Digital Sanskrit Buddhist Canon

सप्तशतिका प्रज्ञापारमिता

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Saptaśatikā prajñāpāramitā

मञ्जुश्रीपरिवर्तापरपर्याया

सप्तशतिका प्रज्ञापारमिता।



ॐ नमो भगवत्यै आर्यप्रज्ञापारमितायै।



एवं मया श्रुतम्। एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धं परिपूर्णेन अर्हद्भिक्षुसहस्रेण, बोधिसत्त्वानां च महासत्त्वानां महासंनाहसंनद्धानां परिपूर्णैर्दशभिर्बोधिसत्त्वशतसहस्रैः सार्धं सर्वैरविनिवर्तनीयैरनुत्तरायाः सम्यक्संबोधेः। तद्यथा-मञ्जुश्रिया च कुमारभूतेन, मैत्रेयेण च, असङ्गप्रतिभानेन च, अनिक्षिप्तधुरेण च, एवंप्रमुखैर्दशभिर्बोधिसत्त्वशतसहस्रैः॥



अथ खलु मञ्जुश्रीः कुमारभूतोऽरुणोद्गतकालसमये स्वकाद्विहारान्निष्क्रम्य येन तथागतविहारस्तेनोपसंक्रामत्। उपसंक्रम्य विहारस्य बहिर्द्वारे स्थितोऽभूत्तथागतस्य दर्शनाय वन्दनाय पर्युपासनाय। अथायुष्मानपि शारद्वतीपुत्रः स्वकाद्विहारान्निष्क्रम्य येन तथागतविहारस्तेनोपसंक्रामद्भगवतो दर्शनाय वन्दनाय पर्युपासनाय। अथायुष्मानपि पूर्णो मैत्रायणीपुत्रः, आयुष्मानपि महामौद्गल्यायनः, आयुष्मानपि महाकाश्यपः, आयुष्मानपि महाकात्यायनः, आयुष्मानपि महाकौष्ठिलः, अन्ये च महाश्रावकाः स्वकस्वकेभ्यो विहारेभ्यो निष्क्रम्य येन भगवतो विहारस्तेनोपसंक्रान्ताः, उपसंक्रम्य एकान्ते तस्थुः॥



अथ खलु भगवानभिक्रान्ताभिक्रान्तं महाश्रावकसंनिपातं विदित्वा स्वकाद्विहारान्निष्क्रम्य बहिर्द्वारस्यैकान्ते प्रज्ञप्त एवासने न्यषीदत्। निषद्य च भगवान् जानन्नेव आयुष्मन्तं शारद्वतीपुत्रमामन्त्रयते स्म-कुतस्त्वं शारद्वतीपुत्र कल्यमेवागत्य तथागतविहारद्वारे स्थितः ? एवमुक्ते आयुष्मान् शारद्वतीपुत्रो भगवन्तमेतदवोचत्-सर्वप्रथमतरं भगवन् मञ्जुश्रीः कुमारभूतस्तथागतविहारद्वारे स्थितः, पश्चाद्वयं भगवन्तं द्रष्टुकामाः॥



अथ खलु भगवान् जानन्नेव मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म-सत्यं किल त्वं मञ्जुश्रीः सर्वप्रथमतरं तथागतविहारद्वारे स्थितस्तथागतस्य दर्शनाय वन्दनाय पर्युपासनाय च ? एवमुक्ते मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत्-एवमेतत् भगवन्, एवमेतत् सुगत, प्रथमतरमस्म्यागतः स्वकाद्विहारान्निष्क्रम्य येन तथागतविहारस्तेनोपसंक्रान्तः, उपसंक्रम्य एकान्ते स्थितो भगवतो दर्शनाय वन्दनाय पर्युपासनाय। तत्कस्य हेतोः ? तथा हि भगवन् अतृप्तोऽहं तथागतस्य दर्शनेन वन्दनेन पर्युपासनेन च। यदप्यहं भगवन् तथागतमुपसंक्रमामि दर्शनाय वन्दनाय पर्युपासनाय, तत्सर्वसत्त्वानामर्थाय। सचेद्भगवन् तथागतो द्रष्टव्यो वन्दितव्यः पर्युपासितव्यः, एवं द्रष्टव्यः, एवं वन्दितव्यः, एवं पर्युपासितव्यः, यथाहं पश्यामि यथाहं वन्दे यथाहं पर्युपासे। एवं तथागतो दृष्टो भवति वन्दितः पर्युपासितश्च। अहं च भगवन् सर्वसत्त्वानां कृतशस्तथागतं पश्यामि। भगवानाह-कथं मञ्जुश्रीस्तथागतो द्रष्टव्यो यावत् पर्युपासितव्यः ? मञ्जुश्रीराह-तथताकारेण तथागतं पश्यामि अविकल्पाकारेण अनुपलम्भयोगेन, एवमनुत्पादाकारेण तथागतं पश्यामि, यावद् अभावाकारेण तथागतं पश्यामि। न च तथता समुदागच्छति, एवं तथागतं पश्यामि। न तथता भवति न विभवति, एवं तथागतं पश्यामि। न तथता देशस्था न प्रदेशस्था, एवं तथागतं पश्यामि। न तथता अतीता न अनागता न प्रत्युत्पन्ना, एवं तथागतं पश्यामि। न तथता द्वयप्रभाविता नाद्वयप्रभाविता, एवं तथागतं पश्यामि। न तथता संक्लिश्यते न व्यवदायते, एवं तथागतं पश्यामि। न तथता उत्पद्यते न निरुध्यते, एवं तथागतं पश्यामि। एवं तथागतो दृष्टो भवति वन्दितः पर्युपासितश्च। एवमुक्ते भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत्-एवं पश्यंस्त्वं मञ्जुश्रीः किं पश्यसि ? मञ्जुश्रीराह-एवं पश्यन्नहं भगवन् न किंचित्पश्यामि। एवमहं पश्यन् न कस्यचिद्धर्मस्योत्पादं पश्यामि न निरोधं पश्यामि॥



