसत्त्वानां महासत्त्वानां च। सर्वसत्त्वानां वयं भगवन्नर्थाय हिताय सुखाय योगक्षेमाय तथागतं परिपृच्छामः, सर्वसत्त्वानां वयं भगवन् सुखमुपसंहर्तुकामा अनुत्तरसुखं निरुत्तरसुखं निर्वाणसुखं बुद्धसुखमसंस्कृतसुखम्। तेन वयं भगवन् सर्वसत्त्वानां संशयच्छित्त्यर्थं तथागतं परिपृच्छामः। निःसंशया वयं भगवन् भवितुकामाः, निःसंशयाश्च भगवन् सर्वसत्त्वेभ्यः संशयप्रहाणाय धर्मं देशयितुकामाः। तत्कस्माद्धेतोः ? सर्वसत्त्वा हि भगवन् सुखकामा दुःखप्रतिकूलाः, सर्वसत्त्वाः सुखेनार्थिकाः। न च वयं भगवन् सर्वसत्त्वानां किंचिदन्यत्सुखं समनुपश्यामोऽन्यत्र प्रज्ञातः। न चान्यत्किंचिद्भगवन् सर्वसत्त्वानां सुखमस्ति अन्यत्र बोधिसत्त्वयानान्महायानात्। तेन वयं भगवन् इममर्थवशं संपश्यन्तः सत्त्वानां सुखमुपसंहर्तुकामाः प्रज्ञापारमितां परिपृच्छामः। बोधिसत्त्वानां चैतमर्थं भगवन् समनुपश्यद्भिरस्माभिस्तथागत एतमर्थं परिपृष्टः॥



एवमुक्ते भगवाम् सुविक्रान्तविक्रामिणं बोधिसत्त्वां महासत्त्वमेतदवोचत्-साधु साधु सुविक्रान्तविक्रामिन्। गुणानां ते न सुकरः पर्यन्तोऽधिगन्तुम्, यस्त्वं तथागतं महतो जनकायस्यानुकम्पया इमां प्रज्ञापारमितां परिपृच्छसि। तेन हि त्वं सुविक्रान्तविक्रामिन् शृणु, साधु च सुष्ठु च मनसिकुरु, भाषिष्येऽहं ते। साधु भगवन्निति सुविक्रान्तविक्रामी बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत्॥



भगवानेतदवोचत्-यत्त्वं सुविक्रान्तविक्रामिन् एवं वदसि-प्रज्ञापारमिता प्रज्ञापारमितेति भगवन्नुच्यते, कियता भगवन् बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितेत्युच्यत इति, न हि सुविक्रान्तविक्रामिन् केनचिद्धर्मेण प्रज्ञापारमिता वचनीया। सर्ववचनातिक्रान्ता हि प्रज्ञापारमिता। न हि सुविक्रान्तविक्रामिन् प्रज्ञापारमिता शक्यते वक्तुम्-इयं सा प्रज्ञापारमिता, अस्य वा प्रज्ञापारमिता, अनेन वा प्रज्ञापारमिता, अस्माद्वा प्रज्ञापारमिता। अपारमितैषा सुविक्रान्तविक्रामिन् सर्वधर्माणाम्, तेनोच्यते प्रज्ञापारमितेति। प्रज्ञैव सुविक्रान्तविक्रामिंस्तथागतेन न लब्धा, नोपलब्धा, कुतः पुनः प्रज्ञापारमितामुपलप्स्यते ? प्रज्ञेति सुविक्रान्तविक्रामिन् अज्ञैषा सर्वधर्माणाम्, अजाननैषा सर्वधर्माणाम्, तेनोच्यते प्रज्ञेति। कतमा च सुविक्रान्तविक्रामिन् अजानना सर्वधर्माणाम् ? अन्यथैते सर्वधर्मा अन्यथाभिलप्यन्ते, न चाभिलापविनिर्मुक्ताः सर्वधर्माः। या च अज्ञा सर्वधर्माणाम्, या च अजानना सर्वधर्माणाम्, न सा शक्या वाचा वक्तुम्। अपि तु यथा सत्त्वा अजाननाः, तेनोच्यते प्रज्ञेति। प्रज्ञाप्तिरित्येवोच्यते, तेनोच्यते प्रज्ञेति। सर्वधर्माश्च सुविक्रान्तविक्रामिन् अप्रज्ञपनीयाः, अप्रवर्त्याः, अनिर्देश्याः अदृश्याश्च। यैवमजानना, इयमुच्यते अजाननेति। प्रज्ञेति सुविक्रान्तविक्रामिन् नैषा अज्ञा नाप्यनज्ञा, नाप्यज्ञानज्ञा, ततस्तेनोच्यते प्रज्ञेति। (न) ज्ञानगोचर एष सुविक्रान्तविक्रामिन्, नाज्ञानगोचरः। नाज्ञानविषयो नापि ज्ञानविषयः। अविषयो हि ज्ञानम्। सचेदज्ञानविषयः स्यात, अज्ञानं स्यात्। न ज्ञानमज्ञानतः, नापि ज्ञानतोऽज्ञानम्, नापि ज्ञानमज्ञानम्, नाप्यज्ञानं ज्ञानम्। नाज्ञानेन ज्ञानमित्युच्यते, नापि ज्ञानेन ज्ञानमित्युच्यते।



अज्ञानेन हि ज्ञानमित्युच्यते, न तु तत्र किंचिदज्ञानं यच्छक्यमादर्शयितुम्-इदं तज्ज्ञानम्, अस्य वा तज्ज्ञानम्, अनेन वा तज्ज्ञानम्। तेन तज्ज्ञानं ज्ञानत्वेन न संविद्यते, नापि तज्ज्ञानं तत्त्वेनावस्थितम्, नाप्यज्ञानं ज्ञानमित्युच्यते। सचेदज्ञानेन ज्ञानमित्युच्येत, ततः सर्वे बालपृथग्जना ज्ञानिनो भवेयुः। अपि तु ज्ञानाज्ञानानुपलब्धितो ज्ञानाज्ञानं यथाभूतपरिज्ञा। तदेव ज्ञानमित्युच्यते, न पुनर्यथोच्यते तथा तज्ज्ञानम्। तत्कस्मात् ? न हि ज्ञानं वचनीयम्, नापि ज्ञानं कस्यचिद्विषयः। सर्वविषयव्यतिक्रान्तं हि ज्ञानम्, न च ज्ञानं विषयम् (यः ?)। अयं सुविक्रान्तविक्रामिन् ज्ञाननिर्देशः, अदेशोऽप्रदेशः, येन ज्ञानेनासौ ज्ञानिनां ज्ञानीति संख्यां गच्छति। यैवं सुविक्रान्तविक्रामिन् प्रजानना अनुबोधना अजानना, इयमुच्यते प्रज्ञेति। य एवं सुविक्रान्तविक्रामिन् अभिसमयः, साक्षात्क्रिया, इयमुच्यते लोकोत्तरा प्रज्ञेति, न पुनर्यथोच्यते लोकोत्तरा प्रज्ञेति। तत्कस्माद्धेतोः ? लोक एव नोपलभ्यते, कुतः पुनर्लोकोत्तरा प्रज्ञा ? कः पुनर्वादो यो लोकान् समनुत्तरिष्यति लोकोत्तरया प्रज्ञया ? तत्कस्य हेतोः ? न हि सा लोकमुपलभते, तेन न किंचिदुत्तारयति, तेनोच्यते लोकोत्तरा प्रज्ञेति। लोक इति सुविक्रान्तविक्रामिन् प्रज्ञप्तिर्लोकसमतिक्रमः। सर्वप्रज्ञप्तिसमतिक्रान्तं लोकोत्तरमित्युच्यते। न च पुनर्लोकोत्तरमुत्तरणम्, अनुत्तरणं लोकोत्तरम्। तत्कस्य हेतोः ? अणुरपि तत्र धर्मो न संविद्यते य उत्तर्तव्यो येन चोत्तर्तव्यः। तेनोच्यते लोकोत्तरमिति। लोकोत्तरे हि न लोको विद्यते न लोकोत्तरम्, अनुत्तरस्यानुत्तर(ण) मिति, तेनोच्यते लोकोत्तरमिति। अयमुच्यते सुविक्रान्तविक्रामिन् लोकोत्तरायाः प्रज्ञाया निर्देशः, न पुनर्यथोच्यते लोकोत्तरा प्रज्ञेति। तत्कस्माद्धेतोः ? न हि या लोकोत्तरा सा वचनीया, उत्तीर्णा सा। न तत्र भूयः किंचिदुत्तर्तव्यम्, तेनोच्यते लोकोत्तरा प्रज्ञेति॥