अथायुष्मान् शारद्वतीपुत्रो मञ्जुश्रियं कुमारभूतमेतदवोचत्-दुष्करकारकस्त्वं मञ्जुश्रीः, यस्त्वं तथागतमेवं पश्यसि एवं पर्युपास्से, यस्य च ते सर्वसत्त्वानामन्तिके महामैत्री प्रत्युपस्थिता। न च ते काचित्सत्त्वोपलब्धिः सत्त्वाभिनिवेशो वा। सर्वसत्त्वपरिनिर्वाणाय चासि प्रतिपन्नः। न च ते कश्चित्सत्त्वाभिनिवेशः प्रवर्तते। सर्वसत्त्वानां च ते कृतशः संनाहः संनद्धः। स चानुपलम्भयोगेन यावदभावयोगेन। एवमुक्ते मञ्जुश्रीः कुमारभूतः आयुष्मन्तं शारद्वतीपुत्रमेतदवोचत्-एवमेतद् भदन्त शारद्वतीपुत्र यथा कथयसि। सर्वसत्त्वपरिनिर्वाणाय संनाहश्चैष संनद्धः। न च मे काचित् सत्त्वोपलब्धिर्वा सत्त्वाभिनिवेशो वा। नायं भदन्त शारद्वतीपुत्र संनाह एवं संनद्धः-कथमहं सत्त्वधातोरूनत्वं वा कुर्यां पूर्णत्वं वा ? सचेद्भदन्त शारद्वतीपुत्र परिकल्पमुपादाय एकैकस्मिन् बुद्धक्षेत्रे गङ्गानदीवालुकोपमा बुद्धा भगवन्तो भवेयुः, एकैकश्च तथागतो गङ्गानदीवालुकोपमान् कल्पांस्तिष्ठेत् सरात्रिंदिवं च धर्मं देशयमानः, एकैकया धर्मदेशनया यावन्तो गङ्गानदीवालुकासमैर्बुद्धैर्भगवद्भिः सत्त्वा विनीताः, तावतः सत्त्वानेकैकस्तथागतः एकैकया धर्मदेशनया विनयेत्, एवमपि कृत्वा नैव सत्त्वधातोरूनत्वं वा पूर्णत्वं वा प्रज्ञायते। तत्कस्माद्धेतोः ? सत्त्वविविक्तत्वात् सत्त्वासत्त्वाद् भदन्त शारद्वतीपुत्र सत्त्वधातोर्न चोनत्वं वा पूर्णत्वं वा प्रज्ञायते॥



एवमुक्ते आयुष्मान् शारद्वतीपुत्रो मञ्जुश्रियं कुमारभूतमेतदवोचत्-यदि मञ्जुश्रीः सत्त्वविविक्तत्वात् सत्त्वासत्त्वात् सत्त्वधातोर्नैवोनत्वं न पूर्णत्वं वा प्रज्ञायते, तत्कस्येदानीं बोधिमभिसंबुध्य धर्मं देशयिष्यसि? एवमुक्ते मञ्जुश्रीः कुमारभूत आयुष्मन्तं शारद्वतीपुत्रमेतदवोचत्-यदा तावद्भदन्त शारद्वतीपुत्र अत्यन्ततया सत्त्वानुपलब्धिः, तत्कोऽत्राभिसंभोत्स्यते ? कस्य वा धर्मं देशयिष्यते ? तत्कस्माद्धेतोः ? तथा हि भदन्त शारद्वतीपुत्र अत्यन्ततया सर्वधर्मानुपलब्धिः॥



अथ खलु भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत्-यदा तावन्मञ्जुश्रीः अत्यन्ततया सर्वधर्मानुपलब्धिः, तत्किमिदानीं सत्त्वमपि प्रज्ञापयिष्यसि ? अपि च। सचेन्मञ्जुश्रीः कश्चिदेवं पृच्छेत्-कियन्तः सत्त्वा इति, किं तस्य त्वं वदेः ? मञ्जुश्रीराह-तस्याहं भगवन् एवं पृष्ट एवं वदेयम्-यावन्त एव बुद्धधर्मा इति। सचेद् भगवन् पुनरपि पृच्छेत्-कियत्प्रमाणः सत्त्वधातुरिति, तस्याहं भगवन् एवं पृष्ट एवं वदेयम्-यत्प्रमाणो बुद्धविषयः [इति]॥



भगवानाह-सचेत्पुनरपि ते मञ्जुश्रीः कश्चिदेवं पृच्छेत्-किंपर्यापन्नः सत्त्वधातुरिति, किं तस्य त्वं वदेः ? मञ्जुश्रीराह-तस्याहं भगवन् एवं पृष्ट एवं वदेयम्-यत्पर्यापन्नानुत्पादाचिन्त्यता [इति]॥



भगवानाह-सचेत्पुनरपि ते मञ्जुश्रीः कश्चिदेवं पृच्छेत्-किंप्रतिष्ठितः सत्त्वधातुरिति, किं तस्य त्वं वदेः ? मञ्जुश्रीराह-तस्याहं भगवन् एवं पृष्ट एवं वदेयम्-यत्प्रतिष्ठितोऽनुत्पादधातुः तत्प्रतिष्ठितः सत्त्वधातुरिति॥



भगवानाह-यस्मिन् समये त्वं मञ्जुश्रीः प्रज्ञापारमितां भावयसि, तदा कुत्र प्रतिष्ठितां प्रज्ञापारमितां भावयसि ? मञ्जुश्रीराह-यस्मिन्नहं भगवन् समये प्रज्ञापारमितां भावयामि, अप्रतिष्ठितोऽहं तस्मिन् समये प्रज्ञापारमितां भावयामि॥



भगवानाह-अप्रतिष्ठितस्य ते मञ्जुश्रीः का प्रज्ञापारमिताभावना ? मञ्जुश्रीराह-सैव भगवन् प्रज्ञापारमिताभावना यन्न क्वचित्प्रतिष्ठानम्॥



भगवानाह-यस्मिन् समये त्वं मञ्जुश्रीः प्रज्ञापारमितां भावयसि, कतरत्ते कुशलमूलं तस्मिन् समये उपचयं गच्छति अपचयं वा ? मञ्जुश्रीराह-न मे भगवन् तस्मिन् समये किंचित्कुशलमूलमुपचयं गच्छति अपचयं वा। नासौ प्रज्ञापारमितां भावयति यस्य कस्यचिद्धर्मस्य उपचयो वा अपचयो वा भवति। न सा भगवन् प्रज्ञापारमिताभावना वेदितव्या, या कस्यचिद्धर्मस्य उपचयाय वा अपचयाय वा प्रत्युपस्थिता। सा भगवन् प्रज्ञापारमिताभावना या नैव पृथग्जनधर्मान् जहाति, नापि बुद्धधर्मानुपादत्ते। तत्कस्माद्धेतोः ? तथा हि भगवन् प्रज्ञापारमिताभावना न कस्यचिद्धर्मस्योपलम्भेन प्रत्युपस्थिता यं धर्मं प्रजह्यादुपाददीत वा। सा भगवन् प्रज्ञापारमिताभावना या नैव संसारदोषानुपयाति न निर्वाणगुणान्। तत्कस्माद्धेतोः ? तथा हि भगवन् संसारमेव तावन्न् समनुपश्यामि, कः पुनर्वादः संसारदोषान्। निर्वाणमेव तावन्नोपलभे, कः पुनर्वादो निर्वाणगुणान् द्रक्ष्यामि। सा भगवन् प्रज्ञापारमिताभावना यन्न कस्यचिद्धर्मस्यादानं वा ग्रहणं वा निःसरणं वा। सा भगवन् प्रज्ञापारमिताभावना या न कस्यचिद्धर्मस्य हानिर्वा वृद्धिर्वोपलभ्यते। तत्कस्माद्धेतोः ? न हि भगवन् अनुत्पादो हीयते वा वर्धते वा। यैवं भगवन् भावना, सा प्रज्ञापारमिताभावना। सा प्रज्ञापारमिताभावना या न कंचिद्धर्ममुत्पादयति वा निरोधयति वा। सा भगवन् प्रज्ञापारमिताभावना या न कस्यचिद्धर्मस्योनत्वं वा पूर्णत्वं वा करोति। या भगवन् एवं भावना, सैव प्रज्ञापारमिताभावना। पुनरपरं भगवन् सा प्रज्ञापारमितभावना या नैवाचिन्त्यान् धर्मान् प्रार्थयते न प्रादेशिकान्। अपि तु खलु पुनर्भगवन् तदपि न संविद्यते यत्प्रार्थयते, येन प्रार्थयते, यत्र प्रार्थयते। एवं भावना भगवन् प्रज्ञापारमिताभावना। एवं प्रत्युपस्थिता इमे धर्मा अग्राः इमे धर्मा हीना इति। नापि तान् धर्मानुपलभते येषां धर्माणामग्रता वा हीनता वा स्यात्। एवं प्रज्ञापारमिताभावनायोगमनुयुक्तः कुलपुत्रः सर्वधर्मान् नोपलभते। न भगवन् प्रज्ञापारमिताभावना कंचिद्धर्ममग्रं वा हीनं वा कल्पयति। तत्कस्माद्धेतोः ? न हि भगवन् अनुत्पादस्य किंचिदग्रं वा हीनं वा, नापि तथताया भूतकोट्याः, यावत् सर्वधर्माणां किंचिदग्रं वा हीनं वा। एवं भावना भगवन् प्रज्ञापारमिताभावना॥



एवमुक्ते भगवान् मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म-न पुनर्मञ्जुश्रीः अग्रा बुद्धधर्माः ? मञ्जुश्रीराह-अग्राह्यत्वाद्भगवन् अग्रा बुद्धधर्माः। तत्किं पुनर्भगवन् सर्वधर्माः शून्या इति तथागतेनाभिसंबुद्धाः ? भगवानाह-एवमेतन्मञ्जुश्रीः शून्याः सर्वधर्मास्तथागतेनाभिसंबुद्धाः। मञ्जुश्रीराह-तत्किं पुनर्भगवन् शून्यताया अग्रता वा हीनता प्रज्ञायते ? भगवानाह-साधु साधु मञ्जुश्रीः, एवमेतन्मञ्जुश्रीः यथा कथयसि। न पुनर्मञ्जुश्रीः अनुत्तरा बुद्धधर्माः ? मञ्जुश्रीराह- एवमेतद्भगवन् अनुत्तरा बुद्धधर्माः। तत्कस्माद्धेतोः ? तथा हि भगवन् तेष्वणुरपि धर्मो न संविद्यते नोपलभ्यते। न ते अनुत्तरा बुद्धधर्माः। पुनरपरं भगवन् सा प्रज्ञापारमिताभावना या न बुद्धधर्माणामाराधनाय संवर्तते न पृग्जनधर्माणां प्रहाणाय संवर्तते। न बुद्धधर्माणां विनयित्री, न संधारयित्री। एवं भावना भगवन् प्रज्ञापारमिताभावना॥



पुनरपरं सा भगवन् प्रज्ञापारमिताभावना द्रष्टव्या या न कंचिद्धर्मं चिन्तयति न विजानीते। भगवानाह-न त्वं मञ्जुश्रीः बुद्धधर्मांश्चिन्तयसि ? मञ्जुश्रीराह-नो भगवन्। चिन्तयेयमहं भगवन् बुद्धधर्मान्, सचेदहं बुद्धधर्माणां परिनिष्पत्तिं पश्येयम्। न भगवन् प्रज्ञापारमिताभावना कस्यचिद्धर्मस्य विकल्पेन प्रत्युपस्थिता-इमे पृथग्जनधर्माः, इमे श्रावक धर्माः, इमे प्रत्येकबुद्धधर्माः इमे सम्यक्संबुद्धधर्मा इति। तत्कस्माद्धेतोः ? तमेव भगवन् धर्मं प्रज्ञापारमिताभावनायोगमनुयुक्तः कुलपुत्रो नोपलभते, यस्यैतान् धर्मान् पृथग्जनधर्मान् वा निर्दिशेत्, शैक्षधर्मान् वा निर्दिशेत्, अशैक्षधर्मान् वा निर्दिशेत्, सम्यक्संबुद्धधर्मान् वा निर्दिशेत्। तानत्यन्ततया धर्मान् न समनुपश्यामि। एवं भावना भगवन् प्रज्ञापारमिताभावना। न भगवन् प्रज्ञापारमिताभावनायोगमनुयुक्तस्य कुलपुत्रस्यैवं भवति-अयं कामधातुः, अयं रूपधातुः, अयमारूप्यधातुः, यावद् अयं निरोधधातुरिति। तत्कस्माद्धेतोः? तथा हि स भगवन् न कश्चिद्धर्मः, यो निरोधधर्मं समनुपश्यति। एवं भावना भगवन् प्रज्ञापारमिताभावना वेदितव्या॥



पुनरपरं भगवन् एषा सा प्रज्ञापारमिताभावना या न कस्यचिद्धर्मस्योपकारं वा अपकारं वा करोति। न हि भगवन् प्रज्ञापारमिताभावना बुद्धधर्माणां धात्री, न पृथग्जनधर्माणामाच्छेत्री। एषैव सा भगवन् प्रज्ञापारमिताभावना या नैव पृथग्जनधर्माणां निरोधः, न बुद्धधर्माणां निरोधः, न बुद्धधर्माणां प्रतिलम्भः॥



एवमुक्ते भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत्-साधु साधु मञ्जुश्रीः यस्त्वमिममेवंरूपं गम्भीरं धर्मं देशयसि। स्थापिता ते मञ्जुश्रीरियं मुद्रा बोधिसत्त्वानां महासत्त्वानाम्, आभिमानिकानां च श्रावकाणाम्, औपलम्भिकानां च बोधिसत्त्वयानिकानां च यथाभूतं प्रतिबोधाय। न ते मञ्जुश्रीः कुलपुत्रा वा कुलदुहितरो वा एकबुद्धपर्युपासिता भविष्यन्ति नैकबुद्धावरोपितकुशलमूलाः, ये इमं गम्भीरं प्रज्ञापारमितानिर्देशं श्रुत्वा नोत्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते। अपि तु खलु पुनर्मञ्जुश्रीः अतिक्रम्य ते बुद्धसहस्रावरोपितकुशलमूला भविष्यन्ति, ये इमं गम्भीरं प्रज्ञापारमितानिर्देशं श्रुत्वा अधिमोक्ष्यन्ति, नोत्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते॥