तत्र सुविक्रान्तविक्रामिन् या निर्वेधिका प्रज्ञा, किं सा प्रज्ञा निर्विध्यति ? नात्र किंचिन्निर्वेद्धव्यम्। सचेत्किंचिन्निर्वेद्धव्यमभविष्यत्, प्रज्ञप्येत - इयं सा प्रज्ञा या निर्विध्यतीति। न केनचिद्विध्यते नाविध्यते, न कस्यचिदुत्तरमुपलभ्यते यद्विध्येत। निर्विध्यतीति नात्र किंचिद्विध्यति नाविध्यति, नात्र किंचिद्विध्यते नाविध्यते, तेनोच्यते निर्विध्यतीति। नात्र कश्चिदन्तं प्रयाति नापि मध्यम्, तेनोच्यते निर्विध्यतीति। निर्विध्यति निर्वेधिका प्रज्ञेत्युच्यते निर्विध्यति न क्वचिद्धावति, न विधावति, न संधावति, तेनोच्यते निर्वेधिकेति। अपि तु सुविक्रान्तविक्रामिन् निर्वेधिका प्रज्ञेति किं निर्विध्यति ? यत्किंचिद्दर्शनम्, तत्सर्वं निर्विध्यति। केन निर्विध्यति ? प्रज्ञया निर्विध्यति। किमिति प्रज्ञया निर्विध्यति ? प्रज्ञप्तिलक्षणमिति निर्विध्यति। यत्किंचित्प्रज्ञप्तिलक्षणम्, तत्सर्वमलक्षणमिति, अलक्षणं प्रज्ञप्तिलक्षणमिति। यः सुविक्रान्तविक्रामिन् एवंरूपया प्रज्ञया समन्वागतो विध्यति, स त्रैधातुकं विध्यति। कथं विध्यति ? अधातुकं त्रैधातुकमिति निर्विध्यति। न ह्यत्र कश्चिद्धातुं विध्यति, स त्रैधातुकमधातुकमिति निर्विध्यति। येनैवं त्रैधातुकं निर्विद्धम्, अयमुच्यते नैर्वेधिक्या प्रज्ञया समन्वागत इति। कथं च नैर्वेधिक्या प्रज्ञया समन्वागतः ? न हि किंचिन्निर्वेद्धव्यमकुशलम्, स सर्वं कुशलमिति निर्विध्यति, नैर्वेधिक्या प्रज्ञया अतिक्रामति। स एवं नैर्वेधिक्या प्रज्ञ्या समन्वागतो यत्किंचित्पश्यति शृणोति जिघ्रति आस्वादयति स्पृशति विजानीते वा, तत्सर्वं निर्विध्यति। कथं निर्विध्यति ? अनित्यतो दुःखतो गण्डतो रोगतः शल्यतः शून्यतो अघत आघाततः परतः (प्रलोपतः) प्रलोपधर्मतश्चलतः प्रभङ्गुरतोऽनात्मतोऽनुत्पादतोऽनिरोधतोऽलक्षणत इति। अयमुच्यते सुविक्रान्तविक्रामिन् शीतीभूतोविशल्य इति। तद्यथापि नाम सुविक्रान्तविक्रामिन् विशल्या नाम भैषज्यजातिः। सा यस्मिन् स्थाप्यते ततः सर्वशल्यान्यपनयति निर्विध्यति, एवमेव एवंरूपैर्धर्मैः समन्वागतो भिक्षुर्विशल्यः शीतीभूतो नैर्वेधिक्या प्रज्ञया समन्वागतः संसारात्यन्तविहारी नैर्वेधिकप्रज्ञोविरक्तः सर्वत्रैधातुकात्, अतिक्रान्तः सर्वमारपाशेभ्यः। तद्यथापि नाम सुविक्रान्तविक्रामिन् वज्रं यस्मिन्नेव निक्षिप्यते निर्वेधनार्थम्, तत्तदेव निर्विध्यति, एवमेव भिक्षुर्वज्रोपमसमाधिनैर्वेधिक्या प्रज्ञया परिगृहीतं(चित्तं ? ) यत्र स्थापयति येषु च प्रचारयति, तान् सर्वान्निर्विध्यति। स नैर्वेधिक्या प्रज्ञया समन्वागतो लोकोत्तरया सम्यग्दुःखक्षयगामिन्यानुलिप्तस्त्रविद्य इत्युच्यते।विद्येति सुविक्रान्तविक्रामिन् अविद्योपशमस्यैतदधिवचनम्, अविद्यापरिज्ञेति दुःखस्कन्धव्युपशमस्यैतदधिवचनम्। तद्यथापि नाम सुविक्रान्तविक्रामिन् वैद्यः पण्डितो व्यक्तो मेधावी तन्त्रौपयिकया मीमांसया समन्वागतः स्यात् सर्वभैषज्यकुशलः सर्वव्याध्युत्पत्तिकुशलः सर्वदुःखप्रमोचनकः। स यं यमेव ग्लानं चिकित्सति तं तमेव मोचयत्।तत्कस्माद्धेतोः ? तथा हि स सर्वभैषज्यकुशलः सर्वव्याध्युत्पत्तिकुशलः सर्वरोगविमोचनकः। एवमेव सुविक्रान्तविक्रामिन् तृतीया विद्या सर्वाविद्योपशमाय संवर्तते, सर्वदुःखनिर्यातनाय संवर्तते, सर्वजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासानामुपशमाय संवर्तते। इयमुच्यते सुविक्रान्तविक्रामिन् लोकोत्तरा प्रज्ञा निर्वेधगामिनीति॥



इदं च मे सुविक्रान्तविक्रामिन् संघाय भाषितम् -

प्रज्ञा श्रेष्ठा हि लोकस्य येयं निर्वेधगामिनी।

यया सम्यक् प्रजानाति भवजातिपरिक्षयम्॥ इति॥



भवजातिपरिक्षय इति सुविक्रान्तविक्रामिन् कस्यैतदधिवचनम् ? उदयास्तंगमप्रतिवेधस्यैतदधिवचनम्। कतमश्च उदयास्तंगमप्रतिवेधः ? यत्किंचित्समुदयधर्मि, तत्सर्वं निरोधधर्मि इत्येवं समुदयास्तंगमं प्रतिविध्यति। समुदय इति सुविक्रामिन् उत्पादस्यैतदधिवचनम्, अस्तंगम इति निरोधस्यैतदधिवचनम्, न पुनर्यथोच्यते तथोदयास्तंगमः। यः कश्चित्सुविक्रान्तविक्रामिन् समुदयः, न स उदयधर्मः। न हि सुविक्रान्तविक्रामिन् समस्य कश्चिदुदयः, नापि तत्समुदागच्छति। समतानुयातमेव तत्। तेनोच्यते समुदय इति। समतानुयातमिति सुविक्रान्तविक्रामिन् नात्र कश्चिदुदयति न समुदागच्छति। न तस्य यः स्वभावः स स्वयं संभवः, स निरोधः। तत्र च न कस्यचिन्निरोधः, समुदयानन्तरनिरोधः। यत्रोत्पादो नास्ति, न तत्र निरोधः, स निरोधः। एवं सुविक्रान्तविक्रामिन् यः समुदयास्तंगमप्रतिवेधः अनुत्पादाय अनिरोधाय, सोऽस्तंगमप्रतिवेधः। तेनोच्यते उदयास्तंगमप्रतिवेध इति॥