एवमुक्ते मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत्-प्रतिभाति मे भगवन् भूयस्या मात्रया प्रज्ञापारमितानिर्देशः। प्रतिभातु ते मञ्जुश्रीः, इति भगवानस्यावोचत्। मञ्जुश्रीराह- एषा सा भगवन् प्रज्ञापारमिताभावना या न कस्यचिद्धर्मस्य स्थितिमुपलभते नास्थितिम्। तत्कस्माद्धेतोः ? अस्थितत्वात्सर्वधर्माणां नोपलभते। एषैव स भगवन् प्रज्ञापारमिताभावना वेदितव्या, या न कस्यचिद्धर्मस्याध्यालम्बनाय प्रत्युपस्थिता। तत्कस्य हेतोः ? तथा हि भगवन् निरालम्बनाः सर्वधर्माः। एवं भावना भगवन् प्रज्ञापारमिताभावना॥



पुनरपरं भगवन् सा प्रज्ञापारमिताभावना द्रष्टव्या यत्र बुद्धधर्मा अपि नाभिमुखीभवन्ति कुतः पुनः प्रत्येकबुद्धधर्माः। नापि श्रावकधर्मा अभिमुखीभवन्ति, कः पुनर्वादः पृथग्जनधर्माणाम्॥



पुनरपरं भगवन् सा प्रज्ञापारमिताभावना या (यां ?) भावनामागम्य अचिन्त्यानपि बुद्धधर्मानचिन्त्या बुद्धधर्मा इति न विकल्पमापद्यते। सेयं भगवन् प्रज्ञापारमिताभावना बोधिसत्त्वानां महासत्त्वानां सर्वधर्माविकल्पाय द्रष्टव्या॥



पुनरपरं भगवन् सा प्रज्ञापारमिताभावना या(यां ?) भावनामागम्य सर्वधर्मान् बुद्धधर्मान् पश्यति, सर्वधर्मानचिन्त्यधर्मान् पश्यत्यसमनुपश्यनतया। बहुबुद्धशतसहस्रपर्युपासितास्ते भगवन् कुलपुत्राः कुलदुहितरश्च भविष्यन्ति ये इमं प्रज्ञापारमितानिर्देशं श्रुत्वा अधिमोक्ष्यन्ते नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापात्स्यन्ते॥



पुनरपरं भगवन् सा प्रज्ञापारमिताभावना यां न कश्चिद्धर्मः संक्लिश्यते वा व्यवदायते वा समनुपश्यति। एवं भावना भगवन् प्रज्ञापारमिताभावना। सा चैषा भगवन् प्रज्ञापारमिताभावना या नैव पृथग्जननानात्वं करोति, न श्रावकनानात्वम्, न प्रत्येकबुद्धनानात्वम्, यावत् सम्यक्संबुद्धनानात्वं च करोति। एषा सा भगवन् प्रज्ञापारमिताभावना।



अथ खलु भगवान् मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म-कियन्तस्त्वया मञ्जुश्रीः तथागताः पर्युपासिताः ? मञ्जुश्रीराह-यावन्तो भगवन् मायापुरुषस्य चित्तचैतसिका निरुद्धाः, इयन्तो मया भगवन् तथागताः पर्युपासिताः। भगवानाह-न त्वं मञ्जुश्रीः बुद्धधर्मसंस्थितः ? मञ्जुश्रीराह-कश्चित्पुनर्भगवन् स धर्म उपलभ्यते यो न बुद्धधर्मसंस्थितः ? भगवानाह-कस्य पुनर्मञ्जुश्रीः एते बुद्धधर्माः ? मञ्जुश्रीराह-भगवन् तव तावदेते बुद्धधर्मा इति नाम न संविद्यते नोपलभ्यते, कुतः पुनरन्येषां भविष्यति ?



भगवानाह- प्राप्ता ते मञ्जुश्रीरसङ्गता ? मञ्जुश्रीराह-तद्यदा तावदहं भगवन् न सङ्गतैव, तत्किं भूयोऽहमसङ्गतामनुप्राप्स्यामि ?



भगवानाह-तत्किं निषण्णोऽसि मञ्जुश्रीर्बोधिमण्डे ? मञ्जुश्रीराह-भगवानेव तावद्बोधिमण्डे न निषण्णः, कथं पुनरहं निषत्स्यामि भूतकोटिं प्रमाणीकृत्य ? भगवानाह-भूतकोटिरिति मञ्जुश्रीः कस्यैतदधिवचनम् ? मञ्जुश्रीराह-भूतकोटिरिति भगवन् सत्कायस्यैतदधिवचनम्। भगवानाह-किं संधाय मञ्जुश्रीरेवं वदसि ? मञ्जुश्रीराह-असन्नेष भगवन् कायो न सत्कायः। नैष संक्रामति न विषंक्रामति। तेनैष कायोऽसत्काय॥



अथ खल्वायुष्मान् शारद्वतीपुत्रो भगवन्तमेतदवोचत्-नियतास्ते भगवन् बोधिसत्त्वा महासत्त्वा भविष्यन्ति बोधये, ये इमं प्रज्ञापारमितानिर्देशं श्रुत्वा अधिमोक्ष्यन्ते नोत्रसिष्यन्ति न संत्रसिष्यन्ति संत्रासमापत्स्यन्ते॥



अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-आसन्नीभूतास्ते भगवन् बोधिसत्त्वा महासत्त्वा भविष्यन्ति बोधये, ये इमं प्रज्ञापारमितानिर्देशं श्रुत्वा अधिमोक्ष्यन्ते, नोत्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते। तत्कस्माद्धेतोः ? एषैव भगवन् परमा बोधिः, यैषां धर्माणामनुबोधना॥



अथ खलु मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत्-बुद्धा एव ते भगवन् बोधिसत्त्वा महासत्त्वा द्रष्टव्याः, ये इमं प्रज्ञापारमितानिर्देशं श्रुत्वा अधिमोक्ष्यन्ते, नोत्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते। तत्कस्माद्धेतोः ? बुद्ध इति परमार्थतोऽनुत्पादस्यैतदधिवचनम्॥



अथ खलु निरालम्बा भगिनी भगवन्तमेतदवोचत्-न ते भगवन् बोधिसत्त्वा महासत्त्वाः पृथग्जनधर्मान् श्रावकधर्मान् प्रत्येकबुद्धधर्मान् सम्यक्संबुद्धधर्मानध्याम्बिष्यन्ते, ये इमं प्रज्ञापारमितानिर्देशं श्रुत्वा अधिमोक्ष्यन्ते, नोत्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते। तत्कस्माद्धेतोः ? तथा हि भगवन् निरालम्बाः सर्वधर्मा असंविद्यमानत्वात्। तेनैषामालम्बनं न संविद्यते॥



अथ खलु भगवानायुष्मन्तं शारद्वतीपुत्रमामन्त्रयते स्म-एवमेतच्छारद्वतीपुत्र, एवमेतत्। नियतास्ते कुलपुत्राः कुलदुहितरश्च भविष्यन्ति बोधये, ये इमं प्रज्ञापारमितानिर्देशं श्रुत्वा अधिमोक्ष्यन्ते, नोत्त्रसन्ति न संत्रसन्ति न संत्रासमापत्स्यन्ते। अविनिवर्तनीयभूमौ त्वं शारद्वतीपुत्र प्रतिष्ठितांस्तान् कुलपुत्रान् कुलदुहितरश्च जानीष्व, ये इमं प्रज्ञापारमितानिर्देशं श्रुत्वा अधिमोक्ष्यन्ते, नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते, मूर्ध्ना च प्रतिग्रहीष्यन्ति। ते ते शारद्वतीपुत्र परमदानपतयो भविष्यन्ति महादानपतयो विशिष्टदानपतयः। ते ते शारद्वतीपुत्र शीलसंपन्ना भविष्यन्ति परमशीलवन्तः परमविशिष्टशीलगुणपथप्राप्ताः, ये इमं प्रज्ञापारमितानिर्देशं श्रुत्वा अधिमोक्ष्यन्ते, नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते। ते ते शारद्वतीपुत्र परमया क्षान्त्या, परमेण वीर्येण, परमैर्ध्यानैः, परमया अप्रतिसमया प्रज्ञया समन्वागता भविष्यन्ति। ते ते शारद्वतीपुत्र बोधिसत्त्वा महासत्त्वा यावत् सर्वकारवरोपेतेन सर्वज्ञज्ञानेन समन्वागता भविष्यन्ति, ये इमं प्रज्ञापारमितानिर्देशं श्रुत्वा अधिमोक्ष्यन्ते, नोत्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते॥



पुनरपरं भगवन् मञ्जुश्रियं कुमारभूमेतदवोचत्-कं पुनस्त्वं मञ्जुश्रीः अर्थवशं संपश्यन् इच्छस्यनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् ? मञ्जुश्रीराह-सचेदहं भगवन् बोधये संप्रतिष्ठेयम्, एवमहमिच्छेयमभिसंबोद्धुम्। नाहं भगवन् बोधिं प्रार्थयामि। तत्कस्माद्धेतोः ? बोधिरेवैष योऽयं मञ्जुश्रीः कुमारभूतः॥



एवमुक्ते भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत्- साधु साधु मञ्जुश्रीः, यस्त्वमिमान्येवंरूपाणि गम्भीराणि गम्भीराणि स्थानानि निर्दिशसि। यथापि त्वं पूर्वजिनकृताधिकारोऽनुपलम्भचिरचरितब्रह्मचर्यः। मञ्जुश्रीराह-लब्ध एव भगवन् धर्मः स्यात्, यद्यहमनुपलम्भचारी स्याम्॥





एवमुक्ते भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत्-पश्यसि त्वं मञ्जुश्रीरिमां मम श्रावकसंपदम् ? मञ्जुश्रीराह पश्यामि भगवन्। भगवानाह-कथं पश्यसि ? मञ्जुश्रीराह-तथाहं भगवन् पश्यामि यथा नैव पृथग्जनान पश्यामि, नैव शैक्षान् पश्यामि, नैवाशैक्षान् पश्यामि। नापि पश्यामि, नापि नैव पश्यामि, एवं पश्यामि। यन्नैव बहून् पश्यामि, नाप्यल्पकान् पश्यामि। यन्नैव विनीतान् पश्यामि, नाप्यविनीतान् पश्यामि॥



अथ खल्वायुष्मान् शारद्वतीपुत्रो मञ्जुश्रियं कुमारभूतमेतदवोचत्-यस्त्वं मञ्जुश्रीः श्रावकयानिकानेवं पश्यसि, सम्यक्संबुद्धयानिकान् पुनस्त्वं कथं पश्यसि ? मञ्जुश्रीराह- बोधिसत्त्व इति भदन्त शारद्वतीपुत्र नाम धर्मं न समनुपश्यामि, बोधाय संप्रस्थित इति नाम धर्मं न समनुपश्यामि। बोधाय चरतीति नाम धर्मं न समनुपश्यामि। अभिसंबुध्यत इति नाम धर्मं न समनुपश्यामि। एवं भदन्त शारद्वतीपुत्र सम्यक्संबुद्धयानिकान् पश्यामि। शारद्वतीपुत्र आह-तथागतं पुनस्त्वं मञ्जुश्रीः कथं पश्यसि ? मञ्जुश्रीराह-तिष्ठतु भदन्त शारद्वतीपुत्र महानागः। मा महानागं घट्टय॥



एवमुक्ते आयुष्मान् शारद्वतीपुत्रो मञ्जुश्रियं कुमारभूतमेतदवोचत्-बुद्ध इति मञ्जुश्रीः कस्यैतदधिवचनम् ? मञ्जुश्रीराह-यत्पुनर्भदन्त शारद्वतीपुत्र उच्यते आत्मेति, कस्यैतदधिवचनम् ? शारद्वतीपुत्र आह-अनुत्पादस्यैतन्मञ्जुश्रीरधिवचनं यदुत आत्मेति। मञ्जुश्रीराहवमेतद्भदन्त शारद्वतीपुत्र यस्यैतदधिवचनमात्मेति, तस्यैतदधिवचनं बुद्ध इति। अपि तु भदन्त शारद्वतीपुत्र अपदाधिवचनमेतद् यदिदमुच्यते बुद्ध इति। न ह्येतद्भदन्त शारद्वतीपुत्र वाचाभिर्विज्ञापयितुं बुद्ध इति। वागपि भदन्त शारद्वतीपुत्र न सुकरा निरूपयितुम्- इयं वागिति, कुतः पुनर्बुद्ध इति। अपि तु भदन्त शारद्वतीपुत्र यदेवं वदसि-कस्यैतदधिवचनं बुद्ध इति, यो न समुदागतो नोत्पन्नो न निरोत्स्यते, यो न केनचिद्धर्मेण समन्वागतो नाप्यत्र किंचित्पदमभेदम्, अपदस्यैतद्भदन्त शारद्वतीपुत्र अधिवचनं यदुत बुद्ध इति। तथागतं भदन्त शारद्वतीपुत्र पर्येषितुकामेन आत्मा पर्येषितव्यः। आत्मेति भदन्त शारद्वतीपुत्र बुद्धस्यैतदधिवचनम्। यथा आत्मा अत्यन्ततया न संविद्यते नोपलभ्यते, तथा बुद्धोऽप्यत्यन्ततया न संविद्यते नोपलभ्यते। यथा आत्मा न केनचिद्धर्मेण वचनीयः, तथा बुद्धोऽपि न केनचिद्धर्मेण वचनीयः। यत्र न काचित्संख्या, स उच्यते बुद्ध इति। न चैतद्भदन्त शारद्वतीपुत्र सुकरमाज्ञातुमात्मेति यदधिवचनम्, एवमेतद्भदन्त शारद्वतीपुत्र न सुकरमाज्ञातुं बुद्ध इति यदधिवचनम्॥