प्रतिवेध इति सुविक्रान्तविक्रामिन् प्रतीत्यसमुत्पादस्यैषा परिज्ञा। यं प्रतीत्य यो धर्म उत्पद्यते, तमेव प्रतीत्य स धर्मो न संविद्यते। अयमुच्यते प्रतीत्यसमुत्पादप्रतिवेधः। सैषा सुविक्रान्तविक्रामिन् प्रतीत्यसमुत्पादस्य परिज्ञा यथाभूतता अनुत्पादेन सूच्यते। अनुत्पादो हि प्रतीत्यसमुत्पादः। समोऽनुत्पादः। तेनोच्यते प्रतीत्यसमुत्पाद इति। यत्र नास्त्युत्पादः, तत्र कुतो निरोधः ? अनिरोधो निरोधः प्रतीत्यसमुत्पादस्यावबोधः। असमुत्पादः प्रतीत्यसमुत्पाद इत्युच्यते। योऽसमुत्पादः सोऽनुत्पादः। योऽनुत्पादः, स नातीतो न अनागतो न प्रत्युत्पन्नः। तस्य निरोधो न संविद्यते। यस्य निरोधो न संविद्यते, तदुच्यतेऽनुत्पादज्ञानमिति। येन च अनुत्पादो ज्ञातः, स न भूय उत्पादयति, न च निरोधं साक्षात्करोति। यो नोत्पादयति, स न निरोधयति। उत्पादस्य हि सतो निरोधः प्रज्ञायते। येनोत्पादयति, तेन निरुद्धा एव सर्वधर्मा ज्ञाता दृष्टाः प्रतिविद्धाः साक्षात्कृताः। तेनोच्यते निरोधः साक्षात्कृत इति॥



क्षयज्ञानमिति सुविक्रान्तविक्रामिन् क्षीणमज्ञानम्। तेनोच्यते क्षयज्ञानमिति। केन क्षीणम् ? अक्षयतया क्षीणम्। क्षयमस्य न समनुपश्यति। अज्ञानविगम एष सुविक्रान्तविक्रामिन्। तेनोच्यते क्षयज्ञानमिति। अज्ञानपरिज्ञैषा सुविक्रान्तविक्रामिन्। तेनोच्यते अज्ञानक्षयः क्षयज्ञानमिति। न हि अज्ञानं क्षयो वा अक्षयो वा। विगम एष सुविक्रान्तविक्रामिन् ज्ञास्यते। तेनोच्यते क्षयज्ञानमिति। यथाभूतपरिज्ञैषा सुविक्रान्तविक्रामिन्। तेनोच्यते विगम इति। न किंचिदन्यदुपलभ्यते इदं तज्ज्ञानविगम इति। ज्ञानमेव नोपलभ्यते, कुतः पुनरज्ञानम्। यस्य कस्यविद्विमुक्ति, तेनोच्यते क्षयज्ञानमिति, न पुनर्यथोच्यते। यस्य पुनः क्षयज्ञानम्, तस्य न कश्चिद्व्यवहारः। अपि तु निर्देश एषः अज्ञानक्षय इति वा क्षय(ज्ञान)मिति। इयं सुविक्रान्तविक्रामिन् अक्षयक्षयज्ञानपरीक्षा सर्वधर्माणां येनावबुद्धा स क्षयज्ञानविगतः, अक्षयकोटिमनुप्राप्तः। अकोटिर्निवाणकोटिः, न पुनर्यथोच्यते। अवचनीयं निर्वाणं सर्वव्यवहारसमुच्छिन्नम्। अयं सुविक्रान्तविक्रामिन् निर्वाणधातुनिर्देशः, न पुनर्यथा निर्दिष्टः। अनिर्देश्यो हि निर्वाणधातुः सर्वनिर्देशसमतिक्रान्तः सर्वनिर्देशसमुच्छिन्नो निर्वाणधातुः। अयमुच्यते लोकोत्तराया निर्वेधिकायाः प्रज्ञाया निर्देशः, योऽयं निर्वाणधातुरिति। न च सुविक्रान्तविक्रामिन् निर्वाणधातुर्देशस्थो न प्रदेशस्थः। एषोऽस्य निर्देश इति॥