अथ खल्वायुष्मान् शारद्वतीपुत्रो भगवन्तमेतदवोचत्-नायं भगवन् मञ्जुश्रीः कुमारभूतस्तथा देशयति यथा आदिकर्मिका बोधिसत्त्वा आजानीयुः। एवमुक्ते मञ्जुश्रीः कुमारभूतः आयुष्मन्तं शारद्वतीपुत्रमेतदवोचत्-नाहं भदन्त शारद्वतीपुत्र तथा देशयामि यथा कृताविनोऽप्यर्हन्त आज्ञास्यन्ति। नाप्यहं तथा देशयामि यथा कश्चिद्विज्ञास्यति। तत्कस्माद्धेतोः ? न बोधिः केनचिद्विज्ञाता, नापि संबुद्धा, न दृष्टा, न श्रुता, न स्मृता, नोत्पादिता, न निरोधिता, नोद्दिष्टा, नोपदेशिता। एतावदेव भदन्त शारद्वतीपुत्र यावता बोधिः। सा च बोधिर्न भावो नाप्यभावः। तत्कस्माद्धेतोः ? न बोध्या किंचिदभिसंबोद्धव्यम्, नापि बोधिर्बोधिमभिसंबुध्यते॥



शारद्वतीपुत्र आह-न मञ्जुश्रीर्भगवता धर्मधातुरभिसंबुद्धः ? मञ्जुश्रीराह-न भदन्त शारद्वतीपुत्र भगवता धर्मधातुरभिसंबुद्धः। तत्कस्माद्धेतोः ? तथा हि भदन्त शारद्वतीपुत्र धर्मधातुरेव भगवान्। सचेद्भदन्त शारद्वतीपुत्र भगवता धर्मधातुरभिसंबुद्धः स्यात्, तद्योऽसावनुत्पादधातुः स निरुध्यो भवेत्। अपि तु भदन्त शारद्वतीपुत्र स एव धर्मधातुर्बोधिः। तत्कस्माद्धेतोः ? निःसत्त्वो हि धर्मधातुः। अभावाः सर्वधर्मा इति बोधेरधिवचनमेतत्, योऽसौ धर्मधातुरिति संख्यां गच्छति। तत्कस्माद्धेतोः ? सर्वधर्मा ह्यनानात्वं बुद्धविषयतः। अनानात्वमिति भदन्त शारद्वतीपुत्र अविज्ञप्तिकं पदमेतत्। अविज्ञप्तिकमिति भदन्त शारद्वतीपुत्र नैतच्छक्यं विज्ञापयितुं संस्कृतत्वेन वा यावद् असंस्कृतत्वेन वा। न तत्र काचिद्विज्ञप्तिः, तेन तदविज्ञप्तिकम्। सर्वधर्मा हि भदन्त शारद्वतीपुत्र अविज्ञप्तिकाः। तत्कस्माद्धेतोः ? तथा हि सर्वधर्माणां प्रादुर्भावो नास्ति यस्मिन् स्थित्वा विज्ञप्येरन्। येऽप्यमी आनन्तर्यप्रसृता अचिन्त्यप्रसृताः, ते। ये च अचिन्त्यप्रसृता भूतप्रसृतास्ते। तत्कस्माद्धेतोः ? भूतमिति भदन्त शारद्वतीपुत्र अभेदपदमेतत्। येऽपि अचिन्त्यधर्मसमन्वागताः, नैव ते स्वर्गगामिनः, न अपायगामिनः, न परिनिर्वाणगामिनः। तत्कस्माद्धेतोः ? न हि अचिन्त्यं गमनागमनेन प्रत्युपस्थितम्, यावत् न परिनिर्वाणं गमनागमनेन प्रत्युपस्थितम्। येऽपि भदन्त शारद्वतीपुत्र चतसृषु मूलापत्तिष्ववस्थिताः, अमूले तेऽवस्थिताः। तत्कस्माद्धेतोः ? न हि भदन्त शारद्वतीपुत्र अनुत्पादस्य मूलं वा अग्रं वा इष्यते। अमूलो भिक्षुरिति अप्रतिष्ठितस्य भिक्षोरेतदधिवचनम्। उत्पन्नमधिकरणमिति अधिकसमारोपस्यैतदधिवचनम्। अधिकसमारोपे भदन्त सारद्वतीपुत्र चरन् लोके दक्षिणीयो भवति। तत्कस्माद्धेतोः ? तथा हि समः सोऽधिकसमारोपः। श्राद्धो भदन्त शारद्वतीपुत्र भिक्षुर्नार्हति श्रद्धादेयं परिभोक्तुम्। अश्राद्धो भदन्त शारद्वतीपुत्र भिक्षुरर्हति श्रद्धादेयं परिभोक्तुम्। कल्पितो भदन्त शारद्वतीपुत्र भिक्षुर्नार्हति श्रद्धादेयं परिभोक्तुम्। अकल्पिको भदन्त शारद्वतीपुत्र भिक्षुरर्हति श्रद्धादेयं परिभोक्तुम्। असमुपहतनेत्रीको भिक्षुरर्हन् क्षीणास्रव इत्युच्यते॥



शारद्वतीपुत्र आह-किं संधाय मञ्जुश्रीरेवं वदसि ? मञ्जुश्रीराह-न समता समुपहता, या समता सैव सा नेत्री। इदं संधाय भदन्त शारद्वतीपुत्र एवं वदामि-असमुपहतनेत्रीको भिक्षुरर्हन् क्षीणास्रव इत्युच्यते। अनुत्तीर्णभय (भव ?) इति भदन्त शारद्वतीपुत्र अर्हतः क्षीणास्रवस्यैतदधिवचनम्। शारद्वतीपुत्र आह-किं संधाय मञ्जुश्रीरेवं वदसि ? मञ्जुश्रीराह-अणून्यपि तस्य भयानि न संविद्यन्ते। तत्किमुत्तरिष्यति ? इदं संधाय भदन्त शारद्वतीपुत्र एवं वदामि-अनुत्तीर्णभय इति अर्हतः क्षीणास्रवस्यैतदधिवचनमिति॥



शारद्वतीपुत्र आह-अनुत्पन्नक्षान्तिक इति मञ्जुश्रीः कस्यैतदधिवचनम् ? मञ्जुश्रीराह-येन भदन्त शारद्वतीपुत्र अणुरपि धर्मो नोत्पादितः, स उच्यतेऽनुत्पन्नक्षान्तिक इति॥