तत्र कतमा सुविक्रान्तविक्रामिन् प्रज्ञापारमिता ? न हि सुविक्रान्तविक्रामिन् प्रज्ञापारमितायाः किंचिदारं वा पारं वा। सचेत्सुविक्रान्तविक्रामिन् प्रज्ञापारमिताया आरं वा पारं वा उपलभ्येत, निर्दिशेत्तथागतः प्रज्ञाया आरं वा पारं वा। न च सुविक्रान्तविक्रामिन् प्रज्ञापारमिताया आरमुपलभ्यते, तेनास्याः पारं न निर्दिश्यते। अपि तु सुविक्रान्तविक्रामिन् प्रज्ञापारमितेति पारमेतत्सर्वधर्माणां ज्ञानकर्मणाम्, तेनोच्यते प्रज्ञापारमितेति, न पुनर्यथोच्यते। न हि वाचा न कर्मणा प्रज्ञापारमिता प्रत्युपस्थिता। अनिर्देश्या हि सुविक्रान्तविक्रामिन् प्रज्ञापारमिता। सर्वधर्माणामेषोऽनुबोधः। यश्चानुबोधः, सोऽविरोधः। तत्कस्माद्धेतोः ? न हि तत्र किंचिदनुबुद्धम्, न प्रतिविद्धम्। अनुबोधप्रतिवेधसमता हि बोधिः सर्वधर्मानुबोधाद्बोधिरित्युच्यते। कथं च सर्वधर्मानुबोधः ? नात्र काचिद्बोधिर्नाप्यत्र कश्चि(दनु)बोधः। तत्कस्माद्धेतोः ? सचेत् सुविक्रान्तविक्रामिन् बोधिरुपलभ्येत, लब्धा स्याद्बोधौ बोधिः। न च सुविक्रान्तविक्रामिन् बोधौ बोधिः संविद्यते। एवमेषा बोधिरभिसंबोद्धव्या। अननुबोधादप्रतिवेधादनुबुध्येत्युच्यते, न पुनर्यथोच्यते सर्वधर्मा ह्यननुबुद्धा अप्रतिविद्धाः। न च पुनर्धर्मो धर्मस्वभावेन संविद्यते अनेनानुबोधेन। इयमुच्यते बोधिरिति। न हि सुविक्रान्तविक्रामिंस्तथागतेन बोधिरुपलब्धा, नापि तथागतेन बोधिर्विज्ञप्ता। अविज्ञपनीया अप्रज्ञपनीया बोधिः। न च तथागतेन बोधिर्ज्ञाता न जनिता। अजाता अनभिनिर्वृत्ता हि बोधिः। न च बोधिः कस्यविद्विषयः, न च बोधौ कश्चित्सत्त्वो वा सत्त्वप्रज्ञप्तिर्वा। यत्र नस्ति सत्त्वो वा सत्त्वप्रज्ञप्तिर्वा, कथं वक्तव्योऽयं बोधिसत्त्वः, इयं बोधिसत्त्वस्य प्रज्ञापारमितेति ? न हि सुविक्रान्तविक्रामिन् बोधौ बोधिः, न च बोधौ कश्चित्सत्त्वः। अतिक्रान्ता ह्येषा बोधिः, अनुत्पन्नैषा बोधिः, अनभिसंवृत्तैषा बोधिः, अलक्षणैषा बोधिः। न चास्यां सत्त्वः संविद्यते, नोपलभ्यते। न बोधिः सत्त्वतया प्रज्ञप्ता। निःसत्त्वानुबोधो हि बोधिरित्युच्यते। बोधि(र)सत्त्वतेति येन ज्ञाता, स उच्यते बोधिसत्त्व इति। तत्कमाद्धेतोः ? न हि सुविक्रान्तविक्रामिन् बोधिसत्त्वः सत्त्वसंज्ञाप्रभावितः। सत्त्वसंज्ञाविभावनाद्बोधिसत्त्व इत्युच्यते, न पुनर्यथोच्यते। तत्कस्माद्धेतोः ? अवचनीयो हि बोधिसत्त्वः, सत्त्वस्वभावविगतो हि बोधिसत्त्वः, सत्त्वसंज्ञाविगता हि बोधिः। येनैवं बोधिर्ज्ञाता, स बोधिसत्त्व इत्युच्यते। किमिति बोधिर्ज्ञाता ? अतिक्रान्तैषा बोधिः, अकरणीयैषा बोधिः, अनुत्पादानिरोधो ह्येषा बोधिः। न बोधिर्बोधिं विज्ञापयति, नापि बोधिर्विज्ञापनीया। अविज्ञापनीया अप्रज्ञपनीया अनभिनिर्वर्तनीया बोधिरित्युच्यते। येन च अनुबुद्धा प्रतिबुद्धा अविकल्पा कल्पसमुच्छेदाय, तेनोच्यते बोधिसत्त्व इति, न पुनर्यथोच्यते। तत्कस्मात् ? निःसत्त्वत्वात्। यदि बोधिसत्त्वः समुपलभ्येत, लब्धा स्याद्बोधिः - इयं सा बोधिः, अस्यामयं सत्त्वा इति। असत्त्वनिःसत्त्वसत्त्वावगमानुबोधाद्बोधिसत्त्व इत्युच्यते। निःसत्त्वतया सत्त्वसंज्ञाविभावनतया असत्त्वसंज्ञाविभावनतया बोधिसत्त्व इत्युच्यते। तत् कस्मात् ? सत्त्वधातुरित्यसत्त्वताया एतदधिवचनम्। न हि सत्त्वः सत्त्वे संविद्यते, असंविद्यमानत्वात्सत्त्वधातोः। यदि सत्त्वे सत्त्वः स्यात्, नोच्येत सत्त्वधातुरिति। अधातुनिदर्शनमेतत् सत्त्वधातुरिति। अधातुको हि सत्त्वधातुः। यदि सत्त्वधातौ सत्त्वधातुर्भवेत्, सजीवस्तच्छरीरं भवेत्। अथ सत्त्वधातुनिर्मुक्तो धातुर्भवेत्, अधातुको हि सत्त्वधातुः। धातुः संकेतेन व्यवहारपदं गच्छति। न हि सत्त्वधातौ धातुः संविद्यते, नाप्यन्यत्र सत्त्वधातोः सत्त्वधातुः संविद्यते। अधातुका हि सर्वधर्माः। इदं च मे संधाय भाषितम्-न सत्त्वधातोरूनत्वं वा पूर्णत्वं वा प्रज्ञायते। तत्कस्माद्धेतोः ? असत्त्वात् सत्त्वधातोः, विविक्तत्वात्सत्त्वधातोः। यथा च सत्त्वधातोर्नोनत्वं न पूर्णत्वं प्रज्ञायते, एवं सर्वधर्माणामपि नोनत्वं न पूर्णत्वं प्रज्ञायते। सर्वधर्माणां हि न काचित्परिनिष्पत्तिः, येनैषामूनत्वं वा पूर्णत्वं वा भवेत्। य एवं सर्वधर्माणामनुबोधः, स उच्यते सर्वधर्मानुबोध इति। इयं च मया संधाय वाग्भाषिता–यथा सत्त्वधातोर्नोनत्वं न पूर्णत्वं प्रज्ञायते, एवं सर्वधर्माणामपि नोनत्वं न पूर्णत्वं प्रज्ञायत इति। यच्च सर्वधर्माणामनूनत्वमपूर्णत्वम्, तदपरिनिष्पत्तियोगेन, तदेव बुद्धधर्माणामपि अनूनत्वमपूर्णत्वम्। एवं सर्वधर्माणामनुबोधाद्बुद्धधर्माणामनूनत्वमपूर्णत्वम्। सर्वधर्माणामनूनत्वादपूर्णत्वाद्बुद्धधर्मा इति। तेन तद्बुद्धधर्माणामधिवचनम्। न हि बुद्धधर्माः केनचिच्छक्या ऊना वा पूर्णा वा कर्तुम्। तत्कस्माद्धेतोः ? सर्वधर्मानुबोध एषः। यश्च सर्वधर्मानुबोधः, तत्र न कस्यचिद्धर्मस्य ऊनत्वं वा पूर्णत्वं वा। सर्वधर्मा इति धर्मधातोरेतदधिवचनम्। न च धर्मधातोरूनत्वं वा पूर्णत्वं वा। तत्कस्य हेतोः ? अनन्तो हि धर्मधातुः। न हि सत्त्वधातोश्च धर्मधातोश्च नानात्वमुपलभ्यते, नापि सत्त्वधातोर्वा धर्मधातोर्वा ऊनत्वं वा पूर्णत्वं वोपलभ्यते वा संविद्यते वा। य एवमनुबोधः, इयमुच्यते बोधिरिति। तेनोच्यते-न बुद्धधर्माणामूनत्वं वा पूर्णत्वं वा प्रज्ञायत इति। अनूनत्वपूर्णत्वमिति सुविक्रान्तविक्रामिन् यथावदविकल्पस्य यथाभूतदर्शनस्यैतदधिवचनम्। न तत्र शक्यं केनचिदुत्क्षेप्तुं वा प्रक्षेप्तुं वा। य एवमनुबोधः, इयमुच्यते बोधिरिति। (बोधिरिति) सुविक्रान्तविक्रामिन् बुद्धलक्षणमेतत्। कथं बुद्धलक्षणम् ? सर्वधर्मलक्षणान्यलक्षणम्, एतद्बुद्धलक्षणम्। अलक्षणा हि बोधिर्लक्षणस्वभावविनिवृत्ता। य एवमनुबोधः, इयमुच्यते बोधिरिति, न पुनर्यथोच्यते। एषां हि सुविक्रान्तविक्रामिन् धर्माणामनुबोधत्वाद्बोधिसत्त्व इत्युच्यते। यो हि कश्चित् सुविक्रान्तविक्रामिन् इमान् धर्मानप्रजानन्ननवबुध्यमानो बोधिसत्त्व इत्यात्मानं प्रतिजानीते, दूरे तस्य बोधिसत्त्वस्य बोधिसत्त्वभूमिः, दूरे बोधिसत्त्वधर्माः, विसंवादयति सदेवमानुषासुरं लोकं बोधिसत्त्वनाम्ना। सचेत्पुनः सुविक्रान्तविक्रामिन् वाङ्मात्रेण बोधिसत्त्वो भवेत्, तेन सर्वसत्त्वा अपि बोधिसत्त्वा भवेयुः। नैतत्सुविक्रान्तविक्रामिन् वाङ्मात्रं यदुत बोधिसत्त्वभूमिरिति। न च वाचा शक्यमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्। न हि वाक्कर्मणा बोधिः प्राप्यते, नापि बोधिसत्त्वधर्माः। सर्वसत्त्वाः सुविक्रान्तविक्रामिन् बोधाय चरन्ति, न च जानन्ति न बुध्यन्ते। ते न बोधिसत्त्वा इत्युच्यन्ते। तत्कस्माद्धेतोः ? न हि सत्त्वा असत्त्वमिति प्रजानन्ति। सचेदेवं ते जानीयुः, आत्मचरितैर्बोधिसत्वा भवेयुः। विपर्यस्ताः पुनः सत्त्वाः स्वचर्यां स्वविषयं स्वगोचरं न प्रजानन्ति। सचेदात्मचर्यां प्रजानीयुः, न ते भूयः कस्मिंश्चिद्विकल्पे चरेयुः। ताभिर्विकल्पचर्याभिः सर्वबालपृथग्जना अभूतारम्बणे चरन्ति। ते बोधिमपि आरम्बणीकृत्य मन्यन्ते। तेषामारम्बणचरितानां विकल्पचरितानां कुतो बोधिः, कुतो बोधिसत्त्वधर्माः ? य एवं धर्मं प्रजानन्ति, न ते भूयोऽभूतारम्बणे चरन्ति। न ते भूयः कंचिद्धर्मं मन्यन्ते। तेनोच्यते - अचर्या बोधिसत्त्वचरेति। न बोधिसत्त्वाः कल्पे न विकल्पे चरन्ति। यत्र च न कल्पो न विकल्पः, न तत्र काचिच्चर्या। यत्र चाविकल्पः, न तत्र कस्यचिच्चर्या। बुद्धबोधिसत्त्वानां सर्वचर्या अविकल्पचर्येति। सर्वा मन्यना असारम्बणा। स एवं सर्वधर्मान् प्रजानन् न भूय आरम्बणे वा विकल्पे वा चरति विचरति वा। इयं बोधिसत्त्वानां चर्या अचर्यायोगेन। एवं हि सुविक्रान्तविक्रामिन् धर्मानवबुध्यन्ते प्रतिबुध्यन्ते, तेनोच्यन्ते बोधिसत्त्वा इति॥



असत्त्वेति बोधिसत्त्वस्यैतदधिवचनम्। बिभाविता हि तेन सत्त्वाः सर्वसंज्ञाः। तत्कस्माद्धेतोः ? ज्ञाता हि तेन भूताः सर्वसत्त्वाः, असत्त्वाः सर्वसत्त्वाः विपर्याससत्त्वाः सर्वसत्त्वाः, परिकल्पितसत्त्वाः सर्वसत्त्वाः, अभूतारम्बणसत्त्वाः सर्वसत्त्वाः, स्वचर्याविप्रनष्टसत्त्वाः सर्वसत्त्वाः, अविद्यासंस्कारसत्त्वाः सर्वसत्त्वा इति। तत्कस्य हेतोः ? ये धर्माः सर्वसत्त्वानां न संविद्यन्ते, तान् धर्मानभिसंस्कुर्वन्ति। तेनोच्यते सर्वसत्त्वा अविद्यासंस्कारसत्त्वा इति। कतमो धर्मो न संविद्यते ? अहमिति वा ममेति वा अहमस्मीति वा न कश्चिद्धर्मो विद्यते। सचेत्कश्चिद्धर्मः स्यात्-अहमिति वा ममेति वा अहमस्मीति वा, तेन भूताः सत्त्वा अभविष्यन्। यस्मात्तर्हि सुविक्रान्तविक्रामिन् न स कश्चिद्धर्मः, यः अहमिति वा ममेति वा अहमस्मीति वा, तेनोच्यते-अभूताः सर्वसत्त्वा इति, अविद्यासंस्कारसत्त्वाः सर्वसत्त्वा इति। न हि कश्चित् सुविक्रान्तविक्रामिन् सत्त्वो नाम धर्मः संविद्यते यस्य स्यादहमिति वा ममेति वा अहमस्मीति वा। यस्माच्च न संविद्यते, तस्मादभूताः सत्त्वा इत्युच्यन्ते। अभूता इति असत्त्वानामेतदधिवचनम्। यथा वा पुनरभूतायां सत्त्वसंज्ञायामभिनिविष्टाः, तस्मादुच्यते अभूताः सत्त्वा इति। अभूतमिति सुविक्रान्तविक्रामिन् नात्र किंचिद्भूतं न संभूतम्। सर्वधर्मा हि अभूता असंभूताः। तत्र सत्त्वा अभूता अध्यवसिता विनिबध्यन्ते, तेनोच्यन्ते अभूतारम्बणाः सत्त्वा इति। तां ते स्वचर्यामप्रजानन्तः अभूतसत्त्वा इत्युच्यन्ते। अपरिबोधना पुनर्यस्याश्चर्यावबोधाद्बोधिसत्त्वा इत्युच्यते॥