शारद्वतीपुत्र आह-अविनीतो भिक्षुरिति मञ्जुश्रीः कस्यैतदधिवचनम् ? मञ्जुश्रीराह-अविनीतो भिक्षुरिति भदन्त शारद्वतीपुत्र अर्हतः क्षीणास्रवस्यैतदधिवचनम्। तत्कस्माद्धेतोः ? अविनयो हि विनीतः, न विनयो विनीतः। इदं संधाय भदन्त शारद्वतीपुत्र एवं वदामि- अविनीतो भिक्षुरिति अर्हतः क्षीणास्रवस्यैतदधिवचनम्॥



शारद्वतीपुत्र आह- अधिचित्ते चरतीति मञ्जुश्रीः कस्यैतदधिवचनम् ? मञ्जुश्रीराह- अधिचित्ते चरतीति भदन्त शारद्वतीपुत्र पृथग्जनस्यैतदधिवचनम्। शारद्वतीपुत्र आह- किं संधाय मञ्जुश्रीरेवं वदसि ? मञ्जुश्रीराह-तथा हि भदन्त शारद्वतीपुत्र सोऽधिकरोति॥



एवमुक्ते आयुष्मान् शारद्वतीपुत्रो मञ्जुश्रियं कुमारभूतमेतदवोचत्-साधु साधु मञ्जुश्रीः, यथा अर्हन् क्षीणास्रवस्तथा कथयसि। मञ्जुश्रीराह-एवमेतद्भदन्त शारद्वतीपुत्र यथा वदसि। क्षीणास्रवोऽस्मि, न चार्हन्। तत्कस्माद्धेतोः ? तथा हि भदन्त शारद्वतीपुत्र क्षीणा मे आस्रवाः श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा। अनेन भदन्त शारद्वतीपुत्र पर्यायेण क्षीणास्रवो न चार्हन्॥



अथ खलु भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत्-स्यान्मञ्जुश्रीः पर्यायो यद्बोधिसत्त्वो महासत्त्वो बोधिमण्डे निषण्णोऽभव्योऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् ? मञ्जुश्रीराहस्याद्भगवन् पर्यायः यब्दोधिसत्त्वो महासत्त्वो बोधिमण्डे निषण्णः अभव्योऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्। तत्कस्य हेतोः ? तथा हि बोधावणुरपि धर्मो न संविद्यते नोपलभ्यते। तेनोच्यतेऽनुत्तरा सम्यक्संबोधिरिति। सा च बोधिरनुत्पन्ना। तत्र न कश्चिद्धर्मः संविद्यते नोपलभ्यते, यो बोधिमण्डे निषीदेत्, यो वा बोधिमभिसंबुध्येत्, येन वा बोधिरभिसंबुध्येत, यो वा बोधिमण्डादुत्तिष्ठेदिति। अनेन भगवन् पर्यायेण अभव्यो बोधिसत्त्वो महासत्त्वो बोधिमण्डे निषण्णोऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्॥



एवमुक्ते भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत्-बोधिरिति मञ्जुश्रीः कस्यैतदधिवचनम् ? मञ्जुश्रीराह- बोधिरिति भगवन् पञ्चानामानन्तर्याणामेतदधिवचनम्। तत्कस्माद्धेतोः ? तथा हि बोधिप्रकृतिकान्येव तानि पञ्चानन्तर्याणि अभावत्वात्। तेनैषा बोधिरानन्तर्यप्रकृतिका, अनन्तर्याणामभिसंबुध्यना बोधिः, न च प्रत्यक्षीभावना सर्वधर्मेषु बोधिः। तत्कस्माद्धेतोः ? सर्वधर्मा हि अत्यन्ततया अप्रत्यक्षाः। ते न केनचिदभिसंबुद्धाः, न दृष्टाः, न ज्ञाताः, यावत् न विदिताः। एवमेषा बोधिः। अपि तु खलु पुनर्भगवन् अभिमानिकैः स्थापितान्येतानि अभिसंबुधानि(द्धा ?), यावत् प्रत्यक्षीकृतानि॥



एवमुक्ते भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत्-किं ते मञ्जुश्रीः ममान्तिके एवं भवति-तथागतो मे तथागत इति ? मञ्जुश्रीराह-नो हीदं भगवन्। तत्कस्माद्धेतोः ? न मे भगवन् एवं भवेत्-तथागतो मे तथागत इति। तत्कस्माद्धेतोः ? [तथा चैव तथता च] यथा च तथाता, तथा चैष तथागतः। तथा हि भगवन् न तथता तथागतं विज्ञपयति, नापि तथागतस्तथतां विज्ञपयति। तत्कस्माद्धेतोः ? तथा हि भगवन् परमार्थतोऽभावा तथता। अभावस्तथागतः। तस्मात्तर्हि भगवन् न मे एवं भवति-तथागतो मे तथागत इति। अपि तु तथागत इति भगवन् नामधेयमात्रमेतत्। तत् कतरोऽसौ तथागतो यत्र मे एवं भविष्यति-तथागतो मे तथागत इति ? भगवानाह-स (तत् ?)संशयस्ते मञ्जुश्रीस्तथागते? मञ्जुश्रीराह-नो हीदं भगवन्। स्यादत्र मे भगवन् संशयः, सचेत् काचित्तथागतपरिनिष्पत्तिः स्यत्, तथागतोत्पत्तिर्वा तथागतपरिनिर्वाणं वा॥



एवमुक्ते भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत्-न तव मञ्जुश्रीरेवं भवति-उत्पन्नस्तथागत इति? मञ्जुश्रीराह-स्यान्मे भगवन् उत्पन्नस्तथागत इति, सचेद्धर्मधातोरुत्पत्तिः स्यात्॥



भगवानाह-नाधिमुच्यसे त्वं मञ्जुश्रीः गङ्गानदीवालुकोपमा बुद्धा भगवन्तः परिनिर्वृता इति ? मञ्जुश्रीराह-कश्चित् पुनर्भगवन् एकविषया बुद्ध भगवन्तो यदिदमचिन्त्यविषयाः ? भगवानाह-एवमेतन्मञ्जुश्रीः, एकविषया बुद्धा भगवन्तो यदिदमचिन्त्यविषयाः। मञ्जुश्रीराह-कश्चित्पुनर्भगवन् एतर्हि तिष्ठति? भगवानाह-एवमेतन्मञ्जुश्रीः। मञ्जुश्रीराह-तेन हि भगवन् एते गङ्गानदीवालुकोपमा बुद्धा भगवन्तो न परिनिर्वृताः। तत्कस्माद्धेतोः ? तथा हि भगवन् एकविषया बुद्धा भगवन्तो यदिदमचिन्त्यविषयाः। न च अचिन्त्यता उत्पद्यते निरुध्यते वा। तस्माद्भगवन् भगवतो वा अभिसंबुद्धेन (द्धस्य ?) येऽपि ते अनागतेऽध्वनि तथगता अर्हन्तः सम्यक्संबुद्धा भविष्यन्ति, अभिसंबुद्धा एव ते। तत्कस्माद्धेतोः ? न हि अचिन्त्यता अतीता वा अनागता वा प्रत्युत्पन्ना वा। तस्माद्भगवन् विभ्रमस्तेषां लोकसंनिवेशः। प्रपञ्चयन्ति ते भगवन् लोकसंनिवेशं येषामेवं भवति- उत्पन्नस्तथागतो यावत् परिनिर्वास्यति वेति॥