य एवं सुविक्रान्तविक्रामिन् धर्मानवबुध्यते, स उच्यते बोधिसत्त्व इति। बोधिसत्त्व इत्यनुबुद्धसत्त्वस्यैतदधिवचनम्, येन सर्वधर्मा बुद्धा ज्ञाताः। कथं ज्ञाताः ? अभूता असंभूता अवितथाः, नैते तथा यथा बालपृथग्जनैः कल्पिताः। नैते तथा यथा बालपृथग्जनैर्लब्धाः। तेनोच्यन्ते बोधिसत्त्वा इति। तत्कस्य हेतोः ? अकल्पिता अविकल्पिता हि बोधिः, अविठपिता हि बोधिः, अनुपलम्भा हि बोधिः। न हि सुविक्रान्तविक्रामिंस्तथागतेन बोधिर्लब्धा। अलम्भात्सर्वधर्माणामनुपलम्भात्सर्वधर्माणां बोधिरित्युच्यते। एवं बुद्धबोधिरित्युच्यते, न पुनर्यथोच्यते। येन सुविक्रान्तविक्रामिन् बोधाय चित्तमुत्पादयन्ति-इदं चित्तं बोधायोत्पादयिष्याम इति बोधिं मन्यन्ते, अस्त्यसौ बोधिर्यस्यां वयं चित्तमुत्पादयिष्याम इति, न ते बोधिसत्त्वा इत्युच्यन्ते, उत्पन्नसत्त्वास्त उच्यन्ते। तत्कस्माद्धेतोः ? तथा हि उत्पादाभिनिविष्टाश्चित्ताभिनिविष्टा बोधिमभिनिविशन्ते। ये बोधाय चित्तमुत्पादयन्ति, ते बोधिचित्ताभिनिविष्टा बोधिसत्त्वा इत्युच्यन्ते। यस्मादभिसंस्कुर्वन्ति, तस्मात्ते बोधाय चित्तमुत्पादयन्ति। तेनोच्यन्ते। अभिसंस्कारसत्त्वा इति। न ते बोधिसत्त्वाः। तत्कस्य हेतोः ? उत्पन्नसत्त्वास्त उच्यन्ते। न हि सुविक्रान्तविक्रामिन् शक्यं बोधाय चित्तमुत्पादयितुम्। अनुत्पन्ना हि बोधिः, अचित्ता हि बोधिः। उत्पादमेव ते सुविक्रान्तविक्रामिन् अभिनिविशन्ते। न तेऽनुत्पादं प्रजानन्ति। या पुनः सुविक्रान्तविक्रामिन् उत्पादसमता, सा भूतता। या च चित्तसमता या च भूतसमता, या च भूतसमता या च समता सा बोधिः। यत्र च यथाभूतता, न तत्र कश्चिद्विकल्पः। ते पुनर्विकल्प्य चित्तं बोधिं चाभिनिविश्य द्वयतो बोधाय चित्तमुत्पादयन्ति। न हि सुविक्रान्तविक्रामिन् अन्यच्चित्तमन्या बोधिः, न च चित्ते बोधिः, नापि बोधौ चित्तम्। या च बोधिर्यच्च चित्तम्, सा यथाभूतता यथावत्ता। नात्र बोधिर्न च चित्तम्, न च बोधिरुपलब्धा, नोत्पादो नानुत्पादः। तेन स बोधिसत्त्व इत्युच्यते, यथाभूतसत्त्व इत्युच्यते, महासत्त्व इत्युच्यते। तत्कस्माद्धेतोः ? या ह्यभूतता, सा तेन ज्ञाता। कतमा च सा अभूतता ? स सर्वलोको ह्यभूतः, अभूतपर्यापन्नोऽभूतोऽसंभूतो बतायं लोकसंनिवेशः। किमित्यभूतस्य संभवः ? नाभूतस्य कश्चित्संभवः। असंभूतं ह्यभूतम्। तेनोच्यते अस्वभावा अभूताः सर्वधर्मा इति। येनैवं ज्ञातः, स उच्यते यथाभूतसत्त्व इति। न भूते भूतमभिनिविशते, तेनोच्यते यथाभूतसत्त्व इति, न पुनर्यथोच्यते। तत्कस्य हेतोः ? न हि यथाभूते कश्चित्सत्त्वो वा महासत्त्वो वा। यो हि महायानमवगाहते, स उच्यते महासत्त्व इति॥