एवमुक्ते भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत्- तेन हि त्वं मञ्जुश्रीः इदं तथागताचिन्त्यम्, अचिन्त्यं निश्चिन्त्यं तथागतस्य वा अग्रत उदाहारैरुदाहरेः, अवैवर्तिकस्य बोधिसत्त्वस्य महासत्त्वस्य वा अर्हतो वा क्षीणास्रवस्य। तत्कस्माद्धेतोः ? तथा हि ते श्रुत्वा नैवानुज्ञास्यन्ति, नैव प्रतिक्रोक्ष्यन्ति। तत्कस्माद्धेतोः ? तथा हि तच्चिन्त्यमचिन्त्यं निश्चिन्त्यम्। मञ्जुश्रीराह-अचिन्त्यानां निश्चिन्त्यानां भगवन् सर्वधर्माणां कोऽत्रानुज्ञास्यति वा प्रतिक्रोक्ष्यति वा ? भगवानाह-यथैव मञ्जुश्रीः तथागतो निश्चिन्त्यः, तथैव पृथग्जना अपि निश्चिन्त्याः। मञ्जुश्रीराह-पृथग्जना अपि भगवन् तथैव निश्चिन्त्याः ? भगवानाह-एवमेतन्मञ्जुश्रीः। तत्कस्माद्धेतोः ? तथा हि सर्वाण्यचिन्त्यानि निश्चिन्त्यानि। मञ्जुश्रीराह-तत्कस्माद्भगवानेवमाह-यथैव तथागतो निश्चिन्त्यः, एवं पृथग्जना अपि निश्चिन्त्या इति ? ननु भगवन् पृथग्जनत्वमपि निश्चिन्त्यम्। तत्कस्माद्धेतोः ? निश्चिन्त्या हि भगवन् सर्वधर्माः। ये केचिद्भगवन् परिनिर्वाणाय प्रस्थिताः, विहरिष्यन्ते ते भगवन्। तत्कस्माद्धेतोः ? यैव निश्चिन्त्यता तदेव परिनिर्वाणम्। तस्मात्तर्हि भगवन् नास्ति निश्चिन्त्यतायां नानात्वम्। येऽपि भगवन् एवमाहुः-इमे पृथग्जनधर्माः, इमे आर्यधर्मा इति, ते इदं वचनीयाः- कल्याणमित्राणि तावत्पर्युपासध्वम्, ततः पश्चाज्ज्ञास्यथ-इमे पृथग्जनधर्माः इमे आर्यधर्मा इति॥



एवमुक्ते भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत्-इच्छसि त्वं मञ्जुश्रीः तथागतं सर्वसत्त्वानामग्र्यम् ? मञ्जुश्रीराह-इच्छेयमहं भगवन् तथागतं सर्वसत्त्वानामग्र्यम्, सचेदिह काचित्सत्त्वपरिनिष्पत्तिः स्यात्।



भगवानाह-इच्छसि त्वं मञ्जुश्रीः तथागतमचिन्त्यधर्मसमन्वागतम् ? मञ्जुश्रीराह-इच्छेयमहं भगवन् तथागतमचिन्त्यधर्मसमन्वागतम्, सचेत्कश्चिदचिन्त्यधर्मसमन्वागतः स्यात्॥



भगवानाह- इच्छसि पुनस्त्वं मञ्जुश्रीरेवम्-इमे श्रावकास्तथागतेन विनीता इति ? मञ्जुश्रीराह-इच्छेयमहं भगवन् एवम्-इमे श्रावकास्तथागतेन विनीता इति, सचेत् कश्चिदचिन्त्यधातुविनयं गच्छेत्। न भगवन् बुद्धोत्पादः कश्यचिदुपकारेण वा अपकारेण वा प्रत्युपस्थितः। तक्तस्माद्धेतोः ? तथा हि स्थित एष धातुः, असंकीर्ण एष धातुः, यदुत अचिन्त्यधातुः। तस्मिश्च धातौ न श्रावकनानात्वम्, यावत् न पृथग्जननानात्वमुपलभ्यते॥



भगवानाह-न त्वं मञ्जुश्रीरेवमिच्छसि-अनुत्तरं पुण्यक्षेत्रं तथागत इति ? मञ्जुश्रीराह-अभावत्वाभ्दगवन् पुण्यक्षेत्रं तथगतः, तेनैतदनुत्तरं पुण्यक्षेत्रम्। येनैतत्पुण्यक्षेत्रं नापुण्यक्षेत्रम्, तेनैतदनुत्तरं पुण्यक्षेत्रम्। अपि तु खलु पुनर्भगवन् नात्र कश्चिद्धर्मः समुदागच्छति न क्षीयते। एवं तत्पुण्यक्षेत्रम्। तत्र च बीजं प्रक्षिप्तं न विवर्धते न परिहीयते। भगवानाह-किं संधाय मञ्जुश्रीरेवं वदसि-तत्र क्षेत्रे बीजमवरोपितं न विवर्धते न परिहीयते इति ? मञ्जुश्रीराह-तथा हि भगवन् अचिन्त्यं तत्क्षेत्रम्, एवं तत्पुण्यक्षेत्रम्॥



अथ खलु तस्यां वेलायां बुद्धानुभावेन षड्विकारं महापृथिवीचालोऽभूत्, षोडशानां च भिक्षुसहस्राणामनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि, सप्तानां भिक्षुणीशतानां त्रयाणां चोपासकशतानां चत्वारिंशतश्चोपासिकासहस्राणां षष्टेश्च कामावचराणां देवकोटीनियुतशतानां विरजो विगतमलं धर्मेषु धर्मचक्षुरुत्पन्नम्॥



अथ खल्वायुष्मानानन्द उत्थायासनादेकांसचीवरं प्रावृत्य दक्षिणं जानुमाण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्-को भगवन् हेतुः, कः प्रत्ययोऽस्य महतः पृथिवीचालस्य लोके प्रादुर्भावाय ? एवमुक्ते भगवानायुष्मान्तमानन्दमेतदवोचत्-अयमानन्द पुण्यक्षेत्रनिर्देशो नाम धर्मपर्यायः पूर्वकैरपि बुद्धैर्भगवद्भिरस्मिन्नेव पृथिवीप्रदेशे भाषितः। अयमानन्द हेतुः, अयं प्रत्ययोऽस्य महतः पृथिवीचालस्य लोके प्रादुर्भावाय॥



सप्तशतिका प्रज्ञापारमिता समाप्ता॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project