कतमच्च महायानम् ? सर्वं ज्ञानं महायानम्। कतमच्च सर्वं ज्ञानम् ? यत्किंचित्संस्कृतं ज्ञानम्, लौकिकं ज्ञानम्, तेन महासत्त्व इत्युच्यते। तत्कस्माद्धेतोः ? महती हि तस्य सत्त्वसंज्ञा विगता, तेनोच्यते महासत्त्व इति। महानस्य अविद्यास्कन्धो विगतः, तेनोच्यते महासत्त्वः। महानस्य संस्कारस्कन्धो विगतः, तेनोच्यते महासत्त्वः। महानस्य अज्ञानस्कन्धो विगतः, तेनोच्यते महासत्त्वः। महानस्य दुःखस्कन्धो विगतः, तेनोच्यते महासत्त्व इति। यैर्हि सुविक्रान्तविक्रामिन् महासत्त्वसंज्ञा विगर्हिता, न च चित्तमुपलभन्ते न च चैतसिकान् धर्मान्, चित्तप्रकृतिं च प्रजानन्ति, न च बोधिमुपलभन्ते, न च बोधिपक्षिकान् धर्मान्, बोधिप्रकृतिं च प्रजानन्ति, ते नाज्ञातचित्तेन बोधिं च पश्यन्ति, न चान्यत्र बोधेश्चित्तं पश्यन्ति, न बोधौ चित्तं पश्यन्ति, न चित्ते बोधिं पश्यन्ति। य एवं विभावयन्ति, न ते च भावयन्ति न विभावीकुर्वन्ति, ते भावानपि नोपलभन्ते न मन्यन्ते नाभिनिविशन्ते, ते हि बोधाय चित्तमुत्पादयन्ति। ये च सुविक्रान्तविक्रामिन् एवं बोधाय चित्तमुत्पादयन्ति, ते बोधिसत्त्वा इत्युच्यन्ते, न च ते बोधेर्विवर्तन्ते। तत्कस्माद्धेतोः ? बोधावेव ते स्थिताः, य एवं न बोधेः, न चित्तस्य, न नोत्पादस्य, न निरोधस्य नानाकरणं समनुपश्यन्ति। न ह्यत्र कश्चित्समनुपश्यति, न कश्चिदभिनिविशते, न कश्चिद्विकल्पमापद्यते। य एवं सुविक्रान्तविक्रामिन् अधिमुक्तिविमुक्तिचित्तमुत्पादयन्ति, ते भूता बोधिसत्त्वा इत्युच्यन्ते। ये पुनः सुविक्रान्तविक्रामिन् (चित्तसंज्ञितो) बोधिसंज्ञिनश्च बोधाय चित्तमुत्पादयन्ति, दूरे ते बोधेः, न तेऽभ्यासन्ना बोधेः। ये पुनः सुविक्रान्तविक्रामिन् बोधेर्नापि दूरे नाभ्यासन्ने समनुपश्यन्ति, ते बोधेरासन्नाः, तैश्च बोधाय चित्तमुत्पादितम्। एतच्च मे संधाय भाषितम्-यो हि अद्वयमात्मानं प्रजानाति, स बुद्धं धर्मं च प्रजानाति। तत्कस्य हेतोः ? आत्मभावं स भावयति सर्वधर्माणाम्, येन अद्वयपरिज्ञया सर्वधर्माः परिज्ञाताः। आत्मस्वभावनियता हि सर्वधर्माः। यो हि अद्वयधर्मं प्रजानीते, स बुद्धधर्मान् प्रजानीते। अद्वयधर्मपरिज्ञया बुद्धधर्मपरिज्ञा, आत्मपरिज्ञया सर्वत्रैधातुकपरिज्ञा। आत्मपरिज्ञेति सुविक्रान्तविक्रामिन् पारमेतत्सर्वधर्माणाम्। कतमच्च पारं सर्वधर्माणाम् ? यो हि नैव आरमुपलभते न पारं मन्यते न पारमभिनिविशते, तस्य परिज्ञया पारगत इत्युच्यते, न पुनर्यथोच्यते। एवमेषां सुविक्रान्तविक्रामिन् बोधिसत्त्वभूमिरनुगन्तव्या। सा बोधिसत्त्वप्रज्ञापारमिता, यत्र अण्वपि न किंचिद्गन्तव्यं वा अधिगन्तव्यं वा। न ह्यत्र आगमनं वा गमनं वा प्रज्ञायते। इति॥



आर्यप्रज्ञापारमिता(यां) निदानपरिवर्तः प्रथमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project